ॐ अनियमः सर्वेषामविरोधाच्छब्दानुमानाभ्याम् ॐ
१९.अनियमाधिकरणम्
सूत्रभाष्यम्
॥ ॐ अनियमः सर्वेषामविरोधाच्छब्दानुमानाभ्याम् ॐ ॥ ३२ ॥
प्राप्तज्ञानानामपि केषाञ्चिन्मुक्तिप्राप्तिः केषाञ्चिन्न, यथोपसंहारनियम इति न मन्तव्यम् ।
‘सर्वे गुणा ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः’
इत्युपसंहारविरोधादन्यत्राविरोधात् । ‘न कश्चिद्ब्रह्मवित्सृतिमनुभवति मुक्तो ह्येव भवति तस्मादाहुः सृतिहेती’इति कौण्डिन्यश्रुतेश्च । यथा केषाञ्चिन्मोक्ष एवमन्येषामित्यनुमानाच्च ।
तत्त्वप्रदीपिका
अनियम इत्यादिसूत्रम् ॥ यथा गुणोपसंहारः केषाञ्चिदेव केषाञ्चिन्नेति नियमः । एवं ब्रह्मदर्शिनामपि केषाञ्चिन्मोक्षः केषाञ्चिन्नेति नियमोऽस्तु । उपपद्यते चायोग्यत्वादनिच्छया । तथा च भागवते– ‘कामं भवेम वृजिनैर्निरयेषु नष्टाश्चेतोऽलिवद्यदि हि ते पदयो रमेते’इत्यादीति न मन्तव्यम् । उक्तनियमे प्रमाणाभावात् । सर्वेषां मोक्षे प्रमाणसद्भावात् । भागवतावाक्यस्योत्तमानां भक्तेरेवात्यन्तापेक्षणीयत्वपरत्वात् ।
तत्त्वप्रकाशिका
अत्रेश्वरदर्शनसाधनोपास्तिमतामुत्पन्नज्ञानानां मोक्षानियमसाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथोपासने निःशङ्कप्रवृत्त्यभावप्रसङ्गात्समर्थनीयः । प्रकृतो मोक्ष एव विषयः । किमनियमेन सर्वज्ञानिप्राप्य उत केषाञ्चिदस्ति केषाञ्चिन्नेति सन्देहः । फलद्वैविध्यदर्शनं सन्देहबीजम् । नियम इति पूर्वः पक्षः । ज्ञानिष्वपि केषाञ्चिन्मुक्त्ययोग्यत्वसम्भवात् । अयोग्यानां तत्प्राप्त्ययोगात् । यथा खलूपासकेष्वपि योग्यानामेव सर्वगुणोपसंहारो नायोग्यानामिति नियमः । अतः सर्वेषां ज्ञानिनां मोक्षाभावान्न निःशङ्कोपासनं कर्तव्यमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ अनियम इति ॥ प्राप्तज्ञानानामपि केषाञ्चिन्मोक्षः केषाञ्चिन्नेत्युपासनवन्नियमो नास्ति किं तु सर्वेषामपि प्राप्तज्ञानानामस्ति मोक्षः । उपसंहारे निषेधेन नियमोपपत्तेरत्र पुनस्तदभावेन नियमायोगादिति भावः । निषेधाभावेऽपि साधकाभावान्नियम एवेत्यत आह ॥ नेति ॥ विप्रतिपन्ना ज्ञानिनो नियतमोक्षा ज्ञानित्वात् सम्प्रतिपन्नवदिति भावः । न चैतदुपसंहारानुमानसमानयोगक्षेममिति वाच्यम् । बाधकशून्यत्वाच्छ्रुतिमूलत्वाच्च । न च केषाञ्चिन्मुक्त्ययोग्यत्वसम्भवान्नियम इति युक्तम् । साधकबाधकभावाभावाभ्यां ज्ञानिनां कस्यापि मोक्षायोग्यताभावावगमात् । अतो ज्ञानिनां मोक्षस्य नियतत्वान् निःशङ्कोपासनं कर्तव्यमिति सिद्धम् ।
गुर्वर्थदीपिका
अनियमेनेत्यस्याऽस्यैव भवति न त्वन्यस्येति नियमं विनेत्यर्थः । निमय इति पूर्वः पक्ष इत्यत्र नियमः कस्यचिदेव भवति न तु सर्वस्येति नियम इत्यर्थः । उपसंहारानुमानसमानयोगक्षेम-मित्यत्रोपसंहारानुमानं नाम सर्वे सर्वगुणोपासका ज्ञानार्थित्वाद्ब्रह्मवदित्यनुमानमिति भावः ।
भावबोधः
मोक्षेऽनियमसाधनादिति । पूर्वाधिकरणे मुक्तानामवश्यं कर्मानुष्ठेयमिति नियमाभावे हेतुत्वेनोक्तस्याविरोधस्यैवात्र केषाञ्चिदेव ज्ञानिनां मोक्षोनान्येषामिति नियमाभावेऽपि हेतुकरणा-दनन्तरसङ्गतिरिति भावः । किमित्यादि ॥ अत्र मोक्षः किमनियमेन सर्वज्ञानिप्राप्य उत नियमेन कैश्चिदेव ज्ञानिभिरिति चिन्ता । तदर्थमुपासकेषु केषाञ्चित् सर्वगुणोपसंहारनिषेधवज्ज्ञानिष्वपि केषाञ्चिन्मुक्तिनिषेधोऽस्त्युत नास्तीति । तदर्थमुपासकेषु सर्वेषु गुणोपसंहारयोग्यत्वरूपविशेष-सद्भाववज्ज्ञानिष्वपि मुक्तियोग्यत्वरूपविशेषोऽस्त्युत नास्तीति । फलद्वैविध्येति ॥ स्वर्गादौ तत्साधकसर्वप्राप्यत्वस्य ज्ञाने च कैश्चिदेव प्राप्यत्वस्य दर्शनादिति भावः । अयोग्यताख्यविशिष्ट-कारणात् तज्ज्ञानिष्वपि केषाञ्चिन्मोक्षो न भवतीति नियत इति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– नियम इति पूर्वपक्ष इति ॥ यथोपसंहार इति भाष्यानुसारेणाह– यथा खल्विति ॥ साधकेति ॥ साधकशब्देनात्रोक्तश्रुत्यनुमानवज्ज्ञानिनां मोक्षं ददात्येवेश्वरः स्वभावादिति न्यायविवरणोक्ता युक्तिरपि ग्राह्या ॥ कस्यापीति ॥ अनेनायोग्यानां ज्ञानस्यैवानुपपत्तेरिति न्यायविवरणमुक्ततात्पर्यम् ।
भावदीपः
मोक्षानियमेति ॥ पूर्वत्र फलरूपस्य कर्मणोऽनियमोक्तौ फलरूपमुक्तेरपि पुम्भेदेन केषाञ्चिदस्ति केषाञ्चिन्नेत्यनियमः स्यात् । उपसंहारे तथा दर्शनादिति शङ्कायां सर्वेषामपीत्य-नियमसाधनादित्यर्थः । तेन पूर्वसङ्गतिरपि सिद्धा ज्ञेया । भाष्ये प्राप्तज्ञानानामित्युक्तेरुत्पन्नज्ञाना-नामित्युक्तम् । तर्हि ज्ञानपादे निवेशः स्यादित्यत पूर्वांशः । तावत्येवोक्ते सर्वथापि तु त एवेति वक्ष्यमाणविरोधादुत्पन्नज्ञानानामित्यप्युक्तिः ॥ प्रकृत इति ॥ हानौ त्वित्यादिनेति भावः ॥ फलेति ॥ फलरूपोपासने नियमः फलरूपे कर्मण्यस्तित्वनास्तित्वरूपोऽनियम इति नियमानियम-रूपद्वैविध्यदर्शनमित्यर्थः । भोजनात्तृप्तिफलं सर्वप्राप्यम् । ज्योतिष्टोमादिफलं तु तत्कारियोग्यायोग्य-साधारणसर्वाप्राप्यं दृष्टमिति द्वैविध्यदर्शनमिति वार्थः । केषाञ्चिन्नेत्यन्तप्रतिज्ञाभाष्यार्थमाह ॥ नियम इतीति ॥ अत एव पूर्वत्र सन्देहे उत नियम इति वाच्ये तद्विवरणेन केषाञ्चिदित्यादिना नियमकोटिरुक्ता । कुत इत्यतोऽयोग्यतारूपविशेषकारणादित्यन्यत्रोक्तहेतुमाह ॥ ज्ञानिष्वपीति ॥ तृतीयस्कन्धे कामं भवेम वृजिनैर्निरयेषु नष्टाश्चेतोऽलिवद्यर्हि ते पदयो रमेत इत्यादिकुमारोक्तेरिति भावः । यथेत्यादिभाष्यार्थमाह ॥ यथा खल्विति ॥ इति नियम इति ॥ प्राप्तेश्चेत्यत्र तथैवोक्तेरिति भावः । फलोक्त्योपसंहरति ॥ अत इति ॥ केषाञ्चिन्मुक्त्ययोग्यत्वसम्भवादित्यर्थः । प्राग्विवृतमेव भाष्यार्थमनुवदति ॥ प्राप्तेति ॥ यथेत्यादिभाष्यस्थोपसंहारपदमुपसंहारपूर्वकोपासनपरं सर्वे गुणा इति श्रुत्यनुरोधादिति भावेनोपासनवदित्युक्तम् । भाष्ये नेत्यनन्तरम् इति नियम इति शेषं मत्वोक्तम् ॥ नियम इति ॥ भाष्यार्थं पर्यवसानगत्या सूत्रारूढं करोति ॥ किन्त्विति ॥ सर्वेषा-मित्यस्यार्थविवरणं प्राप्तेति ॥ अनियमशब्दार्थोऽस्ति मोक्ष इति । गतेरनियम इति गतिपदानुवृत्ति-रिति भावः । सर्व इत्यादिभाष्यभावमाह ॥ उपसंहार इति ॥ नान्यैरिति निषेधेनेत्यर्थः ॥ अत्र पुनरिति ॥ सर्वज्ञानिनां मोक्षोऽस्तीत्यत्रेत्यर्थः । यथेत्यादिना लब्धमनुमानं व्यनक्ति ॥ विप्रतिपन्ना इति ॥ अनुमानस्य पश्चादुक्तेरुपयोगं व्यावर्त्यपूर्वमाह ॥ न चैतदिति ॥ विप्रतिपन्नाः सर्वोपसंहारवन्त उपासकत्वात्सम्प्रतिपन्नवदित्यनुमानं यथा नान्यैरित्यादिश्रुतिविरुद्धं निर्मूलं च तथेदमिति न वाच्यमित्यर्थः । बाधकाभावसाधकयोरप्युक्तेरुपयोगं व्यावर्त्यपूर्वमाह ॥ न चेति ॥ मोक्षायोग्यताभावावगमादिति ॥ भागवतवाक्यं तु भक्तेरेवात्यपेक्षणीयत्वपरमिति भावः । फलोक्त्या सूत्रार्थमुपसंहरति ॥ अत इति ॥ बाधकाभावसाधकयोर्भावादित्यर्थः ।
अभिनवचन्द्रिका
मुक्त्ययोग्यत्वसम्भवादिति ॥ ज्ञानिष्वपि स्वोत्तमद्रोहेण, तच्छापेन वा, मुक्त्ययोग्यत्व-स्योत्पादादित्यर्थः । एतेन अयोग्यत्वसम्भवादित्युक्त्यैव तन्निश्चयाऽभावप्राप्त्या संदिग्धासिद्धेन हेतुना नियमसाधनमयुक्तमिति परास्तम् ।
पूर्वपक्षस्तु– न सर्वेषां ज्ञानिनां मोक्षः । केषाञ्चिज्ज्ञानिनां स्वोत्तमद्रोहशापाभ्या-मयोग्यतोत्पादात् । न ह्ययोग्यानां तत्प्राप्तिः सम्भवति । तथा सति अयोग्यानामपि सर्वगुणोपसंहारप्रसङ्गात् । अतः सर्वेषां ज्ञानिनां मोक्षाऽभावान् न निःशङ्कतयोपासनं कर्तव्यमिति ।
सिद्धान्तस्तु– अस्त्येव सर्वेषां ज्ञानिनां मोक्षः । तथा हि– केषाञ्चिदेव मोक्षो, न सर्वेषामितिवदन्प्रष्टव्यः, किं बाधकसद्भावान् न सर्वेषां मोक्ष इत्युच्यते, उत साधकाभावात् । नाद्यस् तदभावात् । न चाऽयोग्यतोत्पादको बाधकः ‘ये ज्ञानविषयाः शापा मुक्तिगाश्चाधिकारिणाम् । कादाचित्कास्ते भवन्ति नैव ते सार्वकालिकाः’ । इति वचनविरोधेन, योग्यतोत्पादानङ्गीकारात् । न द्वितीयः ‘न कश्चिद्ब्रह्मवित्सृतिमनुभवति मुक्तो ह्येव भवति’ इति श्रुतेः, विप्रतिपन्ना ज्ञानिनो मोक्षवन्तो ज्ञानित्वात्संप्रतीपन्नवदित्यनुमानाच्च । न चोपसंहारानुमानसमानयोगक्षेममिदमनुमानमिति वाच्यम् बाधकाभावात्, श्रुतिमूलत्वाच्च । अतो ज्ञानिनां मोक्षस्याऽनियतत्वान् निःशङ्कमुपासनं कर्तव्यमिति सिद्धम् ।
वाक्यार्थमुक्तावली
नन्वज्ञानिनां मोक्षनियमसाधनस्य ज्ञानमाहात्म्यवर्णनरूपत्वेन चतुर्थपादान्तर्भावः स्यान्न त्वत्रेत्यत आह ॥ अन्यथेति ॥ ज्ञानमाहात्म्यस्याप्यत्रावर्णने ज्ञानसाधनीभूतोपासने निश्शङ्क-प्रवृत्त्यभावप्रसङ्गात् । तथा च कर्मापेक्षयोपासनस्याधिक्येन कर्तव्यत्वासिद्धेः पूर्वाधिकरणफला-क्षेपादत्र समर्थनीयमेतदित्यनन्तरसङ्गतिरिति भावः । यद्वा मुक्तानां साधनविशेषकर्मानियमवत् साधनविशेषवतां फलानियम इति शङ्कानिरासादनन्तरसङ्गतिः ॥ किमिति ॥ मोक्षोऽस्यैव ज्ञानिनो नान्यस्येति नियमेन कैश्चिदेव प्राप्य उतोक्तनियममपहाय सर्वज्ञानिप्राप्य इति चिन्ता । तदर्थमुपासकेषु मध्ये केषाञ्चिदुपसंहारायोग्यत्वाज् ज्ञानिष्वपि मुक्तत्वं केषाञ्चिदस्ति न वेति ॥ फलद्वैविध्येति ॥ स्वर्गादेरामुष्मिकस्य तत्साधकसर्वप्राप्यत्वाभावस्यैहिकस्य तत्साधकसर्वप्राप्य-त्वस्य च दर्शनमित्यर्थः । तमोयोग्यानामामुष्मिकप्राप्तिनिषेधात् प्राप्तज्ञानानामपीत्यणुभाष्यानुसारेण पूर्वपक्षयति ॥ नियम इति ॥ पूर्वः पक्ष इति ॥ प्राप्तज्ञानानामपि केषांचिन्नेति मुक्तौ पुरुषनियम इत्यर्थः । कुत इत्यतस्तद्धेतुत्वेन प्राप्तसाधनानामपि केषाञ्चिन्मुक्तियोग्यानामेव मुक्तिः केषाञ्चि-न्मुक्त्ययोग्यानां न मुक्तिरिति भाष्य एवोक्तम् । विशिष्टकारणमित्युक्तन्यायमयोग्यताख्यविशिष्ट-कारणादिति न्यायविवरणानुसारेण विवृणोति ॥ ज्ञानिष्वपीति ॥ यथोपसंहारनियम इत्युत्तर-भाष्यानुसारेणाह ॥ यथा खल्विति ॥
सूत्रे गतिरित्यनुवर्तते । किन्त्वित्यध्याहारः । गतिरिति च विपरिणम्यते । भाष्येऽपि न मन्तव्यमित्यतः किन्तु सर्वेषामित्यध्याहारः । अविरोधादित्यस्य निषेधाभावादित्यर्थ इति भावेन व्याचष्टे । प्राप्तज्ञानानामित्यादिना ॥ साधकाभावादिति ॥ प्रमेयस्य प्रमाणाधीनत्वादनियमे तदभावेऽपि नियम एवेत्यतः श्रुत्यनुमाने दर्शयन् सूत्रखण्डं व्याचष्ट इत्यर्थः । एवं बाधका-भावश्रुत्योर्विवक्षितार्थे स्वतन्त्रहेतुत्वमिति व्याख्यायानुमानोपोद्बलकत्वमपीति भावेन तद्व्यावर्त्यमाह ॥ न चैतदुपसंहार इति ॥ विप्रतिपन्ना उपासनोपसंहारनियतिमन्त उपासकत्वाच्चतुर्मुखव-दित्युपसंहारानुमानेत्यर्थः । अयोग्यताख्यविशिष्टकारणमित्युक्तन्यायबाधस्य विद्यमानत्वादविरोधोऽ-सिद्ध इत्याशङ्क्य नियमेन मोक्षेऽयोग्यताख्यविशिष्टकारणलक्षणबाधकसद्भावान्नियम इति न मन्तव्यम् । सर्वेषामपि ज्ञानिनां मोक्षयोग्यताङ्गीकारेऽविरोधात् । बाधकाभावात् श्रुत्यनुमानलक्षण-साधकसद्भावाच्च । तथा च योग्यताख्यविशिष्टकारणस्यैवाभावात्सर्वेषां मोक्षेन तद्विरोध इति भावेन सूत्रभाष्ये प्रकारान्तरेण व्याचष्टे । न च केषाञ्चिदित्यादिना ॥ साधकेति ॥ साधकशब्देन श्रुत्यनुमानयोर्ग्रहणाच्छ्रुतौ न कश्चिद् ब्रह्मवित्सृतिमनुभवति तस्मादाहुः सृतिहेती’ इति ब्रह्मज्ञानस्य संसारविरोधिहेतुत्वोक्त्या ब्रह्मणश्च छेदकस्वभावता न किन्तु स्वभाव इत्युक्तसिद्धान्तन्यायोऽपि दर्शितो भवति । तदुक्तं न्यायविवरणे । ज्ञानिनां मोक्षं ददात्येवेश्वरः स्वभावादिति ॥ उक्तं च ‘ज्ञानासिमादाय तरति पारम्’इत्यादौ ।
तत्त्वसुबोधिनी
मोक्षानियमेति ॥ पूर्वाधिकरणे मुक्तानाम् अवश्यं कर्मानुष्ठेयमिति नियमाभावहेतुत्वेनोक्तस्या-विरोधस्यैवात्र केषाञ्चिदेव ज्ञानिनां मोक्षो नान्येषामिति नियमाभावेऽपि हेतूकरणादनन्तरसङ्गतिरिति भावः ॥ अन्यथेति ॥ नियमासाधनेत्यर्थः ॥ फलद्वैविध्येति ॥ स्वर्गादौ तत्साधकसर्वप्राप्यत्वस्य ज्ञाने च कैश्चिदेव प्राप्यत्वस्य दर्शनादिति भावः । ननु सर्वे ज्ञानिनः सर्वगुणानुपसंहरन्ति ज्ञानित्वाच् चतुर्मुखादिवद् इत्युपसंहारसाधकानुमानयोगक्षेममेतदित्याशङ्क्य निषेधति । न चेति ॥
वाक्यार्थविवरणम्
अन्यथेति ॥ मोक्षाख्यफलनियमाभावादित्यर्थः ॥ अनियमेनेति ॥ कैश्चिज्ज्ञानिभिः प्राप्यः कैश्चिज्ज्ञानिभिरप्राप्य इत्येवं नियमं विनेत्यर्थः । अस्ति मोक्ष इति वर्तते ॥ नियम इति ॥ ज्ञानिष्वपि केषाञ्चिदेव योग्यानां ज्ञानिनां मोक्षो भवति । केषाञ्चिदयोग्यानां नैव भवतीत्येवं रूपो नियम इत्यर्थः । प्राप्तज्ञानानामपि मध्ये ॥ अत्र पुनस्तदभावेनेति ॥ ज्ञानिनां सर्वेषां मोक्षोक्तौ निषेधाभावेनेत्यर्थः । तथा च सर्वेषां प्राप्तज्ञानानामनियमः । न चोपासनवन्नियम इति वाच्यम् । अविरोधात् । सर्वेषामनियमेनोपसंहारपूर्वकोपासने निषेधप्रमाणरूपविरोधवदत्र तदभावादिति सूत्रार्थः ॥ साधकेति ॥ सर्वेषां ज्ञानिनां मोक्षानियमसाधकेत्यर्थः । भाष्ये सृतिं हन्तीति सृतिहा इत्याहुरित्यर्थः ॥ एतत् ॥ ज्ञानिनां नियमेन मोक्षसाधकानुमानम् ॥ उपसंहारानुमानेति ॥ विप्रतिपन्नाः सर्वेऽप्युपासका गुणोपसंहारवन्त उपासकत्वात् सम्प्रतिपन्नवदित्यनुमानेत्यर्थः ॥ बाधकेत्यादि ॥ ज्ञानिनां मोक्षानियमसाधकानुमानस्येत्यर्थः ॥ श्रुतिमूलत्वाच्चेति ॥ ‘न कश्चित्’ इति श्रुतिमूलकत्वादित्यर्थः । उपसंहारानुमानं तु न श्रुतिमूलकं प्रत्युत ‘सर्वे गुणा ब्रह्मणैव’ इति श्रुतिबाधितं चेति भावः ॥ साधकेति ॥ ज्ञानिनां मध्ये कस्यापि मोक्षायोग्यताया अभावे ‘न कश्चित्’ इति श्रुत्यादिरूपसाधकप्रमाणभावाद् बाधकप्रमाणस्याभावाच्च योग्यता योग्यताभावावगम इत्यर्थः ।
वाक्यार्थमञ्जरी
अनियमसाधनादिति ॥ केषाञ्चिदस्ति केषाञ्चिन्नास्तीति व्यवस्थाभावसाधनादित्यर्थः ॥ फल-द्वैविध्येति ॥ स्वर्गादौ तत्साधकसर्वप्राप्यत्वस्य ज्ञाने च कैश्चिदेव प्राप्यत्वस्य च दर्शनादिति भावः ।
ॐ अनियमः सर्वेषामविरोधाच्छब्दानुमानाभ्याम् ॐ ॥ सर्वेषां ज्ञानिनां मोक्षेऽनियम उक्तव्यवस्था नास्ति कुतो ऽविरोधाद् अनियमाङ्गीकारे विरोधाभावात् । प्रत्युत न कश्चिदिति श्रुत्या ज्ञानित्वानुमानाभ्यामनियमस्य सिद्धत्वादित्यर्थः ॥ उपसंहारानुमानेति ॥ विप्रतिपन्नाः सार्वत्रिकगुणोपसंहारिणो मोक्षाधिकारित्वाद्ब्रह्मवदित्याभासानुमानेन न तुल्यमित्यर्थः ॥ बाधकेति ॥ साधकबाधकभावाभाववदित्यर्थः ॥ साधकेति ॥ श्रुत्यादिरूपेत्यर्थः ॥
॥ इति अनियमाधिकरणम् ॥ १९ ॥