१४ सम्भृत्यधिकरणम्

ॐ सम्भृतिद्युव्याप्त्यपि चातः ॐ

१४. सम्भृत्यधिकरणम्

सूत्रभाष्यम्

॥ ॐ सम्भृतिद्युव्याप्त्यपि चातः ॐ ॥ २४ ॥

सम्भृतिद्युव्याप्त्यपि देवादीनामुपसंहर्तव्ये नान्येषाम् । अत एव योग्यताविशेषात् ।

‘देवादीनामुपास्यास्तु भृतिव्याप्त्यादयो गुणाः ।

आनन्दाद्यास्तु सर्वेषामन्यथाऽनर्थकृद्भवेदिति (च) ब्रह्मतर्के ॥

तत्त्वप्रदीपिका

सम्भृतिद्युव्याप्त्यादयो गुणा अपि देवादीनामुत्तरेषामुपसंहर्तव्या नाऽनन्दादय एव । अपिशब्दाद्वीर्यैश्वर्यादयोऽपि ग्राह्याः । द्वित्वमात्रव्यावृत्त्यर्थं किलाप्रगृह्यासूत्रयत् । भृतिव्याप्त्यादयो गुणा इति हि प्रमाणवचनम् ॥

तत्त्वप्रकाशिका

अत्र ब्रह्मदर्शनसाधनोपासने सर्वेषां सम्भृत्यादिगुणोपासननिवारणादस्ति शास्त्रादिसङ्गतिः । अन्यथा चतुर्गुणनियमभङ्गप्रसङ्गान्निवारणीयं तत् । ‘उक्षा स द्यावापृथिवी बिभर्ति’ ‘एष हि सर्वेषु लोकेषु भाति’ इत्यादौ प्रतीते प्रकृतभगवद्गुणान्तर्गते सम्भृतिद्युव्याप्ती विषयः । किं सर्वमुमुक्षूपास्ये उत नेति सन्देहः । द्विविधगुणप्रतीतिरेव संदेहबीजम् । सर्वोपास्ये इति पूर्वः पक्षः । सर्वेषां मुमुक्षुत्वसाम्यात् । मोक्षे च स्वाधमभरणस्य प्रकाशव्याप्तेश्च सर्वापेक्षितत्वात् । फलं चोपासनानुसार्येव भवति । ‘यादृशो भावितस्त्वीशस्तादृशो जीव आभवेत्’ इत्यादेः । न चैवं सर्वगुणोपास्तिः । सर्वेषां सर्वगुणापेक्षाभावात् । अतः सम्भृतिद्युव्याप्त्योः सर्वोपास्यत्वाच्चतुर्गुणोपास्तिनियमो न युक्त इति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ सम्भृतीति ॥ अपिपदान्नञः समाकर्षः । चशब्द एवार्थः । सम्भृतिद्युव्याप्ती न सर्वोपास्ये किं तु देवाद्युपास्ये एव । अधिकारियोग्यतायां विशेषसद्भावात् । देवादीनामेव तदुपास्तियोग्यता नान्येषामिति योग्यतैवोपास्तिनियमप्रयोजिका न फलापेक्षेति भावः । यच्च प्रकाशादिमात्रमपेक्षितं तच्च भगवद्रूपप्रतीत्यविनाभूतप्रकाशादिनैव लभ्यते । ननु सम्भृत्यादि-गुणोपास्तिर्देवादीनामेव योग्येति कुतोऽन्येषामयोग्यतायामप्युपासने को विरोधः फलसिद्धेरित्यत आह ॥ देवादीनामिति ॥ अतः सर्वेषां सम्भृत्यादिगुणोपासाभावान्नोक्तनियमभङ्ग इति सिद्धम् ॥

गुर्वर्थदीपिका

यच्च प्रकाशादिमात्रमपेक्षितमित्यत्र प्रकाशे मुक्तौ स्वयोग्यप्रकाशः । आदिपदेन स्वावरभरणं च गृह्यते । भगवद्रूपप्रतीत्यविनाभूतप्रकाशादिनेत्यत्र प्रकाशपदेनानन्तसूर्यकोटिप्रकाशस्यापि भगवत-स्तत्तद्ध्यातृयोग्यतानुसारेण प्रदीपप्रभावद्वा उद्यत्सूर्यमण्डलप्रभावद्वा ध्यानरूपप्रतीत्यविनाभूत-तयोल्लिख्यमानप्रकाशो गृह्यते । आदिपदेन भगवद्ध्यानदशायां तत्रैवावरणभूतब्रह्मादीनां भरणं गृह्यते । अत एव ‘उद्यद्भास्वत्समाभासः’ ‘ब्रह्मवायुशिवाहीशविपैः शक्रादिकैरपि । सेव्यमानः’ ‘युक्ताः प्रदीपवर्णाश्च’ ‘ध्यायेद्धरिन्मणिनिभं हरितोपलाभम्’इत्यादीन् ध्यानश्लोकान् पठति । एवं प्रकारेण सूत्रे समित्युपसर्गसूचितं विश्वरूपतया द्यावापृथिवीभरणं महाप्रकाशश्च व्यावर्त्यते ।

भावबोधः

सम्भृत्यादिगुणोपासनेति ॥ अत्र पूर्वं ‘विशेषात्’ इत्युक्तं योग्यताविशेषरूपसिद्धान्तन्याय एव अत्रापि ‘अतः’ इति सिद्धान्तन्यायत्वेन अतिदिश्यत इत्यनन्तरसङ्गतिरिति भावः । किं सर्वेत्यादि । अत्र सम्भृतिद्युव्याप्ती सर्वमुमुक्षूपास्ये भवत उत योग्यतैवेति । तदर्थमेतद्गुणोपासनेऽपि अपेक्षितं प्रकाशादिरूपं फलं सामान्योपासनेन न भवत्युत भवतीति । मुमुक्षव इत्याद्यविशेषात् । भरणस्य द्युतेश्च सर्वेषामपेक्षितत्वाच्च सम्भृतिद्युव्याप्ती अपि सामान्ये इति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– सर्वोपास्ये इत्यादिना ॥ मोक्षमात्रस्यानन्दाद्युपासनेनैव सिद्धेर् नैतदुपासनं मुमुक्षुत्वं प्रति प्रयोजकमित्यत आह– मोक्षे चेति ॥ एतदयोग्येष्वतिप्रसक्तमिति मुमुक्षुत्वं चोक्तम् ।

‘गुण्याकारस्मृतेरेव द्युतिमात्रं प्रतीयते ॥’

इति न्यायविवरणोदाहृतं वचनं मनसि निधायाह– यच्च प्रकाशादिमात्रमिति ॥ अन्यथा अनर्थकृद्भवेदिति एतन्निवर्तनीयमाह– अन्येषामयोग्यतायामपीति ॥ देवादीनामिति ॥ भाष्योदाहृतं प्रमाणमुपलक्षणम् । ‘सत्यो ज्ञानः परमानन्दरूपः’ इत्यादिन्यायविवरणोदाहृतं प्रमाणमपि ग्राह्यम् ।

भावदीपः

निवारणादिति ॥ फलसाम्यादपेक्षितेत्यानन्दादय इत्यत्रोक्तन्यायेनापेक्षितसम्भरणद्यु-व्याप्तिप्राप्त्यर्थं तयोरपि सर्वोपास्यत्वशङ्कायामधिकारिविशेषादिति प्रागुक्तयुक्त्यैव तन्निवारणादित्यर्थः। तेनास्य पूर्वानन्तर्यसङ्गतिरपि सिद्धेति ज्ञेयम् । भाष्येऽनुक्तेः स्वयमनयोः श्रौतत्वं दर्शयति ॥ उक्षेति ॥ श्रुत्यर्थस्तु पूर्वपादे प्रकृतैतावत्त्वमित्यत्र व्यक्तः ॥ एष हीति ॥ चक्षुरन्तस्स्थ इत्यर्थः । एतच्चाक्षिविद्यास्थं वाक्यमन्तर उपपत्तेरित्यत्र ब्रह्मपरत्वेन निर्णीतमिति भावः । सम्भृतिः सम्य-ग्भरणम् । द्युव्याप्तिर्नाम दिवा प्रकाशेन व्याप्तिः ॥ द्विविधेति ॥ पूर्वत्रेवात्रार्थो ध्येयः । मुमुक्षव इत्यविशेषाद्भरणस्य द्युतेश्च सर्वेषामपेक्षितत्वाच्च सम्भृतिद्युव्याप्ती अपि सामान्ये इत्यन्यत्रोक्त-प्रतिज्ञाहेतू आह ॥ सर्वोपास्ये इति ॥ ततश्च किमित्यतो द्वितीयहेतुमाह ॥ मोक्षे चेति ॥ ततोऽपि किमित्यतोऽर्थसामान्यादित्युक्तन्यायमाह ॥ फलं चेति ॥ तृतीयस्कन्धतात्पर्योक्तस्मृतिं चाह ॥ यादृश इति ॥ उक्तहेतूनां तर्कपराहतिमाशङ्क्य निराह ॥ न चैवमिति ॥ मुमुक्षूणां मुक्तावपेक्षितफलानुसार्युपासनस्य कर्तव्यत्वे सतीत्यर्थः । फलोक्त्योपसंहरति ॥ अत इति ॥ सम्भरणप्रकाशव्याप्त्योर्मुक्तिगतयोर्मुमुक्षुमात्रापेक्षितत्वादित्यर्थः ।

सम्भृतिद्युव्याप्ती अपि नान्येषामुपसंहार्ये इति भाष्यं सूत्रारूढं कर्तुं सूत्राक्षरार्थमाह ॥ अपिपदादिति ॥ अत एवेति भाषणादाह ॥ चशब्द इति ॥ सर्वोपास्येन चेत्तदुपासनं निरधिकारिकमेव स्यादिति शङ्कानिरासार्थं पूर्वभाष्यमित्युपेत्य तद्योजयति ॥ किं तु देवादीति ॥ देवादीनामिति स्मृत्यनुरोधाद्भाष्ये देवपदमुपलक्षणमिति भावः । उपास्य एवेति भाषणादाह ॥ चशब्द इति ॥ सर्वोपास्येन चेत्तदुपासनं निरधिकारिकमेव स्यादिति शङ्कानिरासार्थं पूर्वभाष्यमित्युपेत्य तद्योजयति ॥ किं तु देवादीति ॥ देवादीनामिति स्मृत्यनुरोधाद्भाष्ये देवपद-मुपलक्षणमिति भावः । उपास्य एवेति फलितोक्तिः । द्विवचनोक्त्या सूत्रे समाहारद्वन्द्वेन वा प्रकृतिभावमनाश्रित्य वा निर्देश इति सूचितम् । स्मृतौ बहुवचनमादिपदं च वक्ष्यमाणवेधादिपरमिति भावः । तत्वप्रदीपे तु अपिरैश्वर्यादिगुणान्तरसमुच्चये । अत एव स्मृतौ भृतिव्याप्त्यादय इत्युक्ति-रित्युक्तम् । अत एवेत्यादि व्याचष्टे ॥ अधिकारीति ॥ स च विशेषोऽन्येषामप्यस्तु विशेषाभावे वाऽस्त्वपेक्षामात्रेणोपासनमित्यतः स्मृत्यनुरोधेनैवकारसूचितभावमाह ॥ देवेति ॥ योग्यतैवेति च ॥ अपेक्षितप्राप्तिर्वा कथं भवेदित्यत आह ॥ यच्चेति ॥ उद्यद्भास्वत्समाभास इति । युक्ताः प्रदीपवर्णाश्चेत्याद्युक्तदिशा भगवद्ध्यानरूपप्रतीतिविषयप्रकाशेन, विपैः शक्रादिकैरपि सेव्यमान इति सपरिवारध्यानेन किंचिद्भरणस्य सम्भवादित्यर्थः । गुण्याकारस्मृतेरेव द्युतिमात्रं प्रतीयत इति न्यायविवरणोक्तस्मृतेरिति भावः । पूर्वोत्तरार्धव्यावर्त्ये क्रमेणाह ॥ नन्विति ॥ सूत्रार्थं फलोक्त्योप-संहरति ॥ अत इति ॥ योग्यताविशेषाभावादिति ॥ अत इति सूत्रांशतात्पर्यार्थः । देवादीनामेव तदुपासनयोग्यताविशेषसद्भावादिति वा अर्थः ॥ उक्तनियमेति ॥ चतुर्गुणनियमेत्यर्थः ।

अभिनवचन्द्रिका

सर्वेषामिति ॥ उपलक्षणमेतत् । देवादीनां सम्भृत्यादिगुणोपासनसमर्थनादित्यपि ग्राह्यम् । किं सर्वमुमुक्षूपास्ये इति ॥ उपलक्षणमेतत् किं चतुर्मुखमात्रोपास्ये, उत देवादिभिरपीति सेन्देह इत्यपि ग्राह्यम् ॥ सर्वोपास्ये इति ॥ उपलक्षणमेतत् । देवाद्यनुपास्ये प्रमाणाभावादिति पूर्वपक्ष इत्यपि ग्राह्यम् । अपि पदान्नञः समाकर्ष इति । ननु नञोऽनुवृत्तेः सापेक्षत्वादेव ज्ञातुं शक्यत्वादपिपदं व्यर्थम् । किञ्चापिपदान् नञःसमाकर्षादपि सूत्रे नञः प्रयोग एव वरः, प्रतिपत्तिलाघवात् । नञः प्रयोगे तु झटिति नञर्थप्रतिपत्तिः । अपि पदप्रयोगे तु नञोऽनुवृत्तिप्रतिपत्तिद्वारा तदर्थप्रतिपत्ति-रिति । अपि च अपिशब्दान्नञः समाकर्ष इति कथमिदं विज्ञायते । किम् अपिशब्दाल्लाङ्गलादिना तृणादीनामिव नञः समाकर्षो भवति, उत अन्येनैव जायमानो नञः समाकर्षः प्रदीपादिना तृणादीनां समाकर्ष इव विज्ञायत इति । यद्याद्यः न तर्हि राजानो हस्त्यश्वं बिभृयुः । अपीत्ये-वोक्त्वा परकीयराज्यादेः समाकर्षकर्तारो भवेयुः । न हि अपिशब्दान् नञः समाकर्षो भवति । न राज्यादेरिति राज्ञामाज्ञाऽस्ति । द्वितीयेऽपि वक्तव्यम्, किं व्याप्तिबलेन, उताऽन्यथा । नाद्यस् तदभावात् । द्वितीये तु अतिप्रसङ्ग इति चेत्, सत्यम् । सापेक्षत्वान् नञोऽनुवृत्तिर्ज्ञातुं शक्यते । तथापि नाऽपिपदवैयर्थ्यम् । अन्तरङ्गज्ञापकाभाव एव बहिरङ्गस्याऽनुसर्तव्यत्वात् । अन्यथा क्कापि वाक्येऽहमादिशब्दप्रयोगो न स्यात् । उत्तमपुरुषप्रयोगादिनैव तस्य सर्वत्र ज्ञातुं शक्यत्वात् । सूत्रकारा हि यस्यानुवृत्तिमिच्छन्ति तत्र किञ्चिल्लिङ्गमासज्य तदनुवृत्तिं ज्ञापयन्ति । यथाऽऽह-पाणिनिः ‘स्वरितेनाधिकारः’ इति, यस्य पदस्य बहुष्वनुवृत्तिमिच्छन्ति तत्पदं स्वरितत्वेनोच्चार-यन्ति । यस्य तु क्कचिदेवानुवृत्तिमिच्छन्ति, तस्यानुवृत्तिस्थले चशब्दादिप्रयोगेण तद् विशेषयन्ति । यथाहुः ‘चानुकृष्टं न सर्वत्र’ इति । यदत्रोक्तम् अपिपदप्रयोगेण नञोऽनुवृत्तिज्ञापनात्, नञः प्रयोग एव वरः प्रतिपत्तिलाघवादिति । तन्न अल्पाक्षरेषु सूत्रेषु शब्दाभावस्यैवाऽनुसर्त्तव्यत्वेन प्रतिपत्तिलाघवस्याऽननुसर्तव्यत्वात् । ‘सम्भृतिद्युव्याप्ती न चात’ इति पाठे ईकारो द्विमात्रो, नेति व्यञ्जनमर्धमात्रम् । अकारस्त्वेकमात्र इति सार्धत्रिमात्रा भवन्ति ‘सम्भृतिद्युव्याप्त्यपि चात’ इति पाठे ईकारादेशो यकारस्त्वर्धमात्रः, आकारस्त्वेकमात्रः, पीति सार्धमात्रमिति त्रिमात्रा भवन्ति । एवञ्चास्मिन् पाठेऽर्धमात्रालाघवं भवति । सूत्रकारास्तु मात्रालाघवं पुत्रोत्सवादपि बहु मन्यन्ते, ज्ञापकपक्षस्यैवाङ्गीकृतत्वेन न कारकपक्षोक्तदोषः । यदपि ज्ञापकत्वपक्षे व्याप्तिरस्ति न वेत्यादि तदपि न । पूर्वाचार्यसङ्केतबलेनैव सूचकत्वाङ्गीकारात् । यथाहुः ‘व्यर्थं सत्किञ्चिदिष्टं ज्ञापयति’ इति । यच्च प्रकाशादीति ॥ अत्र प्रकाशस्य प्रतीत्यविनाभूतत्वं तद्विषयत्वमेव विवाक्षितं नान्यदिति द्रष्टव्यम् । उपसंहरति– अत इति ॥ उपलक्षणमेतत् । देवादीनां सम्भृत्युपासनाधिकारसद्भावान् न मनुष्येभ्योऽतिशयाभाव इति ।

अत्रेमौ पूर्वपक्षौ- तथा हि । अत्रैके चोदयन्ति । सम्भृतिद्युव्याप्ती सर्वेषां मनुष्यादीनामुपास्ये मुमुक्षुत्वाद् देवादिवत् । तत्फलयोः स्वाधमभरणप्रकाशव्याप्त्योर्भाव्यत्वात् । न चैवं सर्वगुणोपास्ति- प्रसङ्गः । तत्फलानिच्छुत्वात् । ततश्च चतुर्गुणोपासननियमभङ्ग इति ।

अन्ये पुनरेवं मन्यन्ते । देवादयो न सम्भृतिद्युव्याप्त्युपासनायोग्याः । प्रमाणाभावात् । न च मुमुक्षुत्वात्तदुपासनाधिकारसिद्धिरिति वाच्यम् । यदि मुमुक्षुत्वाद्देवाः सम्भृत्त्याद्युपासनाधिकारिणः स्युस् तर्हि मनुष्या अपि तथा स्युर् अविशेषादिति तर्कबाधात् । अत एव । न तत्फलेच्छुत्वा-द्देवानामधिकारसिद्धिः । ततश्च न देवानां मनुष्येभ्योऽतिशयसिद्धिरिति ।

अत्रेमौ सिद्धान्तौ । सम्भृतिद्युव्याप्ती न सर्वोपास्ये । मनुष्याणां तदुपासनायोग्यताविरहात् । न च मुक्तावपेक्षितप्रकाशाद्यसिद्धिः । भगवद्रूपप्रतीतिविषयीकृतप्रकाशादिनैव तत्सिद्धेः । ततश्च नोक्तचतुर्गुणनियमभङ्ग इत्येकः सिद्धान्तः ।

अपरस्तु देवादयः सम्भृत्त्याद्युपासनावन्तः । देवाधिकारेऽन्याधिकाराद् विशेषसद्भावात् । ‘देवादीनामुपास्यास्तु भृतिव्याप्त्यादयो गुणाः । आनन्दाद्यास्तु सर्वेषामन्यथाऽनर्थकृद्भवेत्’ इति वचनात् । ततश्च सम्भृत्त्याद्युपासनासद्भावान् नाऽतिशयभङ्ग इति सिद्धम् ।

वाक्यार्थमुक्तावली

अत्र पूर्वं विशेषादित्युक्तयुक्तिः, दर्शयति चेत्युक्तप्रमाणबलं, अत्रापि अत इति सिद्धान्तसाधकत्वेनातिदिश्यत इत्यातिदेशिकी अनन्तरसङ्गतिः ॥ किं सर्वेत्यादि ॥ सम्भृतिद्युव्याप्ती सर्वोपास्ये न भवत उत भवत इति चिन्ता । तदर्थं गुणोपासायां फलापेक्षैव प्रयोजिका उत तद्योग्यतैवेति । अत्रात इति योग्यताविशेषेण सिद्धान्तकरणाल्लब्धमविशेषिते-त्युक्तन्यायं विशदयन् पूर्वपक्षयति ॥ सर्वेषामिति ॥ एतेनाविशेषितमुमुक्षुत्वस्य सर्वसाम्यमिति विवृतं भवति । मोक्षमात्रस्यानन्दाद्युपासनेनैव सिद्धेर्न तदुपासने मुमुक्षुत्वं प्रयोजकमित्यतः प्रकारान्तरेण विवृणोति ॥ मोक्षे त्विति ॥ तेन स्वाधमभरणस्य प्रकाशव्याप्तेश्च विशेषता सामान्येन सर्वापेक्षितत्वमिति विवृतं भवति । अस्तूत्तरणादेः सर्वापेक्षितत्वं, तावता कथमुपास्यत्वमित्यतो ऽविशेषताफलोपासनयोरित्यर्थतया तदेव व्यनक्ति ॥ फलं चेति ॥ नञः समाकर्ष इति । तेन भाष्ये नान्येषामिति लभ्यत इति भावः । चशब्द एवार्थ इति । तेन भाष्ये अत एवेत्युक्तमिति भावः । देवादीनामिति भाष्यमुत्सूत्रमित्यत उत्थापिताकाङ्क्षाशामकतया सम्भृतिद्युव्याप्ती अपि नान्येषामुपसंहर्तव्ये इति भाष्यं तावद्योजयति ॥ सम्भृतीति ॥ तदुपर्याकाङ्क्षामुत्थापयति ॥ किन्त्विति ॥ भगवद्रूपेति । भगवद्रूपध्याने प्रतीतप्रकाशादिनैव इत्यर्थः । तदुक्तं गुण्याकार-स्मृतेरेव द्युतिमात्रं प्रतीयते । न व्याप्तिर्जगदस्मृत्येति । अन्यथाऽनर्थकृद्भवेदित्येतन्निवर्तनीयामाह । अन्येषामयोग्यतायामपीति ॥ इत्यत आहेति ॥ इत्यतः प्रमाणबलमित्युक्तन्यायं विशदयन् प्रमाणमाहेत्यर्थः ।

ननु सूत्रे नञोऽनुवृत्तिर् उपपद्यत इति अपिपदं व्यर्थम् । सर्वत्रानुवृत्तिस्थले तदभावात् । अपिपदस्थाने नञः प्रयोगसम्भवेनायासवैयर्थ्याच्च । अपीत्युक्तेनेत्यर्थज्ञापनप्रकारनिरूपणाच्चेति चेन्न । अनुवृत्तिर्हि आकाङ्क्षावशाज्ज्ञाप्यते । निराकाङ्क्षे तदभावात् । आकाङ्क्षापेक्षयापि पदमन्तरङ्गम् । आत्मशब्दस्य सर्वगुणाभिधायकत्वं नेत्युक्त्त्वा सम्भृतिद्युव्याप्ती अपीति समुच्चायकापिपदप्रयोग-निषेधस्यैव समुच्चायकत्वज्ञापनान् नेत्यनुवृत्तिलाभात् । तदभाव एवाकाङ्क्षामात्रस्यानुसरणीयत्वात् । राम आगतो लक्ष्मणश्चेत्यादाव्यवहितानुवृत्तिस्थले चशब्दादज्ञापकत्वस्य च सर्वैरङ्गीकृतत्वाच्च । सम्भृतिद्युव्याप्ती न चात इत्येवं प्रयोगापेक्षया सम्भृतिद्युव्याप्त्यपि चात इति प्रयोगे अक्षरलाघवा-

भावेऽपि मात्रालाभस्य विद्यमानत्वेन तथा प्रयोगसम्भवात् । ईकारो द्विमात्रा । नेति व्यञ्जनमर्धमात्रा । अकारस्त्वर्धमात्रेति त्रिमात्रा भवन्ति । एवं चास्मिन् पाठे अर्धमात्रालाघवमिति । यद्वा सूत्रे द्विवचनमहिम्ना टीकायामेवं व्याख्यतत्वेऽपि सम्भृतिद्युव्याप्त्यादयो गुणा इत्यादिशब्दाद् अपिशब्देन वीर्यौदार्यादयो गृह्यन्ते । अतोऽपिशब्दस्य केवलमनुकर्षं ज्ञापनयैव चारितार्थ्याभावादवैयर्थ्यम् । तदुक्तं तत्वप्रदीपे । अपिशब्दाद् वीर्यौदार्यादयो गृह्यन्ते द्वित्वमात्राव्यावृत्त्यर्थं किलाप्रगृह्यासूत्रयत् । द्युतिव्याप्त्यादयो गुणा इति प्रमाणवचनमित्यलम् । विस्तरस्त्वन्यत्रानुसन्धेयः ।

तत्त्वसुबोधिनी

सम्भृत्यादिगुणोपासनेति ॥ अत्राप्यत इति सिद्धान्त न्यायत्वेनातिदिश्यत इति अनन्तर-सङ्गतिरिति भावः । मोक्षमात्रस्यानन्दाद्युपासनेनैव सिद्धेर् नैतदुपासनं मुमुक्षुत्वप्रयोजकमित्यत आह ॥ मोक्षे चेति ॥ यत्तदयोग्येषु अतिप्रसक्तमिति मुमुक्षुत्वं चोक्तम् । ननु सम्भृत्यादिगुणोपास्त्यभावे स्वाधमभरणादि कथं स्यादित्यत आह ॥ यच्चेति ॥ देवादीनामिति भाष्योदाहृतप्रमाणमुपलक्षणम् । सत्यो ज्ञानः परमानन्दरूप इत्यपि ग्राह्यम् ।

वाक्यार्थविवरणं

व्याप्तीति ॥ प्रकाशेन द्व्यादिलोकव्याप्तीत्यर्थः ॥ आ ॥ सम्यक् ॥ सर्वगुणेति ॥ सर्वगुणापेक्षासद्भावेनेत्यर्थः । ननु फलापेक्षैव तदुपास्तिप्रयोजिकेत्यत आह ॥ योग्यतैवेति ॥ ननु मोक्षे देहे प्रकाशापरपर्यायकान्तेरपेक्षितत्वात् प्रकाशतो द्युव्याप्तिरूपगुणोपासनाभावे च तत्प्राप्तेर-योगात्तद्गुणोपासने वाच्ये चतुर्गुणोपासनानियमभङ्ग एवेति चेत्तत्राह ॥ यच्चेति ॥ भगवद्रूपं भगवद्देहः । उपासनाकाले यदा भगवद्रूपं प्रतीयते तदा तत्प्रकाशरूपमेव प्रतीयते । अतो भगवद्रूप-प्रतीत्यविनाभूतप्रकाशेनैव प्रकाशादि लभ्यतेऽतो न तदर्थं प्रकाशतो द्युव्याप्त्यादिगुणोपासना-पेक्षितेत्याशयः ॥ यथोक्तम् ॥ ‘गुण्याकारस्मृतेरेव द्युतिमात्रं प्रतीयते’ (न्यायविवरणे) इत्यादि ॥ अयोग्यतायामिति ॥ तद्गुणोपास्तियोग्यताया अभावेऽपि ॥ आहेति ॥ न फलसिद्धिः किन्त्वनर्थ एवेत्याहेत्यर्थः ।

वाक्यार्थमञ्जरी

उक्षा भक्ताभिलषितसेचकः । मोक्षमात्रस्य आनन्दाद्युपासनेनैव सिद्धेर् न मुमुक्षुत्वं, तदुभयोपासनं तदुभयप्रयोजकमित्यत आह ॥ मोक्षे चेति ॥ फलं चेति ॥ अतो नोपासनाभावे तदुभयलाभ इति भावः । यादृशः यद्गुणविशिष्टः भावितः ध्यात आसम्यगुपास्तिः प्रसज्यत इति शेषः ।

ॐ सम्भृतिद्युव्याप्त्यपि चातः ॐ ॥ सम्भृतिः सम्यग् भरणं द्युव्याप्तिः प्रकाशेन व्याप्तत्वं तेन सर्वोपास्ये कुतः, अतश्च योग्यताविशेषादेवेत्यर्थः ॥ भगवद्रूपेति ॥ ध्यानकाले प्रतीयमानं भगवद्रूपं न प्रकाशेन विना प्रतीयेत किंतु यत्किंचित्प्रकाशयुतमेव अतस्तदुपासनेनैव तदपेक्षितप्रकाशलाभ इत्यर्थः ।

॥ इति सम्भृत्यधिकरणम् ॥ १४ ॥