ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ
२०. यावदधिकरणम्
सूत्रभाष्यम्
॥ ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ॥ ३३ ॥
यथा यथाऽधिकारो विशिष्यते एवं मुक्तावानन्दो विशिष्यते । ‘मनुष्येभ्यो गन्धर्वाणां गन्धर्वेभ्य ऋषीणामृषिभ्यो देवानां देवेभ्य इन्द्रस्य इन्द्राद्रुद्रस्य रुद्राद्ब्रह्मण एष ह्येव शतानन्द’ इति चतुर्वेदशिखायाम् । अध्यात्मे च—
‘ज्ञानं चोपासनं चैव मुक्तावानन्द एव च ।
यथाधिकारं देवानां भवन्त्येवोत्तरोत्तरम्’इति ॥
तत्त्वप्रदीपिका
यद्यनियमेन सर्वेषां ज्ञानिनां मोक्षस्तर्ह्यकिञ्चित्करोऽसौ योग्यताविशेषः स्यादित्यत आह–यावदधिकारमवस्थितिराधिकारिकाणाम् । ‘आधिकारिका’ मोक्षाधिकारिणः । यावान्यावानधिकारो योग्यता तेषां तावति तावत्यानन्दादिगुणगणे स्वरूपात्मकेऽवस्थितिर्भवति । न च ‘मनुष्येभ्यो गन्धर्वाणामि’’त्यादि वचनस्य पूर्वोक्तानन्दश्रुतिविरोधः । सङ्क्षेपस्य विस्तराविरोधात् ।
तत्त्वप्रकाशिका
अत्र भगवज्ज्ञानसाधनोपासनाधिकारिणामुपासनेऽधिकारनियमसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा ‘प्राप्तेश्च’ इत्यादेरनुपपत्तेरसौ समर्थनीयः । प्रकृतोपास्तिमन्तो विषयः । उपासनाधि-कारनियतिमन्तो न वेति सन्देहः । पूर्वोक्तिर्लौकिकक्रियायामदृष्टिश्च सन्देहबीजम् । नोपासना-वन्तोऽधिकारनियतिमन्त इति पूर्वः पक्षः । उपासनाधिकारनिमये प्रमाणाभावात् । न च मुक्ता-वानन्दतारतम्यमुपासनाधिकारनियमे प्रमाणमिति वाच्यम् । उपासनादिप्रयत्नतारतम्येनैव तस्योपपत्ते-रुपासनाऽधिकारनियमाप्रयोजकत्वात् । अभ्युपगम्य चेदमुच्यते । मुक्तावानन्दतारतम्यमेवानुपपन्नम् । तथात्वे मुक्तानां द्वेषेर्ष्यादिदोषप्रसङ्गात् । न चात्र प्रमाणमस्ति । आनन्दश्रुतिस्तु संसारविषय-तयोपपद्यते । अत उपास्त्यधिकारनियमाभावात्प्राप्तेश्च समञ्जसमित्याद्ययुक्तमिति । सिद्धान्तयत्सूत्र-मुपन्यस्य व्याचष्टे ॥ यावदिति ॥ अस्त्येवोपासनाधिकारे नियमो मुक्तावानन्दतारतम्यस्य भावात् । मुक्तावानन्दतारतम्यस्य चोपासनाधिकारनियमानुसारित्वादिति भावः । ननु मुक्तावानन्दतारतम्यमेव कुतो येनोपासनाधिकारनियम इत्यत आह ॥ मनुष्येभ्य इति ॥ मुक्तावानन्दतारतम्यमुपासनादि-प्रयत्नेन सम्भवत्यतो नोपासनाऽधिकारनियमं प्रयोजयतीत्यत आह ॥ अध्यात्मे चेति ॥ अधिकार-नियमेनैव मुक्तावानन्दतारतम्यं नोपासनादिप्रयत्नेनैव तस्याप्युपासनाधिकारनियमानुसारित्वादिति भावः । कथञ्चिदधिकाराधिकयत्ने विघ्नो भवति । ‘स्वाधिकाराधिको यत्नः प्रायशो नोपपद्यते । कथञ्चिदधिके यत्ने दोषः कश्चित्समापतेत्’ इति वचनात् ।
गुर्वर्थदीपिका
उपासनाधिकारनियम इत्यत्रास्यैतावत्येवाधिकारोऽस्यैतावत्येवाधिकार इति नियम इत्यर्थः । उपासनादिप्रयत्नतारतम्येनेत्यत्र स्वसाध्यशत्रुहनने प्रयत्नं कुर्वत्यपि राज्ञां प्रीतिदर्शनादिति मन्दा-शङ्कया पूर्वपक्षारम्भः । वस्तुतस्तु हननादिकारिणा सामर्थ्येन क्रियमाणशत्र्वङ्गशस्त्रनिपातनाख्य-प्रयत्नस्यान्यैः कर्तुमशक्यत्वात्प्रयत्नोऽपि तत्तदधिकारिणामेव । तदुदितफलमपि तेषामेव । असमर्थस्य केवलमभिगमनादिरूपप्रयत्नोऽप्यल्प एव । फलं च तुच्छमप्रेक्षावानेव दिशति । प्रेक्षावांस्तु स्वासाध्ये कर्मणि प्रयतमानं प्रेक्ष्य हसत्येव न तु प्रसीदतीति द्रष्टव्यम् ।
भावबोधः
अधिकारिनियमसमर्थनादिति ॥ ‘अनियमः सर्वेषां’ इति सर्वज्ञानिनामनियमेनैव मोक्षो न केषाञ्चिदेवेति नियमः । तत्र मानाभावादित्युक्ते तर्हि तद्वदेव सर्वेषां मुक्तानामानन्दादयो ऽनिय-मेनैकप्रकारा एव स्युर् न तु केषाञ्चिदधिकाः केषाञ्चिदल्पा इति नियमः । आनन्दश्रुतेः संसारि-विषयत्वेन तत्र प्रमाणाभावात् । ततश्च तत्साधनोपासनमपि सर्वेषामेकप्रकारमेव स्यान्न तु तत्र तारतम्यम् । फलवैचित्र्यरूपमानाभावादित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । उपासनेत्यादि । अत्रोपास्तिमन्तस् तदधिकारनियतिमन्तो न भवन्त्युत भवन्तीति चिन्ता । तदर्थं मुक्ता आनन्द-तारतमवन्तो न भवन्ति उत भवन्तीति । तदर्थं मुक्तावानन्दतारतम्ये प्रमाणं नास्त्युतास्तीति । तदर्थं ‘अथात आनन्दस्य मीमांसा’ इत्यादिश्रुतिः किं संसारिमातत्रविषयोत मुक्तिविषयाऽपीति । तदर्थं मुक्ततारतम्यं द्वेषेर्ष्याद्यापादकं भवत्युत न भवतीति ॥
ननु ‘वृद्धिह्नासभाक्त्वं’ इत्युक्तरीत्या मौक्तानन्दतारतम्यस्यैव अधिकारतारतम्ये हेतुत्वोपपत्तेः कथं प्रमाणाभाव इत्यत आह– न च मुक्ताविति ॥ तद्धेतुप्रतिपादकतया प्रयत्नानुसारिणो मुक्तावाधिकारिकानन्दादय इति न्यायविवरणं व्याचष्टे– उपासनादीति ॥ ‘अक्षरधियां’ इति द्वितीयसूत्रनिवर्तनीयमाह– अभ्युपगम्य चेति ॥ ननु ‘दर्शनाच्च’ इति अनेन मुक्तावानन्दतारतम्य-सद्भावे ‘अथात आनन्दस्य मीमांसा’ इत्यादिश्रुतेरुक्तत्वेन कथं तत्र प्रमाणाभाव इत्यत आह– आनन्दश्रुतिस्त्विति ॥ अत्र सूत्रे ‘आधिकारिक’ इति ब्रह्मादिपुरुषविशेषस्य संज्ञा । आधिकारि-काणां ब्रह्मानन्दानां मुक्तावानन्दादिगुणतारतम्येनावस्थितिर्यावदधिकारम् अधिकारानुसारेणैवेति सूत्रार्थमभिप्रेत्य प्रवृत्तं यथा यथेत्यादिभाष्यं व्याचष्टे– अस्त्येवेत्यादिना ॥ अधिकारानुसारित्वा-त्प्रयत्नस्येति न्यायविवरणानुसारेण स्मृत्यभिप्रायमाह– अधिकारेति ॥ ‘च’शब्दः परस्परसमुच्चये यथाधिकारमेव उपासनमुपासनादिप्रयत्न उत्तरोत्तरं भवति । यथोपासनमेव ज्ञानं यथा ज्ञानमेव मुक्तावानन्द इति स्मृतियोजना सूचिता ।
ननु ‘वसिष्ठसाम्यं समभीप्समानं प्रच्यावयन्निच्छया शापमाप’ इत्यादिना माण्डव्यादीना-मधिकाराधिकयत्नदर्शनात् कथमेतदित्यतः प्रवृत्तं कथञ्चिदधिके यत्ने तत्साधनादिवस्तूनां दूषण-प्राप्तेरिति न्यायविवरणं मनसि निधायाह– कथञ्चिदिति ॥ यमं प्रति शापदानादिरूपो विघ्नो भवतीत्यर्थः । अत्र न्यायविवरणोदाहृतं प्रमाणं पठति– अधिकारेति ॥
भावदीपः
अधिकारनियमेति ॥ अस्यैतावती योग्यताऽस्य त्वेतावतीत्येवं योग्यतानियम इत्यर्थः ॥ समर्थनादिति ॥ पूर्वत्रोपासनायाः फलानियमे उक्ते यद्यनियमेन ज्ञानिनां मोक्षस्तर्ह्यकिञ्चित्करोऽसौ योग्यताविशेषः स्यात् । तत्प्रयोजकफलतारतम्यस्यान्येनैवोपपत्तेरिति शङ्कायां तन्नियमसमर्थना-दित्यर्थः । तेन पूर्वोक्ते तर्कपराहतिशङ्कनात्पूर्वसङ्गतिर्ध्येया । तथैव तत्वदीपोक्तेः ॥ अन्यथेति ॥ योग्यतानियमासमर्थने सति प्राप्तेश्च समञ्जसमित्यत्रोपसंहारानुपसंहारयोरधिकारिभेदेन सामञ्जस्य सर्वाभेदादित्यत्र फलभेदेन तयोस्तथात्वस्य, आनन्दादय इत्यत्र चतुर्णामेव सर्वोपास्यत्वस्य, प्रियशिरस्त्वाद्यप्राप्तिरित्यादौ प्रियशिरस्त्वादेः सर्वोपास्यत्वाभावस्य चोक्तिर्न स्यात् । तत्सर्व-स्याप्यधिकारभेदहेतुकत्वादित्यर्थः । पूर्वोक्तिः प्राप्तेश्चेत्याद्युक्तिरित्यर्थः ॥ लौकिकेति ॥ भोजन-कृष्यादिक्रियायामधिकारनियमस्यादृष्टिरित्यर्थः । प्रयत्नानुसारिणोऽनुक्तावाधिकारिकानन्दादय इति न्यायविवरणोक्तिं प्रमाणाभावोपपादकतया योजयति ॥ प्रमाणाभावादित्यादिना ॥ आद्यसूत्र-व्यावर्त्यचोद्यमन्यत्रोक्तं प्रपञ्च्य द्वितीयसूत्रव्यावर्त्यचोद्यमाह ॥ अभ्युपगम्य चेदमिति ॥ मुक्तौ तारतम्यमभ्युपगम्य प्रयत्नेनान्यथासिद्धत्वमुच्यत इत्यर्थः । प्रमाणसिद्धार्थे बाधकमकिञ्चित्करं स्वयमेवाभासीकरिष्यतीत्यत आह ॥ न चात्रेति ॥ मुक्तनामानन्दादितारतम्ये प्रमाणं च नास्ति न केवलं बाधकमस्तीत्येवेति चार्थः ।
ननु भक्तिपाद एव वृद्धिह्रासभाक्त्वमिति नये गुणसूत्रे दर्शनाच्चेत्यत्राथात आनन्दस्येति श्रुतिरेव तत्र मानमित्युक्तमित्यतस् तदुपमर्दिकाधिकाशङ्कामाह ॥ आनन्देति ॥ अत इति ॥ प्रमाणा-भावादित्यर्थः । इत्याद्ययुक्तमिति फलोक्तिः ॥ मुक्तौ तारतम्यमेव नेत्येतदग्रे निरसिष्य-न्मौक्ततारतम्य प्रमाणकत्वमधिकारनियमस्याह ॥ अस्त्येवेति ॥ काकस्य कार्ष्ण्याद्धवलः प्रासाद इतिवत् हेतुसाध्ययोर्वैयधिकरण्यनिरासाय यथा यथेत्यादिभाष्यस्य फलितार्थमाह ॥ मुक्ताविति ॥ एतेनाधिकारिकाणां मोक्षाधिकारिणां मुक्तावानन्दाद्यवस्थितिर्यावदधिकारमधिकारानुसारिणीति सूत्रे भाष्ये च मौक्ततारतम्यस्याधिकारानुसारित्वोक्तेरुपयोगो दर्शितः ॥ इत्यत आहेति ॥ यद्यप्येषा शङ्का दर्शनाच्चेत्यत्र प्रागेव श्रुत्युक्त्या निरस्ता । मुक्ताविति पदं तत्रेवात्रापि नास्ति । प्रत्युत तद्विरुद्धा च । तथाप्यस्य सङ्क्षेपत्वाद्विस्तरोक्तमत्र ग्राह्यम् । तत्राऽस्पष्टमेतदनुरोधेन स्पष्टयितव्यमिति श्रुत्यन्तरोक्तिरित्यदोषः । स्मृत्युक्तेरुपयोगाय व्यावर्त्यचोद्यमाह ॥ मुक्ताविति ॥ इत्यत आहेति ॥ स्मृतौ यथाधिकारमित्युक्त्या शङ्कानिरास इति भावः । ननु स्मृतौ यथाधिकारमित्युक्तावपि कथं शङ्कानिरासः । युक्तेरनुपन्यासादित्यतोऽधिकारानुसारित्वात्प्रयत्नस्येत्यन्यत्रोक्तं हेतुं भावार्थतया योजयति ॥ अधिकारेति ॥ न्यायविवरणोक्तमेवाह ॥ कथञ्चिदित्यादिना ॥ विघ्न इति ॥ पृथ्वादेः शततमाश्वमेधादिक्रतुविघ्नदृष्टेरिति भावः ॥ दोष इति ॥ चन्द्रसुग्रीवविविदमैन्दादि-रेवोदाहरणं ध्येयम् ।
अभिनवचन्द्रिका
द्वेषेर्ष्यादीति ॥ द्वेषोऽप्रीतिः । ईर्ष्या असहिष्णुता । आदिशब्देन गुणेषु दोषाविष्करण-लक्षणाऽसूयादेर्ग्रहणम् । अत्र गुणसूत्रम् ‘अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपस-दवत्तदुक्तम्’ इति । अक्षरधियामविरोधो विरोधाभावः निर्दोषत्वादिना भगवत्समत्वात् । अन्यथा भगवतोऽपि तत्प्रसङ्गः । तेभ्य उत्तमेभ्योऽधमानामुत्कर्षाभावात् । उत्तमानुग्रहप्राप्तपरमैश्वर्यादि-मत्त्वाच्चेति यावत् । तद्यथा गुरुप्रसादप्राप्तोत्कर्षवन्तः शिष्या न तद्वेषिण इति सूत्रार्थः ।
वाक्यार्थमुक्तावली
यद्यनियमेन ज्ञानिनां मोक्षस्तर्हि तद्वदेव मुक्तभोगेऽपि योग्यतायामविशेषः स्यात् । तथा च तत्साधनमुपासनमपि सर्वेषामेकप्रकारेण स्यादित्याक्षेपादनन्तरसङ्गतिस्तत्त्वप्रदीपोक्ता ज्ञेया । उपासनाधिकारेति । उपास्तिमत उपासनायां योग्यतानियतिमन्तो न भवन्त्युत भवन्तीति चिन्ता । तदर्थं तदुपासकत्वेनाभिमतं मुक्तावानन्दतारतम्यमेवाप्रामाणिकत्वाद्द्वेषेर्ष्यादिदोषप्रसञ्जकत्वाच्चा-सिद्धम् । सिद्धत्वे वा प्रयत्नतारतम्येनान्यथासिद्धमुत प्रामाणिकं द्वेषेर्ष्याद्यप्रसञ्जकमनन्यथासिद्धमिति । ननु वृद्धिह्रासभाक्त्वमित्यत्रोक्तं मुक्तावानन्दतारतम्यममुपासनाधिकारनियममन्तरेणानुपपद्यमानं तत्रार्थापत्तिरूपं प्रमाणं भविष्यतीत्यशङ्क्य निषेधति ॥ न चेति ॥ कुतो न वाच्यमित्यतो यावदधिकारमधिकारानुसारेणैवानन्दतारतम्यम् । न तु प्रयत्नतारतम्येनेति सूत्रखण्डव्यावर्त्यप्रयत्न-तारतम्यमादायार्थापत्तेरन्यथोपपत्तिं चेष्टेत्युक्तन्यायं प्रदर्शयन्नाह ॥ उपासनादीति ॥ आदिपदेन तत्साधनश्रवणादितत्साध्यमपरोक्षज्ञानं चोपासनायां योग्यताविशेषाभावेऽपि तद्विषये प्रयत्न-तारतम्येनापरोक्षज्ञानतारतम्ये मौक्तानन्दतारतम्यमुपपद्यते । उपासनाप्रयत्नतारतम्यमपि तद्धेतु-श्रवणादिप्रयत्नतारतम्येनैव दृष्टेनैवोपपत्तौ अदृष्टकल्पनानुपपत्तेरिति भावः । अक्षरधियामिति द्वितीयसूत्रनिरसनीयामाशङ्कामाह ॥ अभ्युपगमेति ॥
ननु वृद्धिह्रासनये दर्शनाच्चेत्यत्र मुक्तावानन्दतारतम्यसद्भावेऽथात आनन्दस्य मीमांसेति आनन्दश्रुत्युक्तेः कथं प्रमाणाभाव इत्यत आह ॥ आनन्दश्रुतिस्त्विति ॥ सूत्रे गताविति विपरिणम्यानुवर्तते । आधिकारिकाणामधिकारायोग्यता तदनुसार्यनुष्ठाने शीलं येषां ते आधिकारिकाः । शीलमिति सूत्राठ्ठक् । तेषां मोक्षाधिकारिणां ब्रह्मादीनां यावदधिकारम् । यावदवधारण इत्यव्ययीभावः । अधिकारानुसारेणैवोपासनायोग्यतानुसारेणैव गतावानन्दादिरूपे मोक्षे स्थितिस् तारतम्येनावस्थानम् । न तूपासनाप्रयत्नतारतम्येन । येनान्यथोपपत्त्याधिकारनियमो न स्यादिति सूत्रार्थं मनसि निधायाह ॥ अस्त्येवेति ॥ सूत्रे यावदधिकारानुसारेणैव न तु प्रयत्नानुसारेण । कुत इत्यत आधिकारिकाणामित्यनेनाधिकारानुसारेणैवानुष्ठानशीलं येषाम् । न त्वाधिकारिको यत्न इति योग्यतातारतम्याभावे प्रयत्नतारतम्यस्यैवायोगादिति सूचितम् । तत्र प्रमाणपरतयोत्तरभाष्यमवतार्य व्याचष्टे । मुक्तानामित्यादिना । उपासनादिप्रयत्नेनेत्युक्त्या भाष्ये ज्ञानोपासनापादाभ्यां तत्र यत्नलक्षणेत्युक्तं भवति । भाष्ये देवानामिति मोक्षयोग्यानामित्यर्थः । ननु यथाधिकारमेव प्रयत्न इत्ययुक्तम् । माण्डव्यादीनां वसिष्ठसाम्येऽधिकाराधिकप्रयत्नदर्शनादित्याशङ्क्य कथञ्चिद्यत्नप्रसक्तावपि यथाधिकारमेव यत्नः पूर्णो भवति । अन्यथा विघ्नसम्भवादिति भाष्यार्थं मत्वा दूषणमित्युक्तन्यायं च दर्शयन् प्रमाणमाह ॥ कथञ्चिदिति ॥
तत्त्वसुबोधिनी
अधिकारनियमसमर्थनादिति ॥ अनियमः सर्वेषामित्यत सर्वज्ञानिनामनियमेनैव मोक्षो न तु केषाञ्चिदेवेति नियमस् तत्र मानाभावादित्युक्ते तर्हि तद्वदेव सर्वेषां मुक्तानाम् आनन्दादयो नियमे-नैकप्रकाराः स्युर् न तु केषाञ्चिदधिकाः केषाञ्चिदल्पा इति नियम आनन्दश्रुतेः संसारिविषयत्वेन तत्र प्रमाणाभावात् । तच्च तत्साधनोपासनमपि सर्वेषामेकप्रकारमेव स्यान्न तु तत्तारतम्यं फल-वैचित्र्यरूपं मानाभावादित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । अन्यथेति । तत्रानन्दादि-नियमस्योक्तत्वादिति भावः ॥ पूर्वोक्तिरिति ॥ प्राप्तेश्चेति ॥ पूर्वोक्तिरित्यर्थः ।
ननु वृद्धिह्रासभाक्तवमियुक्तरीत्या मौक्तानन्दतारतम्यस्यैवाधिकारतारतम्ये हेतुत्वोपपत्तेः कथं प्रमाणाभाव इत्याशङ्क्य निषेधति ॥ न च मुक्ताविति ॥ मुक्तावानन्दतारतम्यमङ्गीकृत्य उपासनादिप्रयत्नतारतम्येनैव तस्य उपपत्तिरित्युक्तम् । इदानीं तदेव न युज्यते इत्याह ॥ अभ्युप-गम्यं चेति ॥ ननु द्वेषेर्ष्यादि तत्र नास्त्येवेत्यतः प्रमाणाभावेन तदभावो वक्तुम् अशक्य इत्याह ॥ न चेति । ननु दर्शनाच्च इत्यनेन मुक्तौ आनन्दतारतम्यसद्भावे ‘आथात आनन्दस्येति श्रुतेर् उक्तत्वेन कथं तत्र प्रमाणाभाव इत्यत आह ॥ आनन्दश्रुतिस्तु इति ॥ अत्र सूत्रे आधिकारिकेति ब्रह्मादि-पुरुषविशेषस्य संज्ञा । आधिकारिका मोक्षाधिकारिण इति तत्वप्रदीपोक्तेः । आधिकारिकाणां ब्रह्मादीनां मुक्तावनन्दादिगुणतारतम्येन स्थितिर् यावदधिकारम् अधिकारानुसारेणैवेति सूत्रार्थ इत्यभिप्रेत्य यथा यथेति भाष्यं व्याचष्टे ॥ अस्त्येवेति ॥ अधिकारेति ॥ अनेन चशब्दः परस्परसमुच्चये यथाधिकार्येवोपासनम् उपासनादिप्रयत्न उत्तरोत्तरं सम्भवति, यथोपासनमेव ज्ञानं, यथा ज्ञानमेव मुक्तावानन्द इति स्मृतियोजना सूचिता ॥ तस्यापीति ॥ उपासनादिप्रयत्नस्या-पीत्यर्थः । ननु वसिष्टसाम्यं समभीप्समानं प्रच्यावयन्निच्छया शापमाप इत्यादिना माण्डव्यादीनाम् अधिकाराधिकप्रयत्नस्य दर्शनात्कथमेतदित्यत आह ॥ कथञ्चिदिति ॥ यमं प्रति शापदानादिरूपो विघ्नो भवतीत्यर्थः । अत्र प्रमाणमाह ॥ अधिकारेति ॥
वाक्यार्थविवरणम्
अधिकारनियमेति ॥ योग्यतानियमेत्यर्थः ॥ पूर्वोक्तिः प्राप्तेश्चेत्युक्तिः ॥ लौकिकेति ॥ कृष्यादिक्रियायामधिकारिभिरेव कर्तव्यत्वस्यादृष्टेरधिकारनियमवन्तो न भवन्तीत्यर्थः ॥ उपासनादि-प्रयत्न उपासनादिरूपजीवप्रयत्नः ॥ तस्य ॥ आनन्दतारतम्यस्य ॥ नियमेति ॥ नियमे आनन्दतारतम्यस्याप्रयोजकत्वादित्यर्थः ॥ अभ्युपगम्य ॥ मुक्तावानन्दतारतम्यमिति शेषः ॥ इदम् ॥ तस्योपासनाधिकारनियमाप्रयोजकत्वम् ॥ अत्र ॥ मुक्तावानन्दतारतम्ये । तस्यापि उपासनादिरूपप्रयत्नतारतम्ये प्रयोजकत्वोपपत्तौ किमुपासनादिप्रयत्नतारतम्येनेति भावः ।
वाक्यार्थमञ्जरी
अधिकारनियमेति ॥ केषाञ्चिदेव सर्वगुणोपासनं न सर्वेषामिति व्यवस्थेत्यर्थः । अदृष्टिर् नियतिः ॥ न चात्रेति ॥ प्रमाणं चेत्यन्वयः । ‘अथानन्दस्य मीमांसा’इत्यानन्दतारतम्यश्रुतिरेव तत्र प्रमाणमित्यत आह ॥ आनन्दश्रुतिरिति ॥
ॐ यावदधिकारमवस्थितिराधिकारिकाणां ॐ ॥ आधिकारिका ब्रह्मादिजीवविशेषाः । तेषां यावदधिकारमधिकारानुसारेणैव मुक्ताववस्थितिस् तारतम्येनावस्थानम् । न तूपासनाप्रयत्न-तारतम्येनेत्यर्थः । ननु वसिष्ठसाम्यं समभीप्समानं प्रच्यावयन्निच्छया शापमापेत्यादिना माण्डव्या-दीनाम् अधिकाराधिकप्रयत्नदर्शनात्कथमेतदित्यत आह ॥ कथञ्चिदिति ॥ यमं प्रति शापप्रदानादि-रूपो विघ्नो भवतीत्यर्थः । वचनान् न्यायविवरणे ।