ॐ इयदामननात् ॐ
२१. इयदामननाधिकरणम्
सूत्रभाष्यम्
॥ ॐ इयदामननात् ॐ ॥ ३५ ॥
नामाद्यारभ्य प्राणान्तमुत्तरोत्तरमुत्तमत्वमुक्तम् । न प्राणात्किञ्चिद्भूय उक्तम् । तथाऽपि पूर्ववत्स्यादि(दपी)ति न वाच्यम् । ‘प्राणो वाव सर्वेभ्यो भूयान्न हि प्राणाद्भूयान्प्राणो ह्येव भूयांस्तस्माद्भूयान्नाम’इति कौण्ठरव्यश्रुतेः ।
तत्त्वप्रदीपिका
अवसितः प्रासङ्गिको मुक्तविषयो विचारः । इदानीमधिकारितारतम्यस्य विश्रान्तिस्थानमाह–इयदामननात् ॥ नामवाङ्मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नाप्तेजाऽकाशस्मराशाप्राणा नामादि-प्राणान्ताः । तत्र चोक्तमनुव्याख्याने–
‘उषा स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ।
प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।
उत्तरोत्तरतस्त्वेते गुणैः सर्वैश्च मुक्तिगाः’ इत्यादि बृहत्संहितावचनम् ।
‘इन्द्रादनन्तरः प्राण आहङ्कारिकः’ इति च । ‘वाग्वाव नाम्नो भूयसी’ ‘मनो वाव वाचो भूयः’ ‘सङ्कल्पो वाव मनसो भूयान्’ इत्यारभ्य प्राणान्तमुत्तरेषामुत्तमत्वमुक्तं छन्दोगश्रुतौ । न च तथा तत्र प्राणात्किञ्चिद्भूय उक्तम् । तथाऽपि पूर्ववत्स्याच्चेत्किं निवारकम् । न ह्यत्रानुक्तिरभावे प्रमाणम् । प्रमाणान्तरेण तत्सद्भावसम्भवादिति न वाच्यम् । श्रुत्यन्तरे प्राणादुत्तमोऽन्यो नास्तीत्यामननात् ।
तत्त्वप्रकाशिका
अत्र ब्रह्मज्ञानसाधनोपासनाधिकारिणां प्राणावधित्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । निरवधि-कत्वे ब्रह्मण एव सर्वगुणोपास्तियोग्यत्वं न स्यादतस्तत्समर्थनीयम् । ये भगवदुपासकाः प्रकृतास्त एव च्छन्दोगश्रुतौ नामादिप्राणपर्यन्तं तारतम्येनोक्ताः प्राणादुत्तमो नोक्तः । त एवोपासनाधिकारिणो विषयः । किं प्राणावसाना न वेति सन्देहः । अनुक्तेरुभयथापि दर्शनं सन्देहबीजम् । नाधिकारिणः प्राणावसाना इति पूर्वः पक्षः । नामादीनां सोत्तरत्वदर्शनात्प्राणादप्युत्तमाधिकारिसाधनसौलभ्यात् प्राणः स्वोत्तमाधिकारियुक्तः । अधिकारित्वान्नामादिवदिति । यद्यपि छन्दोगश्रुतौ नामाद्यारभ्य प्राणान्तमुत्तरोत्तरमाधिक्यमुक्त्वा प्राणादुत्तमो नोक्तः । तथाप्यनुमानेन प्राणादप्युत्तमाङ्गीकारे न दोषः । प्रमाणादनुक्तेर्दुर्बलत्वात् । अतोऽधिकारिणां प्राणावसानत्वाभावाद्धिरण्यगर्भ एव सर्वगुणोपास्तियोग्य इत्ययुक्तमिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ इयदिति ॥ नामादि-वत्प्राणादधिकोऽधिकारी न साध्यः । किं त्वियदेवाधिकारिणां प्राणावसानत्वमेव । ‘प्राणो वाव सर्वेभ्यो भूयान्’ इति श्रुतेरिति भावः ॥
गुर्वर्थदीपिका
ननु महतां गणनापङ्क्तौ स्यादपि कस्यचिदश्रद्धेयस्यानुक्तिः । सर्वाधिकारिभ्योऽप्युत्तम-स्यावश्यापेक्षितस्य कथमनुक्तिः । तस्मात्प्रकृतेऽनुक्तिरेव बलीयसीति चेत्सत्यम् । परमाप्ततमेन व्यासेनैव सर्वोत्तमत्वस्थापकतयाऽत्यावश्यकस्य हरेः कैलासगमनं लीलेत्यर्थस्यासुरजनमोहनार्थ-मनुक्तिदर्शनेन सति कस्मिंश्चित्कारणे उत्तमस्याप्यनुक्तिसम्भवादिति भावेनोक्तम् अनुक्तेदुर्बलत्वादिति ।
भावबोधः
अधिकारिणामिति ॥ ‘यावदधिकारं’ इत्यधिकारतारतम्येऽभिहिते तत्र निरवधिकत्व-सावधिकत्वसंशये प्राणावसानत्वरूपसावधिकत्वसमर्थनाद् अनन्तरसङ्गतिरिति भावः ॥ किमित्यादि ॥ अत्रोपासनाधिकारिणः प्राणावसाना न भवन्त्युत भवन्तीति चिन्ता । तदर्थं प्राणादुत्तमाधिकारिसद्भावे प्रमाणं नास्त्युतास्तीति । तदर्थं प्राणादप्युत्तमाधिकारिसाधकमनुमानं ‘प्राणो वा सर्वेभ्यो भूयान्’ इति श्रुतिबाधितं न भवत्युत भवतीति । तदर्थमीश्वरस्य प्राणादुत्तमत्व-श्रुत्यविरोधायावश्यं संकोचनीयः सर्वेभ्य इति श्रौतोऽयं सर्वशब्दः कतिपयाधिकारिव्यतिरिक्त-सर्वार्थक उत ईश्वरमात्रव्यतिरिक्त सर्वार्थक इति । ‘अन्तरा भूतग्रामवत्’ इति सूत्रानुसारि एकस्मादेको विशिष्टो दृष्ट एवेति प्राणाद्विशिष्टजीवाभावे दृष्टवैरूप्यमिति दोष इति न्यायविवरणं मनसि निधायाह– नामादीनामिति ॥ इति श्रुतेरिति । उपलक्षणमेतत् । ‘यः सर्वमवजानीयां’ इत्यादिन्यायविवरणोदाहृता श्रुतिरपि ग्राह्या ।
भावदीपः
प्राणावधित्वेति ॥ प्रागुक्तयोग्यतानियमस्य निरवधिकत्वशङ्कायां सावधिकत्वरूपविशेष-चिन्तनात्पूर्वसङ्गतिरिति भावः ॥ सर्वगुणेति ॥ ‘सर्वे गुणा ब्रह्मणैव ह्युपास्या’ इत्यादि-श्रुतिसिद्धमिति भावः ॥ प्रकृता इति ॥ आधिकारिकाणां मोक्षाधिकारिणामित्यनेन प्रकृता इत्यर्थः ॥ छन्दोगेति ॥ सप्तमे ॥ नामादीति ॥ नामवाङ्मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नाप्तेज-आकाशस्मराशाप्राणशब्दिताः । ‘उषा स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः । प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुत’ इत्यनुभाष्योक्तेरुषाप्रभृतिदेवा उत्तरोत्तरमुत्तमत्वेनोक्ता इत्यर्थः । यथा भूतग्रामेत्यादिभाष्यभावमाह ॥ नामादीनामिति ॥ ननु प्राणादुत्तमानुक्तिविरोधादनुमानाभासोऽय-मित्यत उक्तशङ्कानुवादनिरासपरं नामाद्यारभ्येत्यादिभाष्यं विवृणोति ॥ यद्यपीति ॥ पूर्ववत्स्यादिति भाष्याभिप्रेतहेतुमाह ॥ प्रमाणादनुक्तेर्दुर्बलत्वादिति ॥ फलोक्त्योपसंहरति ॥ अत इति ॥ अधिकस्यानुमानसिद्धत्वादित्यर्थः ॥ पूर्ववत्स्यादिति न वाच्यमिति भाष्यं सौत्रप्रतिज्ञाभागस्य फलितार्थपरमिति भावेन व्याचष्टे ॥ नामादिवदिति ॥ प्राणो वावेति ॥ यद्यपि श्रुतौ न मुख्यप्राणलिङ्गमस्ति तथाऽपि भाष्यकारोक्तिप्रामाण्यात्पूर्वत्रोत्तरत्र वा श्रुतिशेषे मुख्यवायुलिङ्ग-मनुमेयमिति वा ब्रह्मपरत्वेऽपि ऐतरेयभाष्योक्तदिशा सर्वत्र वायुपरत्वमप्यस्तीति वाऽभिप्रायः ।
अभिनवचन्द्रिका
ब्रह्मण एवेति ॥ ब्रह्मण एव सर्वगुणोपास्तियोग्यत्वमिति यत्प्रागुक्तं तन्न स्यादित्यर्थः ॥ नामादिवदिति ॥ नामादिवदिति दृष्टान्तं प्रदर्श्य प्राणादधिकोऽधिकारी न साध्य इत्यर्थः ।
वाक्यार्थमुक्तावली
प्राणावधित्वेति ॥ पूर्वाधिकरणे मनुष्योत्तममारभ्य प्राणान्तमधिकारितारतम्ये कथिते प्राणादप्यधिकः स्यादित्याक्षेपोत्थानादनन्तरसङ्गतिः ॥ नामादिप्राणेति ॥ नामवाङ्मनःसङ्कल्प-चित्तज्ञानविज्ञानबलान्नाप्तेज आकाशस्मरणप्राणशब्दवाच्या उषास्वाहापर्जन्यमित्राग्निवरुणविधु-प्रवहानिरुद्धाहङ्कारिकप्राणेन्द्रोमारुद्रवाणीमारुतान्ता इत्यर्थः । किमिति । अत्राधिकारिणः प्राणा-वसाना न भवन्त्युत भवन्तीति चिन्ता । तदर्थं प्राणादप्युत्तमाधिकारिसाधकमनुमानं प्राणो वाव सर्वेभ्यो भूयानिति श्रुतिबाधितं न भवत्युत भवतीति । तदर्थं सर्वशब्दस्य विष्णाविवान्यत्र सङ्कोच उतासङ्कोच इति । नामाद्यारभ्येति भाष्येऽन्तराभूतग्रामवदिति सूत्रानुसारेण पूर्वपक्षमुद्घाट््य निषेधाद् दृष्टवैरूप्यमित्युक्तन्यायप्रदर्शकतया पूर्ववदस्यापीत्यंशं व्याचष्टे । नामादीनामिति । ननु भूमनये प्राणाद्भूयसोऽनुक्त्या तस्यैव भूमत्वमित्याक्षेपे सत्यं भूयसोऽनुक्तिरिति ॥ तथा तदन्तर्गतस्य हरेर्भूमत्वमित्युक्तत्वात् कथमनुमानेन तदुत्तमाधिकारिसाधनमित्यतस् तस्याक्षेपोऽयमिति भावेन भाष्ये नामाद्यारभ्येत्युक्तम् । तत्र तथापीत्यस्यानुसारेणादौ यद्यपीति संयोज्य व्याचष्टे । यद्यपीत्यादिना ।
सूत्रेऽधिकारिणामिति वर्तते । अधिकार्युत्तमत्वेन प्रकृतप्राणावधित्वमियदिति परामृश्यत इति भावेन वाच्यमित्यतः परं भाष्येऽध्याहार्यभागं दर्शयन् व्याचष्टे । किन्त्वित्यादिना । प्राणाद्येवेति श्रुतिर् हि यस्मात् प्राणः सर्वेभ्यो भूयान् तस्माद्भूयान्नामेत्यर्थः । उपलक्षणमेतत् । आमनना-दित्येतदर्थतया यः सर्वमेव जानीयादिति प्रतिक्रियाविधायकश्रुतिरपि भाष्ये द्रष्टव्या । तेन प्रतिक्रियाविरोधश्चेत्युक्तन्यायोऽपि सूत्रभाष्यारूढो भवति । तत्र चशब्देन भाष्योपात्तश्रुतेर्ग्रहणात् । तदुक्तं शङ्कराचार्यैः सम्बन्धदीपिकायाम् । चकाराद्विवरणगतप्रतिक्रियाविरोधादित्यादिशब्दाच्च ‘प्राणो वाव सर्वेभ्यो भूयान्’ इत्यादिश्रुतिर्गृह्यत इति ।
तत्त्वसुबोधिनी
अधिकारिणामिति ॥ यावदधिकारमित्यधिकारतारतम्येऽभिहिते तन्निरवधिकत्वसावधिकत्व-संशये प्राणावसानत्वरूपसावधिकत्वसमर्थनादनन्तरसङ्गतिरिति भावः ॥ स्वोत्तमेति ॥ स्वोत्तमयुक्त इत्येतावन्मात्रसाधने विष्णुरूपोत्तममादाय सिद्धसाधनमुक्तम् ॥ अधिकारीति ॥ तथापि प्राणा-दुत्तमाधिकार्यनुक्तेरनुक्तिबाधोऽनुमानस्येत्यत आह ॥ प्राणादिति ॥ प्रमाणानुक्तर्योर्मध्ये प्रमाणस्य प्रबलत्वादनुमानेन प्राणादुत्तमाधिकारी स्वीकार्य एवेति भावः ।
वाक्यार्थविवरणं
निरवधिकत्वे प्राणावसानत्वाभावे ॥ ब्रह्मण एवेति ॥ प्राणस्यैव भाविब्रह्मत्वादेवमुक्तम् । एवं च तदुत्तमस्यैवाधिकारिणस्तत्स्यादिति भावः ॥ उभयथेति ॥ विद्यमानस्याप्यनुक्तिरविद्यमानत्वा-दप्यनुक्तिर्दृष्टेति भावः ॥ नोक्त इति ॥ तथा च तस्यैवाधिकार्युत्तमत्वमिति भावः ॥ प्रमाणात् ॥ उक्तानुमानरूपात् ॥ इत्युक्तमिति ॥ तदुत्तम एव तद्योग्य इति भावः ।
वाक्यार्थमञ्जरी
प्राणावसानत्व इति ॥ प्राणावधिकत्वेत्यर्थः । निरवधिकत्वे प्राणावधिकत्वाभावे ॥ नामादीति ॥ नामवाङ्मनःसङ्कल्पचित्तज्ञानविज्ञानबलान्नाप्तेज आकाशस्मराशाप्राणाः क्रमेणोत्तम-त्वेनोक्ता इत्यर्थः ॥ उभयथासत्वे सत्वेऽपि ॥ सोत्तरत्वेति ॥ सोत्तमत्वेत्यर्थः ।
ॐ इयदामननात् ॐ ॥ उपासनाधिकारिणाम् इयत् प्राणावधिकत्वमेव कुत आमननात् प्राणो वावेति श्रुतौ तथोक्तत्वादित्यर्थः ।
ॐ अन्तरा भूतग्रामवदिति चेत्तदुक्तम् ॐ
सूत्रभाष्यम्
॥ ॐ अन्तरा भूतग्रामवदिति चेत्तदुक्तम् ॐ ॥ ३६ ॥
यथा भूतग्राम एकस्मादेक उत्तमोऽस्त्येव, एवं प्राणादपि परमात्मानमन्तरा विद्यत इति चेन्न । प्राणादुत्तमाभावे प्रमाणमुक्तम् । अन्यत्रोत्तमाभावे न प्रमाणम् । दृश्यते चान्यत्रोत्तमत्वम् ।
तत्त्वप्रदीपिका
अन्तरेत्यादिसूत्रम् ॥ अनुमानात्प्राणादुपरि परमात्मनोऽर्वाक्कश्चित्सिद्ध्यतीति चेन्न । तदभावे प्रमाणमुक्तम् । तद्विरुद्धमनुमानमाभासः स्यात् । दृष्टान्तभूते भूतग्रामे उत्तमाभावे न प्रमाणम् । दृश्यते च भूतग्राम एकैकस्मादेकैकस्योत्तमत्वम् । उक्तं च नामादिप्राणपर्यन्त उत्तमत्वं श्रुतौ ॥
तत्त्वप्रकाशिका
उक्तमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपांशं तावद् व्याचष्टे ॥ अन्तरेति ॥ न प्राणस्य सर्वाधिकार्युत्तमत्वं युक्तम् । भूतसमूहे नामादावेकस्मादेको विशिष्टो दृष्ट एवेति तद्दृष्टान्तेन प्राणादप्युत्तमस्य साधयितुं शक्यत्वात् । न च विष्णोरुत्तमत्वेन सिद्धसाधनम् । परमात्मानं श्रियं च विनोत्तमस्य साध्यत्वात् । यद्येवमपि न प्राणादुत्तमस्तर्हि नामादिभ्योऽप्युत्तमो न स्यादिति भावः । परिहारांशं व्याचष्टे ॥ नेति ॥ नानुमानेन प्राणादुत्तमः साध्यः । ‘प्राणो वाव सर्वेभ्यो भूयान्’ इति प्राणादुत्तमाभावे प्रमाणस्योक्तत्वेनानुमानस्य बाधितविषयत्वादिति भावः । प्राणादुत्तमाभावे नामादेरप्युत्तमो न स्यादधिकारित्वाविशेषादित्यत आह ॥ अन्यत्रेति ॥ न केवलमन्यत्रोत्तमाभावे प्रमाणाभावः किं तु ‘वाग्वाव नाम्नो भूयसी’ इत्याद्युत्तमसद्भावे प्रमाणं चास्तीत्याह ॥ दृश्यते चेति ॥
गुर्वर्थदीपिका
अनुमानस्य बाधितविषयत्वादित्यत्र ‘न प्राणाद्भूयान् इति श्रुत्यैवोत्तमाभावस्य कथितत्वादि-हानुक्तिरभावादेव न तु कारणान्तरात् । अतोऽनुक्तिरपि श्रुत्युपबृंहिता प्राणादुत्तमाभावं साधयतीति ज्ञेयम् ।
भावबोधः
अन्यत्रोत्तमाभावेन प्रमाणमित्यादिभाष्यनिरसनीयं विपक्षे बाधकतर्कमाह– यद्येवमपि न प्राणादुत्तम इति ॥ प्रमाणं चेति । तथा च बाधकसाधकाभावलक्षणविशेषसद्भावादविशेषोऽसिद्ध इति भावः ।
भावदीपः
उक्तमाक्षिप्येत्येतद्व्यञ्जयन् फलोक्तिपूर्वं यथेत्यादि चेदित्यन्तभाष्यं व्याचष्टे ॥ न प्राणस्येति ॥ शक्यत्वादिति ॥ प्रागुक्तदिशेति भावः । परमात्मानमन्तरेत्युपलक्षणं मत्त्वाह ॥ परमात्मानं श्रियं च विनेति ॥ हेतोरप्रयोजकत्वनिरासाय प्राणाद्विशिष्टजीवाभावे दृष्टवैरूप्यमिति न्यायविवरणोक्तं तात्पर्यतो योजयति ॥ यद्येवमिति ॥ तर्हीति ॥ अविशेषादिति भावः ॥ प्रमाणं चेति ॥ तथा च साधकबाधकभावाभावरूपविशेषभावादधिकारित्त्वाविशेषेऽपि वैरूप्यं न दोषायेति भावः ।
अभिनवचन्द्रिका
उक्तमाक्षिप्येति ॥ नाधिकारिणां प्राणावसानत्वं, प्राणः परमेश्वरमन्तरा स्वोत्तमयुक्तो ऽधिकारित्वात्, नामादिवदित्यनुमानेन प्राणादुत्तमस्य सिद्धत्वात् । न च श्रुतिबाधः । यदि प्राणः स्वोत्तमशून्यः स्यात्तर्ह्युपदेशकाभावेन उपासनाधिकार्येव न स्यादिति तर्कसहकृतत्वेन, श्रुतितो हीनबलत्वाभावात् । इत्यभ्यधिकाशङ्कया उक्तमाक्षिप्येत्यर्थः ॥ एकस्मादेक इति ॥ शिष्याद्गुरु-रित्यर्थः । न च विष्णोरिति ॥ विष्णुरेव तद्गुरुरिति सिद्धसाधनमिति न वाच्यमित्यर्थः । परमात्मानं विनेति ॥ गुरूपदेशमन्तरा तद्दर्शनायोगेन न तस्य गुरुत्वमुपपद्यत इति भावः ॥ यद्येवमपीति ॥ यदि प्राणस्याधिकारित्वेऽपि प्राणादुत्तमगुरुर्नाभ्युपगम्यते तर्हि नामादीनामपि उत्तमो गुरुर्न स्यादिति भावः ॥ नानुमानेनेति ॥ परमेश्वरव्यतिरिक्त उत्तमो न साध्यः । श्रुतिविरोधेनाऽनुमानस्य बाधितविषयत्वात् । न चोपदेशकाभावेनोपासनाधिकारित्वाभाव इति तर्कसहकृतत्वेन नानुमानस्य । श्रुतिबाधः व्यासकपिलादिरूपिणो भगवत एव गुरुत्वेन तर्कस्याऽऽ-भासत्वादिति भावः । प्राणादुत्तमाभाव इति ॥ यदि प्राणस्य विष्णुरेवोपदेशक इत्यङ्गीकृत्य, विष्णुव्यतिरिक्तः प्राणादुत्तमो नाभ्युपगम्यते, तर्हि नामादीनामपि स एव गुरुरस्तु । ततश्च तारतम्यं न स्यादिति भावः ।
पूर्वपक्षस्तु– नाऽधिकारिणः प्राणावसानाः । ‘प्राणः स्वोत्तमाधिकारिनियम्यो ऽधिकारित्वान् नामादिवत्’ इत्यनुमानविरोधात् । अतोऽधिकारिणां प्राणावसानत्वाभावात् हिरण्यगर्भ एव सर्वगुणोपास्तियोग्य इत्युक्तमयुक्तमिति ।
सिद्धान्तस्तु– प्राणावसानत्वमेवाधिकारिणाम् । ‘प्राणो वाव सर्वेभ्यो भूयान्’ इत्यामननात् । न चानुमानविरोधः । तस्य बाधितविषयत्वात् । ननु ‘प्राणो वाव सर्वेम्यो भूयान्’ इति श्रुतिबलेन न प्राणस्य सर्वोत्तमत्वं शक्यं वक्तुम् । तथा सति ईश्वरद्वयायोगेन प्राणपरमात्मनोरैक्यप्रसङ्गादिति चेत्, न । छन्दोगश्रुत्युक्तप्रकारेण सर्वशब्दस्य संकोचमङ्गीकृत्य प्राणस्य सर्वाधिकार्युत्तमत्वं, ततो महालक्ष्म्याः, ततः परमात्मन उत्तमत्वमित्यङ्गीकारात् । अतोऽधिकारिणां प्राणावसानत्वात् स एव सर्वगुणोपास्तियोग्य इति सिद्धम् ।
वाक्यार्थमुक्तावली
अत्र दृष्टान्तबलात् प्राणः साधिकः । अधिकारित्वादिति साध्यहेतू सम्बध्येते ॥ अक्षरमिति विभागेनान्वेति ॥ तथा च भूतग्रामवदधिकारित्वात् प्राणो ऽक्षरं ब्रह्म अन्तरा विना साधिक इति सूत्रार्थं मनसि निधाय सूत्रार्थं विवृण्वन्नन्तरेत्यस्य कृत्यं च वदन् भाष्ये परमात्मानमित्यस्य प्राणा-द्विशिष्टजीवाभावेन प्रमाणमिति न्यायविवरणानुसारेणोपलक्षणत्वं मत्वा व्याचष्टे । न प्राण-स्येत्यादिना । नन्वधिकारिणां प्राणावधित्वे श्रुत्योक्ते कथमन्तरा भूतग्रामवदित्यनुमानावष्टम्भेन पूर्वपक्षः । श्रुतेरनुमानस्य दुर्बलत्वादित्यतोऽनुकूलतर्कसहितत्वेनानुमानस्यापि प्रबल्यादिति भावेना-न्यत्रोत्तमाभावेन प्रमाणमित्येतन्निरस्यमनुकूलतर्कमाह ॥ यद्येवमिति ॥ तदुक्तमित्यत्र नेत्यग्रेतन-माकृष्यते । तदिति तन्त्रम् । तत्र प्राणादधिकाभावे तत्प्रमाणं प्राणो वाव सर्वेभ्य इत्युक्तमिति भावेन व्याचष्टे ॥ नानुमानेनेति ॥ नानुमानं बाधितम् । तर्कसाहाय्येन प्रबलत्वादित्याशङ्कते ॥ प्राणादिति ॥ अन्यत्रोत्तमाभाव इत्यनेन तत् तत्रान्यत्र नामादौ उत्तमाभावे तत्प्रमाणं नोक्तमिति सूत्रखण्डार्थ उक्तो भवति । दृश्यते चेत्यस्यान्यत्र भूतग्रामे एकैकस्मादेकैकस्योत्तमत्वं दृश्यते चेत्यर्थः । तदनुसारेण तदुक्तमित्यस्यापि तत् तत्र भूतग्रामे एतद् एकैकस्मादेकैकस्योत्तमत्व-मुक्तमित्यर्थः । तथा च तर्कस्य बाध इति भावः ।
तत्त्वसुबोधिनी
प्राणादुत्तमाधिकार्यस्वीकारे बाधकमाह ॥ यद्येवमिति ॥ प्रमाणं चेति ॥ तथा च बाधकसाधकभावाभावलक्षणविशेषसद्भावादविशेषोऽसिद्ध इति भावः ।
वाक्यार्थविवरणं
साधयितुम् ॥ उक्तानुमानेन ॥ एवमपीति ॥ प्राणादुत्तमत्वसाधकेऽनुमाने सत्यपीत्यर्थः । न स्यादधिकारित्वाविशेषादिति भावः ।
वाक्यार्थमञ्जरी
भूतानां नामादीनां ग्रामवत् समुदायवत् प्राणोऽप्यन्तरा परमात्मानं विना अन्योत्तमोपेत इति चेन्न, कुतः, तदुक्तं तदिति तन्त्रं तत्र प्राणाधिकाभावे तत् प्रमाणं प्राणो वावेत्युक्तं यद् इत्यर्थः ॥ वाग्वेति ॥ वाक् स्वाहादेवीनाम्ना उषायाः सकाशाद्भूयसी श्रेष्ठेत्यर्थः ॥