ॐ व्यतिहारो विशिंषन्ति हीतरवत् ॐ
२२.व्यतिहाराधिकरणम्
सूत्रभाष्यं
नेति चेन्न —
॥ ॐ व्यतिहारो विशिंषन्ति हीतरवत् ॐ ॥ ३८ ॥
उक्तं प्राणात्परमात्मन उत्तमत्वं पूर्वोक्ताध्याहारेण ‘एष तु वा अतिवदति’ (छां.उ.७-१६) इति विशिंषन्ति हि । यथेतरेषु विशेषणम् ।
‘उत्तमत्वं हि देवानां मुक्तावपि हि मानवात् ।
तेभ्यः प्राणस्य तस्माच्च नित्यमुक्तस्य वै हरेः’ इति (च) बृहत्तन्त्रे ।
तत्त्वप्रदीपिका
न प्राणात्परमात्मन उत्तमत्वं तत्रोक्तमिति चेन्न । व्यतिहारो विशिंषन्ति हीतरवत् । उपदिष्टमेव तत्र प्राणात्परमात्मन उत्तमत्वं पूर्वोक्तप्रश्नप्रतिवचनाध्याहारेण ‘अस्ति भगवः प्राणाद्भूय इति, प्राणाद्वाव भूयोऽस्तीति, तन्मे भगवान्ब्रवीत्विति, वाग्वाव नाम्नो भूयसी’इत्यादि । अध्याहारयुक्ति-माह– ‘एष तु वा अतिवदति’ इति विशिंषन्ति हीति । अयमर्थः । ‘अतिवाद्यसीति, अतिवाद्य-स्मीति ब्रूयान्नापह्नुवीत’इत्युक्तात्प्राणातिवादिनः सत्यातिवादिनं विशिंषन्ति च्छन्दोगाः, ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति । एवं विशिंषन्तः प्राणात्सत्यं विशिंषन्ति हि । यथेतरेषु वागादिषु नामादिभ्यो विशेषणं भेदादिज्ञापनम् एवमेतत्सत्यस्य परमात्मत्वे ।
तत्त्वप्रकाशिका
अत्र भगवज्ज्ञानसाधनोपासनाधिकारिणः प्राणात्परमेश्वरस्योत्तमत्वसमर्थनादस्ति शास्त्रादि-सङ्गतिः । अन्यथोपासनायोगात्समर्थनीयम् । प्रकृतो विष्णुरेवात्र विषयः । प्राणादुत्तमो न वेति सन्देहः । प्राणस्य हिरण्यगर्भत्वाद्विप्रतिपत्तिः सन्देहबीजम् ॥ पूर्वपक्षयति ॥ नेति ॥ न विष्णोः प्राणादुत्तमत्वम् । छन्दोगश्रुतौ प्राणस्यैव सर्वोत्तमत्वेनोक्तत्वात् । अथोच्येत । प्राणानन्तरमपि ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति सत्यपदेनोदितस्य विष्णोराधिक्यमुच्यत इति । मैवम् । ‘अस्ति भगवः प्राणाद्भूय इति प्राणाद्वाव भूयोऽस्तीति तन्मे भवान्ब्रवीतु’ इति सत्यं वा व प्राणाद्भूत इति प्रकरणान्तरवत्प्रश्नप्रतिवचनाभावात् । कारणविशेषमन्तरेण प्रकरणभेदकल्पनायोगात् । सत्यपदेन प्राण एवोच्यते । अतः प्राणादुत्तमत्वाभावाद्विष्णोर्न तदुपासनं सर्वैः कार्यमिति भावः । पूर्वपक्षं प्रतिषेधति ॥ नेति ॥ कुतो नेत्यतः सूत्रं पठित्वा व्याचष्टे ॥ व्यतिहार इति ॥ श्रुतौ प्राणस्यैव सर्वोत्तमत्वोक्तेर्न विष्णोस्तदुत्तमत्वमिति न युक्तम् । ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति सत्यपदोदितस्य विष्णोः प्राणादुत्तमत्वस्योक्तत्वात् । प्रश्नाद्यभावात् प्राण-विशेषणमेव तदिति न वाच्यम् । प्रश्नाद्यध्याहारस्य कर्तुं शक्यत्वात् । न चाध्याहारकारणा-भावादेकप्रकरणत्वमेव युक्तमिति वाच्यम् । ‘स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति’ इति प्राणवादिनोऽतिशयितवस्तुवादित्वेनातिवादित्वमुक्तम् । ततश्च ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति सत्याख्यवस्तु वदतोऽप्यतिवादित्वमुच्यते । तत्र प्राणातिवादितः सत्याति-वादी तुशब्देन विशिष्यते । तेन ज्ञायतेऽन्योऽयमन्योऽसाविति । अतः प्रकरणभेदकसद्भावाद्युक्तं प्रश्नाद्यध्याहारेण सत्यस्य प्राणादुत्तमत्वव्याख्यानमिति भावः ।
ननु कथमेतद्विशेषणं प्रकरणभेदकं येन प्रश्नाद्यध्याहारं प्रतिपद्येमहीत्यत आह ॥ यथेति ॥ यथा ‘खलु वाग्वाव नाम्नो भूयसी’ इत्यादिविशेषणं प्रकरणभेदकं वाचो नामाधिक्य-वाचकत्वात्तथैतदपि भेदकं भवत्येव । यः सत्यं वदति स तु प्राणातिवादिनोऽपि विशेषेणातिशयितं वस्तु वक्तीति प्राणात्सत्यस्याधिक्यवाचकत्वादिति भावः । अत्र स्मृतिं चाऽऽह ॥ उत्तमत्वमिति ॥ अतो विष्णोः प्राणादुत्तमत्वाद्युक्तं तदुपासनमिति सिद्धम् ।
गुर्वर्थदीपिका
प्राणस्य हनुमदादिरूपस्य रामवशत्वेऽपि विप्रतिपत्त्यभावात्कथं पूर्वपक्षोत्थानमित्यत उक्तं प्राणस्य हिरण्यगर्भत्वादिति ॥ पूर्वोक्ताध्याहारेणेति वदता वि विशेषेण अति अतिशयितापेक्षित-वाक्यस्याहारः योग्यतयाऽन्यत आहरणं व्यतिहार इति सौत्रव्यतिहारपदस्यार्थस्सूचितः । एक-प्रकारत्वे पूर्ववाक्यादावृत्तिः स्यात् । अत्र त्वपेक्षितप्रश्नप्रतिवचनवाक्यस्य ‘अस्ति भगवः प्राणाद्भूय’ इत्यादिरूपेणान्यादृशत्वादध्याहार एवेति भावः । तर्ह्यल्पाक्षरत्वाध्याहार इति किमिति नोक्तमिति चेन्न । यत्किञ्चिदधिकवाक्याहरणं निवारयितुं वीत्युपसर्गदानम् । विशेषश्च प्रकृतार्थानुकूलत्वम् । तस्मादतिमेधाव्यलौकिकः सूत्रकारो न लौकिकानुसारीति ज्ञेयम् ।
भावबोधः
प्राणात्परमेश्वरस्येति ॥ पूर्वसूत्रे ‘उपदेशवत्’ इति प्राणात् परमात्मन उत्तमत्वस्योपदिष्टत्वात् तदविरोधेनैव ‘सर्वेभ्यः’ इति श्रौत‘सर्व’शब्दार्थो ग्राह्य इत्यभिहिते तदेव कथमित्याक्षेपोत्थाना-दनन्तरसङ्गतिरिति भावः । अत एव भाष्ये ‘नेति चेत्’ इति पूर्वसूत्रोक्तमेवाक्षिप्तम् ॥ प्राणा-दित्यादि ॥ अत्र विष्णुः किं प्राणादुत्तमो न भवत्युत भवतीति चिन्ता । तदर्थं ‘वाग्वाव नाम्नो भूयसि’ इत्यादिदेवतातारतम्यप्रतिपादकच्छन्दोगश्रुतौ प्राणाद्विष्णोरुत्तमत्वप्रतिपादकं नास्त्युता-स्तीति । ‘सत्येन’ इति वाक्यगतः ‘सत्य’शब्दः किं प्राणपर उत विष्णुपर इति । तदर्थं प्रकर-णान्तरवत् ‘अस्ति भगवः प्राणाद्भूयः’ इत्यादिप्रश्नप्रतिवचनाध्याहारः किं न कर्तव्य उत कर्तव्य इति । तदर्थस् तदध्याहारे ज्ञापकं नास्त्युतास्तीति । न विष्णोः प्राणादुत्तमत्वमिति । अनेन विष्णोरपि ततः परत्वमिति न्यायविवरणानुसारेण तस्माद्विष्णोरुत्तमत्वमिति प्रागुक्तमनुवृत्य तेन सम्बन्धः प्रदर्शितो भवति । प्राणस्यैवोन्नतिप्रतीतिरिति न्यायविवरणं व्याचष्टे– छन्दोगेति ॥ ‘अस्ति भगवः प्राणाद्भूयः’ इति प्रश्नाद्यभावादिति न्यायविवरणांशं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे– अथोच्येतेति ॥ प्रकरणान्तरवदिति ॥ ‘अस्ति भगवन्नाम्नो भूय इति’ ‘नाम्नो वाव भूयोऽस्तीति’ ‘तन्मे भगवान् ब्रवीतु’ इति ‘वाग्वाव नाम्नो भूयसि’ इत्यादिनामवागादि-प्रकरणान्तरवदित्यर्थः । अनेन सौत्र‘इतरवत्’इत्यस्यार्थ उक्तो भवति ।
ननु प्रश्नप्रतिवचनाश्रवणेऽपि तदध्याहारेण ‘यः सत्येन’ इत्यादेः प्रकरणान्तरत्वं सम्भव-तीत्यतः ‘विशिंषन्ति’ इति सूत्रनिवर्तनीयाशङ्कामाह– कारणविशेषमिति ॥ प्रश्नाध्याहारस्य कर्तुं शक्यत्वादित्यादिना पूर्वोक्ताध्याहारेणेत्यादिभाष्यव्याख्यानपरेण ‘एष तु वा अतिवदति’ इति विशेषणात् प्रतिवचनप्रतिसन्धानोपपत्तेरिति न्यायविवरणमप्युक्ततात्पर्यं भवति ।
भावदीपः
प्राणादिति ॥ उपदेशवदिति पूर्वसूत्रखण्डे प्राणाद्विष्णोरुत्तमत्वं श्रुत्युपदिष्टतयाऽभिमतं तन्नेति शङ्कायां तत्समर्थनादित्यर्थः । तेन पूर्वेणाक्षेपिकी सङ्गतिरप्यस्य सिद्धा ज्ञेया । उपासकचिन्ता-नन्तरमुपास्यचिन्तनाद्वा पूर्वसङ्गतिर्ध्येया । अत्र प्राणादित्यादिनैव पूर्तावधिकारिण इत्यन्तोक्तिः शास्त्रादिसङ्गत्युपपादनाय । फलमाह ॥ अन्यथेति ॥ प्राणाद्विष्णोरुत्तमत्वासमर्थने प्राणस्यैव सर्वोत्तमत्वप्राप्तावन्यस्योपास्यस्याभावात्प्राणस्य च स्वयं बद्धत्वेन गौणश्चेदिति सूत्रे न हि गौणात्म-निष्ठस्य मोक्ष इत्युक्तदिशा अन्यमोचकत्वायोगान्मोक्षार्थप्रवृत्तोपासनायोगादित्यर्थः । यद्वा सर्वोत्तमत्वासमर्थने सच्चिदानन्द आत्मेति यत्सर्वसाधारणमुपासनमुक्तं तदयुक्तं स्यात् । स्वामित्व-रूपात्मत्वस्याभावादित्यर्थः । क्वचित्तदुपासनायोगादित्येव पाठः ॥ प्रकृत इति ॥ पूर्वसूत्रादौ भेदप्रतियोगित्वादिनाऽक्षरपदेन प्रकृत इत्यर्थः । यस्योत्तमत्वं वाच्यं स एवेत्येवार्थः ॥ हिरण्य-गर्भत्वादिति ॥ ‘वायुरेव यतो ब्रह्मपदं नियमतो व्रजेत् । सहैव जननेऽप्यस्मात्पूर्वं वायोर्जनिं वदेत्’ इति आद्याध्यायबृहद्भाष्योक्तस्मृतेरिति भावः । विप्रतिपत्तिः, वादिविप्रतिपत्तिः । हिरण्यगर्भोत्त-मत्त्ववादिन एव प्राणोत्तमत्त्ववादिन इति भावः । एतेनात्र तारतम्योक्तिपरश्रुतौ श्रीतत्त्वानुक्तेर्गते-र्वक्ष्यमाणत्त्वेऽपि हिरण्यगर्भानुक्तिः कुत इति चोद्यानवकाशः । प्राणोक्त्यैव तदुक्तेः । तदागमस्य स्मृतिनयादौ निरासेऽपि श्रुत्यवष्टंभेन विप्रतिपत्तिरित्यर्थः । सर्वश्रुतीनां विष्णूत्कर्ष एव गतिसामा-न्यस्य संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत इत्यादौ द्वितीयादावेव सिद्धत्वेऽप्यधिकाशङ्कयाऽस्योत्थानमिति ध्येयम् । काङ्क्षितानुवृत्त्या नेति चेदिति शङ्काभाष्यं व्याचष्टे ॥ न विष्णोरिति ॥ कुत इत्यतः प्राणस्यैवोन्नतिप्रतीतेरित्यन्यत्रोक्तं हेतुं व्यंजयन्नाह ॥ छन्दोगेति ॥ अस्ति भगवः प्राणाद्भूय इति प्रश्नाद्यभावादित्यन्यत्रोक्तमेव हेतुं शङ्कानिवर्तकतयाह ॥ अस्ति भगव इति ॥ प्रकरणान्तर-वदिति ॥ नामवागादिपूर्वप्रकरणेष्विवेत्यर्थः । संज्ञाभेद एव प्रकरणभेदकल्पकोऽस्त्वित्यत आह ॥ कारणविशेषमित्यादि ॥ अत इति ॥ छन्दोगश्रुतौ तथा प्रतीतेरित्यर्थः ॥ तदुपासनमिति ॥ आनन्दादय इत्यत्रोक्तात्मत्वशब्दितसर्वोत्तमत्वोपासनमित्यर्थः ॥ सम्बन्धभाष्यस्थनञोऽर्थमाह ॥ इति न युक्तमिति ॥ कुत इत्यतः प्राणात्परमात्मन उत्तमत्वमिति भाष्यार्थहेतुतया व्यनक्ति ॥ एष त्विति ॥ प्रश्नाद्यध्याहारेणेति भाष्यस्य व्यावर्त्यपूर्वमर्थमाह ॥ प्रश्नेत्यादिना ॥ व्यावर्त्यपूर्वम् एष त्विति भाष्यं व्याचष्टे ॥ न चेति ॥ ततश्चेति ॥ ततोऽपि प्राणातिवादित्ववादिनः सकाशा-दपीत्यर्थः । तत्र प्राणातिवादिन इति पञ्चमी ॥ तेनेति ॥ सत्यवादिनस् तुशब्देन विशेषणकरणेन प्राणोऽन्यः सत्योऽन्य इति ज्ञायते । प्राणसत्ययोर्भेदाभावे तद्वादिनोर्भेदायोगादिति भावः । भाष्यमेवं व्याख्याय व्युत्क्रमेणोपसंहरति ॥ अत इति ॥ यस्माद्विशिंषन्ति छन्दोगा अत इत्यर्थः । एतेन भाष्यादौ हिर्हेताविति सूचितम् ॥ अत्रेति ॥ प्राणाद्धरेरुत्तमत्व इत्यर्थः ॥ स्मृतिं चेति ॥
न केवलं प्रकरणभेदकं विशेषणमिति चार्थः ॥ अत इति ॥ प्रश्नाद्यध्याहारेण सत्यपदेन विष्णो-रुक्तत्वादित्यर्थः । तदुपासनं सर्वोत्तमत्वरूपात्मत्वोपासनमित्यर्थः ।
अभिनवचन्द्रिका
प्राणस्य हिरण्यगर्भत्वादिति ॥ प्राणपदेन हिरण्यगर्भस्य विवक्षितत्वात् तस्य च सर्वोत्तमत्वेन कैश्चिदङ्गीकृतत्वाद् विप्रतिपत्तिः सन्देहबीजमित्यर्थः ॥ प्राणस्यैवेति ॥ यद्यपि प्राणस्य सर्वोत्तमत्वेनोक्तत्वादित्येवालम्, तथापि छन्दोगश्रुतौ प्राणपदेन विष्णुं विवक्षित्वा, तस्य सर्वोत्तम-त्वाभिधानाद् असिद्धं प्राणस्य सर्वोत्तमत्वमिति शङ्कानिरासाय प्राणस्यैवेत्येवकारः । प्राणविशेषण-मेव तदिति ॥ ‘सत्येनातिवदति’ इति सत्यपदोक्तं सत्यत्वं प्रश्नाद्यभावात् प्राणविशेषणमेवेत्यर्थः । प्रश्नाद्यभावोऽसिद्ध इत्याह– प्रश्नाद्यध्याहारस्येति ॥ मन्त्रद्रष्ट्रा उच्चारणेनाऽनभिव्यक्तीकृतस्यापि तदभिप्रेतस्य प्रश्नप्रतिवचनस्य निश्चेतुं शक्यत्वादित्यर्थः ॥ न चाध्याहारेति ॥ मन्त्रद्रष्टुः प्रश्नप्रतिवचनवाक्यं विवक्षितमित्यत्र प्रमाणाभावेन प्रकरणविच्छेदकप्रश्नाद्यभावाद् एकप्रकरणत्वमेव युक्तमिति न वाच्यमित्यर्थः । अनिश्चितत्वात्प्रश्नप्रतिवचनयोर् भेदकत्वासम्भवेऽपि भेदकान्तर-सद्भावात् प्रकरणभेद एव युक्त इत्याह– ‘स वा एष’ इत्यादिना ॥ तेनेति ॥ तुशब्देन प्रकरणनिश्चयद्वारा प्राणपदोक्तोऽन्यः, सत्यपदोक्तोऽन्य इति निश्चीयत इत्यर्थः । अत इति ॥ अत इत्यस्य विवरणम्– प्रकरणभेदकसद्भावादिति ॥ प्रायपाठबलादिति शेषः । ततश्च प्रकारण-भेदकसद्भावेन प्रायपाठबलाद् ऋष्यभिप्रेतप्रश्नप्रतिवचनवाक्यानुसन्धानेन सत्यस्य प्राणादुत्तमत्व-प्रतिपादनं युक्तमित्यर्थः । एतेन प्रश्नप्रतिवचनाभावान् न सत्यस्य प्राणादुत्तमत्वमिति शङ्किते अविद्यमानवाक्याध्याहारेण प्राणादुत्तमत्वव्याख्यानमयुक्तमिति परास्तम् । उच्चारणेन ज्ञापितानामिव प्रायपाठज्ञापितयोरपि प्रश्नप्रतिवचनयोः सत्यत्वात् ॥ भाष्ये उक्तमिति ॥ मन्त्रद्रष्ट्रा पूर्वोक्त-प्रश्नप्रतिवचनसदृशप्रश्नप्रतिवचनाध्याहारेण अनुसन्धानेन विष्णोः प्राणादुत्तमत्वमुक्तमित्यर्थः । तुशब्दस्य प्रतिपाद्यविशेषणत्वाभावेन कथं प्रकरणभेदकत्वमित्याशङ्कते टीकायां– ननु कथमेत-द्विशेषणमिति ॥
पूर्वपक्षस्तु– न विष्णोः सर्वोत्तमत्वं युक्तम् । प्राणस्याशोत्तमत्वमुक्त्वा, तदुत्तमानभिधानात् । न हि सत्यपि प्राणादुत्तमे तदनभिधाने कारणमस्ति । येनाऽनुक्तिमगणय्य प्राणादुत्तमत्वं विष्णोः प्रतीमः । न च सत्यपदोदितस्य विष्णोः प्राणादुत्तमत्वमुक्तमिति वाच्यम् । प्रकरणभेदकाभावेन सत्यत्वस्य प्राणविशेषणत्वात् । ततश्च न विष्णोः सर्वोपास्यत्वमिति ।
सिद्धान्तस्तु– युक्तमेव विष्णोः सर्वोत्तमत्वम् । ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति सत्यपदोदितस्य विष्णोः प्राणादुत्तमत्वाभिधानात् । न च नामादाविव प्रश्नप्रतिवचनाभावान् न श्रुतेः प्राणादुत्तमत्वाभिधाने तात्पर्यमिति वाच्यम् । प्रायपाठबलेन प्रश्नप्रतिवचनस्याऽनुमातुं शक्यत्वात् । न च प्रकरणभेदकाभावान् न प्रश्नप्रतिवचनाध्याहार इति वाच्यम् । तुशब्दस्य प्रकरणभेदकस्य सद्भावात् । ततश्च प्रश्नप्रतिवचनानुसन्धानपूर्वकं मन्त्रद्रष्ट्रा विष्णोः प्राणादुत्तमत्व-स्योक्तत्वेन तस्य सर्वोपास्यत्वं युक्तमिति सिद्धम् ।
वाक्यार्थमुक्तावली
नेति चेन्नेति भाष्ये एव प्राणात्परमात्मन उत्तमत्वं नोपदिष्टमिति पूर्वाक्षेपेणोत्थानादनन्तर-सङ्गतिः ॥ प्राणादिति ॥ अत्र प्राणाद्विष्णुरुत्तमो न भवत्युत भवतीति चिन्ता । तदर्थं प्राणादुपरि सत्यपदोक्तः प्रश्नाद्यभावात्प्राण एवोत तदध्याहारेण विष्णुरिति ॥ तस्मात्परमात्मन उत्तमत्वमिति पूर्वानुवृत्त्या नेत्यंशं व्याचष्टे ॥ विष्णोरिति ॥ कुतो नेत्यत उन्नतिरित्युक्तन्यायप्रदर्शकतया तस्मात्परमात्मन उत्तमत्वमुपदिष्टमित्यन्तानुवृत्त्या नेत्यस्यार्थान्तरमाह ॥ छन्दोगेति ॥ एवशब्देन लब्धस्य विष्णोस्सर्वोत्तमत्वेनानुक्तत्वादिति हेतोरसिद्धिमाशङ्कते अथेति । तत्परिहाराय नेत्ये-तत्प्रकारान्तरेण व्याचष्टे ॥ मैवमिति ॥ सत्यपदेन विष्णोरुक्तिर् नेत्यर्थ इति भावः । कुतो नेत्यतो
व्यतिहार इतरवदित्यंशव्यावर्त्यपूर्वपक्षमाह ॥ अस्तीति ॥ एतेन नेत्यस्य प्रश्नप्रतिवचनेनेत्यर्थो भवति ।
ननु प्रश्नप्रतिवचनाश्रवणेऽपि तदध्याहारेण यः सत्यपदेनेत्यादेः प्रकरणान्तरत्वं सम्भवतीत्यतो न प्रकरणान्तरकल्पनं युक्तम् । यतो न तत्कल्पकमिति नेत्यस्यार्थान्तरं मत्वा विशिंषन्तीति सूत्रखण्डव्यावर्त्याशङ्कामाह ॥ कारणविशेषेति ॥ पूर्वपक्षफलप्रदर्शकतयापि नेत्येतद्व्याचष्टे ॥ अत इति ॥ सूत्रे उपदेश इत्यनेन लब्धमुपदिष्टं प्राणात्परमात्मन उत्तमत्वमिति वाक्यमादाविवान्वीयते । तच्च नेत्युक्तपूर्वपक्षप्रतिक्षेपे हेतुरिति भावेन प्रवृत्तमुक्तमिति भाष्यं व्याचष्टे ॥ श्रुताविति ॥ प्रतिसन्धिरित्युक्तन्यायप्रदर्शकस्येतरव्यतिहार इत्यस्य हि यत इतरवद्विशेषेणापेक्षितस्यात्यधिकस्य प्रश्नादेर्हार आहार अध्याहार इति यावत् । कर्तव्यः । अतः प्राणात्परमात्मन उत्तमत्व-मुक्तमित्यन्वयमभिप्रेत्यार्थ उक्तः । पूर्वोक्ताध्याहारेणेति । पूर्वोक्तिवत् प्रश्नप्रतिवचनाध्याहारे-णेत्यर्थः । अध्याहारेण प्रकरणविच्छेदकारणमुक्तं विशिंषन्ति हीति । हि यस्मात् प्राणवादिनो ऽतिवादित्वमुक्त्वा एष तु वाऽतिवदति यः सत्येनातिवदतीति प्राणातिवादिनः सकाशात्सत्य-वादिनं तुशब्देन विशिंषन्ति यः सत्यं वदति स तु प्राणस्यातिशयवस्तुवादिनोऽपि विशेषे-णातिशयवस्तुवादीति विशिष्टं ज्ञापयन्तीत्यर्थः । एवं सत्यवादिनं विशिंषन्तः प्राणात्सत्यमपि विशिंषन्ति । अतः प्रकरणभेदसद्भावाद् व्यतिहारः । व्यतिहारेण च प्राणात्सत्यस्योत्तमत्वमिति भावेन प्रवृत्तं प्रश्नाध्याहारेणेति भाष्यं व्याचष्टे । प्रश्नाद्यभावादित्यादिना भाव इत्यन्तेन । प्रश्नाध्याहारेणेति । पूर्वोक्तवदिति पूरणीयम् ॥ तेनेति ॥ तुशब्देन सत्यातिवादिनो विशेषितत्वेन सत्यात्प्राणस्यापि विशेषितत्वात्प्राणोऽप्यन्यः सत्योऽप्यन्य इति इतरवदिति दृष्टान्तांशस्येतर-वद्विशिंषन्ति इत्यत्रापि सम्बन्धं यथा प्रश्नादिना नामादितो वागादिकं विशिंषन्ति तथा तुशब्देन प्राणात्सत्यं विशिंषन्तीत्यर्थं च मत्वा यथेतरेष्विति भाष्यं व्यावर्त्यपूर्वं व्याचष्टे । नन्वित्यादिना ॥ स्मृतिं चेति ॥ हिशब्दसूचितमिति शेषः ।
तत्त्वसुबोधिनी
प्राणात्परमेश्वरस्येति ॥ पूर्वसूत्रे उपदेशवदिति ॥ प्राणात्परमात्मन उत्तमत्वस्योपदिष्टत्वा-त्तदविरोधेनैव सर्वेभ्य इति वाक्यस्य सर्वशब्दस्यार्थो ग्राह्य इत्यभिहिते तदेव कथमित्याक्षेपो-त्थानादनन्तरसङ्गतिरिति भावः । अन्यथेति । ईश्वरस्योत्तमत्वाभावे इत्यर्थः । विप्रतिपत्तिरिति । हिरण्यगर्भः सर्वोत्तम इति केषांचनामतम् अपरेषां विष्णुः सर्वोत्तम इति । एवं च विप्रतिपत्तेर् मध्यस्थस्य संशयो भवतीत्यर्थः ॥ प्रकारणान्तरवदिति ॥ अस्ति भगवो नाम्नो भूय इति । नाम्नो वा भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति वाग्वाव नामो भूयसीत्यादिना नामवागादि-प्रकरणान्तरवदित्यर्थः । अनेन सौत्रेतरवदित्यस्यार्थ उक्तो भवति । ननु प्रश्नवचनाश्रवणेऽपि तदध्याहारेण यः सत्येनेत्यादेः प्रकरणान्तरत्वं सम्भवतीत्यत आह ॥ कारणविशेषमिति ॥ तुशब्दरूपविशेषणस्य कथं भेदकत्वम् इत्यतस् तत्सम्भवाय तदर्थमाह ॥ यः सत्यमिति ॥
वाक्यार्थविवरणं
विप्रतिपत्तिरिति ॥ हरिहरहिरण्यगर्भाणां त्रयाणामपि समत्वस्य कैश्चिदभिधानादिति भावः । नन्वेवं विप्रतिपत्तौ हिरण्यगर्भादुत्तमो न वेति सन्देहोपपत्तावपि प्राणादुत्तमो न वेति सन्देहः कथमुपपद्यत इत्यत उक्तं प्राणस्य हिरण्यगर्भत्वादिति ॥ प्रश्नप्रतिवचनाभावादित्यन्वयः । तत्र व्यतिरेकदृष्टान्तः ॥ प्रकरणान्तरवदिति ॥ नामादिप्रकरणे यथा प्रश्नप्रतिवचने स्तस्तथाऽभावादिति भावः । ननु प्रकरणभेदकप्रश्नाद्यध्याहारेण प्राणाद्विष्णोरेवाधिक्यं वक्तव्यमित्यत आह ॥ प्रकरणेति ॥ प्राणप्रकरणयस्सत्येनेतिप्रकरणयोरित्यर्थः ॥ भेदेति ॥ भिन्नार्थप्रतिपादकत्वेत्यर्थः ॥ प्राण एवेति ॥ तथा च सत्यवं प्राणस्य विशेषणमित्यर्थः ॥ तदितीति ॥ सत्यपदमित्यर्थः । तथा च सत्यपदोदितो न विष्णुरिति भावः ॥ अध्याहारेति ॥ अध्याहारं कृत्वा भिन्नप्रकरणत्वकल्पने कारणाभावादित्यर्थः ॥ ततश्चेति ॥ प्राणातिवादिनः सकाशात् ॥ अयम् । प्राणपदोदितः । असौ । सत्यपदोदितः । सूत्रे सप्तम्यर्थे वतिरित्याशयेन भाष्ये यथेतरेष्वित्युक्तम् । ‘स तु’ इत्यत्रत्यस् तुशब्दः प्राणातिवादिनोऽपीत्यतः परं योज्यः । तस्य व्याख्यानं विशेषेणेति ॥
वाक्यार्थमञ्जरी
वादिविप्रतिपत्तेर्हिरण्यगर्भविषय एव सद्भावादाह ॥ प्राणस्येति ॥ एष तु वेति ॥ योऽधिकारी सन्निर्दोषश्चासौ यो नियामकश्चेति सत्यो विष्णुस्तेनातिवदति तमतिशयितं वक्तीति यावत् स एषः प्रागुक्तप्राणातिवाद्यपेक्षया तु विशेषेणातिवदतीत्यर्थः ॥ अस्ति भगव इति ॥ नामवागादि-प्रकरणान्तरेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति नारद-प्रश्नवत् ‘वाग्वाव नाम्नो भूयसी’ इति सनत्कुमारप्रतिवचनवच्चास्ति, ‘भगवः प्राणाद्भूय’ इत्यादि-प्रश्नस्य ‘सत्यं वाव’इत्यादि परिहारस्य चाभावादित्यर्थः । सत्यपदं विष्णुपरमेव नेत्याह ॥ सत्यपदेनेति ॥ ननूक्तभंग्या प्रश्नाद्यध्याहारेण यःसत्येनेत्यादेः प्रकरणान्तरत्वात् कथं सत्यपदं प्राणपरमित्यत उक्तम् ॥ कारणविशेषमिति ॥
ॐ व्यतिहारो विशिंषन्ति हीतरवत् ॐ ॥ सत्यप्रकरणे प्रश्नप्रतिवचनयोर्व्यतिहारोऽध्याहारः कार्यः कुत इतरवत् प्रश्नप्रतिवचनाभ्यां नामादितो वागादिकमिव प्राणात्सत्यं तुशब्देन विशिंषन्ति व्यावर्तयन्ति छन्दोगा हि यस्मात्तस्मादित्यर्थः ॥ स वा इति ॥ स एषोऽधिकारी एवं विजानानः शृृण्वन् मन्वानो विचारयन् पश्यन् ध्यायन्नतिवादी प्राणाख्योत्तमवस्तुवादी भवतीत्यर्थः । अयं सत्योऽसौ प्राण एकवस्तुज्ञानिनस्तारतम्यायोगादिति भावः । एतत् तुशब्दाख्यम् ॥ प्राणा-त्सत्यस्येति ॥ प्राणात्सत्यस्योत्तमत्वाभावे तद्वादिनस्तद्वाद्यपेक्षया आधिक्यायोगादिति भावः ।
॥ इति व्यतिहाराधिकरणम् ॥ २३ ॥