१५ पुरुषविद्याधिकरणम्

ॐ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॐ

ॐ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॐ

१५. पुरुषविद्याधिकरणम्

सूत्रभाष्यं

यस्यां विद्यायां महागुणा उच्यन्ते सोत्तमानामितरान्येषामिति चेन्न—

॥ ॐ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॐ ॥ २५ ॥

पुरुषसूक्तोक्तविद्यायामपि केषाञ्चिद्गुणानामनाम्नानात् ।

‘सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः ।

तत्रापि नैव सर्वेऽपि तस्मात्कार्योपसंहृतिः’ इति ब्रह्मतर्के ॥

तत्त्वप्रदीपिका

यस्मिन्वेदप्रकरणे महासङ्ख्या गुणा उच्यन्ते, बहुगुणा इत्यर्थः, तदुत्तमाधिकारिणामित्यत आह– पुरुषविद्यायामपि चेतरेषामनाम्नानात् । पुरुषसूक्तमित्युक्ता विद्या पूरुषसूक्तोक्तविद्या ।

तत्त्वप्रकाशिका

अत्रेश्वरसाक्षात्कारसाधनोपासने सर्वतो गुणोपसंहारसमर्थनादस्ति शास्त्रादिसङ्गतिः । अनुपसंहारे सर्वज्ञानवैयर्थ्यप्रसङ्गात्समर्थनीयोऽसौ । प्रकृतसार्वत्रिकगुणोपसंहारो विषयः । कर्तव्यो न वेति सन्देहः । क्रियाद्वैविध्यदर्शनं सन्देहबीजम् । पूर्वपक्षयति ॥ यस्यामिति ॥ न सर्वतो गुणोपसंहारः कर्तव्यः । व्यर्थत्वात् । न च स्वस्वयोग्यगुणोपासनाय सर्वत उपसंहार इति वाच्यम् । सार्वत्रिक-गुणोपसंहारमन्तरेणाऽपि तत्सम्भवात् । ये हि बहुगुणोपासनयोग्यास्तेषां तादृग्विद्याभि-रुपास्तिरुपपद्यते । अत उपसंहारवैयर्थ्यान्न सर्वज्ञानोपयोग इति भावः । पूर्वपक्षं प्रतिषेधति ॥ नेति ॥ हेतुतया सूत्रं पठित्वा व्याचष्टे ॥ पुरुषेति ॥ कर्तव्य एव सर्वतो गुणोपसंहारः । सर्व-गुणोपास्तियोग्यानामप्यधिकारिणां भावात् । एकस्यामेव विद्यायां सर्वगुणानामनुक्तत्वात्सर्व-विद्योत्तमायामपि पुरुषसूक्तमित्युक्तविद्यायां केषाञ्चिदेव गुणानां पठितत्वात्केषाञ्चिदपठितत्वादिति भावः । भवेदुपसंहारस्य कर्तव्यता यदि स्यात्पुरुषसूक्तस्य सर्वविद्योत्तमत्वम् । तत्रापि केषाञ्चिद् गुणानामनुक्तत्वम् । तदेव कुत इत्यत आह ॥ सर्वत इति ॥ न च वाच्यमेकस्यामेव विद्यायां सर्वगुणानुक्तेरस्तु चतुर्मुखस्य सर्वगुणोपसंहारः । अन्येषां तु महदल्पगुणाभिधायकविद्याभिरेवोपास्ति-सम्भवादुपसंहारो व्यर्थ इति । सङ्ख्यासाम्यसम्भवेऽप्येकस्यामेव विद्यायां स्वापेक्षितगुणोक्तिनियमा-भावात् । अतः सर्वतो गुणोपसंहारस्य कर्तव्यत्वादुक्तमुपपन्नमिति सिद्धम् ।

गुर्वर्थदीपिका

तत्रापि नैव सर्वेऽपीत्यस्य मानुषापेक्षितज्ञानानन्दादिगुणानामकथनादिति भावः । इदं चोपलक्षणं ‘सत्यं ज्ञानमनन्तम्’ इति वाक्ये ज्ञानमात्रस्य कथनादानन्दादेरकथनात् ‘विज्ञान-मानन्दम्’ इति वाक्ये ज्ञानानन्दयोरेव कथनात् स्वामित्वनिर्दोषत्वयोरकथनात् । एवं च मानुषाणामपि यदा सर्वोपसंहारोऽपेक्षितस्तदा किमु वाच्यं, देवादीनामित्यपि द्रष्टव्यम् ।

भावबोधः

सर्वतो गुणोपसंहारसमर्थनादिति ॥ तत्तदुपासनायोग्यगुणनिर्णयेन ब्रह्माद्यधिकारिणां स्वस्वयोग्यगुणोपसंहारस्य कर्तव्यत्वे व्यवस्थिते तत्रावसरप्राप्तस्य स्वस्वायोग्यस्य गुणप्रतिपादक-विद्याभ्यो गुणोपसंहारस्य कर्तव्यत्वसमर्थनादनन्तरसङ्गतिः । कर्तव्यो न वेत्यादि । ‘उपसंहारोऽर्था-भेदात्’ इत्युक्तः सर्वगुणोपसंहारः सर्वविद्याभ्यो न कर्तव्य उत कर्तव्य इति चिन्ता । तदर्थं ब्रह्मा-दीनामुपास्या गुणा पुरुषसूक्ताद्येकैकस्यामेव विद्यायामुच्यन्ते उतानेकास्विति । उपसंहारस्य अप्रयोजनतेति न्यायविवरणानुसारेणाह– व्यर्थत्वादिति ॥ ये हि बहुगुणोपासनयोग्या इति । ‘यस्यां विद्यायां’ इत्यादिभाष्यव्याख्यानपरेणानेन क्वचिद्बहुगुणाः क्वचिदल्पगुणाः श्रुतिष्वेवोच्यन्त इति न्यायविवरणमप्युक्तार्थं भवति ।

नन्वस्तु पुरुषविद्यायामपि इतरेषामनाम्नानम् । तथापि तत्र यावन्तो गुणाः प्रतिपाद्यन्ते तावन्त एवोपास्यन्तां किं सर्वविद्याभ्यो गुणोपसंहारेण इत्याशङ्कापरिहारार्थं प्रवृत्तं ‘गुणाः सर्वे ब्रह्मणैव हि उपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः’ इति श्रुतेः सर्वगुणोपासकस्यापि अधिकारिणोऽभावादिति न्यायविवरणं मनसि निधायाह– सर्वगुणोपास्तियोग्यानामिति ॥ अत्र न्यायविवरणे ब्रह्मणैवेति श्रुत्यनुसारेण ऋजुगणविवक्षयाधिकारिण इत्येकवचनप्रयोगेऽपि तद्व्यक्तिबाहुल्यापेक्षयाऽत्र अधिकारिणामिति ज्ञातव्यम् । नन्वस्तु सर्वगुणोपसंहर्तॄणाम् अधिकारिणां सद्भावस् तथापि तेषां सर्वगुणाभिधायकैकविद्ययोपास्तिः सम्भवतीति न सर्वविद्याभ्यो गुणोपसंहारः कर्तव्य इत्याशङ्का-परिहारार्थं प्रवृत्तमेकत्राऽपृथक्सर्वगुणानुक्तेरिति न्यायविवरणं मनसि निधायाह– एकस्यामेवेति ॥ नन्वेकस्यां सर्वगुणानुक्तिः कुत इत्यतः कैमुत्येन तत्सिद्धिरित्यर्थप्रतिपादकतया पुरुषसूक्तेत्यादिभाष्यं न्यायविवरणेन संयोजयति– सर्वविद्येति । कथमनेन कैमुत्यद्योतनमित्यतः सूत्रभाष्यगतापि-पदाभिप्रायकथनार्थं सर्वविद्येत्युक्तम् ।

ननु पुरुषसूक्तमेव गुणप्रतिपादकविद्या न तु तत्र तादृशविद्यान्तरोक्तिर् अदर्शनात् । तत्कथं पुरुषसूक्तोक्तविद्यायामित्युक्तमित्यतो व्याचष्टे– पुरुषसूक्तमित्युक्तविद्यायामिति ॥

‘सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः ॥’

इति स्मृत्यनुसारेण सूत्रे‘अनाम्नानाच्च’इति ‘च’शब्दसम्बन्ध इत्यभिप्रेत्य तत्समुच्चितमर्थमाह– केषाञ्चिदेवेति ॥ उदाहृतन्यायविवरणगतस्याऽपृथगित्यस्य तन्निवर्तनीयाशङ्काप्रदर्शनपूर्वकमभिप्राय-माह– न च वाच्यमित्यादिना ॥ चतुर्मुखस्येत्यनन्तरं सर्वविद्याभ्य इति शेषः ॥ स्वापेक्षितेति ॥ अनेनाऽपृथगित्यस्य संकल्प्येत्यर्थ उक्तो भवति ।

भावदीपः

सर्वतो गुणेत्यादि ॥ एकत्रैव श्रुतौ सर्वगुणानामुक्त्या सार्वत्रिकोपसंहारवैफल्यशङ्कायां तदनुक्तिकथनेन सार्वत्रिकगुणोपसंहारसमर्थनादित्यर्थः । तेनोपसंहारोऽर्थाभेदादित्यादिना न पुनरुक्तता । तथा योग्यताविशेषादित्युक्तयुक्त्या सम्भृत्यादेर्देवाद्युपास्यत्वेऽपि दर्शयति चेत्यत्रात्म-शब्दो ब्रह्मादीनां युगपत्सर्वगुणान् प्रकाशयतीत्युक्तदिशा तत्तदधिकारिणां विवक्षितस्वस्वयोग्य-गुणानामेकैकत्र श्रुतावुक्त्या तन्मात्रोपासनेनोपपत्तौ सार्वत्रिकगुणोपसंहारो विफल इति शङ्कनाद्वा सम्भृत्यादेः सर्वायोग्यतया चतुर्गुणोपास्तेरेव सर्वयोग्यत्वे यथाशक्ति सर्वेषां सर्वपरिज्ञानोक्तिरयुक्ता । एकैकविद्याभ्यासेनैव सर्वेषां स्वस्वविवक्षितगुणोपसंहारसम्भवेन तद्वैयर्थ्यादिति शङ्कनाद्वा पूर्वसङ्गतिरपि सिद्धा ध्येया । यद्वा ब्रह्मणा सर्वगुणैर्देवादिभिर्बहुगुणैर्मानुषैश्चतुर्भिरित्येवमियता ग्रन्थेनोपास्त्युक्ताविह सर्ववेदान्तनयोक्तं यथाशक्ति सर्वेषां सर्वपरिज्ञानं सर्वेषामपि यथायोग्यं गुणोपसंहारसमर्थनेन समर्थ्यत इति वा सङ्गतिः ॥ अनुपसंहार इति ॥ विक्षिप्य नानास्थानेषूक्ता-नामेकबुद्ध्युपारूढत्वरूपोपसंहाराभावे । यथाशक्ति सर्वपरिज्ञानवैयर्थ्यादित्यर्थः । उपसंहारस्या-प्रयोजनतेति न्यायविवरणोक्तिलब्धप्रतिज्ञाहेतू आह ॥ न सर्वत इति ॥ हेतूपपादकत्वेन भाष्य-मवतार्य व्याचष्टे ॥ न च स्वस्वेति ॥ फलोक्योपसंहरति ॥ अत इति ॥ सार्वत्रिकगुणोपसंहार-मन्तरेण स्वस्वयोग्यगुणोपसंहारसम्भवादित्यर्थः ।

सर्वगुणोपासकस्याप्यधिकारिणो भावादेकत्रापृथक् सर्वगुणानुक्तेर्बलादुपसंहारानतेरित्यन्यत्रोक्त-प्रतिज्ञाहेतू वक्ति ॥ कर्तव्य एवेति ॥ भावादिति ॥ गुणाः सर्वे ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैरित्यन्यत्रोक्तश्रुतेरिति भावः । नन्वप्रयोजको हेतुः । एकविद्ययाऽपि सर्वगुणोपास्ति-सम्भवादित्युक्तत्वादित्यत एकत्रेत्यादेरर्थमाह ॥ एकस्यामेवेति ॥ असिद्धो हेतुरित्यतः कैमुत्य-न्यायसिद्धत्वमुक्तहेतोरभिप्रेत्य भाष्यं योजयति ॥ सर्वविद्येति ॥ अपिपदलब्धोऽयमर्थः । असम्भवनिरासाय स्मृत्यनुरोधेनोक्तम् । पुरुषसूक्तमित्युक्तेति । केषाञ्चिदनाम्नानादित्युक्तिलब्धार्थमाह ॥ केषाञ्चिदेवेत्यादि ॥ पूर्वोत्तरार्धव्यावर्त्ये आह ॥ यदि स्यादित्यादि ॥ पृथक्शब्दतात्पर्यं शङ्कापूर्वं व्यनक्ति ॥ न च वाच्यमिति ॥ सङ्ख्येति ॥ स्वाभिमतगुणसङ्ख्यासमचतुः-पञ्चादिसङ्ख्याकानामाम्नानेऽपीत्यर्थः । सूत्रार्थं फलोक्त्योपसंहरति ॥ अत इति ॥ सर्वविद्योत्तम-पुरुषसूक्तानाम्नानसिद्धादेकत्रैव क्वापि श्रुतौ विवक्षितसर्वगुणानाम्नानादित्यर्थः ॥ कर्तव्यत्वादिति ॥ विहितत्वादिप्रागुक्तयुक्त्या कर्तव्यत्वादित्यर्थः ॥ उक्तमिति ॥ सर्वपरिज्ञानमित्यर्थः ।

अभिनवचन्द्रिका

सार्वत्रिकगुणोपसंहार इति ॥ विप्रकीर्णस्थानोक्तगुणोपसंहार इत्यर्थः । भाष्ये पुरुष-सूक्तोक्तविद्यायामित्यत्र पुरुषसूक्ते उक्तविद्यायामिति भ्रमनिरासायाह– पुरुषसूक्तमित्युक्तेति ॥ पुरुषसूक्तशब्दवाच्यायां विद्यायामित्यर्थः । गुणोक्तिनियमाभावादिति ॥ येषां तु अपेक्षित-गुणानामेकस्यामेव विद्यायां लाभः, न तैर्विप्रकीर्णगुणोपसंहृतिः कार्येति सूचयति नियमग्रहणेन ।

पूर्वपक्षस्तु– न विप्रकीर्णगुणोपसंहृतिः कार्या प्रयोजनाभावात् । न च स्वयोग्यगुणोपासनाय उपसंहृतिरिति वाच्यम् । उत्तमानां बहुगुणाभिधायकैकविद्योक्तगुणोपसंहारमात्रेण मन्दानामल्प-गुणाभिद्यायकैकविद्योक्तगुणोपसंहारमात्रेणैव तत्सिद्धेः । अत उपसंहारवैयर्थ्यान् न सर्वज्ञानोपयोग इति ।

सिद्धान्तस्तु– कार्यैव विप्रकीर्णगुणोपसंहृतिः । सर्वगुणोपासकानामुत्तमानां भावात् । सर्वोत्तमायामपि पुरुषविद्यायां सर्वगुणानामनाम्नानात्, मन्दापेक्षितानामपि एकत्रोक्तिनियमाभावाच्च । अतः सर्वतो गुणोपसंहारस्य कर्तव्यत्वादुक्तमुपपन्नमिति सिद्धम् ।

वाक्यार्थमुक्तावली

सर्वतो गुणोपसंहारेति ॥ विप्रकीर्णस्थानोक्तगुणोपसंहारसमर्थनादित्यर्थः ॥ प्रकृत इति ॥ पूर्वाधिकरणे प्रकृतः ‘उक्षा स द्यावापृथिवी बिभर्ति एष सर्वेषु भाति’इत्यादिविप्रकीर्णसर्वविद्योक्त-गुणोपसंहार इत्यर्थः । देवादीनामुपास्यास्तु भृतिव्याप्त्यादयो गुणाः । सर्वैर्गुणैर्देवगणा उपासन्त इति भाष्यन्यायविवरणयोः सर्वविद्योक्तगुणोपसंहारस्य प्रकृतत्वस्य स्पष्टत्वादनन्तरसङ्गतिः ॥ कर्तव्य इति ॥ अत्र विप्रकीर्णस्थानोक्तगुणोपसंहारो न कर्तव्य उत कर्तव्य इति चिन्ता । तदर्थमेकैक-विद्यायां सर्वे गुणा उच्यन्ते न वेति । भाष्ये एकैकविद्ययोपास्तिपर्याप्त्युक्त्या सूचितं तदुपपाद्यम-प्रयोजकतेत्युक्तन्यायं विशदयति ॥ व्यर्थत्वादिति ॥ सार्थक्यमाशङ्क्य वैय्यर्थ्योपपादकतया भाष्यं व्याचष्टे ॥ न चेत्यादिना ॥ स्वोत्तमानामिति ॥ भाष्ये उत्तमानामुपास्त्यै सा विद्या गुण-समर्पिकेत्यर्थः ।

ननु उपसंहारनये विहितत्वेन हेतुना विप्रकीर्णस्थानोक्तगुणोपासनस्य साधितत्वाद् गतार्थमे-तदधिकरणमिति चेद् व्यर्थावधेरनवधेयत्वेन तस्याप्यत्राक्षेपात् । न च विप्रकीर्णगुणोपासनस्याधिक-फलहेतुत्वमुक्तमिति न वैय्यर्थ्यमिति वाच्यम् । तत्र सर्वापेक्षितमोक्षस्यानन्दाद्युपासनेनैव लाभात् । विप्रकीर्णगुणोपासनं व्यर्थमित्याशङ्क्यानन्दातिशयहेतुत्वादवैय्यर्थ्यमिति फलमुखवैय्यर्थ्यस्य परिहृत-त्वेऽप्यत्रैकस्यामेव विद्यायां बहुगुणप्रमापनसम्भवाद्विद्यान्तरवैय्यर्थ्यमिति प्रमाणमुखवैय्यर्थ्यमाशङ्क्य परिहारादगतार्थतैवेति ज्ञेयम् ।

सूत्रे उपसंहार इत्यस्ति । अपिशब्दोऽनौचित्यस्य कैमुत्यस्य च द्योतकः । यदात्त्युत्तमायामपि विद्यायां सर्वगुणाभिधानं तदा किं वाच्यं विद्यान्तरे सर्वगुणाभिधानमिति ॥ अनाम्नानाच्चेति चशब्दसम्बन्धः । तेन सर्वगुणोपास्तियोग्याधिकारिभावः समुच्चीयते । केषांचिदाम्नानं च समुच्चीयते । तथा च सर्वोपास्तियोग्यानामधिकारिणां प्रमाणप्रमितत्वाद् एकस्यामेव विद्यायां केषांचिदाम्नानादितरेषामनाम्नानाच्चेत्यस्य कैमुत्यप्रमाणप्रमितत्वात् तदुभयान्यथानुपपत्तिबलात् सार्वत्रिकगुणोपसंहारः कार्य इति सूत्रार्थमानतिरित्युक्तन्यायप्रदर्शनपूर्वकमाह ॥ कर्तव्य एवेत्यादिना ॥ उक्तं च न्यायविवरणे । सर्वगुणोपासकस्याप्यधिकारिणो भावाद् एकत्र पृथक् सर्वगुणानुक्तेश्च बलादुपसंहारोपपत्तेरिति ॥ पुरुषसूक्तमित्युक्तेति ॥ प्रसिद्धेत्यर्थः । भाष्ये पौरुषसूक्ते सर्वतः सर्वत्र प्रत्यृचं प्रतिपदं प्रत्यक्षरमित्यर्थः । सर्वतः सर्वविद्याभ्य आधिक्येनेति वा । सूत्रे सर्वेषामनाम्नानादित्यनुक्त्वा इतरेषां केषांचिदनाम्नानादित्युक्त्या व्यावर्त्यं चोद्यमाशङ्क्य निषेधति ॥ न च वाच्यमिति ॥ अन्येषामिति ॥ महतां बहुगुणाभिधायकविद्याभिर् अल्पकानां कतिपय-गुणाभिधायकविद्याभिरित्यर्थः ॥ स्वापेक्षितेति ॥ एतेन केषांचिदित्यस्य स्वापेक्षितमध्ये केषांचिदित्यर्थः । तथा चैतदवभासार्थमितरेषामित्युक्तमिति भावः ।

तत्त्वसुबोधिनी

सर्वतो गुणोपसंहारेति ॥ तत्तदुपासनयोग्यानां गुणनिर्णये ब्रह्मादीनां स्वयोग्यगुणोप-संहारकर्तव्यत्वे व्यवस्थिते । तत्रावसरप्राप्तस्वस्वोपास्यगुणप्रतिपादकविद्याभ्यो गुणोपसंहारस्य कर्तव्यत्वसमर्थनादनन्तरसङ्गतिरिति भावः । गुणोपसंहारमन्तरेण कथमुपासनमित्यत आह ॥ ये हीति ॥ नन्वस्तु पुरुषविद्यायामितरेषामनाम्नानम् । तथापि तत्र यावन्तो गुणाः प्रतिपाद्यन्ते तावन्त एव उपास्यन्तां किं सर्वविद्याभ्यो गुणोपसंहारेणेत्यत आह ॥ सर्वगुणोपास्तीति ॥ नन्वस्तु सर्वगुणोपसंहृर्तृणाम् अधिकारिणां सद्भवस् तथापि तेषां सर्वगुणाभिधायकैकविद्ययोपास्तिः सम्भव-तीति न सर्वविद्याभ्यो गुणोपसंहारः कर्तव्य इत्याशङ्क्याह ॥ एकस्यात्मनेति ॥ नन्वेकस्यां सर्वगुणानुक्तिः कुत इत्यत आह ॥ सर्वविद्येति ॥ कथमनेन कैमुत्यद्योतनमित्यतः सूत्रभाष्य-गतापिपदाभिप्रायकथनार्थं सर्वविद्येत्युक्तम् । ननु पुरुषसूक्तं गुणप्रतिपादकविद्या न तु तादृश-विद्यान्तरोक्तिर् अदर्शनाद् अतः कथं पुरुषसूक्तोक्तविद्यायामित्युक्तमित्यतो व्याचष्टे ॥ पुरुषसूक्त-मित्युक्तविद्यायामिति ॥ सर्वतः पौरुषेयसूक्ते गुणा इति स्मृत्यनुसारेण सूत्रेऽनाम्नाच्चेति चशब्द-सम्बन्ध इत्यभिप्रेत्य तत्समुच्चितमर्थमाह ॥ केषाञ्चिदेवेति ॥ चतुर्मुखस्येत्यनन्तरं सर्वविद्याभ्य इति शेषः । सङ्ख्यासाम्यसम्भवेऽपीति ॥ उपासकस्य विंशतिगुणाधिकारित्वे विद्यायामपि विंशति-गुणोक्त्या सङ्ख्यासाम्यसम्भवेऽपीति ।

वाक्यार्थविवरणं

सर्वत इति ॥ विप्रकीर्णनानास्थानेषूक्तस्वयोग्यगुणोपसंहारेत्यर्थः ॥ सर्वज्ञानेति ॥ सर्वशास्त्रोक्तगुणज्ञानेत्यर्थः ॥ तत्सम्भवात् ॥ स्वस्वयोग्यगुणोपासनसम्भवात् । तदेव वाक्यं दर्शयति ॥ ये हीति ॥ सर्वत इतीति ॥ पौरुषे सूक्ते सर्वतः सर्वत्र प्रतिपदमित्यर्थः ॥ सङ्ख्या-साम्येति ॥ दशगुणोपासनायोग्यः कश्चित् । विद्यायामपि कस्याञ्चिद्दशैव गुणा उक्ता इत्येवं सङ्ख्यासाम्यसम्भवेऽपि तद्विद्योक्तास्ते दश गुणा उपास्यत्वेनैतदपेक्षिततया एतद्योग्या इति नियमाभावेन सर्वतो गुणोपसंहारोऽपेक्षित इत्यर्थः ॥ उक्तम् ॥ सर्वज्ञानम् ।

वाक्यार्थमञ्जरी

प्रकृत इति ॥ उपसंहारोऽर्थाभेदादित्यत्रेत्यर्थः । ननूपसंहाराभावे कथं तत्र तत्रोक्तगुणोपासनं बुद्धौ युगपदनारोहादित्यत आह ॥ ये हीति ॥

ॐ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॐ ॥ अपि सर्वविद्योत्तमायां पुरुषविद्यायां पुरुष-सूक्तोक्तविद्यायाम् इतरेषां केचिद्गुणानाम् अनाम्नानाद् अपठितत्वात्केषाञ्चिदेव पठितत्वान्नैकत्र सर्वगुणोक्तिरित्यर्थः । ननु पुरुषसूक्तमेव गुणप्रतिपादकविद्या न तु तत्र तादृशविद्यान्तरोक्तिः । अदर्शनात् तत्कथं पुरुषसूक्तोक्तविद्यायामित्युक्तमित्यतो व्याचष्टे ॥ पुरुषसूक्तमित्युक्तेति ॥ पुरुषसूक्तमित्येवं प्रमाणान्तरोक्तविद्यायामित्यर्थः । चतुर्मुखस्येत्यनन्तरं सर्वविद्याभ्य इति शेषः ॥ सङ्ख्यासाम्येति ॥ स्वोपास्यगुणसमसङ्ख्याकगुणान्तरप्रतिपादनस्यापि सम्भवेन स्वोपास्यानामेव तत्रोक्तनियमाभावादित्यर्थः ।

॥ इति पुरुषविद्याधिकरणम् ॥ १५ ॥