१६ वेधाद्यधिकरणम्

ॐ वेधाद्यर्थभेदात् ॐ

१६. वेधाद्यधिकरणम्

सूत्रभाष्यम्

॥ ॐ वेधाद्यर्थभेदात् ॐ ॥ २६ ॥

‘भिन्धि विद्धिृ शृणीहीति फलभेदेन सर्वशः ।

यत्यादीनां तेष्वयोगान्नाधिकारैकता भवेत् ।

अयोग्योपासनादीयुरनर्थं चार्थनाशनम्’इति बृहत्तन्त्रे ॥

तत्त्वप्रदीपिका

इतश्च नाधिकारिणामेकरूपता ॥ वेधाद्यर्थभेदात् ॥ ‘ताभिर्विध्यहृदये यातुधानात्’ ‘अग्ने त्वचं यातुधानस्य भिन्धि’ ‘प्रपर्वाणि जातवेदः श्रुणीहि’ इत्याद्युपासनस्य दुष्टनाशनत्वेन फलवैलक्षण्यात् । यत्यादीनां तन्निग्रहायोग्यत्वाच्च ।

तत्त्वप्रकाशिका

अत्रेश्वरसाक्षात्कारसाधनोपासने भेदनादिगुणानां सर्वोपसंहार्यत्वनिरासादस्ति शास्त्रादिसङ्गतिः । तेषां सर्वोपसंहार्यत्वे प्रागुक्तनियमभङ्गप्रसङ्गात्तन्निरसनीयमेव । ‘अग्ने त्वचं यातुधानस्य भिन्धि । तं प्रत्यञ्चमर्चिषाविध्यमर्मन् । पराशृणीहि तमसा यातुधानान्’ इत्यादौ श्रुता भेदनादयो गुणा विषयः । सर्वोपास्या न वेति सन्देहः । गुणद्वैविध्यदर्शनं सन्देहबीजम् । वेधादिसर्वोपास्यमिति पूर्वः पक्षः । दुष्टजननिग्रहफलत्वात् । तस्य च सर्वसज्जनापेक्षितत्वात् । ‘प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयात्’ । ‘आततायिनमायान्तं हन्यादेवाविचारयन्’ इति श्रुतिस्मृर्त्योविधानाच्च । अतो वेधादीनां सर्वोपास्यत्वान्न चतुर्गुणोपासननियम इति । सिद्धान्तयत्सूत्रं पठति ॥ वेधादीति ॥ न वेधादीनां सर्वोपास्यत्वं यत्याद्युपास्यत्वाभावात् । वेधाद्युपासनफलस्य हिंसाया यत्यादियोग्यफला-द्विलक्षणत्वात् । अयोग्योपासनस्य चानर्थफलत्वादिति सूत्रार्थः । अत्र स्मृतिं चाह ॥ भिन्धीति ॥ शृणीहि जहि । भिन्द्धिविद्धि शृृणीहीत्येवंरूपेषूपासनेषु सर्वशो नाधिकारसाम्यं भवेत् । एतदुपासनं सर्वाधिकारिसमं न भवेदित्यर्थः कुतः । यत्यादीनां तेषूपासनेष्वयोग्यत्वात् । कस्मात् । एतदुपासनफलानां यत्यादिफलाद्विलक्षणत्वात् । अयोग्योपासनाच्चाऽनर्थादिप्राप्तेरित्यर्थः । प्राणस्त्वेत्यादिवचनान्यन्याधिकारिविषयाणीति ज्ञातव्यम् । अतो वेधादीनां सर्वोपास्यत्वा-भावान्नाभिहितनियमो भज्यत इति सिद्धम् ।

गुर्वर्थदीपिका

प्रागुक्तनियमभङ्गप्रसङ्गादित्यस्य चतुर्गुणोपासननियमभङ्गप्रसङ्गादित्यर्थः । इत्यादौ श्रुता भेदनादयो गुणा इत्यत्रोक्तश्रुतीनामयमर्थः । हे अग्ने अग्निनामकपरमात्मन् हरसा परनिर्हरण-सामर्थ्येन शार्ङ्गमुक्तशरेण यातुधानस्य त्वचं भिन्धि विदारय । हिंसा हिंसनशीला अशनिस् तव वज्रमपि हरसा हरत्यनेनेति हरः परनिर्हरणसामर्थ्यं तेन एनं यातुधानं हन्तुम् । हे अग्ने यः यतमानः कापट्येन प्रयत्नं कुर्वन् पीयूषं त्वया परिवेष्यमाणममृतं तितृप्सात् पीत्वा तृप्तिमिच्छेत् । प्रत्यञ्चं परिवेषणकाले तवाभिमुख्येन वर्तमानं तं दैतेयमर्चिषा भास्वरचक्रेण मर्मन् यस्य छेदेन म्रियते पुरुषस् तन्मर्म कण्ठनाादिकं तस्मिन्मर्मणि विध्यवेधनं कुरु शिरच्छेदं कुरु । हे अग्ने तपसा ज्वाला यातुधानान् पराशृृणीहि ‘शृृ पाक’ इति धातोर् दह, भस्मीकुरु । हरसा परनिर्हरणसमर्थेन तवायुधेन रक्षः राक्षसान्तरमपि पराशृृणीहि सम्यग्भस्मीकुर्विति । यत्याद्युपास्यत्वाभावादित्यत्र यद्यपि यत्यादीनां ध्यानात्प्राक्प्राणायामकरणे पापपुरुषशोषणदहनादिकमस्ति । तथापि ध्यानकाले स्वयोग्यगुणानेवोपासते । न तु भेदनादिकमिति ।

भावबोधः

भेदनादीनामिति ॥ नन्वत्रापि वेधादीनामनुपास्यत्वप्रतिपादनेन ‘सम्भृतिद्युव्याप्तिवेधात् ’इति एकेनैव योगेन अनुपास्यत्वप्रतिपादनसम्भवेन किं योगविभागेनेति चेत्, न । पूर्वाधिकरणे अपेक्षितफलांशस्य अन्यथासिद्ध्यैव उपासनाऽयोग्यत्वस्य इह तु सर्वथा फलायोग्यत्वेन उपासनाऽ-योग्यत्वस्य उपपादनमिति वैचित्र्यप्रदर्शनाय योगविभागस्यावश्यकत्वात् । तर्हि तदनन्तरमेव कुतो न कृतमिति चेत्, न । तथात्वे सम्भृत्यधिकरणपूर्वपक्षसिद्धान्तन्यायव्यतिरेकेण एतदधिकरणे तयोर-भावेनास्य तच्छेषत्वप्रतीतिप्रसङ्गात् । तद्भेदज्ञापनार्थमेव ‘पुरुषविद्यायाम्’ इत्यनेन व्यवधानकरणा-दिति ॥ ‘तं प्रत्यञ्चं’ ‘पराशृृणीहि’ इति वाक्ययोर्व्यत्यासेन उदाहरणं तु ‘भिन्धि विद्ध्य शृृणीहि’ इति स्मृत्यनुसारेणेति ज्ञातव्यम् । सर्वोपास्या इत्यादि । अत्र भेदादयो गुणाः सर्वोपास्या भवन्त्युत न भवन्तीति चिन्ता । तदर्थं यत्यादीनां तदुपासनयोग्यतास्ति उत नास्तीति । तदर्थं तदुपासना-जनितफलं यत्यादीनां योग्यमुत अयोग्यमिति । अनुव्याख्यानोक्तयोः ‘अविशेषप्रमाणबलं’ इति पूर्वपक्षसिद्धान्तन्याययोः सम्भृत्यधिकरणैतदधिकरणोभयसम्बन्धित्वमभिप्रेत्य, तौ न च मुमुक्षवः, इत्यविशेषाद्भरणस्य द्युतेश्च सर्वेषामपेक्षितत्वाच्च सम्भृतिद्युव्याप्ती सामान्ये इत्यादिन्यायविवरणेन विवृतौ द्युतेश्चेति ‘च’शब्दस्यानुक्तदुष्टनिग्रहसमुच्चायकत्वात् । सम्भृतिद्युव्याप्ती इत्यस्योपलक्षण-त्वात् । इत्यादिप्रमाणबलादिति ‘आदि’शब्देन ‘भिन्धि विद्धि’ इत्येतदधिकरणभाष्योदाहृत-प्रमाणसङ्ग्रहादित्यभिप्रेत्य सर्वेषामपेक्षितत्वादिति न्यायविवरणमत्रापि योजयति । तस्य च सर्वजनानामपेक्षितत्वादिति ।

ननु फलापेक्षायामपि अविहितत्वेन अकर्तव्येत्यत आह– प्राणस्त्वा वंश इति ॥ सम्भृतीत्यत्र ‘अपि’पदेन अनुकृष्टस्य नञः मण्डूकप्लुतिवदत्रानुवृत्तिरित्यभिप्रेत्य ‘नाधिकारैकता’ इति स्मृत्यनु-सारेण ‘वेधात्’ इति सौत्रप्रतिज्ञाभागं व्याचष्टे– न वेधादीनामिति ॥ अत्र ‘अर्थभेदात्’इत्यस्य साक्षाद्धेतुत्वासम्भवाद् यत्यादीनां तेष्वयोगादिति स्मृत्यनुसारेण साक्षाद्धेतुमाह– यत्याद्युपास्यत्वा-भावादिति ॥ अयोग्येति ॥ अनेन सर्वेषां फलापेक्षत्वाविशेषादित्यस्य हेतोर्बाधितविषयत्वमुक्तं भवति ।

भावदीपः

सर्वोपसंहार्यत्वनिरासादिति ॥ सम्भृतिनयपूर्वपक्षन्यायेन तथात्वशङ्कायां तत्रत्यसिद्धान्त-न्यायेनैव तथात्वनिरसनमित्यर्थः । न च तर्हीदं व्यर्थमभ्यधिकाशङ्कयाऽस्य प्रवृत्तेः । न चैवं तदानन्तर्यमस्य शङ्क्यम् । पूर्वत्र सर्वगुणोपसंहाराधिकारिणोऽभावेन तस्य तथोपसंहारस्य विहित-त्वादिना कार्यत्वे सिद्धे तर्हि भेदनाद्युपसंहारोऽपि विहितत्वात्कार्य एवेति शङ्काभिप्रायेण वा पूर्वत्र सर्वेषां यथायोग्यं सर्वतस्तदुपसंहारोक्तौ तर्हि वेधाद्यपि विहितत्वाद्योग्यमेवेत्युपसंहार्यमिति शङ्काशयेन वा पूर्वानन्तर्योपपत्तेः ॥ प्रागुक्तेति ॥ चतुर्गुणनियमेत्यर्थः । अग्ने विष्णो । मर्मन् मर्मणि । शृृणीहि हिंसय भिन्धि विध्य शृृणीहीति स्मृत्यनुसारात् श्रुतिक्रमो ध्येयः । सम्भृतिनयोक्तन्यायमाह ॥ तस्य चेति ॥ फलस्योपासनानुकारित्वादिति भावः । तेनागतार्थत्वाय विशेषहेतुमाह ॥ प्राण-स्त्वेति ॥ प्राणो मुख्यप्राणो भगवांश्च त्वां हास्यति । प्राणविहीनो भवेत्येनं प्राणोपासकनिन्दकं ब्रूयात्प्रतिवदेत्प्राणोपासक इति । प्राणोपासकस्यात्मनिन्दकानिष्टकरवचनस्यैतरेयके विहितत्वात्स्मृतौ च साक्षाद्धननस्य विधानाच्च तत्फलहेतूपासनमवश्यं कार्यमित्यर्थः । ‘अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः’ इत्युक्तलक्षणमाततायिनमित्यर्थः । एतेन न हिंस्यादिति वचननिषिद्धहिंसाफलकमुपासनं श्येनयागादेरिवानर्थहेतुत्वादकर्तव्यमेवेति निरस्तम् । तस्य विहितेतरपरत्वेन निषिद्धफलकत्वाभावात् । अपहायापवादविषयमुत्सर्गस्य प्रवृत्तेः । एतेनैवानन्दाद्यास्तु सर्वेषामन्यथानर्थकृदित्यादिविरोधोऽपि प्रत्युक्तः । विहितेतरसम्भृत्यादि गुणोपासनानिषेधपरत्वोपपत्तेरिति भावः ।

फलोक्त्योपसंहरति ॥ अत इति ॥ अपेक्षितत्वाद्विहितत्वाच्च दुर्जनवेधादेरित्यर्थः । वेधादीनां भगवदीयानामित्यर्थः । अन्यथाऽपेक्षितफलाप्राप्तेरिति भावः । सूत्रे वेधादीति व्यस्तं समस्तं चेत्युपेत्य व्यस्तपक्षे स्मृत्यनुरोधेन प्रतिज्ञाहेतू व्यनक्ति ॥ न वेधादीनामिति ॥ नञो मण्डूक-प्लुत्त्यानुकर्ष इति भावः । कुतो यत्यनुपास्यत्वमित्यतः समस्तपक्षार्थमाह ॥ वेधेति ॥ वेधाद्यर्थ-स्येत्यस्यार्थो वेधाद्युपासनफलस्य हिंसाया इति । भेदाद् इत्यस्य विलक्षणत्वादिति । योग्यता-लब्धस्य प्रतियोगिन उक्तितर्यत्यादियोग्यफलादिति । तावता यत्यनुपास्यत्वं कुत इत्यतोऽ-योग्येत्यादिस्मृतिशेषोक्तदिशा भावार्थमाह ॥ अयोग्येति ॥ स्वयोग्यफलविलक्षणफलहेतूपासन-स्येत्यर्थः । स्मृतिं व्याचष्टे ॥ शृृणीहीति ॥ कस्मादिति ॥ अयोग्यत्वं कुत इत्यर्थः । प्रागुक्तश्रुति-स्मृत्योर्गतिमाह ॥ प्राण इति ॥ अन्येति ॥ यत्यन्येत्यर्थः । ‘विष्णुना वंशभूतेन सहितं वायुना सह । न शक्नोषीति मामात्थ हास्यतस्त्वामतो हि तौ ॥ ज्ञानसामर्थ्यवानित्थं ब्रूयाद्देवादिरुत्तम इत्याद्यैतरेयभाष्यस्मृतेरिति भावः । स्मृतिरपि क्षत्रियपरेत्यर्थः । एतेन वेधादेर्यत्यनुपास्यत्वे तदुपासनं निरधिकारिकमिति निरस्तम् । देवगन्धर्वाद्यधिकारिकत्वोपपत्तेः । अत एव प्राक् भृतिव्याप्त्यादय इत्युक्तिरिति भावः ॥ अत इति ॥ फलभेदेन यत्याद्यनुपास्यत्वादित्यर्थः । यत्तु नीलवर्ण-षट्कोणमण्डलमध्यस्थेत्यादि । तत्तु प्रद्युम्नसंकर्षणकर्तृकपापपुरुषशोषणदाहप्रार्थनमेव । न ध्यानमिति यत्याद्यधिकारिकमपि न दोषावहम् । मुनीनां रामकर्तृकरक्षोवधप्रार्थनमिवेत्याहुः ।

अभिनवचन्द्रिका

अग्ने त्वचमिति ॥ हे अग्ने यातुधानस्य त्वचं भिन्धि ॥ भेदनं कुरु । तं प्रत्यञ्चम् । प्रत्यग्गतिं वैरिणम् । अर्चिषा मर्मन् मर्मणि । विध्य ताडय । तपसा यातुधानान्, पराशृृणीहि जहीत्यर्थः ।

पूर्वपक्षस्तु– ‘अग्ने त्वचं यातुधानस्य भिन्धि’ इत्यादिनोक्ता भेदनादिगुणाः सर्वोपास्याः । तत्फलस्य दुष्टनिग्रहस्य सर्वापेक्षितत्वात् । अतो वेधादीनां सर्वोपास्यत्वान् न चतुर्गुणोपासननियम इति ।

सिद्धान्तस्तु– न वेधादयः सर्वोपास्याः । तत्फले छेदनादौ यत्यादीनामनधिकारात् । तदुक्तम् ‘भिन्धि विद्धि शृृणोहिति फलभेदेन सर्वशः । यत्यादीनां तेष्वयोगान् नाऽधिकारैकता भवेत् ॥ अयोग्योपासनादीयुरनर्थं चाऽर्थनाशनम्’ इति । अतो वेधादीनां सर्वोपास्यत्वाभावान् नाऽभिहित-नियमो भज्यत इति सिद्धम् ।

वाक्यार्थमुक्तावली

यद्येकस्यामेव विद्यायां स्वापेक्षितगुणोक्तिनियमाभावेन विद्यान्तरस्थमुपास्यं तर्हि मानुषादीनां सर्वेषामप्यपेक्षितवेधादिकमपि तं प्रत्यञ्चमर्चिषा विध्यमर्मन् इत्यादिविद्यान्तरस्थमुपास्यं प्रसज्येत न तु ‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात्’इति विधोक्तं गुणचतुष्टयमेव । अपेक्षितानामेकत्रोक्तिनियमाभावात् । नान्यत्किञ्चित्समुपासीतेति निषेधस्तु अनपेक्षितगुणनिषेधपर इत्याक्षेपोत्थानादनन्तरसङ्गतिः ॥ अग्ने त्वचमिति ॥ यद्यपि रक्षोघ्नसूक्ते ‘ताभिर्विध्य हृदये यातुधानानग्ने त्वचं यातुधानस्य भिन्धि । प्रपर्वाणि जातवेदशृृणीहि’ इति प्रथमप्राप्तानि, क्रमिक-वाक्यानि तथापि भिन्धि विध्य शृृणीहीति भाष्यानुसारेण द्वितीयस्य भिन्धीत्यस्य प्रथममुपादानम् । विद्धीति मध्यमपुरुषोपादानात् ताभिर्विध्य इति वाक्यमनुपादाय तं प्रत्यञ्चमिति वाक्यग्रहणम् । पराशृृणीहीत्यस्य तं प्रत्यञ्चमित्यतः पूर्वत्वेऽपि विद्धि शृृणीहीत्यनुसारेणानन्तरग्रहणम् । तं प्रत्यञ्चमिति वाक्यापेक्षया पराशृृणीहीत्यस्याव्यवहितपूर्वत्वात्तस्यैवोपादानं न तु तत्पूर्वस्य प्रपूर्वा-णीत्यस्येति ज्ञेयम् । भाष्योपात्तप्रमाणे सूत्रमतिक्रम्य भेदस्य प्रथमग्रहणं तु अग्ने त्वचमिति कर्तृनामनिर्देशेन वस्तु निर्देशरूपत्वात् प्राधान्यविवक्षया । सूत्रे तु ताभिर्विध्य इति प्रथमवाक्यानु-सारेणेति विवेकः ॥ सर्वोपास्या इति ॥ अत्र भेदादयो गुणाः सर्वोपास्या न भवन्त्युत भवन्तीति चिन्ता । तदर्थं यत्यादीनां तत्फलयोग्यता अत एव तदुपासनायोग्यता अस्ति न वेति । सिद्धान्ते फलभेदोक्त्या सूचितं न्यायमालायां न्यायविवरणे च सम्भृत्यधिकरणपूर्वपक्षन्याय एवात्रानुसन्धेय इत्याशयेन पृथगनुक्तमविशेषतेत्युक्तन्यायं दर्शयन् पूर्वपक्षयति वेधादीति ॥ तस्य चेति ॥ तेन फलस्य दुष्टनिग्रहस्य सर्वापेक्षणीयत्वेनाविशेषतेति विवृतो भवति । नन्विदमधिकरणं सम्भृत्यधि-करणेनैव गतार्थम् । तत्र योग्यतैवोपास्तिनियमप्रयोजिका न फलापेक्षेति । अत इति सूत्रखण्डेनैव निरस्तत्वाद्विषयवाक्यभेदेनाधिकरणभेदे शास्त्रापर्यवसानप्रसङ्गादित्यतोऽभ्यधिक-शङ्कामाह ॥ प्राणस्त्विति ॥ विधानादिति ॥ फलस्यैव विधानादित्यर्थः । यस्मिन् द्यौः पृथिवी चान्तरिक्षम् । तमेवैकं जानथ प्रकाशवान्नाम स यो ह वै प्रकाशवानित्युपासो प्रकाशवानस्मिंल्लोके भवतीत्यादौ सम्भृत्याद्युपासनाविधानेऽपि हन्यादितिवत् स्वाधमभरणादिसम्पादयेदिति विध्यभावादिति भावः ।

सूत्रे नेत्यनुवर्तते । वेधादीति व्यस्तम् । वेधाद्यर्थेति समस्तं च पदम् । भिद्यतेऽनेनेति भेदो वैलक्षण्यम् । ततश्च वेधादि न सर्वोपास्यं तदुपासनं सर्वैस्त्याज्यमिति यावत् । कुतः वेधादि न यत्यादिभिरुपासितुं योग्यं तदपि कुतः फलेन योग्यतानिर्णयात् । वेधाद्यर्थस्य वेधाद्युपासनाफलस्य हिंसाया यदि अर्थाद्यत्यादियोग्यफलाद्विलक्षणत्वात् । अयोग्यस्यापि गुणस्योपासना किन्न स्यादिति चेद् अर्थभेदात् । भेदोऽत्र विरोधः । स्वाभिलषितविरुद्धप्रयोजनस्यानर्थस्य प्राप्तेः । यद्वा अर्थभेदो नाशः । अर्थनाशप्राप्तेरिति भावेन सूत्राक्षरार्थमाह ॥ न वेधादीनामित्यादिना ॥ सम्भृत्यधिकरणे सर्वेषां स्वाधमभरणादिफलयोग्यत्वमङ्गीकृत्य तदर्थं द्युव्याप्त्यादेर्द्रव्यान्तर्भावे-नोपास्तिमभ्युपगम्य प्रमाणबलेन पृथगुपासनायोग्यता निषिद्धा । इह तु सर्वेषां दुष्टनिग्रह-फलापेक्षाभावेन फलयोग्यतां निषिध्योपासनायोग्यता निषिद्ध्यत इति महान्भेदः । अत्र स्मृतिमिति प्रमाणबलमित्युक्तन्यायप्रदर्शनायेति भावः ।

तत्त्वसुबोधिनी

न चात्रापि वेधादीनामनुपास्यत्वप्रतिपादनसम्भृतिद्युव्याप्तिवेधादीति एकेनैव योगेनानुपास्यत्व-प्रतिपादनसम्भवे किं योगविभागेनेति वाच्यम् । पूर्वाधिकरणेऽपेक्षितफलाशयस्यान्यथासिद्धौ चोपासनयोग्यत्वस्य तु हेतुसर्वथाफलायोग्यत्वेन उपासनायोग्यत्वस्य उपादानमिति वैचित्र्यप्रदर्शनाय योगविभागस्यावश्यकत्वात् । तर्हि तदनन्तरमेव कुतो न कृतमिति वाच्मम् । तथात्वे सम्भृत्यधि-करणपूर्वपक्षसिद्धान्तन्यायव्यतिरेकेण एतदधिकरणे तयोरभावेन अस्य तच्छेषत्वप्रतीतिप्रसङ्गात् । तद्भेदज्ञापनार्थमेव पुरुषविद्यायामित्यनेन व्यवधानकरणादिति । तं च प्रत्यपरा शृणीहीति वाक्ययोर् व्यत्यासेनोदाहारणं तु ‘भिन्धि श्रुणीहि’ इति स्मृत्यनुसारेणेति ज्ञातव्यम् ॥ प्रागुक्तेति ॥ आनन्दादय प्रागुक्तेत्यर्थः । अस्तु ततः किमित्यत आह ॥ तस्येति ॥ दुष्टजननिग्रहस्येत्यर्थः । ननु फलापेक्षायामपि अविहितत्वेनाकर्तव्येत्यत आह ॥ प्राणस्त्वावंश इति ॥ सम्भृतीत्यत्रापि-पदेनानुकृष्टस्य नञो मण्डूकस्तुतिवदत्रानुवृत्तिरित्यभिप्रेत्य ‘नाधिकारिकता’इति स्मृत्यनुसारेण सौत्रं प्रतिज्ञाभागं व्याचष्टे ॥ न वेधादीति ॥ अत्रार्थभेदादित्यस्य साक्षाद्धेतुत्वासम्भवाद् यत्यादिनामिति स्मृत्यनुसारेण साक्षाद्धेतुमाह ॥ यत्याद्युपास्यत्वाभावादिति ॥ अयोग्येति ॥ एवं च सर्वेषां फलापेक्षत्वाविशेषादित्यस्य हेतोर् बाधितविषयत्वादिति भावः । अप्रतीतार्थत्वात् स्मृतिं व्याचष्टे ॥ भिन्धीत्यादिना ॥ फलभेदेनेत्यस्यार्थमाह ॥ एतदिति ॥ तर्हि प्राणस्त्वेत्यादिवचनानां का गतिरित्यत आह ॥ प्राणस्त्वेत्यादीति ॥

वाक्यार्थविवरणं

त्वचंं देहम् । प्रत्यञ्चं विरुद्धाचरणवन्तं यातुधानम् । अर्चिषा सामर्थ्येन ॥ मर्मन् । मर्मणि विद्ध्य विद्धीत्यर्थः । यातुधानान् स्वतपसा स्वसार्थ्येन परा शृणीहि पराजहि हनेत्यर्थः ॥ वेधादि वेधकर्तृत्वादि ॥ दुष्टजनेति ॥ वेधादिकर्तृत्वोपासनस्येति शेषः । दुष्टजननिग्रहफलकत्वादित्यर्थः ॥ तस्य चेति ॥ दुष्टजननिग्रहरूपफलस्येत्यर्थः । शालावंशवच् चक्षुश्श्रोत्राद्याधारत्वाद्वंशः प्राणः । त्वाहास्यतीति म्रियस्वत्यर्थः ॥ विधानात् ॥ उक्तदुष्टजननिग्रहस्येति शेषः । तथा च तदनुसार्युपासनं कार्यमेवेति भावः । सम्भृतीति सूत्रे अपिपदाकृष्टनञोऽत्र सूत्रे वेधादीत्यनन्तरं मण्डूकप्लुत्याऽन्वय इत्याशयेनेत्युक्तम् । अर्थस्य अर्थादिति द्वेधा पदच्छेदमभिप्रेत्याह ॥ वेधाद्युपासनफलस्येति ॥ विलक्षणफलत्वेऽप्युपासना किं न स्यादित्यत आह ॥ अयोग्येति ॥ श्रु हिंसायामिति धातुमभिप्रेत्य शृणीहि जहीत्युक्तं हनेत्यर्थः । साम्यमित्येकताशब्दार्थः । फल-भेदेनेत्यस्यार्थ एतदुपासनाफलानामिति ॥

वाक्यार्थमञ्जरी

॥ नियमेति ॥ चतुष्टयनियमेत्यर्थः ॥ अग्न इति ॥ स्वतो न गच्छतीत्यगं विश्वं नयतीत्यग्नि-नामन् हरे यातुधानस्य राक्षसस्य त्वचं शरीरं भिन्धि विदारयेत्यर्थः ॥ तं प्रत्यञ्चमिति ॥ प्रत्यञ्चं प्रत्यक्स्थितं तं राक्षसमर्चिषा विष्फुलिङ्गेन मर्मन् मर्मस्थले विद्धय वेधयित्वेत्यर्थः ॥ परेति ॥ परा परेण तपसा तुष्टस्त्वं यातुधानान् शृणीहि जहीत्यर्थः । ननु फलापेक्षायामप्यविहितत्वात् । अकर्तव्यत्वमित्यत आह ॥ प्राण इति ॥ इतरप्राणाधारविनशप्रधानवंशस्थानीयो प्राणः मुख्य-प्राणस्त्वा त्वां हास्यति त्यजिष्यति त्वं मरिष्यसीति यावद् इत्येनं ब्रूयादित्यर्थः ॥ आततायिनमिति ॥ ‘अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहर्ता च षडैते ह्याततायिनः’ इत्युक्तेः । शस्त्रपाणिरित्यनन्तरं हन्तुमुद्यत इति शेषः ।

ॐ वेधाद्यर्थभेदात् ॐ ॥ वेधभेदनादिगुणजातं न सर्वोपास्यं, कुतो ऽर्थभेदाद् अर्थस्य तत्फलस्य भेदाद् विलक्षणत्वादित्यर्थः । फलाद् अहिंसारूपाद् आकाङ्क्षाक्रमेण स्मृर्तिव्याचष्टे ॥ भिन्धि विद्धीत्यादिना ॥ एकताशब्दार्थः साम्यमिति साधारण्यमित्यर्थः । तत्तात्पर्यमाह ॥ एतदिति ॥

॥ इति वेधाद्यधिकरणम् ॥ १६ ॥