१३ विशेषाधिकरणम्

ॐ न वा विशेषात् ॐ

१३. विशेषाधिकरणम्

सूत्रभाष्यम्

॥ ॐ न वा विशेषात् ॐ ॥ २२ ॥

न वाऽऽत्मशब्देन सर्वगुणगृहीतिः । अधिकारिविशेषात् ।

तत्त्वप्रदीपिका

अधिकारिविशेषात्सर्वोपसंहारश्चानुपसंहारश्चोक्तः । इदानीमात्मशब्दोऽप्यधिकारिविशेषापेक्षया गुणविशेषसमर्पक इत्याह– न वाऽऽत्मशब्देन सर्वगुणगृहीतिः सर्वान्प्रति ॥ अधिकारिविशेषात् ।

तत्त्वप्रकाशिका

अत्रेश्वरदर्शनसाधनात्मशब्दोक्तगुणोपासनस्य सर्वैः कर्तव्यतासमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथोक्तमयुक्तं स्यादतः समर्थनीया । प्रकृतात्मशब्दोक्तगुणा एव विषयः । सर्वोपास्या न वेति सन्देहः । गुणद्वैविध्यमेव सन्देहबीजम् । नात्मशब्दोक्तगुणाः सर्वोपास्या इति पूर्वः पक्षः । आत्मशब्दस्य सर्वगुणाभिधायकत्वात् । उक्तमत्रोत्तमाधिकारिणः प्रत्येव सर्वगुणाभिधायको न सर्वान् प्रतीति । सत्यम् । तथाप्यस्यैतावन्त एवोच्यन्त इति प्रातिस्विकनियमाभावेनोपासनाऽसम्भवात् । न च सम्भवति हि कदाचिद्बहुगुणान् कदाचिदल्पानपि बोधयतीति । अत आत्मशब्दोक्तगुणानां सर्वोपास्यत्वाभावादनुपसंहारप्रमाणत्वोक्तिरयुक्तेति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ न वेति ॥ युक्तमेव सर्वेषामात्मशब्दोक्तगुणोपासनम् । तस्य सर्वान्प्रति सर्वगुणाभिधायकत्वाभावात् । कुतः । तस्य सर्वगुणाभिधानशक्तावप्यधिकारिसामर्थ्यविशेषात्तत्तद्योग्याभिधायकत्वात् । न्यूनाधिकोक्ति-सम्भवेन प्रातिस्विकनियमाभावादुपासनानुपपत्तिरिति न वाच्यम् । यस्य यावन्तो गुणा आत्मशब्देन युगपत्प्रतीयन्ते तेन तावन्तो ध्यातव्या इति व्यवस्थोपपत्तेः । आत्मशब्देन गुणप्रतीतिरियमेवाभि-संहित्ययोग्यप्रतीतिर्न प्रतीतिरिति भावः ।

भावबोधः

ननु इदम् ‘अन्वयादिति चेत्, स्यादवधारणात्’ इत्यनन्तरमेव कर्तव्यम् । आत्मशब्दस्य गुणाभियकत्वविचारपरत्वादिति चेत्, न, तथा सति ‘न वा प्रकरणभेदात्’ इत्यस्य ‘उपसंहारोऽर्था- भेदात्’ इत्येतच्छेषपरत्ववदस्यापि ‘अन्वयात्’ इत्यधिकरणशेषत्वविज्ञानप्रसङ्गात् । ततश्च तन्मा विज्ञायीत्यधिकरणभेदज्ञापनाय ‘कार्याख्यानात्’ इत्यनेन व्यवधाने कर्तव्ये उक्तरीत्या तत्सङ्गतस्य ‘समानम् एवं चेत्’ इत्यस्य तदानन्तर्ये स्थिते तदधिकरणद्वयेन व्यवधानस्यादोषत्वात् ।

नन्वस्यापि ‘अन्वयात्’ इत्येतच्छेषतया अधिकरणैक्यं भवतु को दोषः? इति चेत्, न; ‘अन्वयात्’ इति चेदित्यनेनाभिप्रेतस्य विभ्रमकरत्वस्य उत्तरत्वनिर्वाहाय ‘स्यादवधारणात्’ इत्यस्य ब्रह्मादीन् प्रत्येव आत्मशब्दः सर्वगुणाभिधायको नान्यान् प्रतीत्यभिप्रायकत्वे वक्तव्ये तावतैवा-कङ्क्षापूर्तेः ‘न वा विशेषः’ इत्यस्य वैयर्थ्यप्रसङ्गात् । ननु ‘स्यादवधारणात्’ इत्यनेन प्रामाणिक-त्वात् परोक्तमात्मशब्दस्य सर्वगुणाभिधायकत्वं स्वीकृत्य ‘न वा विशेषात्’ इत्यनेन विभ्रमकरत्वं निरस्यत इत्यधिकरणैक्यमयुक्तमिति चेत्, न, तथा सति अनेन सूत्रद्वयेन आत्मशब्दस्य महदल्प-गुणाभिधायकत्वप्रतिपादनेन विभ्रमकरत्वनिरासोऽप्यात्मशब्देनास्यैतावन्त एव चोच्यत इति प्रातिस्विकव्यवस्थित्यभावेन पुनरात्मशब्दोक्तगुणोपासनं न सर्वेषामुपपन्नमिति शङ्कापरिहारार्थं ‘प्राप्तेश्चासमञ्जसम्’ इतिवदधिकरणान्तरकरणप्रसङ्गात् । न चैवम् ‘ओषु यथाश्रयभावः’ ‘न वा तत्सहभावश्रुतेः’ इत्यनयोर् विरोधपरिहाराय अधिकारिभेदेन व्यवस्थाप्रतिपादकमधिकरणान्तरमपि करणीयमिति वाच्यम्, ‘समाहारात्’ इति सूत्रेण अङ्गाश्रितत्वेन देवतोपासनस्य देवाधिकारिक-त्वोक्त्या ‘न वा तत्सहभावश्रुतेः’ इत्युक्ततदुपासनाभावस्य देवव्यतिरिक्तविषयत्वस्य सुज्ञानत्वात् ।

ननु विभ्रमकरत्वनिरासाय आत्मशब्दस्य अल्पगुणाभिधायकत्वं प्रतिपादयदिदमेव सूत्रं योग्यताविशेषाद् आत्मशब्दो ऽस्यैतावन्त एव गुणान् प्रतिपादयतीति आत्मशब्दस्य व्यवस्थयैव गुणप्रतिपादकत्वं प्रतिपादयतीति शङ्काद्वयं युगपदेव परिह्रियत इति चेत्, न; विभ्रमकरत्वनिरासाय आत्मशब्दस्य महदल्पगुणाभिधायकत्वोक्तिव्यतिरेकेण अनवस्थिति लक्षणयुक्त्यनुदयेन प्रागेव तन्निरासस्यासङ्गतत्वात् ।

ननु ‘स्यादवधारणात्’ ‘न वा विशेषात्’ इति सूत्राभ्यामात्मशब्दस्य महदल्पगुणाभि-धायकत्वप्रतिपादनेन विभ्रमकरत्वं निरस्य ‘दर्शयति चेत्’ इत्यनेन प्रातिस्विकव्यवस्थिति-प्रतिपादनेनाव्यवस्था निराकर्तुं शक्यत इति चेत्, न; ‘दर्शनाच्च’ इति सूत्रस्य ‘न वा तत्सहभावश्रुतेः’ इत्युक्तार्थे प्रमाणमात्रप्रदर्शनपरत्ववदस्यापि श्रुतिरूपप्रमाणमात्रपरत्वेन चारितार्थ्यात् । अत एवोक्तं तत्त्वप्रकाशिकायां युक्तिसिद्धार्थं श्रुत्यापि समर्थयत्सूत्रमिति । अनेनैवाभिप्रायेण ‘स्यादवधारणात्’ इत्यस्यैवात्मशब्दस्य महदल्पगुणाभिधायकत्वप्रतिपादकत्व-मङ्गीकृत्य तथापि व्यवस्थाभावादुक्तमयुक्तमिति अभ्यधिकाशङ्काहेतुत्वेन अनवस्थितिरूप-पूर्वपक्षन्यायो योग्यताविशेषाद्व्यवस्थयैव आत्मशब्दस्य महदल्पगुणाभिधायकत्वं प्रागुक्तमभिसंहित-मित्यभ्यधिकाशङ्कानिरासकत्वेन सन्धिरूपसिद्धान्तन्यायश्च अनुव्याख्यानेऽभिहितौ विवृतौ च न्यायविवरणे इति मनसि निधाय एतदधिकरणसम्बन्धित्वेन तन्न्यायविवरणवाक्यं टीकाकारै-र्योजितम् ॥ सर्वोपास्या इति ॥ अत्र आत्मशब्दोक्ता गुणाः सर्वोपास्या न भवन्त्युत भवन्तीति चिन्ता । तदर्थमात्मशब्दस्य प्रागुक्तं महदल्पगुणाभिधायकत्वं कदाचिदल्पगुणान् कदाचिद्बहुगुणान् प्रतिपादयतीत्यव्यवस्थितं वोतास्यैतावन्त एव प्रतिपादयतीति व्यवस्थितं वेति । तदर्थं व्यवस्थापक-प्रमाणं नास्त्युत अस्तीति । आत्मशब्देनास्य पुरुषस्यैतावन्तो गुणा उच्यन्ते, इति न्यायविवरणं योजयति–तथापीति ॥

ननु शब्दस्य पुरुषव्युत्पत्त्यनुसारेण गुणाभिधायकत्वमिति प्रातिस्विकनियमोपपत्तिरित्यत आह– कदाचिदिति ॥ कालभेदेन व्युत्पत्तेर् वैशद्यावैशद्यसम्भवेन बहुगुणध्यानायोग्यानां कदाचि-द्बहुगुणान् तद्योग्यानां तु कदाचिदल्पान् गुणान् बोधयतीति । अस्यैतावन्त एवेत्यादिनियमो न सम्भवतीत्यर्थः । यस्य यावन्तोऽर्था युगपत्प्रतीयन्ते तस्य तावन्त इति सन्धेरिति न्यायविवरणं योजयति– यस्य यावन्त इति ॥ अभिसंहितेत्यनेन ‘सन्धिः’ इति ‘अभिसन्धिः’ इति व्याख्यातम् । अयोग्यप्रतीतिर् व्युत्पत्तिवशेन जाता, न प्रतीतिः । ध्यानोपयोगित्वेन विवक्षिता प्रतीतिर्न भवतीत्यर्थः । अत्र प्रथमसूत्रेण आत्मशब्दस्य व्यवस्थया गुणाभिधायकत्वे युक्तिमभिधाय, द्वितीये तदुपोद्बलकश्रुतिप्रमाणोक्तिरिति सूत्रक्रमः ॥

भावदीपः

सर्वैः कर्तव्यता समर्थनादिति ॥ आत्मशब्दात्तत्तदधिकार्यभिमतगुणमात्रप्रतीत्यनियमेन सर्वैर-कर्तव्यत्वशङ्काप्राप्ताविति योज्यम् । तेनात्मेत्येवोपासीतेत्यवधारणेनाऽऽत्मपदोक्तगुणानामवश्यो-पास्यत्वादात्मपदेन च ब्रह्माण्यभिमतगुणेभ्यो न्यूनाधिकगुणोक्तेरपि सम्भवेन सर्वगुणानां क्रिया-सामान्यमात्रस्य चोक्तिनियमाभावाद् ब्रह्माण्याः प्रागुक्तसर्वगुणोपसंहारः क्रियासामान्योपसंहार-श्चायुक्त इति शङ्कनात्पूर्वसङ्गतिरन्वयादित्यनेनापुनरुक्तता च ज्ञेया ॥ उक्तमयुक्तमिति ॥ आत्मशब्दाच्चेत्यत्रोक्तमनुपसंहारमानत्वमात्मशब्दस्यायुक्तमित्यर्थः । ब्रह्माण्युपसंहारस्यापि क्रियासु संकोचेनानुपसंहाररूपत्वादिति भावः ॥ गुणद्वैविध्यमिति ॥ द्वैविध्यदर्शनमित्यर्थः । पूर्ववद् व्याख्येयम् । अन्वयादिति चेदित्यत्रोक्तावेव प्रतिज्ञाहेतू आह ॥ नात्मेति ॥ सर्वगुणेति ॥ आप्तव्याप्तेरित्यादेरिति भावः । तत्रोक्तमेव सिद्धान्तीयपरिहारमाशङ्कते ॥ उक्तमिति ॥ आत्म-शब्देनास्य पुरुषस्यैतावन्तो गुणा उच्यन्त इति व्यवस्थित्यभाव इत्यन्यत्रोक्ताभ्यधिकाशङ्कां व्यनक्ति ॥ सत्यमित्यादिना ॥ उपासनेति ॥ उपासनस्यासम्भवादित्यर्थः । प्रातिस्विकनियमाभावं व्यनक्ति ॥ न च सम्भवति हीति ॥ फलोक्त्योपसंहरति ॥ अत इति ॥ आत्मपदेन तत्तदधिकारिणः प्रति तत्तदभिमतगुणमात्राभिधाननियमाभावादित्यर्थः । प्रमाणत्वोक्तिरात्म-शब्दस्येति भावः । येन ब्रह्माण्याः प्रागुक्तक्रियाविशेषानुपसंहारो युक्तः । स्यादिति भावः । प्रतिज्ञां बहिरेवोक्त्वा हेतूक्तिपरत्वेन न वेति भाष्यार्थं योजयति ॥ युक्तिमिति ॥ कुत इति ॥ सर्वाभिधानशक्तत्वा-त्तदभिधायकत्वाभावः कुत इत्यर्थः । हेतूपपादकत्वेनाधिकारिविशेषादित्येतद् व्याचष्टे ॥ तस्येत्यादिना ॥ यस्य यावन्तो अर्था युगपद्ध्यातुं शक्यन्ते तस्य तावन्त इति सिद्धेरिति न्यायविवरणोक्तं प्रागुक्तशङ्कानिवर्तकत्वेन योजयति ॥ न्यूनाधिकेति ॥ प्रतीयते ध्यानकाल इत्यर्थः । नन्वात्मशब्दाच्चेत्यत्राऽऽत्मेत्येवोपासीतेत्यात्मशब्दात्प्रतीतानेव गुणा-नुपासीतेत्यर्थस्योक्तिः कथमित्यत आह ॥ आत्मशब्देनेति ॥ इयमेवेति ॥ ध्यानकाले युगपद्यावतां प्रतीतिर् इयमेव न तु व्युत्पत्तिबलाद्यदा कदाचिज्जायमानाऽयोग्यगुणप्रतीतिरित्यर्थः । एवं चाऽऽत्मशब्दो बह्वर्थकोऽपि ध्यानकाले तत्तद्योग्यानेव गुणान् ब्रह्मब्राह्माण्यादीन्प्रति प्रकाशयतीति न कोऽपि दोष इति भावः ।

अभिनवचन्द्रिका

आत्मशब्दोक्तगुणोपासनस्येति ॥ सर्वोपास्यानां गुणानां सङ्ख्यानिर्देशपरिच्छेदेन आत्म-शब्दोक्तत्वसमर्थनादित्यर्थः । प्रकृतात्मशब्देति ॥ सर्वोपास्या गुणा विषयः । सङ्ख्यानिर्देशाभ्याम् आत्मशब्दोक्ताः सन्त उपास्या न वेति सन्देह इत्यर्थः । एतेन आत्मशब्दोक्ता गुणाः सङ्ख्या-निर्देशाभ्यां क्लृप्ता न वा ? न द्वितीयः । विषयनिर्णयाभावेन विचारानुदयप्रसङ्गात् । आद्येऽपि किं चत्वार एवेति निर्णयः, उत सर्वेऽप्यात्मशब्दोक्ता इति ? नाद्यः ‘सर्वगुणाभिधायकत्वात्’ इत्युत्तरग्रन्थविरोधात् । न द्वितीयः । सर्वेषां सर्वगुणोपासनानधिकारस्य निश्चितत्वेन सन्देहानुदय-प्रसङ्गादिति परास्तम् । योग्यताभेदेन सङ्ख्यानिर्देशाभ्यां क्लृप्तगुणेषु एतद्विधिबोध्यत्वाबोध्यत्व-सन्देहाङ्गीकारात् ॥ गुणद्वैविध्यमेवेति ॥ आनन्दादिगुणेषु केनचिच्छब्देनानुक्तत्वं, केनचिदुक्तत्वं च दृश्यते । तत्सन्देहबीजमित्यर्थः । एतेन सर्वगुणेषु आत्मशब्दोक्तत्वाङ्गीकाराद् गुणद्वैविध्यमेव नास्तीति गुणद्वैविध्याभिधानमयुक्तमिति परास्तम् । नात्मशब्दोक्तगुणा इति । सर्वोपास्या गुणाः सङ्ख्यानिर्देशाभ्यां नैतद्विधिबोध्या इति पूर्वपक्ष इत्यर्थः ॥ आत्मशब्दस्येति ॥ एतद्विधेर् निर्देशेन गुणानन्त्याभिधायकत्वेन, परिच्छेदेन दशपञ्चादिसङ्ख्याऽनभिधायकत्वादित्यर्थः । उत्तरं शङ्कते उक्तमत्रेति ॥ उत्तमातिरिक्तान् प्रति आनन्त्यानभिधायकत्वात् परिच्छेदेन सङ्ख्याभिधायकत्व-मुपपद्यत इति भावः । अभ्युपगमेन समाधत्ते सत्यमिति ॥ वस्तुतस्तु तदुक्तमसम्भावितमेवेत्याह न चेति ॥ स्वभावानपायादिति भावः । ‘सम्भवति हि’ इति पाठे तु चतुर्गुणोपासकं प्रति कदाचित्तद्योग्यान्, अल्पान् गुणान् अवबोधयति । कदाचित्तु अधिकव्युत्पत्तिवशेन अयोग्यानपि बहून् गुणान् बोधयतीति, हि यस्मात्सम्भवति अतः प्रातिस्विकनियमोऽयुक्त इत्यर्थो बोध्यः ॥ युक्तमेवेति ॥ सङ्ख्यापरिच्छेदेन सर्वोपास्यगुणानाम् आत्मेति विधिबोध्यत्वं युक्तमेवेत्यर्थः । ननु आत्मशब्दस्य आनन्त्याभिधायकत्वात् कथं परिच्छेदेन गुणाभिधायकत्वमित्यत आह– तस्येति ॥ किं सर्वगुणाभिधानसामर्थ्याभावात्, सर्वान् प्रति गुणाभिधायकत्वाभाव इति पृच्छति– कुत इति ॥ तस्य सर्वगुणेति ॥ अस्त्येव सर्वगुणाभिधाने आत्मशब्दस्य शक्तिः, तथापि न सर्वान् प्रति सर्वगुणानभिधत्ते । ‘तत्त्वमस्यादिवाक्यस्य तत्तद्योग्यतावशेन प्रमाऽप्रमाजनकत्ववत्, आत्मशब्द-स्यापि तत्तदधिकाररूप सहकारिविशेषसमवधानेन तत्तद्योग्यगुणाभिधायकत्वादिति भावः । ननु आत्मशब्देन प्रतीता गुणा ध्यातव्या इति सूत्रकृतोऽभिप्रेतं, तत्कथम् आत्मशब्देन कालान्तर-प्रतीतानां सूत्रकारविरुद्धमध्यातव्यत्ववचनमित्यत आह– आत्मशब्देनेति ॥ आत्मशब्देन कालान्तरे जातापि अयोग्यगुणप्रतीतिर् उपसंहारोपयोगिनी प्रतीतिरिति नाऽभिसंहितेत्यर्थः ॥

पूर्वपक्षस्तु– न ‘आत्मेत्येवोपासीत’ इति विधिः सर्वाधिकारिसाधारणः । अनन्तगुणाभि-धायकाऽऽत्मशब्दघटितत्वात् । न चाऽऽत्मशब्दस्य उत्तमान् प्रति सर्वगुणाभिधायकत्वेऽपि तदितरान् प्रति तदभावात्, तत्तद्योग्यगुणमात्राभिधायकत्वात् सर्वसाधारण्यमुपपन्नमिति वाच्यम् असम्भवात् । न हि शब्दो बुद्धिमान्, येनोत्तमत्त्वादधिकारिविशेषं प्रति सर्वगुणान् बोधयित्वा, अनुत्तमत्वादपरं प्रति अल्पानेव बोधयतीति स्यात् । ततश्च अनुपसंहारप्रमाणत्वोक्तिरयुक्तेति ।

सिद्धान्तस्तु– विधिरयं सर्वाधिकारिसाधारणः । तांस्तान् प्रति तत्तद्योग्यगुणाभिधायकत्वात् । न चाऽसम्भवः । अधिकारमपेक्ष्य ‘तत्त्वमस्यादिवाक्यस्य प्रमाऽप्रमाजनकत्ववत्, सर्वगुणाभि-धायकस्याप्यात्मशब्दस्य तत्तद्योग्यतामपेक्ष्यैव गुणबोधकत्वसम्भवात् । चतुर्गुणोपासकस्य आत्म-शब्दात् पञ्चमगुणस्याप्यवबोधसम्भवेन, प्रातिस्विकानियमाऽयोगाद् उपासनाऽनुपपत्तिरिति न वाच्यम् । यस्य ‘युगपत्स्वभुजाविव आत्मशब्देन यावन्तो गुणाः प्रतीयन्ते तावन्त एवोपास्या इति नियमसम्भवात् । ‘सर्वान् गुणान् आत्मशब्दो ब्रवीति ब्रह्मादीनामितरेषां न चैवम्’ इति श्रुतेश्च । तस्मादात्मशब्दोक्तगुणानां सर्वोपास्यत्वाद् उक्तं युक्तमिति सिद्धम् ।

वाक्यार्थमुक्तावली

त्रिविक्रमत्वादीनां ब्रह्माण्याः पृथगनुपासनवदात्मशब्दोक्तगुणानामपि सर्वैः पृथगुपासितु-मशक्यत्वान्न तेषां सर्वैरुपास्यत्वमित्याक्षेपोत्थानाद् अनन्तरसङ्गतिः ॥ अन्यथोक्तमिति ॥ अन्वयादित्यत्रोक्तमित्यर्थः ॥ सर्वोपास्या इति ॥ आत्मशब्दोक्तगुणाः सर्वोपास्या न भवन्त्युत भवन्तीति चिन्ता । तदर्थमात्मशब्दः सर्वान् प्रति सर्वगुणाभिधायक उतोत्तमान् प्रत्येवेति । तदर्थमात्मशब्देनास्यैतावन्त एवोच्यत इति प्रातिस्विकगुणोक्तिनियामकं नास्त्युतास्तीति ॥ सर्वगुणाभिधायकत्वादिति ॥ तथा च श्रुतचतुर्गुणोपासनस्य पुंसो विभ्रमकरत्वादुपासनानिश्चय इति भावः । स्यादवधारणादित्यत्र ब्रह्मादीन् गुणाधिकान् प्रत्येव सर्वगुणाभिधायकत्वं स्यान्नान्यान् प्रतीति गुणाधिक्यन्यायावष्टम्भेन विभ्रमकरत्वस्य निरस्तत्वाद् गतार्थतेत्याशङ्क्य व्यवस्थितिलक्षण-न्यायावष्टम्भेनाभ्यधिकशङ्कामाह ॥ उक्तमत्रेत्यादिना ॥ अस्यैतावन्त इति ॥ आत्मशब्देनास्य मनुष्योत्तमस्यैतावन्तश्चत्वार इत्यादिप्रातिस्विकनियमाभावेनेत्यर्थः ॥ प्रातिस्विकनियमाभाव-मुपपादयति ॥ न सम्भवतीति ॥ कांश्चित्प्रति कदाचिद्बहुगुणान् तदन्यान् प्रति तु कदाचिदल्प-गुणानित्यर्थः । व्याकरणादिपरिश्रमादात्मशब्दनिर्वचनरूपप्रमाणपरिचयभावाभावरूपदशाविशेष-मादायैकं प्रत्येव बहुगुणाल्पगुणप्रकाशनस्यात्मशब्देन सम्भवात् कांश्चिदल्पगुणानेवेत्यादि व्यवस्थानुपपन्ना । तथा च यस्य यत्प्रतीयते तदेव तेनोपास्यमित्ययोगव्यवच्छेदासम्भवाद् आत्म-शब्दोक्तस्य न सर्वोपास्यत्वमिति पूर्वपक्ष्यभिप्रायः ।

नन्वभ्यधिकशङ्कयास्य प्रवृत्तत्वेऽन्वयादित्येतदानन्तर्यं युक्तमिति चेन्न, गुणानामलौकिकत्वे व्युत्पत्त्यनुपपत्त्यात्मशब्देन गुणोक्तिरयुक्ता । आत्मशब्दोक्तत्वे लौकिकत्वायोग इत्यात्मशब्देन गुणप्रतिपादनमित्याक्षिप्य कार्याख्यानादित्यत्र समाधानात् । गुणोक्तौ तारतम्याक्षेपाद् गुणोक्तिरेव नेत्यस्य प्रथमप्राप्तत्वेन कार्याधिकरणस्यैतदपेक्षया प्राथम्यं समान एवं चेत्यस्यैवं चापूर्वत्वेऽपीति परामर्शाय तदानन्तर्यम् । यथाशक्तिक्रियेत्युक्ततत्सिद्धान्तन्यायावष्टम्भेन सर्वैरात्मशब्दोक्तगुणा-नामुपासितुमशक्यत्वमाशङ्क्य समाधानादस्य तदानन्तर्यमिति न्यायप्राप्तत्वात् । न वा प्रकरण-भेदादित्यस्योपसंहारनयशेषत्ववदस्यापि अन्वयादित्यधिकरणशेषत्वेनैकाधिकरणत्वं युक्तमिति चेन्न गायत्र्यधिकरणस्य ज्योतिरधिकरणशेषत्वे वक्तुं शक्यत्वेऽपि पृथङ्न्यायसूचकत्वात्पृथगधि-करणत्ववत् प्रकृतेऽप्युपपत्तेरिति दिक् । विस्तरस्तु भावबोधे । सूत्रे बहिरेव परमसाध्यं दर्शयति ॥ युक्तमेवेति ॥

ननु सर्वेषामात्मशब्दोक्तगुणोपासनमयुक्तम् । आत्मशब्दस्य सर्वान्प्रति सर्वगुणाभिधायकत्वेन विभ्रमकरत्वादित्यतः सर्वान्प्रति सर्वगुणाभिधायकत्वम् असिद्धमिति न वेति सूत्रखण्डेनोच्यते । तच्चात्मगृहीतिरित्यपि सर्वेषां सर्वगुणानामिति लभ्यते । वाशब्दो व्यवस्थितविकल्पे । तथा च न वा सर्वेषां सर्वगुणानामात्मपदेन गृहीतिरिति तदर्थं मनसि कृत्वा व्याचष्टे । तस्य सर्वान् प्रतीति ॥ नन्वभिधायकत्वं हि शब्दशक्तिः । सा च स्वरूपभूता । पुरुषशक्तिं नापेक्षते । तथा च कुतः सर्वान् प्रति सर्वगुणाभिधायकत्वाभाव इत्याक्षिपति ॥ कुत इति ॥ तत्परिहारकत्वेन विशेषा-दित्यस्याधिकारिविशेषादिति भाष्यं व्याचष्टे ॥ तस्येति ॥ अधिकारिसामर्थ्यतारतम्येन तत्तदुपासनायोग्यगुणाभिधायकत्वादित्यर्थः । शब्दस्वाभाव्यान्न सर्वगुणाभिधानशक्तावप्यधिकारि-सामर्थ्यतारतम्येन तस्मादेव शब्दात् स्वयोग्यमात्रप्रतीतिरिति भावः ।

ननु शब्दाद्गुणप्रतीतावयं प्रातिस्विकनियमो युक्तः । मनुष्योत्तमान् प्रति चतुर्गुणानेव तदुपासनायोग्यानेव वक्ति । गन्धर्वादीन् प्रति तत्सिद्धान् प्रियशिरस्त्वादीन् वक्ति । देवादीन् प्रति सम्भृत्यादींश्च वक्तीति न्यूनाधिकोक्तेरयोगाद् आत्मशब्दनिरुक्तिर् व्याकरणादिना मानुषादीनामपि अधिकगुणप्रतीतेर् आनुभाविकत्वादित्याशङ्क्य निषेधति ॥ न्यूनाधिकेति ॥ कुतो वाच्यमित्यतः सन्धिरित्युक्तन्यायप्रदर्शकमधिकारिविशेषादित्येतदेव भावबोधेन विवृणोति ॥ यस्य यावन्त इति ॥ आत्मशब्देन युगपद्यस्य यावन्तः प्रतीयन्ते तावन्तस्तेन ध्यातव्या इत्यधिकारिविशेषात् सन्धिः समाधानं व्यवस्थेति न्यायार्थ इति भावः ।

नन्वात्मशब्देन ध्यानकाले यावन्तो युगपत्प्रतीयन्ते तावतामुपास्यत्वेन विवक्षितत्वे व्युत्पत्ति-वशेनात्मशब्दस्य यावद्गुणप्रत्यायकत्वं तावतामुपास्यत्वमिति प्रागुक्तमयुक्तं स्यादित्यतस् तस्याय-मभिसन्धिरिति भावेनाह ॥ आत्मशब्देनेति ॥ इयमेवेति ॥ ध्यानकाले आत्मशब्दार्थानुभव-जनितसंस्कारवशेन युगपत्प्रतीतिरेव, न त्वनुभवकाले व्युत्पत्त्यतिशयजन्या गुणप्रतीतिरित्यर्थः । नन्वात्मशब्देन व्युत्पत्तिदशायां सर्वेषां स्वयोग्यगुणप्रतीतिवत् सर्वेषां गुणानां ध्यानकाले युगपत्प्रतीतौ पुनरव्यवस्थेत्यत आह ॥ अयोग्यं प्रति न प्रतीतिरिति भाव इति ॥ अयोग्यं प्रति गुणानां न युगपत्प्रतीतिरित्यर्थः । अयोग्यप्रतीतिर्न प्रतीतिरिति भावबोधोपात्तपाठे तु अयोग्य-प्रतीतिर्व्युत्पत्तिवशेन जाता । न प्रतीतिर्ध्यानोपयोगित्वेन विवक्षिता प्रतीतिर्न भवतीति भावः ।

तत्त्वसुबोधिनी

न चेदमधिकरणमन्वयादित्यनन्तरमेव कर्तव्यम् आत्मशब्दस्य गुणाभिधायकत्वविचारपरत्वादिति वाच्यम् । तथा सति अन्वयादित्यधिकरणशेषत्वपीडनस्य समान एवेत्यस्य तदानन्तर्यस्थिते अधिकरणद्वयेन व्यवधानस्यादोषत्वात् । न च भवत्वस्य तच्छेषत्वमिति वाच्यम् । अन्वयादिति चेदित्यनेनाभिप्रेतविभ्रमकरत्वपरिहाराय सत्स्यादित्यनेनैव पूर्तेर् न चेत्यस्य वैयर्थ्यप्रसङ्गात् । न च स्यादित्यनेन परोक्तात्मशब्दस्य सर्वगुणाभिधायकत्वं स्वीकृत्य न वेत्यनेन विभ्रमकरत्वं निरस्यत इत्यधिकरणैक्यमिति वाच्यम् । तथा सति अनेन सूत्रद्वयेन विभ्रमकरत्वनिरासेऽपि आत्मशब्देनास्य एतावन्त एवोच्यन्त इति प्रातिस्विकव्यवस्थित्यभावेन पुनरात्मशब्दोक्तगुणोपासनं न सर्वेषाम् उपपन्नमिति शङ्कापरिहारार्थम् अधिकरणान्तरकरणप्रसङ्गादिति । अन्यथोक्तमयुक्तं स्यादिति । कर्तव्यताऽसमर्थने आत्मशब्दोक्तमुपास्यं स्यादित्यर्थः ॥ शङ्कते उक्तमिति ॥

ननु शब्दस्य पुरुषव्युत्पत्यनुसारेण गुणाभिधायकत्वमिति प्रातिस्विकनियमोपपत्तेरित्यत आह ॥ सम्भवति हीति ॥ कालभेदेन वैशद्यावैशद्यसम्भवेन बहुगुणाध्यानायोग्यानां कदाचिद्वेधा गुणान् तद्योग्यानां तु कदाचिदल्पान् बोधयतीति । अस्यैतावन्त एव इति नियमो न सम्भवतीत्यर्थः । आत्मशब्देनापि योग्यप्रतीतिरेव विवक्षितेत्याह ॥ आत्मशब्देनेति ॥ अयोग्यप्रतीतिरिति ॥ अयोग्यतत्प्रतीतिव्युत्पत्तिवशेन जाताऽपि न प्रतीतिर् ध्यानोपयोगित्वेन विवक्षितार्थप्रतीतिर्न भवतीत्यर्थः ।

अत्राद्यसूत्रेणात्मशब्दस्य व्यवस्थया गुणाभिधायकत्वकथनम् । द्वितीये तदुपोद्बलित-श्रुतिरूपप्रमाणोक्तिरिति सूत्रक्रमः ।

वाक्यार्थविवरणं

ननु सर्वगुणाभिधायकत्वेऽपि सर्वेषां सर्वगुणोपास्तिप्रसङ्गो नास्तीत्याशङ्कते ॥ उक्तमत्रेति ॥ स्यादवधारणादित्यनेनैवेत्यर्थः ॥ उपासनेति ॥ आत्मशब्दोक्तगुणोपासनेत्यर्थः । उपासना-सम्भवमेवोपपादयति ॥ सम्भवति हीति ॥ बहुगुणान् अल्पाधिकारिणः प्रत्यपि बुद्धि-वैशद्यवशादिति शेषः । अल्पान् गुणान् उत्तमाधिकारिणः प्रत्यपि बुद्ध्यवैशद्यवशेनेति शेषः ॥ अनुपसंहारेति ॥ गुणान्तरव्यावृत्तिकथनपूर्वकमात्मत्वस्य सर्वोपासनविधानादनुपसंहार प्रमाणत्व-मात्मशब्दाच्चेत्युक्तमयुक्तमित्यर्थः ॥ तत्तद्योग्येति ॥ तत्तदुपासनायोग्यगुणेत्यर्थः ॥ न्यूनाधिकेति ॥ सम्भवतीत्युक्तरीत्येत्यर्थः ॥ प्रातिस्विकनियमेनेति ॥ अस्यतावन्त इति प्रातिस्विकनियमेनेत्यर्थः । व्युत्पत्तिवशादधिकगुणप्रतीतौ कथमित्यत आह ॥ आत्मशब्देनेति ॥ इयमेवेति युगपत्प्रतीति-रेवेत्यर्थः ॥ अयोग्येति ॥ अयोग्यगुणेत्यर्थः ॥

वाक्यार्थमञ्जरी

उक्तम् अनुपसंहारप्रमाणत्वम् ॥ उक्तमत्रेति ॥ अन्वयादित्यत्रेत्यर्थः ॥ प्रातिस्विकेति ॥ प्रतिव्यक्तिगतेत्यर्थः । ननु शब्दस्य पुरुषव्युत्पत्त्यनुसारेण गुणाभिधायकत्वमिति प्रातिस्विक-नियमोपपत्तिरित्यत आह ॥ न च सम्भवतीति ॥ कालभेदेन व्युत्पत्तेर्वैशद्यावैशद्यसम्भवेन बहुगुणध्यानयोग्यानां कदाचिद्बहुगुणान् तद्योग्यानां तु कदाचिदल्पगुणान्बोधयतीत्यतोऽस्यैतावन्त एवेत्यादिनियमो न सम्भवतीत्यर्थः ।

ॐ न वा विशेषात् ॐ ॥ आत्मशब्देन सर्वगुणगृहीतिर्न वास्तु कुतः विशेषाद् योग्यताविशेषादित्यर्थः ॥ अयोग्येति ॥ अयोग्यप्रतीतिर्व्युत्पत्तिवशेन जाताऽपि गुणप्रतीतिर्न प्रतीतिः, ध्यानोपयोगित्वेन विवक्षितप्रतीतिर्न भवतीत्यर्थः ।