१७ हान्यधिकरणम्

ॐ हानौ तूपायनशब्दशेषत्वात्कुशाछन्दस्तुत्युपगानवत्तदुक्तम् ॐ

१७. हान्यधिकरणम्

सूत्रभाष्यम्

मुक्तस्योपासना कर्तव्या न वेत्यतो ब्रवीति —

॥ ॐ हानौ तूपायनशब्दशेषत्वात्कुशाछन्दस्तुत्युपगानवत्तदुक्तम् ॐ ॥ २७ ॥

नियतस्वाध्यायानन्तरं स्वेच्छया कुशाग्रहणस्तुत्युपगानवदेव मोक्ष उपासनादिः । ‘ब्रह्मविदाप्नोति परम्’ (तै.उ. ३-१०) इति मोक्षवाक्यशेषत्वादितरेषाम् । तच्चोक्तम्— ‘एतत्सामगायन्नास्ते’ (तै.उ. ३-१०) इत्यादि । ब्रह्मतर्के च

‘मुक्ता अपि हि कुर्वन्ति स्वेच्छयोपासनं हरेः ।

नियमानन्तरं विप्राः कुशाद्यैरप्यधीयते’ इति ॥

‘कृष्णो मुक्तैरिज्यते वीतमोहैः’इति च भारते ॥

तत्त्वप्रदीपिका

मुक्तस्योपासना कर्तव्या न वेति निरूप्यते । न कर्तव्येति प्राप्तम् । विध्यभावात् । प्रयोजना-भावाच्च । मोक्षार्थं ह्युपासना । तत्पर्यन्तं च विधेयत्वम् । अतः कुतो मुक्तस्योपासनाप्राप्तिः । कर्तव्यैवेत्यपरः पक्षः । मुक्तस्यापि परतन्त्रत्वात् । तदा तदा विशेषभोगापेक्षयोपास्तिसम्भवादिति । अत आह– हानौ त्वित्यादि सूत्रम् ॥ आसंसारहानेर्विहितत्वात्प्रयोजनाय क्रियते । तद्धानौ मोक्षेतूपासना स्वेच्छया क्रियते न कर्तव्यत्वात् । न हि तत्र विधिः । मोक्षवाक्यशेषत्वा-दुपास्तिविधिवाक्यानां मोक्षमुत्पाद्य कृतार्थत्वात् । तस्य च प्राप्तप्राप्यफलस्य साधनानिच्छुत्वात् । न च परतन्त्रत्वेऽपि तदा तदोपास्त्यधीनो मुक्तभोगः । सङ्कल्पादेवेति वक्ष्यमाणत्वात् । न च न क्रियते । ‘एतत्साम गायन्नस्ते’ ‘ऋचां त्वः पोषमास्ते पुपुष्वान्’इत्यादि श्रुतेः ।

‘मुक्ता अपि हि कुर्वन्ति स्वेच्छयोपासनं हरेः’ इति स्मृतेश्च । उपगानं साम्ना । स्तुतिरन्यैः । कुशाद्यैरित्यादिशब्देन प्राङ्मुखत्वादि ॥

तत्त्वप्रकाशिका

अत्र ब्रह्मज्ञानसाधनोपासनस्य मुक्तावप्यनुवृत्तिसमर्थनादस्ति शास्त्रादिसङ्गतिः । मुक्तावुपासन-सिद्धौ तस्य प्रागतिशयेन कर्तव्यतासिद्धेस्तत्समर्थनीयम् । तत्र विषयसंशयौ दर्शयति ॥ मुक्तस्येति ॥ प्रकृतोपासना विषयः । मुक्तेन क्रियते न वेति सन्देहः । प्राप्तफलत्वं क्रियान्तरश्रुतिश्च सन्देहबीजमिति भावः । मुक्तस्येत्यनेनैव पूर्वपक्षोऽपि सूच्यते । न मुक्तेनोपासना क्रियते । तथा हि । किं मुक्तस्योपासना कर्तव्या न वा । नोभावपि कल्पौ । फलप्राप्तिप्रसङ्गात् । तथा चापूर्णताप्रसक्तेः । आद्ये विधिबद्धत्वेन मुक्तेः संसारसमानधर्मतापत्तेश्च । द्वितीये अविहितत्वादेव करणं च नोपपद्यते । अतः सोपाधिकमेवोपासनमिति भक्तिर्व्यर्थेति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अस्त्येव मोक्षे भगवदुपासना । न च विधिबद्धत्वेन संसारसमानधर्मत्वं मुक्तेः । विनाऽपि विधिं स्वेच्छयोपासनाभ्युपगमात् । न चैवं तत्करणस्यानुपपत्तिः । नियतब्रह्मयज्ञानन्तरमपि कुशैराच्छन्देन स्वेच्छयैव द्विजन्मनां मन्त्रसामाध्ययनादिदर्शनादिति भावः । अस्ति चेदुपासनं मुक्तानां तत्कुतः स्वेच्छया, विधित एव किं न स्यादित्य आह ॥ ब्रह्मेति ॥ न मुक्तस्योपासनं विधिनिबन्धनम् । सर्वोपासनाविधीनां मोक्षवाक्यशेषत्वात् । ब्रह्मज्ञानेन मोक्ष इत्युक्ते तत्कथं भवेदित्यपेक्षायां तादर्थ्येन उपासनाविधयः प्रवृत्ताः । मोक्षसिद्ध्यर्थं प्रवृत्ता विधयः कथं मुक्तविषया भवेयुरिति भावः । भवेदियं चिन्ता यदि मुक्तस्योपासनमेव स्यात्तदेव कुत इत्यत आह ॥ तच्चेति ॥ तच्चोपासनं स्वेच्छयेत्यत्र स्मृतिमाह ॥ ब्रह्मतर्के चेति ॥ किं च मुक्तानां यज्ञादिकर्माप्यास्ति किमुतोपासनमिति भावेनाह ॥ कृष्ण इति ॥

गुर्वर्थदीपिका

क्रियान्तरश्रुतिरित्यस्य ‘जक्षन् क्रीडन्रममाणः’ इत्यादिनोक्तभक्षणादिक्रियान्तरश्रुतिरित्यर्थः । फलप्राप्तिप्रसङ्गादित्यस्योपासनायाः कर्तव्यत्वे तज्जन्यसमीचीनफलप्राप्तिः । अकर्तव्यत्वे निषिद्ध-तत्करणेन मुक्तौ विपरीतफलप्राप्तिरित्यर्थः । अतस्सोपाधिकमेवोपासनमित्यत्र सोपाधिकं यावन्मुक्तिक्रियमाणत्वात्संसारोपाधिकमित्यर्थः ।

भावबोधः

प्रागतिशयेन कर्तव्यतासिद्धेरिति । वेधाद्यर्थभेदादिति योग्यफलकमेवोपासनं कर्तव्यं नायोग्यफलकमित्युक्त्याऽर्थादुपासनस्य सोपाधिकत्वप्राप्तावतिशयेन कर्तव्यत्वाभावाक्षेपोदयेऽत्र तन्निरास इत्यनन्तरसङ्गतिरिति भावः ॥ विषयसंशयौ दर्शयतीति ॥ कर्तव्या न वेत्यस्य क्रियमाणा न वेत्यर्थ इति भावः ॥ मुक्तेनेति ॥ अत्र उपासना किं मुक्तेन न क्रियते उत क्रियत इति चिन्ता । तदर्थमुपासनाफलेन नियतोत न नियतेति । तदर्थमुपासनाविधयः किं मुक्तानप्यधि-कुर्वन्त्युत नेति । तदर्थम् उपासनाविधीनां मोक्षवाक्यमात्रशेषत्वं न सम्भवत्युत सम्भवतीति । तदर्थम् उपासनाविधीनां मोक्षार्थत्वं वदन् तदन्यार्थत्वमप्यस्ति उत मोक्षमात्रार्थत्वमिति । तदर्थं मुक्तानां फलान्तरं नास्त्युतास्तीति । तदर्थं मुक्तानामुपासनाफलाभावे न युक्तोत तदभावेऽपि युक्तेति । मुक्तस्योपासना कर्तव्या विहिता न वा । नोभावपि कल्प्यौ । मुक्तत्वादेवेति मुक्तस्येत्यादि-भाष्यस्यार्थान्तरमभिप्रेत्याह– मुक्तस्येत्यनेनैव इत्यादिना । तमेव पूर्वपक्षं मुक्तावुपासनाभावे फलादिकमपि स्यादिति न्यायविवरणानुसारेण प्रपञ्चयति– तथा हीति ॥ कर्तव्या न वेति ॥ विहिता वा क्रियते, उताविहिता क्रियत इत्यर्थः ॥ फलप्राप्तिप्रसङ्गादिति ॥ कृष्यादेस्तद्विधि-विषयपुरुषानुष्ठितस्येव तद्विध्यविषयपुरुषानुष्ठितस्यापि धान्यादिफलकत्वदर्शनादिति भावः । इष्टापत्तिपरिहाराय गतादिपदार्थमाह– तथा चेति ॥ तत्रत्य ‘आदि’ पदस्यार्थान्तरमाह– आद्य इति ॥ अनेन भाष्ये मुक्तस्येत्यनेनोक्तमुक्तत्वहेतुरपि समर्थितो भवति । अत्र सूत्रे ‘हानौ’ इत्यस्य संसारहानिरूपमोक्षार्थत्वं तदनन्तरमुपासनादिविशेष इत्यभिप्रेत्य सौत्रप्रतिज्ञाभागव्याख्यानरूपं मोक्ष उपासनादीति भाष्यं व्याचष्टे– अस्त्येवेति ॥ अत्र उपासनादीत्यादिपदं कर्मपरं तच्च कैमुत्येन मुक्तावुपासनासाधनार्थम् । अत एव ‘कृष्णो मुक्तैः’ इत्युदाहृतं प्रमाणं तथैवावतारयिष्यतीति ज्ञातव्यम् ॥ स्वेच्छयेति ॥ अनेन भाष्ये स्वेच्छयेत्येतदुपासनादीत्यनेनाऽपि सम्बध्यत इत्युक्तं भवति । अत एव समस्तमपि पृथक्कृत्य व्याख्यातम् । विध्यभावे नियमेनोपसनाकरणानुपपत्तिः । कारणाभावादित्याशङ्कापरिहारः संस्काराख्यकारणसत्त्वादिति न्यायविवरण एवोक्तो ज्ञातव्यः ।

ननु कुशाग्रहणस्यापि नियतस्वाध्याये विहितत्वेनैव कारणात् कथं दृष्टान्तत्वमित्यतो भाष्ये नियतस्वाध्यायानन्तरमित्युक्तमित्याशयेन तद्व्याचष्टे– नियतब्रह्मयज्ञेति ॥ कुशैरिति ॥ कुशग्रहणनेत्यर्थः । अनेन यथाश्रुतसूत्रे विग्रहो दर्शिनः । भाष्ये तु स्वेच्छया कुशग्रहणस्तुत्युप-गानवदिति, आच्छन्दकुशस्तुत्युपगानवदिति सम्बन्धः प्रदर्शित इति ज्ञातव्यम् । स्वेच्छयेति भाष्यानुसारेण विग्रहं सूचयन् सौत्र‘च्छन्द’पदमुपादाय व्याचष्टे– आच्छन्देनेति ॥ सौत्र‘स्तु’शब्दः ‘एवार्थः’ इत्यभिप्रेत्य भाष्ये स्तुत्युपगानवदेव चेति सम्बन्धः प्रदर्शितः । तेनापि विधि-व्यवच्छेदकत्वमेव ध्वनितमित्यभिप्रेत्याह– स्वेच्छयैवेति ॥ स्तुत्युपगानेत्यस्यार्थो ंमन्त्रसामेति ॥ तत्कुत इति ॥ दृष्टान्तमात्रेण मुक्तोपासनस्य विधिनिबन्धनत्वाभावासिद्धेरिति भावः । अत्र उपायनशब्दस्य सामीप्यादिमोक्षार्थत्वम् इतरेषामित्यध्याहार इत्याशयेन मोक्षवाक्यशेषत्वादितरेषामिति व्याख्यातं भाष्ये ।

ननूपासनायाः साक्षान्मोक्षजनकत्वाभावेन कथं तद्विधीनां मोक्षवाक्यशेषत्वमित्यतस् तद्घटयितुं ‘ब्रह्मविदाप्नोति परम्’ इतिवाक्यं चोदाहृतमित्यभिप्रेत्य तद्भाष्यं व्याचष्टे– न मुक्तस्योपासन-मित्यादिना ॥

नन्वत्र मुक्तानामुपासनमेव साध्यते । न तु कर्मापि । असङ्गतत्वात् । तथा च ‘कृष्णो मुक्तैरिज्यते’ इति प्रमाणोदाहरणमसङ्गतमित्याशङ्कापरिहाराय तत्सङ्गतत्वेन व्याख्याति– किञ्चेति ॥

भावदीपः

समर्थनादिति ॥ वैफल्यादिना भावशङ्कायां श्रुतिस्मृतिबलेन संस्काराख्यकारणसत्त्वयुक्त्या च समर्थनादित्यर्थः । तस्य कृत्यमाह ॥ मुक्ताविति ॥ एतेन पूर्वत्रोत्तमाधममध्यमानामुपास्यगुणा निर्णीताः । अधुना तूपासनं सर्वैरवश्यं कर्तव्यमिति कैमुत्यन्यायेनोपपाद्यत इत्यवान्तरसङ्गतिरप्यस्य सूचिता ॥ प्रकृतेति ॥ यदर्थं गुणोपसंहारो निर्णीतः । यस्याश्च समान इति सूत्रे स्वसदृशफल-कत्वमुक्तं सोपासनाविषय इत्यर्थः ॥ क्रियान्तरेति ॥ जक्षन् क्रीडन् इत्यादिक्रियान्तरश्रुतिरित्यर्थः । न चैवं मुक्तस्योपासनाऽस्ति न वेति वा, मुक्तेन क्रियते न वेति वा भाषणं स्यादित्यत आह ॥ मुक्तस्येत्यनेनैवेति ॥ इत्यादिवाक्येनैवेत्यर्थः । भाष्यं चात्यर्थविस्तरमित्युक्तेरिति भावः । भाष्यसूचितप्रतिज्ञामाह ॥ न मुक्तेनेति ॥ कुत इत्यतो हेतुं वक्तुं भाष्यं प्रश्नपरतया व्याचष्टे ॥ किं मुक्तस्येति ॥ विधिबलात्क्रियते विध्यभावेऽपि वा क्रियत इति कोट्योरर्थः । भाष्ये शेषमाह ॥ नोभावपीति ॥ तथा च कोटिद्वयासम्भवान्न मुक्तेनोपासनं क्रियत इत्यर्थः । कुतः कोटिद्वयासम्भवो येन मुक्तस्योपासनं स स्यादित्यतः मुक्तावुपासनाभावे फलादिकमपि स्यादित्यतिप्रसङ्ग इत्यन्यत्रोक्तं हेतुमाह ॥ फलप्राप्तीति ॥ आद्ये विहितस्य फलव्याप्तत्वान्नित्यकर्मणोऽप्यफलत्वाभावात् । द्वितीये प्रयोजनमनुद्दिश्येति न्यायादिति भावः । एतेन विध्युपाधिना वा तदभावेन वा मुक्तस्योपासनाभावे फलं स्यादिति न्यायविवरणवाक्यार्थो दर्शितः । इष्टापत्तिनिरासाय फलादिकमित्यत्रादिपदार्थं व्यनक्ति ॥ तथा चेति ॥ ब्रह्म वेद ब्रह्मैव भवतीत्यादिनोक्तपूर्णत्वव्याघात इत्यर्थः । ‘इत्यतिप्रसङ्गः’ इत्यन्यत्रोक्तातिप्रसङ्गं सौत्रदृष्टान्तभागव्यावर्त्यं क्रमेण व्यनक्ति ॥ आद्य इति ॥ द्वितीय इति च ॥ करणं च नोपपद्यत इति ॥ कृतिरपि न युक्तेत्यर्थः । न केवलमपूर्णतापत्तिरिति चार्थः । तेन भोजनादिवदविहितस्यापि करणं युक्तमिति निरस्तम् । तत्र तृप्तिरूपफलवदिह फलभावेऽपूर्णतापत्तेरुक्तत्वादिति भावः । एवं भाष्यन्यायविवरणवाक्ये संयोज्य पूर्वपक्षयित्वा फलोक्त्योपसंहरति ॥ अत इति ॥ अविहितस्य निष्फलस्य च करणानुपपत्तेर्विधिफलोभयो-पाधिकमेवोपासनमिति भक्तिपादोक्तमाहात्म्यज्ञानपूर्वकस्नेहरूपा भगवद्भक्तिर्व्यर्था । विध्यादि-ज्ञानादेव विहितानुष्ठानसम्भवादित्यर्थः ।

केचित्तु सोपाधिकमित्यस्य फलोपाधिकमित्यर्थ इत्याहुः । अन्ये तु संसारोपाधिकमित्यर्थ इत्याहुः । मोक्ष उपासनादीति प्रतिज्ञांशं व्याचष्टे ॥ अस्त्येवेति ॥ छन्दत इत्याकर्षणाद्वा दृष्टान्तोक्तिलब्धं वा हेतुं व्यावर्त्यपूर्वमाह ॥ न चेति ॥ एतेन स्वेच्छयेत्यस्योपासनादीत्यत्राप्यन्वयः सूचितः । नियतेत्यादिभाष्यं व्यावर्त्यपूर्वं व्यनक्ति ॥ न चैवमिति ॥ स्तुत्युपगानशब्दार्थो मन्त्रसामाध्ययनेति । उपगानसाम्ना स्तुतिरन्यैरिति तत्वप्रदीपे । ब्रह्मविदित्यादिभाष्यं शङ्कानिर्वतक-तयोपयोगं वदन् व्याचष्टे ॥ अस्ति चेदित्यादिना ॥ साध्यमध्याहृत्याह ॥ नेति ॥ तादर्थ्येनेति ॥ ‘आत्मा वा ओ द्रष्टव्यः’ इत्यादिदर्शनानुवादेन श्रोतव्य इत्यादिविधानादिति भावः ॥ ब्रह्मतर्के चेतीति ॥ तत्र कुशाद्यैरित्यादिशब्देन प्राङ्मुखत्वादिग्राह्यमित्युक्तं तत्वप्रदीपे । कृष्ण इत्यादेरसांगत्यं निराह ॥ किं चेति ॥ एतेनोपासनादीति भाष्यस्थादिपदार्थो विवृतः ।

अभिनवचन्द्रिका

हानौ मोक्षे, उप समीपे, अयनं गमनं मोक्ष इति यावत् । तस्य शब्दः ‘ब्रह्मविदाप्नोतिपरम्’ इति वाक्यम्, तच्छेषत्वादुपासनाविधीनाम् । कुशैः कुशग्रहणेन, आछन्देन स्वेच्छया, नियतब्रह्मयज्ञानन्तरं ब्राह्मणैः क्रियमाणस्तुत्त्युपगानवत्, मुक्तकर्तृकमुपासनं मन्तव्यम् । न च मोक्षे उपासनमेव नास्तीति वाच्यम् । यस्मात्, तद् उपासनम्, ‘एतत्सामगायन्नास्ते’ इति मोक्षे उक्तमिति सूत्रार्थः ।

अनुवृत्तिसमर्थनादिति ॥ फलरूपत्वेनानुवृत्तिसमर्थनादित्यर्थः ॥ प्रागतिशयेनेति ॥ ज्ञानसाधनत्वमात्रेण कर्तव्यत्वसिद्धावपि तस्य फलरूपत्वानुसन्धानपूर्वकम् अतिबहुमानेन कर्तव्यत्वाऽ- सिद्धेरित्यर्थः । एतेन उपासनस्य ज्ञानाभ्यर्हितसाधनत्वेनाऽतिशयेन कर्तव्यतासिद्धिसम्भवात् तदर्थं मुक्तावनुवृत्तिसाधनं व्यर्थम् । किञ्च मुक्तावनुवृत्तिरपि अतिशयेन कर्तव्यतासिद्धिं प्रति अप्रयोजकत्वाद् असमर्थनीयेति परास्तम् । तत्समर्थनस्य बहुमानातिशयजननार्थत्वात् । अनपरोक्षिणामपरोक्ष-ज्ञानसाधनमप्युपासनम् अपरोक्षिणाऽनुष्ठितमानन्दातिशयहेतुर्भवति । मुक्तेनाऽनुष्ठीयमानं तु तस्याऽऽनन्दरूपमेव भवतीत्यादिरूपमहिमवर्णने बहुमानातिशयोत्पादात् । हेतुं वक्तुं पृच्छति किं मुक्तस्येति ॥ विहिता न वेत्यर्थः ॥ नोभावपीति ॥ उभावपि कल्पौ न तवाऽनुकूलावित्यर्थः । कल्पद्वये बाधकमाह फलप्राप्तिप्रसङ्गादिति ॥ प्राप्तव्यफलत्वप्रसङ्गादित्यर्थः । प्राप्तव्याभावे विध्यसम्भवाद् आद्ये प्राप्तव्यफलत्वप्रसङ्गः । द्वितीयेऽपि प्रेक्षावतः प्राप्तव्याभावे प्रवृत्त्ययोगात् । प्राप्तव्यफलत्वप्रसङ्गो दुर्वार इति भावः । इष्टापत्तिवारणायाह तथा चेति ॥ मुक्तस्य प्राप्तव्य-सद्भावेऽपूर्णत्वं स्यादिति भावः । आद्ये बाधकान्तरं चाऽस्तीत्याह आद्य इति ॥ ‘नोभावपि’ इति पूर्वेण सम्बन्धः । कल्पद्वयेऽपि अपूर्णत्वलक्षणबाधकसद्भावात्, आद्ये मुक्तेः संसारत्वापत्ति-रूपबाधकान्तरसद्भावाच्च, नोभावपि कल्पौ तवानुकूलाविति भावः ।

ननु द्वितीयपक्षो ममाऽनुकूलः । न चापूर्णत्वप्रसङ्गः । प्राप्तव्यफलानङ्गीकारात् । न च प्रवृत्त्यनुपपत्तिर् विष्टिगृहीतवत् कस्यचिद्भयादेव प्रवृत्त्युपपत्तेरित्यत आह द्वितीय इति ॥ चशब्द एवार्थे । द्वितीयपक्षे केनचित्पुरुषेण विपक्षे दण्डप्रदर्शनपूर्वकम्, अविहितत्वादेव ‘उपासनं कर्तव्यम्’ इत्यनुक्तत्वादेव करणमेव नोपपद्यत इत्यर्थः । इदमुक्तं भवति । आद्ये कल्पे सिद्धान्तिनः मुक्ते-नोपासना क्रियत इति साधनाय प्रवृत्तिरुपपद्यते । परस्तु बाधकवशान्न सिध्यति । द्वितीये तु उपासनासाधनाय प्रवृत्तिरेव नोपपद्यते असम्भावितत्वात्, सम्भावितस्यैव साधनार्हत्वात् । ततश्च द्वितीयोऽपि न तवाऽनुकूल इति । एतेन अविहितस्यापि लोके फलाय करणदर्शनात् ‘अविहितत्वादेव करणं नोपपद्यत’ इत्ययुक्तमिति परास्तम् ॥ भक्तिर्व्यर्थेति ॥ आदरो व्यर्थ इत्यर्थः । मास्तु मुक्तस्येति । मास्तु मुक्तस्योपासनं विधिवाक्यकारितम् । तथापि स्वेच्छयैवो-पासनादौ प्रवृत्तिरिति नाऽभ्युपगन्तव्यम् । उपासनाऽनिष्टनिवृत्त्योः कार्यकारणभावग्राहकप्रत्यक्षेणैव प्रवृत्त्युपपत्तेः फलानुसन्धानमन्तरा इच्छामात्रस्य प्रवर्तकत्वादर्शनात् । अथवा पुनरस्तु विधिवाक्येनैव प्रवृत्तिः । न च मोक्षवाक्यशेषस्योपासनाविधेर् उपासनाया मोक्षसाधनत्व एव तात्पर्यात् । न फलान्तराय प्रवर्तकत्वमुपपन्नमिति वाच्यम् । उभयत्रापि तात्पर्यसम्भवादित्याशङ्कां परिहरत्सूत्रं व्याचष्ट इत्यर्थः ।

पूर्वपक्षस्तु– न मुक्तेनोपासना क्रियते । तथा हि इदं तावदयं प्रष्टव्यः । मुक्तस्योपासनं विधीयते उत नेति । न तावदाद्यकल्पाश्रयणेनोपासनं मुक्तस्य वक्तुं शक्यम् । फलप्राप्तिप्रसङ्गात्, मुक्तत्वाभावप्रसङ्गाच्च । नापि द्वितीयकल्पाऽऽश्रयेण उपासनं शक्यमभ्युपगन्तुं प्राप्तव्यफलप्रसङ्गात् । प्राप्तव्यमन्तरा प्रेक्षावत्प्रवृत्त्यनुपपत्तेः, ततश्च सोपाधिकमेवोपासनमिति मुक्तिसाधनत्वादेवोपासनं कार्यम् । न तूपासने आदरातिशय इति ।

सिद्धान्तस्तु– अनुष्ठीयत एव मुक्तैरुपासनम्, ‘एतत्सामगायन्नास्ते’ इति वचनात् । न च विधिबद्धत्वेन संसारसमानधर्मत्वं मुक्तेः । विनाऽपि विधिं स्वेच्छयैवोपासनमित्यङ्गीकारात् । दृश्यते च नियतब्रह्मयज्ञस्वाध्यायानन्तरमपि स्वेच्छयैव कुशैराच्छन्दनेन द्विजन्मनामध्ययनादि । न च अनिष्टपरिहारार्थत्वमेव तस्य किं नाभ्युपगम्यत इति वाच्यम् । साम्पराये तर्तव्याऽभावात् । तदुक्तम् ‘तीर्णो हि सर्वान् शोकान् हृदयस्य भवति’ इति । किञ्च मुक्तैर्यागाद्यपि अनुष्ठीयते । किमुत उपासनम् । तदुक्तं ‘कृष्णो मुक्तैरिज्यते वीतमोहैः’ इति । अतो मुक्तावपि उपासनाऽनुवृत्तेर् निरुपाधिकं तत् संसारे कर्तव्यमिति सिद्धम् ।

वाक्यार्थमुक्तावली

मुक्तावुपासनासिद्धाविति ॥ वेधाद्यर्थभेदादिति योग्यफलकमेवोपासनं कार्यम् । नायोग्य-फलकमित्युक्त्यार्थादुपासनस्य फलोपाधिकत्वप्राप्तौ फलप्राप्त्यनन्तरं मुक्तावुपासनासिद्धौ तस्य प्रागतिशयेन कर्तव्यतासिद्धेरित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । ननु मुक्तावुपासनासिद्धावपि ज्ञानात्पूर्वं ज्ञानानन्तरमानन्दातिशयार्थमादरनैरन्तर्याभ्यामवश्यानुष्ठेयत्वात् कथमतिशयेनाकर्तव्यत्व-मिति चेदतिशयेनाकर्तव्यत्वं नाम निरुपाधिकतयाकर्तव्यत्वस्य विवक्षितत्वात् । न तु निरुपाधिकतयाकर्तव्यत्वमिष्टमेव । एकान्तानां तत्करणस्य फलोपाधिकत्वादिति चेन्न निरुपाधिकतयाकर्तव्यत्वं मुक्तावप्यनुवर्त्यतया केवलं परोपाधिकमेव न भवतीति बुद्ध्याऽननुष्ठेयत्वं विवक्षितम् । तथा मुक्तावुपासनासिद्धौ एवंविधबुद्धेर्भ्रमत्वप्रसङ्गेन तादृशबुद्धिपूर्वमकर्तव्यत्व-प्रसङ्गादिति पर्यवस्यति । वक्ष्यति चातो मुक्तावप्यनुवृत्तेर्निरुपाधिकं तत्संसारे कर्तव्यमेवेति सिद्धमिति । कर्तव्या न वेत्यस्य क्रियमाणा न वेत्यर्थं मनसि निधायाह ॥ मुक्तेनेति ॥ उपासना मुक्तेन क्रियत उत न क्रियत इति चिन्ता । तदर्थं मुक्तस्योपासना विहिता न वेति । अन्यतरनिर्णयो न सम्भवत्युत सम्भवतीति ॥ क्रियान्तरश्रुतिरिति ॥ फलानुभवातिरिक्तसामगानादिशास्त्राभ्यास-लक्षणक्रियान्तरश्रुतिरित्यर्थः ॥ मुक्तस्येत्यनेनैवेति ॥ मुक्तस्योपासना कर्तव्या न वेत्यनेनैव वाक्येनेत्यर्थः । मुक्तस्येत्यनेनातिप्रसङ्गलक्षणपूर्वपक्षन्यायस्य विपर्यये पर्यवसाने युक्तिमात्रोक्त्या न्यायस्य साक्षादनुक्तत्वात् सूच्यत इत्युक्तम् । मुक्तस्योपासना न कर्तव्येत्यंशं साध्यप्रदर्शकतया व्याचष्टे ॥ न मुक्तेनेति ॥ कुतो नेत्यतो भाष्यं विकल्पपरतया योजयति ॥ तथा हीति ॥ कर्तव्या न वेति ॥ विहिता न वेत्यर्थः । तत्र नेत्यंशं पक्षद्वयप्रतिक्षेपकतया योजयति ॥ नोभावपीति ॥ कुतो नेत्यतो मुक्तस्येति विपर्यये पर्यवसानेन सूचितं ‘अतिप्रसङ्ग’ इत्युक्तन्यायं व्यनक्ति ॥ फलप्राप्तिप्रसङ्गादिति ॥ विहितानुष्ठाने सफलस्याविहितकरणे दुष्फलस्य प्राप्तिप्रसङ्गादित्यर्थः । इष्टापत्तिमाशङ्क्यातिप्रसङ्गन्यायं प्रकारान्तरेण विवृणोति । तथा चेति । फलप्राप्त्यङ्गीकार इत्यर्थः । न चापूर्णत्वं युक्तम् । मुक्तत्वादिति विपर्यये पर्यवसानं च द्रष्टव्यमिति भावः । अतिप्रसङ्गं च प्रकारान्तरेण विवृणोति ॥ आद्य इति ॥ अस्मिन्पक्षे यदि विधिबद्धः स्यात् तदा मुक्तत्व-व्याघातः । अस्ति च मुक्तत्वमिति मुक्तत्वस्य साक्षाद्विपर्यये पर्यवसानमिति द्रष्टव्यम् ॥ द्वितीय इति ॥ अस्मिन्पक्षे मुक्तस्याविधिबद्धस्योपासनाकरणं च नैव सम्भवतीति साक्षाद्भाष्योक्तमुक्तत्वस्य हेतुत्वमुक्तं भवति । तदेतत्सर्वमभिप्रेत्योक्तं न्यायविवरणे । मुक्तावुपासनाभावेऽफलादिकमपि स्यादित्यतिप्रसङ्ग इति ॥ सोपाधिकमेवेति ॥ मुक्तानामभावात् केवलं फलोपाधिकत्वेन स्वाभाविकमित्यर्थः ।

सूत्रे तुशब्दोऽवधारणे ॥ अस्तीत्यध्याहृतेनान्वेति ॥ विधिबन्धं विना स्वेच्छयेति संसारा-द्विशेषद्योतकश्च । अत एव हानाविति विधिबन्धहानाविति संसारसमानधर्मत्वव्यावृत्तये मुक्तिस्वरूपं निरूपितम् । तदुक्तं च तत्त्वप्रदीपे । आसंसारहानेर्विहितत्वात् प्रयोजनाय क्रियते । तद्धानौ तूपासना स्वेच्छया क्रियत इति । तुशब्दश्चशब्दार्थे । तदित्यनेन सम्बद्ध्यते तदुपासनं च शब्दात् कर्म चेत्यर्थः । अत एव भाष्ये उपासनादीत्युक्तम् । तथा च हानौ तु संसाराद्विशेषेण स्वेच्छयात्रोपासनाद्यस्त्येवेति । आद्यपक्षोक्तदोषपरिहारकतया हानौ तदित्यंशं व्याकुर्वन्मोक्षे उपासनादीति भाष्यं व्याचष्टे ॥ अस्त्येवेति ॥ तर्हि द्वितीयपक्षोक्तदोष इत्याशङ्क्य निषेधति ॥ न चैवमिति ॥ अविधिबद्धत्व इत्यर्थः । कुत इत्यतस्तत्परिहाराय कुशाच्छन्द इत्ययं सूत्रखण्डः प्रवृत्तः । अत्राप्यवधारणार्थतुशब्दो बुद्ध्या विवेकेन च्छन्देत्यनेनान्वेति । स्तुत्युपगानवदेवेत्यन्वेति । तद्वदेवोपासनादिकार्यं न तस्मात् कश्चिद्विशेषः । अन्यथा तत्कारणमपि न स्यादिति भावेन प्रवृत्तं नियतस्वाध्याय इत्यादिभाष्यं व्याचष्टे ॥ नियतब्रह्मयज्ञेति ॥ स्तुतिर्मन्त्रः । उपगानं साम तदध्ययनमत्र लक्ष्यत इति भावः । स्वकाले विधिनियतस्वाध्यायानन्तरं संस्काराख्यकारणवशेन कुशग्रहणपूर्वमध्ययनवन् मुक्तानामपि संस्कारवशेनोपासनाकरणमुपपद्यत इति भावः । एतेन कारणमित्युक्तन्यायोऽपि सूत्रारूढो भवति । अङ्गभूतकुशग्रहणमपि स्वेच्छयेति भावेन भाष्ये बुद्ध्या विवेकेनाच्छन्देत्यस्य पूर्वं टीकायां सूत्रानुसारेणाङ्गाङ्गिभावस्फोरणाय कुशैराच्छन्देनेति सहयोगो व्याख्यातः । इतरेषामित्यध्याहृतस्यार्थः सर्वोपासनाविधीनामिति । मोक्षशब्दशेषत्वादिति वाच्ये उपायनेत्युक्तिस्तु अयनेन ज्ञानेन उप समीपेऽयनं गमनं मोक्षवाक्यार्थस्फोरणायोक्तम् । तदप्युपासनाविधीनां मोक्षवाक्यशेषत्वस्फोरणायेति भावेनाह ॥ ब्रह्मज्ञानेनेति ॥ तदुक्तमित्यत्रापि वार्थस्तुशब्दोऽन्वेति । तथा च तदुपासनश्रुतावुक्तम् । चशब्दात् तत्स्वेच्छायत्तत्वं च ब्रह्मतर्के उक्तमिति सूत्रार्थपरं भाष्यमवतार्य व्याचष्टे । भवेदियमित्यादिना । किमुतोपासनमिति भावेनेति । किमुतोपासनमिति भावेनोपासनादिकार्यमित्यादिशब्देन मुक्तौ कर्मापि क्रियत इत्युक्तेऽर्थे स्मृतिमाहेत्यर्थः । एतेन तच्चोक्तमित्यत्र चशब्दान् मुक्तौ कर्मास्तीत्येतदप्युक्तमित्यर्थ उक्तो भवति ।

तत्त्वसुबोधिनी

प्रागतिशयेनेति ॥ वेदाद्यर्थभेदादियोग्यफलकत्वे उपासनं कर्तव्यं नायोग्यफलकमित्युक्तया उपासनस्य सोपाधिकत्वप्राप्तावतिशयेन कर्तव्यत्वाभावाक्षेपोदयेऽत्र तन्निरास इत्यनन्तरसङ्गतिरिति भावः ॥ विषयसंशयाविति ॥ कर्तव्या न वेत्यस्य क्रियमाणा न वेत्यर्थ इति भावः । मुक्त-स्योपासना कर्तव्या विहिता न वा विहिता नोभावपि कल्पौ मुक्तत्वादेवेति मुक्तस्येति भाष्यस्यार्थन्तरमाह ॥ मुक्तस्येत्यनेनैवेति ॥ सूचितं पूर्वपक्षं प्रपञ्चयति ॥ तथा हीति ॥ कर्तव्या न वेति विहिता वा क्रियते न वा विहिता क्रियत इत्यर्थः ॥ फलप्राप्तिप्रसङ्गादिति ॥ कृष्णादेस् तद्विधिविषयपुरुषानुष्ठितस्यैैव तद्विध्यविषयपुरुषानुष्ठितस्यापि धान्यादिफलकत्वदर्शनादिति भावः । इष्टापत्तिमाशङ्क्याह ॥ तथा चेति ॥ अत्र सूत्रे हानावित्यस्य संहारहानिरूपमोक्षार्थत्वे तदनन्तरम् उपासनादिति शेष इत्यभिप्रेत्य सौत्रप्रतिज्ञाभागव्याख्यानरूपं मोक्षोपासनादीति भाष्यं व्याचष्टे ॥ अस्त्वेवेति ॥ अत्र भाष्ये उपासनादिरित्यादिपदं कर्मपरं तच्च कैमुत्येन मुक्तोपासनार्थम् ॥ स्वेच्छयेति ॥ एवं च भाष्ये स्वेच्छयेत्येतदुपासनादि इत्यनेनापि सम्बध्यते ।

ननु न कुशाहरणस्यापि नियत स्वाध्यायो विहितत्वेनैवकरणात् कथं दृष्टान्तत्वमित्यभिप्रेत्य प्रवृत्तं नियते भाष्यं व्याचष्टे । नियत ब्रह्म यज्ञेति । कुशैरिति कुशाग्रहणेनेत्यर्थः । आच्छेदपदं व्याचष्टे ॥ आच्छन्देनेति ॥ सौत्रस्तुशब्द एवार्थ इत्यभिप्रेत्य भाष्ये स्तुत्युपगानवदेवेति सम्बन्धः । प्रतशितस्त्वेनापि विधिव्यवच्छेदकत्वमेव ध्वनितमित्यभिप्रेत्याह ॥ स्वेच्छयैवेति ॥ स्तुत्युप-गानेत्यस्यार्थो मन्त्रसामेति तत्कुत इति । दृष्टान्तमात्रेण मुक्तोपासनस्य विधिनिबन्धत्वाभावा-सिद्धेरिति भावः । अत्रोपासनाशब्दस्य सामीप्यादिमोक्षार्थत्वे इतरेषामित्यध्याहार इत्याशयेन मोक्षवाक्यशेषत्वादितरेषामिति व्याख्यातं भाष्ये । ननूपासनायाः साक्षान्मोक्षजनकत्वाभावेन कथं तद्विधीनां मोक्षवाक्यशेषत्वम् इत्यतस् तद्घटयितुं ‘ब्रह्मविदाप्नोति परं’ इति वाक्यम् उदाहृतमित्यभिप्रेत्य तद्भाष्यं व्याचष्टे ॥ न मुक्तोपासनमिति ॥ मोक्षवाक्यशेषत्वमुपासनाविधीनामुक्तं प्रकटयति ॥ ब्रह्मज्ञानेनेति ॥ नन्वत्र मुक्तानामुपासनमिति मोक्षवाक्यशेषत्वम् उपासनमेव साध्यते न तु कर्मापि, असङ्गतत्वात् । तथा च ‘कृष्णो मुक्तैः’ इति प्रमाणोदाहरणम् असङ्गतमित्याशङ्क्य तत्सङ्गतत्वेन व्याख्याति ॥ किं चेति ॥

वाक्यार्थविवरणं

तस्य प्रागतिशयेनेति ॥ यदि मोक्षे उपासना भवेत् तर्हि मोक्षेऽपि निरुपाधिकतया उपासनायाः क्रियमाणत्वात् प्रागपि संसारावस्थायां निरुपाधिकतयैव कर्माद्यपेक्षया अतिशयेन कर्तव्यत्वं स्यात् । मोक्ष उपासनाया असिद्धौ प्रागवस्थायां क्रियमाणोपासनस्य सोपाधिकत्वप्राप्त्या नातिशयेन कर्तव्यत्वसिद्धिरिति भावः । प्राप्तफलत्वं निषेधकोटिप्रापकम् । यज्ञादिक्रियाश्रवणेन तद्वदुपासनापि कर्तव्येति विधिकोटिप्रापकम् ॥ कर्तव्येति ॥ कर्तव्यतया विहितैव क्रियते न वा अविहितैव क्रियत इत्यर्थः ॥ फलप्राप्तीति ॥ कृष्यादिकर्तव्यतया तदकर्तव्यतया च विहितानां शूद्राणां ब्राह्मणानां च तत्करणे फलदर्शनादित्यर्थः । समुदायेन दूषयित्वा प्रत्येकं च दूषणमाह ॥ आद्य इति ॥ आद्ये विहितत्वात् कर्तव्येत्याद्यपक्षे, द्वितीये अविहितैव क्रियत इति द्वितीयपक्षे अविहितस्य करणे अनर्थाख्यफलप्रसङ्ग उक्तः । इदानीमविहितत्वात् करणमेव नोपपद्यत इत्युच्यत इति भेदः ॥ सोपाधिकमेवेति ॥ फलप्राप्त्यपेक्षया तत्प्राप्तिपर्यन्तमेव कर्तव्यं, न तु तदनन्तर-मपीत्यर्थः ॥ भक्तिर्व्यर्थेति ॥ भक्तिपूर्विकोपासना व्यर्थेत्यर्थः । न हि वेतनाद्युपाधिना क्रियमाण-राजसेवायां भृत्यादेर्भक्तिर्दृष्टेत्यर्थः । अनुपपत्तिर् अविहितत्वादेवेति शेषः ॥ मन्त्रसामेति ॥ तथा च मन्त्रेण स्तुतः । साम्ना उपगानमिति ध्येयम् ॥ विधितः ॥ विधिबद्धत्वेन । मोक्षेत्युपगान-शब्दार्थः ॥ तादर्थ्येन ब्रह्मज्ञानार्थत्वेन ॥ मुक्तविषयाः ॥ मुक्तस्य स्वबद्धत्वापादकाः ॥ तच्चेतीति ॥ तथा च तच्चोपासनं मुक्तानां श्रुतावुक्तमित्यर्थः । भाष्ये एतत्साम सर्वत्र समत्वात् साम तत् । गायन् तद्विषयकोपासनं कुर्वन्नास्त इत्यपि श्रुत्यर्थोऽभिप्रेत इति ध्येयम् । स्मृतौ कुशाग्रैः । कुशग्रहणेनेत्यर्थः ॥ कृष्ण इति ॥ कृष्णशब्दो मूलरूपभगवद्वाचीति प्रागेवोक्तमिति हृदयम् । भाष्ये हानावित्यस्य व्याख्यानं मोक्ष इति सर्वदुःखहानिरूपत्वादित्याशयः ।

वाक्यार्थमञ्जरी

अतिशयेनेति ॥ तथात्वे तस्य मोक्षार्थमेवानुष्ठितव्यत्वेन सोपाधिकत्वप्राप्तेरित्यर्थः ॥ क्रियान्तरेति ॥ यज्ञादिक्रियाश्रवणमित्यर्थः ॥ कर्तव्या न वेति ॥ विहिता वा क्रियते उताविहिता वा क्रियत इत्यर्थः ॥ फलाप्राप्तिप्रसङ्गादिति ॥ कृष्यादेस्तद्विधिविषयपुरुषानुष्ठितस्येव तद्विध्य-विषयपुरुषानुष्ठितस्यापि धान्यादिफलकत्वदर्शनादिति भावः । इष्टापत्तिं परिहरति ॥ तथा चेति ॥

ॐ हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॐ ॥ हानौ संसारहानि-रूपमुक्तौ उपासनमस्त्येव कुतः यतस्तदुक्तं तन् मुक्तोपासनं, एतत्सामगायन्निति श्रुत्युक्तं तदपि स्वेच्छया न विधित उपासनाविधीनामुपायनशब्दशेषत्वात् । उपायनं मोक्षस् तस्य शब्दः ब्रह्मविदाप्नोतीति वाक्यं तच्छेषत्वात् तदर्थोपयुक्तार्थपरत्वाद् विध्यभावे स्वेच्छामात्रेण कथं तत् कुशाच्छन्दस्तुत्युपगानवत् कुशैः कुशग्रहणेनाच्छन्देन स्वेच्छया स्तुतिर्मन्त्र उपगानं साम तदुभयाध्ययनवदित्यर्थः ॥ तत्कुत इति ॥ दृष्टान्तमात्रस्यासाधकत्वादिति भावः । शेषोक्तिं व्यनक्ति ॥ ब्रह्मज्ञानेनेति ॥ अप्रयोजकत्वं परिहरति ॥ मोक्षसिद्ध्यर्थं चेति ॥ विधेः फला-वसानत्वादिति भावः । एवं मुक्तोपासनस्य विधिनिबन्धनत्वाभावमङ्गीकृत्य स्वेच्छयैवोपासन-मित्येतन्न युक्तमित्युक्तम् । इदानीं तस्य विधिनिबन्धनत्वेऽपि न दोष इत्यत आह ॥ किं चोपासनेति ॥ उपायनशब्दशेषत्वादित्यनेन मुक्तोपासनस्य मोक्षफलकत्वाभावसिद्धावपि फलान्तरार्थत्वाभावासिद्धेरिति भावः ।