१८ छन्दाधिकरणम्

ॐ छन्दत उभयाविरोधात् ॐ

१८. छन्दाधिकरणम्

सूत्रभाष्यं

कर्मापि कुर्वन्ति न वेत्यत आह —

॥ ॐ छन्दत उभयाविरोधात् ॐ ॥ २९ ॥

स्वेच्छया कुर्वन्ति न वा । बन्धप्रत्यवाययोरभावात् ।

तत्त्वप्रदीपिका

उपासनं स्वेच्छया कुर्वन्त्येवेत्युक्तम् । कर्मापि कुर्वन्ति न वेत्यधुना निरूप्यते । कर्मापि कुर्वन्त्येव पूर्वोक्तन्यायेनेत्याकाङ्क्षायां कुर्वन्ति न वेत्याह ॥ छन्दत उभयाविरोधात् ॥ स्वेच्छया कुर्वन्ति न वा कुर्वन्ति । करणे बन्धाभावात् । अकरणे प्रत्यवायाभावात् ।

तत्त्वप्रकाशिका

अत्र मुक्तानां भगवत्कर्मणि नियमाभावसाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथा कर्मोपासनयोर्नियमे नोपासनस्य प्रागाधिक्यं सिध्येदतोऽसौ वारणीयः । प्रासङ्गिकत्वा-न्नाध्यायादिसङ्गतिः । विषयसंशयौ दर्शयति ॥ कर्मेति ॥ प्रकृता मुक्ता एव विषयः । किमुपासनावन्नियमेन कर्म कुर्वन्ति न वेति सन्देहः । उभयथाऽपि विरोधादर्शनं सन्देहबीजमिति भावः । नियमेन कर्म कुर्वन्तीति पूर्वः पक्षः । कर्मणोऽपि भगवत्पूजारूपत्वात् । तेषां च कर्मकरण-शक्तेः सद्भावात् । शक्तिसद्भावेऽपि भगवत्पूजात्मककर्मनियमाभावश्चेदुपासनेऽप्यनियमः स्याद-विशेषात् । अतो मुक्तानां कर्मोपासनयोः साम्यात्प्रागपि न कर्मणोऽतिशयेनोपासनं कार्यमिति ॥ सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ आहेति ॥ न मुक्तानां कर्मणि नियमः । कर्मकरणशक्तावपि स्वेच्छानुसारेण कदाचित्कर्म कुर्वन्ति कदाचिन्न कुर्वन्ति । कुतः । अवश्यकरणे विधिबन्धाभावात् । अकरणे च प्रत्यवायाभावादिति भावः ।

भावबोधः

भगवत्कर्मणि नियमाभावसाधनादिति ॥ पूर्वाधिकरणे कैमुत्येन मुक्तस्योपासनासाधनाय तस्य कर्माप्यस्तीत्युक्ते तर्हि उपासनाकर्मणोरुभयोरपि भगवत्पूजात्मकत्वाविशेषात्, करणे साम्यं स्यादिति शङ्कोदये तन्निरासोऽत्र क्रियत इत्यनन्तरसङ्गतिरिति भावः ॥ किमित्यादि ॥ अत्र मुक्ताः किं नियमेन कर्म कुर्वन्ति उत नेति चिन्ता । तदर्थं मुक्तानां कर्मकरणनियमः सम्भवत्युत न सम्भवतीति । तदर्थं मुक्तानां विधिबन्धप्रत्यवायाभावो नास्त्युतास्तीति । तदर्थं विधिबन्धप्रत्यवायत्वे मुक्तेः पुरुषार्थत्वमुपपन्नम् उतानुपपन्नमिति । तथा सम्भावकमात्रेणार्थनिश्चयायोगेन कर्मकरणानियमे निश्चायकं प्रमाणं नास्त्युतास्तीति । तदर्थमुपासनानियमवत् कर्मकरणनियमे विशेषहेतुरस्त्युत नास्तीति । कर्मकरणशक्तेरप्यदूरत्वात्तत्संश्रयनियम इति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– नियमेनेत्यादिना ॥ अनेन तत्संश्रयनियमो नित्यशः कर्मकरणसंश्रयनियम इति व्याख्यातो भवति । न्यायविवरणोक्तस्य शक्तिसद्भावमात्रस्य न कर्मकरणसाधकत्वमिति प्रसङ्गादित्यत उक्तं कर्मणोऽपीति ॥

भावदीपः

नियमाभावसाधनादिति ॥ पूर्वोक्तन्यायेनोपासनवन्नियमशङ्कायां तद्वैषम्योक्त्या नियमाभाव-साधनादित्यर्थः । तेन पूर्वसिद्धान्तन्यायेनेह पूर्वपक्षोत्थानादापवादिक्यवान्तरसङ्गतिरपि सूचिता । फलमाह ॥ अन्यथेति ॥ नोपासनस्येति पदच्छेदः ॥ प्रागिति ॥ मुक्तेः प्राक्संसारदशायामित्यर्थः ॥ प्रासङ्गिकत्वादिति ॥ मुक्त्यर्थोपासनस्य मुक्तावप्यनुवृत्त्युक्तौ मुक्त्यर्थकर्मणोऽपि तथात्वस्य बुद्धिस्थत्वादिति भावः ॥ नाध्यायादीति ॥ अत एव प्राक् भगवत्कर्मणीति शास्त्रसङ्गतिमात्र-व्युत्पादनं कृतमिति भावः । एतच्च मुखतो व्युत्पादनमपेक्ष्योक्तम् । फलतस्तु प्रकृतस्य ज्ञानसाधनो-पासनस्य प्रागाधिक्यसिध्यर्थत्त्वादध्यायपादयोरप्यस्त्यन्तर्भाव इति ध्येयम् । एतेन मुक्तप्रकृतिचिन्ता-रूपत्वाच्चतुर्थेऽस्य निवेशः स्यादिति निरस्तम् । भोक्त्रापत्तेरित्यस्येव फलतोऽत्र निवेशोपपत्तेरिति । भाष्ये पूर्वभाष्यान्मुक्तपदमनुवर्त्याह ॥ प्रकृता मुक्ता इति ॥ अपिपदार्थं व्यनक्ति ॥ उपासनावदिति ॥ विरोधेति ॥ विधिबन्धप्रत्यवाययोरदर्शनमित्यर्थः । कर्मकरणशक्तेरप्यदूरत्वात्तत्संश्रयनियम इत्यन्यत्रोक्तपूर्वपक्षं भाष्यशेषतया योजयंस्तत्संश्रयनियम इति प्रतिज्ञार्थमाह ॥ नियमेनेति ॥ कृष्णो मुक्तैरिति पूर्वभाष्यलब्धं हेतुमाह ॥ कर्मणोऽपीति ॥ नन्वर्थी समर्थो विद्वानधिक्रियत इति न्यायान्मुक्तानां सिद्धार्थत्वेनार्थित्वाभावेऽपि सिद्धवैदुष्याणां कुशाच्छन्दस्तुत्युपगानेश्वरक्रियादिव-त्स्वेच्छयोपासनावत्कर्मकृतिसम्भवेऽपि सामर्थ्येन भाव्यमित्यतो न्यायविवरणोक्तहेतुमाह ॥ तेषां चेति ॥ प्राक्तन्याः स्वरूपशक्तेर् मुक्तावलोपादिति भावः । कर्मकरणशक्तेरपीत्यपिपदभावमाह ॥ शक्तीति ॥ एतेन प्रागुक्तहेत्वोरप्रयोजकत्वमुद्ध्रतम् । फलोक्त्योपसंहरति ॥ अत इति ॥ उपासन इवेश्वरपूजारूपकर्मकरणेऽपि शक्तिसद्भावादिति भावः ॥ भाष्यं पूर्वपक्षनिषेधपरतया व्याचष्टे ॥ न मुक्तानामिति ॥ बन्धेत्यादिभाष्यं व्याचष्टे ॥ कुत इत्यादिना ॥ ननु विधिबन्धयोरभावे तूष्णीमवस्थानमेव कुतो नेति चोद्यं भगवत्पूजारूपत्वादिति प्रागेव प्रत्युक्तमिति भावः ।

अभिनवचन्द्रिका

उभयथाऽपि विरोधादर्शनमिति ॥ पक्षद्वये बाधकादर्शनमित्यर्थः ॥ अवश्यकरण इति ॥ नियमेनाऽनुष्ठानप्रयोजकविधिबोध्यफलापेक्षाभावादित्यर्थः । ननु फलापेक्षाभावेऽपि अकरणप्रयुक्त-प्रत्यवायपरिहारार्थं नियमेनाऽनुष्ठानमित्यत आह– अकरण इति ॥

वाक्यार्थमुक्तावली

भगवत्कर्मणीति ॥ कृष्णो मुक्तैरिज्यते । सोमेनानन्दं जनयन्नित्यादिस्मृतिश्रुत्यर्थमीमांसाया अत्र करणात् शास्त्रसङ्गतिरित्यर्थः । अन्यथेत्यस्य विवरणं कर्मोपासनयोर्नियम इति । पूर्वाधिकरणे कैमुत्येनोक्तस्योपासनासाधनाय तस्य कर्माप्यस्तीत्युक्ते तर्ह्युपासनाकर्मणोरुभयोरपि भगव-त्पूजात्मकत्वाविशेषात् करणे साम्यं स्यादिति शङ्कोदये तन्निरासोऽत्र क्रियत इत्यनन्तरसङ्गतिरिति भावः ॥ प्रासङ्गिकत्वादिति ॥ कैमुत्यन्यायोपपादनाय मुक्तकर्मणि पूर्वाधिकरणे प्रसक्ते किं नियमेन कुर्वन्तीति स्मारितस्यानुपेक्षयात्र विचारादिति भावः । ननु मुक्तोपासनस्य साधनत्वाभावेऽपि तद्विचारस्य प्रागतिशयेनोपासनस्य कर्तव्यत्वोपपादकत्वेन साधनाध्यायसङ्गतिवन् मुक्तौ क्रियमाण-कर्मविचारस्य मुक्तिसाधनविचाररूपत्वाभावेऽपि कर्मापेक्षयोपासनस्य प्रागतिशयेन कर्तव्यत्वोपपाद-कत्वेनाध्यायादिसङ्गतिरस्त्विति चेन्न । कर्मणः पूर्वाधिकरणविचार्योपासनवदेतदध्यायविचार्य-साधनचतुष्टयजातीयत्वाभावेन अनन्तर्भावात् । केवलं स्मृतस्योपेक्षायां प्रागतिशयेनोपासनस्य कर्तव्यत्वासिद्धेरुपेक्षणानर्हत्वमात्रेण तद्विचारादिति भावः ॥ किमित्यादि ॥ मुक्ता नियमेन कर्म कुर्वन्ति न वेति चिन्ता । तदर्थं कर्मणो भगवत्पूजारूपत्वान् मुक्तानां तत्करणशक्तिसद्भावा-च्चोपासनादविशेष उत विशेषोऽस्तीति । सिद्धान्ते विधिबन्धप्रत्यवायाभावेन कर्मकरणशक्तेर-प्रयोजकत्वेन कर्मणि नियमाभावोक्त्या सूचितमदूरसंशय इत्युक्तन्यायं कर्मकरणशक्तेरदूरत्वात्संशय इति न्यायविवरणानुसारेण विशदयति । नियमेनेत्यादिना ॥ भगवत्पूजेति ॥ भगवत्पूजायाश्च भगवल्लालसैस्त्यक्तुमयोगादिति भावः । नित्यज्ञानस्वरूपत्वादिति भाष्ये विशेषोक्त्या तद्व्यावर्त्य-मुपासनाविशेषमाह ॥ शक्तीति ॥ तुशब्देन सूचितं कर्म चात्रान्वेति । तथा च हानौ मुक्तौ कर्म छन्दत इच्छाधीनं कदाचित्कुर्वन्ति । कदाचिन्नित्यं नियतमिति यावत् । कुत उभयथा करणेऽकरणे चोभयाविरोधाद् बन्धप्रत्यवायलक्षणोभयबाधकाभावादिति सूत्रार्थं स्पष्टयति ॥ न मुक्तानामिति ॥

तत्त्वसुबोधिनी

भगवत्कर्मणीति ॥ पूर्वाधिकरणे कैमुत्येन मुक्तस्य उपासनासाधनाय तस्य कर्माप्यस्तीत्युक्ते तर्हि उपासनाकर्मणो उभयोरपि भगवतः पूजात्मकत्वाविशेषात् करणे साम्यं स्यादिति शङ्कोदयेन तन्निरासोऽत्र क्रियते इत्यनन्तरसङ्गतिरिति भावः । ननु उपासनापादे कर्मणि नियमा-भावसाधनमसङ्गतम् इत्यत आह ॥ प्रासङ्गिकत्वादिति ॥

वाक्यार्थविवरणम्

भगवत्कर्मणीति ॥ भगवद्विषयकयज्ञादिकर्मविषये ॥ कर्मोपासनयोर्नियम इति ॥ उपासनवत् कर्मणोऽपि नियमेन कर्तव्यत्व इत्यर्थः । प्राङ्मुक्तेरिति शेषः । आधिक्यं कर्मणः सकाशात् । नियमेन कर्म न कुर्वन्तीति वदन् प्रष्टव्यः कर्मणो भगवत्पूजारूपत्वाभावात् तन्न कुर्वन्तीति वा, तत्करणे शक्त्यभावाद्वा । नाद्य इत्याह ॥ कर्मणोऽपीति ॥ न द्वितीय इत्याह ॥ तेषां चेति ॥ अविशेषात् ॥ भगवत्पूजात्मके कर्तव्यत्वाविशेषात् । कर्मणः सकाशात् ॥ कुत इति ॥ नियमेन कुर्वन्तीत्येव किं न स्यादिति भावः । एवं वदन् प्रष्टव्यो ऽवश्यं कर्म कर्तव्यमित्येवं विधि-सद्भावान्नियमेन तस्य कर्तव्यता उत नियमेनाकरणप्रत्यवायसद्भावाद्वेति विकल्पं हृदि निधायोभयं क्रमेण निराह ॥ अवश्येत्यादिना ॥ तथा च उभयाविरोधाद् अवश्याकरणे च विधिबन्ध-प्रत्यवायरूपविरोधाभावादित्यर्थः । उभयेत्यस्य व्याख्या विधिबन्धेत्यादि ।

वाक्यार्थमञ्जरी

प्रासंगिकत्वादिति ॥ मुक्तावुपासनस्य नियमेन कर्तव्यत्वसमर्थने कर्मविषये तत्स्मरणादिति भावः ॥

ॐ छन्दत उभयाविरोधात् ॐ ॥ मोक्षे कर्मकरणं छन्दतः स्वेच्छयैव कुत उभयोर्विधिबन्ध-प्रत्यवाययोर्विरोधाभावादिति भावः ।


ॐ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॐ

सूत्रभाष्यम्

॥ ॐ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॐ ॥ ३० ॥

बन्धप्रत्यवायाभावे हि मोक्षस्यार्थवत्त्वम् । अन्यथा मोक्षत्वमेव न स्यात् ।

‘कदाचित्कर्म कुर्वन्ति कदाचिन्नैव कुर्वते ।

नित्यज्ञानस्वरूपत्वान्नित्यं ध्यायन्ति केशवम् ।

तीर्णतर्तव्यभागा ये प्राप्तानन्दाः परात्मनः ।

प्रत्यवायस्य बन्धस्याप्यभावात्स्वेच्छया भवेत्’इति हि ब्रह्माण्डे ॥

तत्त्वप्रदीपिका

गतेरित्यादिसूत्रम् ॥ करणेन चाकरणेन च स्थितौ सम्भवत्यां हि परमात्मगतिरूपस्य मोक्षस्यार्थवत्त्वम् । तत्सम्भवश्च बन्धप्रत्यवायाभावे । तर्हि किमित्युपासनं सदा कुर्वन्तीत्यत आह– ‘नित्यज्ञानस्वरूपत्वान्नित्यं ध्यायन्ति केशवम्’इति । नित्यभगवद्दृष्टिरूपत्वान्मुक्ता नित्यमुपासते । सभक्तिका भगवद्दृष्टिरूपास्तिर्भवति । पूर्वं चिरतरनिरन्तरोपास्त्या हि भगवन्तमैक्षन्त । पश्चादानन्द-रूपिणी सा स्वत एवानुवर्तते ।

तत्त्वप्रकाशिका

ननु मुक्तानां विधिबन्धप्रत्यवायाभाव एव कुतो येन कर्माऽनियमः स्यादित्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे ॥ गतेरिति ॥ न मुक्तानां विधिबन्धप्रत्यवायौ विद्येते । विधिबन्धप्रत्यवायाभावेनैव मुक्तेः पुरुषार्थत्वात् । अन्यथा संसारसमानधर्मत्वेन मोक्षत्वविरोधादिति भावः । न च वैलक्षण्यान्तरेण मोक्षत्वोपपत्तिः । संसारसद्भावे तद्वैलक्षण्यस्य व्याहतत्वात् । मुक्तानां कर्मण्य-नियमश्चेदुपासनेऽपि तथा स्यादविशेषादित्याशङ्कां परिहर्तुमुक्तार्थे स्मृतिं चाह ॥ कदाचिदिति ॥ विध्याद्यभावेऽप्यनिष्टनिवृत्त्यर्थमानन्दप्राप्त्यर्थं वा कर्मनियमः किं न स्यादित्यत आह ॥ तीर्णेति ॥

गुर्वर्थदीपिका

नित्यज्ञानस्वरूपत्वादित्यत्र नित्यमभिव्यक्तज्ञानस्वरूपत्वात् । ज्ञानाभिव्यक्त्यभावे चेतनत्वमेव न स्यात् । क्रिया तु बहुशः शक्त्यात्मना तिष्ठति । कदाचिद्व्यक्त्यात्मना । ईश्वरसृष्ट्यादिक्रियावत् । अतो ज्ञानरूपेण सन्नेव सदाऽस्ति । न तु क्रियेति भावः । तथा च श्रुतिः ‘ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु । ब्रह्मात्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उत्व’ इति विशेषेण मिमीत इत्युक्त्या ध्यान एव तेषां तात्पर्यं न कर्मणि । ‘अरंहितो भवति वाजिनाय’इति च । मन आदीन्द्रियाणां सुखव्यञ्जकत्वेन परमात्मनो हितत्वात् हितं च न कोऽपि मुञ्चति तेन मनःप्रियं सर्वदा शृृण्वते मन्वते ध्यायन्ति चेति भावः । किञ्चेहापि श्रवणाद्युपासनां विना कर्मकरणे तत्कर्म रक्षसां भागः किल । अतः कर्मणो रक्षकत्वादुपास्तिरेव बलवती । सोपास्तिर्मुक्तावपि कथं न बलवती । तदुक्तं भागवते ‘न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु । कुर्वन्ति सात्वतां पत्युर्यातुधान्यश्च तत्र हि’ ‘मन्त्रतस्तन्त्रतच्छिद्रं देवकालार्हवस्तुतः । सर्वं करोति निश्छिद्रमनुसङ्कीर्तनं तव’इति च ।

भावबोधः

वैलक्षण्यान्तरेणेति ॥ स्वरूपानन्दाविर्भावादिरूपेणेत्यर्थः । स्मृतिं चाहेति । तथा च कर्मोपासनयोर्विशेषसद्भावेनाविशेषाभावात् । आपादकासिद्ध्या तर्कस्याभासत्वेन शक्तिसद्भाव-रूपहेतोरप्रयोजकत्वं स्मृतिबाधश्चेति भावः ।

भावदीपः

प्रागुक्तशङ्कानिवर्तकतया भाष्यं व्याचष्टे ॥ न मुक्तानामिति ॥ एतेनात्र पूर्वस्मादुभया-विरोधपदानुवृत्तिरिति हिर्हेताविति च सूचितम् । हेतोरप्रयोजकत्वनिरासपरभाष्यं व्याचष्टे ॥ अन्यथेति ॥ विध्यादिभाव इत्यर्थः । हेतूच्छित्तिरेव विपक्षे बाधिकेति भावः । बाधकतर्के आपाद्यस्यान्यथोपपत्त्या व्याप्तिवैकल्यमाशङ्कते ॥ न चेति ॥ सुखभोक्तृत्वदुःखाभोक्तृत्वादिनेत्यर्थः ॥ अविशेषादिति ॥ विधिप्रत्यवायशून्यत्वस्येश्वरपूजात्वस्य चोभयत्र तुल्यत्वादित्यर्थः ॥ उक्तार्थे स्मृतिं चाहेति ॥ कर्म कुर्वन्ति न वेत्यर्थेन केवलमुभयाविरोधरूपा युक्तिरस्ति । स्मृतिं चेति चार्थः । स्मृतौ नित्यज्ञानस्वरूपत्वान्नित्यं ध्यायंतीत्यनेनोक्तशङ्कापरिहार इति भावः । सद्भक्तिर्भगवद्दृष्टिरूपोपास्तिर्भवति । ‘पूर्वं चिरंतरनिरन्तरोपास्त्या हि भगवन्तमैक्षन्त पश्चादानन्द-स्वरूपिणी सा स्वत एवानुवर्तते’ इति तत्वप्रदीपोक्तं तात्पर्यं ध्येयम् । उक्तं च न्यायविवरणे । उपासानाख्ये कार्ये नित्यकृतिसंस्कारो न तथा कर्मणीति कार्यवैषम्यादिति ।

अभिनवचन्द्रिका

संसारसमानधर्मत्वेनेति ॥ संसारसमव्याप्तविधिबन्धप्रत्यवायलक्षणधर्मवत्त्वेन मुक्त्यवस्थाया मोक्षत्वं न स्यादित्यर्थः । विधिबन्धप्रत्यवायसमानाधिकरणावस्थायाः संसारत्वनियमेन मोक्षस्य संसारत्वमेव स्यान् न मुक्तित्वमिति भावः । एतेन गोसमानधर्मत्वेऽपि गवयस्य गवयत्ववत्, संसारसमानधर्मत्वेऽपि मोक्षत्वसम्भवात्, ‘मोक्षत्वविरोधात्’ इत्ययुक्तमिति परास्तम् । माभूद्विधि-बन्धप्रत्यवायभावाभावाभ्यां मुक्तिसंसारयोर् वैलक्षण्यं, तथापि मोक्षत्वं नानुपपन्नम् । सदुःखत्व-निर्दुःखत्वाभ्यामेव वैलक्षण्यसद्भावादिति मन्दाशङ्कां निषेधति न चेति ॥ मन्दाशङ्कानिरासाय स्वाभिसन्धिमुद्धाटयति– संसारेति ॥ मोक्षावस्थायाः, विधिबन्धप्रत्यवायसमानाधिकरणावस्थायाः संसारत्वनियमबलेन संसारत्वसिद्धौ संसारवैलक्षण्यं व्याहतमित्यर्थः । एतेन भूतले घटसद्भावेऽपि तद्गतपटस्य तद्वैलक्षण्यवन् मुक्तजीवे संसारसद्भावेऽपि तन्निष्ठमुक्तेः संसारवैलक्षण्यसम्भवाद् वैलक्षण्यस्य व्याहतत्वादित्ययुक्तमिति परास्तम् । संसरारशब्दस्य भावप्रधानत्वात् ॥ उक्तार्थे स्मृतिमाहेति ॥ कर्मोपासनयोर् भगवत्पूजात्मकत्वाऽविशेषेऽपि शक्यत्वेऽपि, उपासनमेव नियमेन कुर्वन्ति न कर्मेत्यभ्युपगन्तव्यं, तथा स्मृतिसिद्धत्वादिति भावः ।

वाक्यार्थमुक्तावली

कुत इति ॥ कुतःप्रमाणादित्यर्थः । उभयथा बन्धप्रत्यवाययोरभावेनैव गतेः परमात्मगतिरूपमोक्षस्यार्थवत्वं पुरुषार्थवत्वम् । अन्यथा बन्धादिसद्भावसंसारगतेरिव गतेः । भावप्रधानमेतत् । गतित्वस्य मोक्षत्वस्य विरोधः । हि यस्मात् तस्मात् पुरुषार्थत्वान्यथानुपपत्त्या गतेरुभयथा बन्धप्रत्यवायाभाववत्वमिति भावेन व्याचष्टे ॥ न मुक्तानामिति ॥ मुक्तेःपुरुषार्थ-त्वादिति ॥ यद्यपि भाष्ये सूत्रे च विधिबन्धप्रयुक्तफलातिशयस्य प्रत्यवायशब्दोक्तफलह्रासस्य चाभावेनैव ब्रह्मगतेः पुरुषार्थत्वमुक्तम् । टीकायां पुरुषार्थवद् गतेः पुरुषार्थत्वविवक्षया मुक्तेः पुरुषार्थत्वादित्युक्तमित्यविरोधः ॥ वैलक्षण्यान्तरेणेति ॥ स्वरूपानन्दाविर्भावरूपेणेत्यर्थः । एतेन भाष्ये मोक्षत्वमेव न स्यादिति सर्वथा मोक्षत्वप्रतिक्षेपकैवकारार्थ उक्तो भवति ॥ इत्याशङ्काया-मिति ॥ कार्यवैशेष्याख्यन्यायेन परिहरन्नित्यर्थः ॥ नित्यज्ञानस्वरूपत्वादिति ॥ भगवद्विषयकत्वेन नित्याभिव्यक्तज्ञानस्वरूपत्वादित्यर्थः । स्वेच्छया भवेदित्यत्र कर्मेति वर्तते ।

तत्त्वसुबोधिनी

वैलक्षण्यान्तरेणेति स्वरूपानन्दाविर्भादिरूपेणेत्यर्थः ॥ स्मृतिं चाहेति ॥ तथा च कर्मो-पासनयोर् विशेषसद्भावेनाविशेषाभावादापादकासिध्या तर्कस्याभासत्वेन शक्तिसद्भावरूपहेतोर् अप्रयोजकत्वं स्मृतिबाधश्चेति भावः ।

वाक्यार्थविवरणम्

अन्यथा ॥ विधिबन्धप्रत्यवाययोः सत्त्वे ॥ वैलक्षण्यान्तरेणेति ॥ संसारसमानधर्मत्वेऽपीति शेषः । विधिबन्धप्रत्यवायभावाभावव्यतिरिक्तेन आनन्दाभिव्यक्तितदभावरूपेण ॥ संसारसद्भावे ॥ बन्धप्रत्यवायसद्भावेन संसारसमानधर्मत्वसद्भावे ॥ तद्वैलक्षण्यस्य ॥ तस्मात् संसारानन्दादि व्यक्त्यव्यक्तिरूपोक्तवैलक्षण्यस्य ।

वाक्यार्थमञ्जरी

न मोक्षे विधिबन्धप्रत्यवायौ कुतः हि यस्माद्गतेर्मोक्षस्यार्थवत्वं पुरुषार्थत्वमुभयथा विधिबन्ध-प्रत्यवायाभावत्वेनैवास्ति तस्माद् अन्यथा तत्रापि विधिबन्धप्रत्यवायसत्वे मोक्षत्वविरोध इत्यर्थः ॥ मोक्षत्वविरोधादिति ॥ संसाररूपप्रतियोगितन्निवृत्तिरूपमोक्षयोर्वैलक्षण्यस्यावश्यकत्वादिति भावः ।