ॐ कार्याख्यानादपूर्वम् ॐ
११. कार्याख्यानाधिकरणम्
सूत्रभाष्यम्
॥ ॐ कार्याख्यानादपूर्वम् ॐ ॥ १९ ॥
‘अलौकिकास्तस्य गुणा ह्युपास्या अलौकिकं मुक्तिकार्यं यतोऽस्य’ इति कार्या-ख्यानादन्यत्रादृष्टा एव गुणा उपास्याः ।
तत्त्वप्रदीपिका
मुक्तिकार्यस्यालौकिकत्वात् । तत्सम्पादकगुणा अप्यलौकिकत्वेनैवोपास्याः । अलौकिक-त्वोपास्तिपरमेतदतो न परमत इत्यनेन पुनरुक्तिराशङ्कनीया ॥
तत्त्वप्रकाशिका
अत्र ब्रह्मदर्शनसाधनोपासनायामलौकिकगुणोपसंहारसमर्थनादस्ति शास्त्रादिसङ्गतिर् अन्यथोक्ता-लौकिकत्वासिद्धेः समर्थनीयः । प्रकृतभगवद्गुणा एव विषयः । किमलौकिका ध्येया लौकिका वेति सन्देहः । पूर्वोक्तिर्लोकदृष्टिश्च सन्देहबीजम् । लौकिका एव ध्यातव्या इति पूर्वः पक्षः । लौकिका-नामध्याने ध्यानाभावप्रसक्तेः । अलौकिकानामननुभूतत्वेन ध्यानकालेऽप्रतीतेः । कर्तव्यं चेदं ध्यानम् । अतो लौकिका एव ध्यातव्याः । न चाविद्यमानं युक्तं ध्यातुमिति लौकिका एव ते ध्यानान्यथानु-पपत्तेरिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ कार्येति ॥ अलौकिका एव गुणा ध्यातव्याः । तथा ध्यानेनैव मोक्षसम्भवात् । ध्यानकार्य(स्य)मोक्षस्यालौकिकत्वाख्यानात् । फलानुसारिध्यानस्य कर्तव्यतानियमादिति भावः । न चालौकिकगुणाप्रतीतिर्दोषः । इन्द्रादाविवोपदेशोपपत्तेः । अतोऽलौकिकत्वेनैव ध्यातव्या इति युक्तं पूर्वोक्तमिति सिद्धम् ।
गुर्वर्थदीपिका
अलौकिकगुणोपसंहारसमर्थनादित्यत्रालौकिकगुणोपसंहारो नामालौकिका निरवधिका आनन्द- ज्ञानाद्या गुणा भगवति सन्तीति युगपन्मनसाऽनुचिन्तनमात्रं न तु मनोमयप्रतिमादर्शनवन्मनसा निर्माय दर्शनम् । भगवदलौकिकमूर्त्यापरोक्ष्येऽप्येषां विशिष्य दर्शनाभावात् किमुत ध्यानकाले । भगवदानन्दज्ञानादिगुणानां शिलादिप्रतिमास्विव जडमनोमयप्रतिमासु रचनायोगाच्च । एवं च ध्यानं नाम सर्वज्ञगुरूपदेशेन स्वस्वबिम्बमूर्तिं ज्ञात्वाऽव्यक्तस्वभावायास्तस्या एव साक्षाद्ध्यानेऽ-सामर्थ्यात्तादृशीं काञ्चन मनोमयीं प्रतिमां विधाय तामेव मनसा निरन्तरं पश्येत् । तदन्तरीदृश्य-लौकिकी भगवन्मूर्तिरस्तीति निरन्तरस्मरणं तस्मिन्भगवत्यलौकिकस्वयोग्यगुणानामपि यौगपद्येन निरन्तरानुस्मरणं ध्यानमुच्यते ।
ननु स्वातन्त्र्येण स्मरणसाधनं मन इत्युक्तत्वात् स्मरणमपि प्रत्यक्षमिति चेत्सत्यं स्वायोग्येषु बहिरर्थेषु संस्काराख्यालौकिकप्रत्यासत्त्या विषयीकरणात्स्वस्वकरणेन्द्रियसन्निकृष्टरूपादिज्ञानवन्न तन्मुख्यं प्रत्यक्षम् । अर्थशब्देनेन्द्रियविषया गृह्यन्त इत्युक्तत्वात्स्वस्वयोग्यविषयैः साक्षादेव सम्बद्ध-तत्तदिन्द्रियजन्यज्ञानमेव मुख्यं प्रत्यक्षं स्वातन्त्र्यं च बाह्येन्द्रियानपेक्षत्वमेव । नतु परनिरपेक्षतया बाह्यार्थविषयकत्वम् । मनसो बहिरस्वातन्त्र्यात् । अत एव लौकिकप्रत्यासत्यजन्यत्वेन परोक्ष-सदृशत्वात्परोक्षमिति चोच्यते । उक्तविधया स्मरणस्य कथञ्चिन्मानसप्रत्यक्षत्वाभावे प्रत्यक्षानुमिति-शब्दरूपकेवलप्रमाणत्रयानन्तर्भूतत्वेन चतुर्थप्रमाणत्वापत्त्या प्रमाणत्रित्वभङ्गः स्यात् । तस्मात् ‘देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा’ इत्यत्र उपदेवानां देवेष्विव स्मरणस्याप्यलौकिकमानस-प्रत्यक्षतया कथञ्चित्प्रत्यक्ष एवान्तर्भावो ज्ञेयः । साक्षान्मनोविषयस्तु दोषस्थलीयज्ञानाप्रामाण्यादिकं ध्यानपरिपाकानन्तरमविद्यापगमे सति परमात्मा च । एवं च मनसा भगवदपरोक्षज्ञानं नाम निरन्तरस्वानुस्मरणपरितुष्टभगवत्प्रसादादावरकाविद्यायाः कटवदपसरणे भगवत्प्रसादादेवोपोद्बलित- शक्तिना मनसा दिव्याभरणभूषितकरचरणमुखकमलाद्युपेतभास्वरचिदानन्दात्मकालौकिकभगव-न्मूर्तेरेव चक्षुषा घटादेरिव साक्षादीक्षणम् । इदमेव मोक्षसाधनम् । न तु स्मरणमात्रमित्यनुसन्धेयम् । वक्ष्यति चैतत् सूत्रकारः स्वयमेव ‘विद्यैव तु निर्धारणात्’इति । वस्तुगत्या अलौकिकानामेव गुणानां लौकिकतया ध्यानं क्रियत इति शङ्कां वारयति न चेति ॥ इन्द्रादाविवेत्यस्य अलौकिका-दाविन्द्रादयो यथा गुरूपदेशाज्ज्ञायन्ते तथा अलौकिकगुणानामपि प्रतीतिरित्यर्थः ।
भावबोधः
अलौकिकगुणेति ॥ ब्रह्यादिमनुष्योत्तमान्ताधिकारिणाम् उपसंहर्तव्यगुणनिर्णये तेषामलौकिकत्वं विचार्यत इत्यनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ अत्र भगवद्गुणाः किं लौकिका ध्येया उतालौकिका इति चिन्ता । तदर्थं लौकिकानामध्याने ध्यानं न सम्भवत्युत सम्भवतीति । तदर्थमलौकिकानां प्रतीतिर्न सम्भवत्युत सम्भवतीति ॥ पूर्वोक्तिरिति ॥ ‘परमतः सेतून्मान-सम्बन्धभेदव्यपदेशेभ्यः’ इति पूर्वमलौकिकत्वोक्तिरित्यर्थः ॥ लोकदृष्टिरिति ॥ लोके लौकिकस्यैव पुत्रादेर् ध्यानस्य दर्शनादिति भावः । ‘परमतः’ इत्यत्र भगवद्गुणानाम् अलौकिकत्वसमर्थनं, अत्र तु तेषामेवोपसंहर्तव्यत्वसमर्थनमिति तयोर्भेद इति ज्ञातव्यम् । अलौकिकगुणानामप्रतीतेर् लौकिक-गुणाध्याने एतदपाकृतिरेवेति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– लौकिकानामित्यादिना ॥
ननु ‘बुद्ध्यर्थः पादवत्’ इत्यत्र अनन्दादिपदप्रयोगस्य समर्थितत्वेनानुभवोपायस्योक्तत्वात् कथं पूर्वपक्षोत्थानमिति चेत्, न; अलौकिकत्वे व्युत्पत्त्ययोगेन तत्पदप्रयोगस्याप्यनुपपत्तेरिति तदाक्षेपेण पूर्वपक्षोत्थानात् । न च ‘विद्वद्व्युत्पत्तितोऽपि च’ ‘तैस्तैः शब्दैश्च भण्यते’ ‘युज्यते चोपदेशतः’ इत्यनुव्याख्याने तत्रैव व्युत्पत्तिरपि समर्थितेति तद्दोषतादवस्थ्यमिति वाच्यम् । तस्य तदेतदधि-करणद्वयतात्पर्यकथनपरत्वोपपत्तेः । अत एवानुव्याख्याने एतदधिकरणस्य पृथग्व्याख्यानाभावः । अत एव चात्र टीकायां ‘युज्यते चोपदेशतः’ इत्यनुव्याख्यानोक्तामेव युक्तिं वक्ष्यति– इन्द्रादा-विवोपदेशोपपत्तेरिति ॥ विपर्यये पर्यवसानमाह– कर्तव्यं चेदमिति ॥ ‘निदिध्यासितव्यः’ इति श्रुतिविहितत्वादिति भावः ।
ननु अस्तु लौकिकानामेव ध्यानं, तथापि न भवद्गुणानाम् अलौकिकत्वहानिः । ‘योषितमग्निं ध्यायीत’ इतिवत्, अविद्यमानध्यानस्यापि सम्भवादित्यत आह– न चाविद्यमानमिति ॥ लौकिका एवेति ॥ तथा च ‘परमतः’ इत्युक्तम् अलौकिकत्वमयुक्तमिति भावः । लोकविलक्षणा अत्युत्तमा इति ध्यानस्यैव प्रधानादिति न्यायविवरणाभिप्रायमाह– तथा ध्यानेनैवेति ॥ अलौकिकत्वाख्या-नादिति ॥ अनेन ‘कार्याख्यानात्’ इति सूत्रभाष्ययोः कार्यस्यालौकिकत्वाख्यानादिति मध्यम-पदलोपी समास इत्युक्तं भवति । इन्द्रादाविवेति ॥ यः सहस्राक्षः स इन्द्र इत्यादिवत् । साक्षात्कृत-भगवद्गुणानां यत्सर्वविषयं तदीश्वरज्ञानमित्याद्युपदेशेन तदविदुषामपि तत्प्रतीत्युपपत्तेरिति भावः ।
भावदीपः
अलौकिकगुणोपसंहारसमर्थनादिति ॥ तेषां पूर्वमननुभूतत्वेनानुपसंहार्यत्वप्राप्तावुपदेशतोऽनु-भूतत्वकथनेनेति भावः । तेन पूर्वत्राधिकारिणां स्वस्वयोग्यगुणान्यगुणानामात्मशब्देनाप्रतीत्या तत्तन्मात्रगुणोपासनं युक्तमित्युक्तमयुक्तम् । योग्यानामपि प्रागुक्तदिशा अलौकिकत्वेनात्म-शब्देनाप्यप्रतीतेः । लौकिकत्वे प्रागुक्तहानिरिति शङ्कनात्पूर्वसङ्गतिः सूचिता । यद्वा सावधारणात्मशब्दोऽयमनुपसंहार इवोपसंहारेऽपि प्रमाणमित्युक्तं पूर्वत्र । तथा चैतावता ग्रन्थेन प्रमाणोक्त्यादिनोपसंहारानुपसंहारयोः कर्तव्यत्वमुक्तं, इदानीं कीदृशा गुणा उपसंहार्या लौकिका अलौकिका वेति चिन्तनात्पूर्वसङ्गतिः । अनुपसंहारस्याल्पगुणोपसंहाररूपत्वात् ॥ उक्तेति ॥ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्य इत्यत्रोक्तेत्यर्थः । उपास्यत्वबलेनेश्वरगुणानां लौकिकत्व-प्राप्तावलौकिकत्वासिद्धेरित्यर्थः । पूर्वोक्तिः परमतः सेतून्मानेत्यत्रालौकिकत्वोक्तिरित्यर्थः । अलौकिकगुणानामप्रतीतेर्लौकिकगुणाध्याने तदपाकृतिरेव भवतीत्यन्यत्रोक्तपूर्वपक्षं विवृणोति ॥ लौकिका एवेत्यादिना ॥ तदपाकृतिरेवेत्यस्यार्थो ध्यानाभावप्रसक्तेरिति ॥ अननुभूतत्वेनेति ॥ तत्र प्रत्यक्षानुमानयोरप्रसक्तेः प्रसक्तस्य चशब्दस्य सङ्गतिग्रहसापेक्षत्वात्तस्य च सम्बन्धिज्ञानाधीनत्वा-च्छब्दरूपसम्बन्धिनः प्रत्यक्षत्वेऽप्यर्थरूपसम्बन्धिनः शब्दादन्येनाप्रतीतेः शब्दान्तरेण तत्प्रतीतौ तत्राप्येवमित्यनवस्थापत्त्या संकेतग्रहायोगेन शब्देनाप्यननुभूतत्वेनेत्यर्थः । अप्रतीतेरस्मरणादित्यर्थः ॥ कर्तव्यं चेति ॥ अन्यथा तज्जन्यसाक्षात्काराभावेन मोक्षासिद्धेरिति भावः ॥ अत इति ॥ अनुभवस्मरणयोरसम्भवादित्यर्थः । लौकिकत्वे हि समयप्रतिपत्तौ तु सादृश्यमुपधानमिति पद्धत्याद्युक्तदिशा प्रसिद्धज्ञानानन्दादिसादृश्येनेश्वरगुणेऽपि संकेतग्रहणसम्भवादिति भावः ।
ननु परमत इति नये बुध्यर्थः पादवदिति सूत्रटीकायां व्युत्पत्तिश्च सौवर्णे घटे घटशब्दस्येव किञ्चित्सादृश्येनैवोपपद्यत इत्युक्तदिशा लोकसादृश्येनालौकिकेऽपि व्युत्पत्तिस्तत्रैवोक्तेति चेन्न । अत्रत्यस्यैव तत्र शिष्यहितायोक्तत्वात् । अत एव तत्र न्यायविवरणम् अलौकिकास्तस्य शब्दा-स्तथार्था इत्यादि । अत्र तु अप्रतीतेरिति । तत्वप्रदीपे तु लौकिकोपास्तिपरमेतत्, अतो न परमत इत्यनेन पुनरुक्तिरित्युक्तम् । नन्वस्तु भगवदीयानां गुणानामलौकिकत्वं तत्राऽसन्तोऽपि लौकिका एव गुणा ध्यातव्या भवन्त्वित्यत आह ॥ न चाविद्यमानमिति ॥ न प्रतीके न हि स इति चतुर्थे निरसिष्यमाणत्वादिति भावः ॥ अदृष्टा एव गुणा उपास्या इति प्रतिज्ञाभाष्यार्थमाह ॥ अलौकिका एव गुणा ध्यातव्या इति ॥ कुत इत्यतो लौकिकविलक्षणा अत्युत्तमा इति ध्यानस्यैव
प्राधान्यादित्यन्यत्रोक्तहेतुमाह ॥ तथा ध्यानेनैवेति ॥ प्राधान्यादित्यस्य विवरणं मोक्षसम्भवादिति ॥ कुत एवं लौकिकगुणध्यानेनाप्यस्तु मोक्ष इत्यतो भाष्योक्तहेतुं योजयति ॥ ध्यानकार्येति ॥ एतेनापूर्वमलौकिकगुणजातमुपास्यम् । अपूर्वस्यैव तत्कार्यस्य मोक्षस्याख्यानात्कथनादलौकिका इत्यादिश्रुताविति सूत्रार्थो दर्शितः ॥ फलानुसारीति ॥ ‘यथा यथोपासते तदेव भवति’ इति श्रुतेरिति भावः ॥ इन्द्रादाविवेति ॥ शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गत इत्यभिमानिनयानु-व्याख्यासुधयोरुक्तरीत्या यः सहस्राक्षः स इन्द्रः । यः पाशहस्तः स वरुण इत्यादौ वाक्यार्थमर्याद-योपस्थिते वस्तुनीन्द्रादिशब्दव्युत्पत्तिवदनुकूलवेदनीयो भगवद्गुणो यः स आनन्द इति साक्षात्कृत-भगवद्गुणानां विदुषाम् उपदेशेनोपस्थितौ तत्र तत्पदशक्तिग्रहोपपत्तेरित्यर्थः । युज्यते चोपदेशत इत्यनुव्याख्यानसुधायां तथैवोक्तेः । फलोक्त्या सूत्रार्थमुपसंहरति ॥ अत इति ॥ ध्यानकार्यमोक्षस्या-लौकिकत्वाख्यानादित्यर्थः । ध्यातव्या गुणा इति शेषः । सर्वत्र गुणपदं क्रियासाधारणधर्ममात्रपरम् उपसंहारसूत्रभाष्यटीकायां गुणा इति विधिमुखवेद्या वेदोक्तधर्मा इत्युक्तेः । पूर्वोक्तं परमत इत्यत्रोक्तमित्यर्थः । यत्तु कश्चिदाह । ईशगुणानामलौकिकत्वेऽपि ध्येयगुणानां वासनामयत्वेना-लौकिकत्वाभावादलौकिका ध्येया इत्युक्तिरयुक्तेति । तन्न । अलौकिकेशगुणानुभवजन्यवासनामया ध्येया इत्येव तदर्थस्याभिमतत्वात्संशयकोट््यादेरप्येवमेवार्थत्वात् ।
अभिनवचन्द्रिका
अन्यथेति ॥ लौकिकध्यानेनैव महापुरुषार्थसिद्ध्यङ्गीकारे भगवद्भुणानामपि लौकिकत्वमेव स्यात् । भगवद्भुणान्यस्य महापुरुषार्थसाधनत्वानुपपत्तेरिति भावः । किमलौकिका ध्येया इति । किं लोकविलक्षणत्वेन ध्यातव्याः, उत लोकसदृशत्वेन ध्यातव्या इत्यर्थः ॥ लौकिका एवेति ॥ लोकसदृशा एवेत्यर्थः । अलौकिकानामिति ॥ आनन्दादिशब्दानां लौकिकेष्वेव गृहीतसङ्गति-कत्वेन ईश्वरानन्दादिग्राहकप्रमाणेन लौकिकानन्दादेरेवानुभवाद् अलौकिकानुभवाभावेन ध्यानकाले लौकिकानां स्मृत्यनुपपत्तेरिति भावः ॥ ध्यानकार्यस्येति ॥ ननु ‘अलौकिकास्तस्य गुणा ह्युपास्या’ इति श्रुतौ ध्यानकार्यस्य मोक्षस्येव, ध्येयगुणानामपि अलौकिकत्वमुक्तमेव । ततश्च गुणानामलौकिकत्वाभिधानादलौकिका एव ध्येया इति वक्तव्यम्, न तु तत्कार्यस्य मोक्षस्य अलौकिकत्वाभिधानमाश्रयितव्यम् । लघु चैवं सति सूत्रं भवति ‘आख्यानादपूर्वम्’ इतीति चेत्, सत्यं गुणानामलौकिकत्वाभिधानमेव हेतुतया वक्तुं युक्तमिति, तथापि श्रुतौ गुणाऽलौकिकत्वं प्रतिज्ञाय, कार्याऽलौकिकत्वं हेतुतया उक्तमिति श्रुत्यनुसारिणा सूत्रकृतापि तथोक्तम् । सूत्रकाराभिप्रायस्य वर्णनीयत्वाद् भाष्यकारटीकाकाराभ्यामपि तथैवोक्तमिति ॥ इन्द्रादाविवेति ॥ लक्षणमुखेन इन्द्रादेरिव उपदेशोपपत्तिरिति भावः । ननु अस्तु अलौकिकानां भगवद्गुणानां ज्ञानसम्भवः, तथापि ध्यानं तु लौकिकानामेव । चित्ते प्रतिबिम्बितस्य वासनामयस्य लौकिकत्वात्, तदवलोकनस्यैव ध्यानत्वात् । तथा चाऽलौकिकस्य ध्यानमिति व्याहतं वच इति चेत्, सत्यम् मानसवासनामयस्य वस्तुनो मनसावलोकनमेव ध्यानमिति, तथापि ‘अलौकिकस्य ध्यानम्’ इत्युपपन्नमेव, ‘अलौकिकस्य ध्यानम्’ इत्यनेन अलौकिकार्थानुभवजनितवासनोपादानकपदार्थाव-लोकनस्यैव विवक्षितत्वात् । भवति च वासनोपादानकार्यध्यानं वासनामयमुल्लिखदपि, लिङ्गज्ञानं लिङ्गिविषयमिव, वाक्यज्ञानं वाक्यार्थविषयमिव, अलौकिकार्थ विषयं च । तदुक्तम् ‘तदुपासनं च भवति प्रतीमोपासनं यथा’ इति ।
पूर्वपक्षस्तु– भगवद्गुणा लौकिकत्वेनैव ध्यातव्याः । अन्यथा अलौकिकानामननुभूतत्वाद् वासनाभावेन स्मृतिरूपध्यानाभावप्रसङ्गात् कर्तव्यं च ध्यानम् । अतो लौकिका एव भगवद्गुणा इति ।
सिद्धान्तस्तु– अलौकिका एव भगवद्गुणा ध्यातव्याः । तद्ध्यानकार्यस्य मोक्षस्य अलौकिकत्वात् । न च– अलौकिकगुणाऽप्रतीतेर्ध्यानाभावप्रसङ्गः । लक्षणमुखेन इन्द्रादेरिवोप-देशेन तत्प्रतीत्युपपत्तेः । अतोऽलौकिका एव ध्यातव्या इति युक्तं पूर्वोक्तं भगवद्गुणानाम-लौकिकत्वमिति सिद्धम् ।
वाक्यार्थमुक्तावली
आत्मशब्देन सर्वेषां गुणप्रतीतिरुक्ता । तेषामलौकिकत्वे व्युत्पत्त्यभावेन शब्देन प्रतीत्ययोगाद् लौकिका एव ध्येया इत्याक्षेपादनन्तरसङ्गतिः । प्रकृता भगवद्गुणा किं लोकसदृशा ध्यात-व्योतालौकिका इति चिन्ता । तदर्थं ध्यानकाले प्रतीत्यर्थमलौकिकानां शब्देनानुभवो नोपपद्यत उतोपपद्यत इति ॥ पूर्वोक्तिरिति ॥ परमतः सेतून्मानेति पूर्वमलौकिकत्वोक्तिरित्यर्थः ॥ लौकिकदृष्टिश्चेति ॥ लौकिकस्यैव सौन्दर्यादेर्भार्यादौ ध्यानदर्शनादिति भावः । अत्र तत्त्वप्रदीप-वाक्यम् । अलौकिकत्वेनोपास्तिपरमेतत् । अतोऽत्र परमत इत्यनेन न पुनरुक्तिरिति । अत्रापाकृतिरित्युक्तन्यायं दर्शयन् पूर्वपक्षयति । अलौकिकानामित्यनेन । अननुभूतत्वेनेति शब्दस्य तत्राव्युत्पन्नत्वेन शब्दतोऽननुभूतत्वे ध्यानकाले तत्स्मरणानुपपत्तेरिति भावः । विपर्यये पर्यवसानमाह ॥ कर्तव्यं चेदमिति ॥ निधिध्यासितव्य इति श्रुतिविहितत्वादिति भावः । नन्वस्तु लौकिकानामेव ध्यानं, तथापि भगवद्गुणानामलौकिकत्वहानिः । ‘योषितमग्निं ध्यायीत’ इतिवदविद्यमानध्यानस्यापि सम्भवादित्यत आह ॥ न चाविद्यमानमिति ॥ लौकिका एवेति ॥ तथा च परमत इत्युक्त-लौकिकत्वमयुक्तमिति भावः ।
ननु बुद्ध्यर्थः पादवदित्यत्राप्रसिद्धेऽप्यानन्दादिपदप्रयोगस्य समर्थितत्वात् कथं पूर्वपक्षो-त्थानमिति चेन्न । अलौकिकत्वे व्युत्पत्त्ययोगेन तत्पदप्रयोगस्यानुपपत्तेरिति तदाक्षेपेणोत्थानात् । न च ‘विद्वद्व्युत्पत्तितोऽपि च । तैस्तैः शब्दैश्च भण्यन्ते युज्यते चोपदेशतः’ इत्यनुव्याख्याने तत्रैव व्युत्पत्तिरपि समर्थिता इति तद्दोषतादवस्थ्यमिति वाच्यम् । तस्य तदेतदधिकरणद्वयतात्पर्य-कथनपरत्वोपपत्तेः । अत एवानुव्याख्याने एतदधिकरणस्य पृथग्व्याख्यानाभावः । अत एवात्र टीकायां ‘युज्यते चोपदेशतः’ इत्यनुव्याख्यानोक्तामेव युक्तिं वक्ष्यति । इन्द्रादाविवोपदेशेनो-पपत्तेरिति भावबोधे निपुणतरमुक्तम् ।
सूत्रे गुणजातमित्यन्वेति ॥ ध्येयमिति च कार्येऽप्यपूर्वत्वमर्थादन्वेति । गुणजातमपूर्वमन्यत्रा-दृष्टपूर्वमलौकिकमुपसंहृत्य ध्येयम् । कार्याख्यानान् मोक्षाख्यफलसम्भवादन्यथासम्भवात् । पुत्रध्यानेनैव कार्यविशेषोऽस्तीत्येतावता न पुत्रस्यालौकिकत्वमित्यत उक्तम् ॥ कार्याख्यानादिति ॥ कार्यस्य ध्यानकार्यस्य मोक्षस्यालौकिकत्वाख्यानादित्यर्थमभिप्रेत्य प्राधान्यमित्युक्तन्यायमलौकि-कत्वेन फलस्य प्राधान्यमिति व्यञ्जयन्व्याचष्टे ॥ अलौकिका एवेत्यादिना ॥ इन्द्रादाविवेति ॥ यत्सहस्राक्षः स इन्द्र इत्यादिवत् साक्षात्कृतभगवद्गुणानां यत्सर्वं विषयं तदीश्वरज्ञानमित्याद्युपदेशेन तदविदुषामपि तत्प्रतीत्युपपत्तेरिति भावः ।
तत्त्वसुबोधिनी
अलौकिकगुणेति ॥ ब्रह्मादिमनुष्योत्तमानाम् अधिकारिणामुपसंहर्तव्यगुणनिर्णयाय तेषामलौकि-कत्वं विचार्यत इत्यनन्तरसङ्गतिरिति भावः ॥ अन्यथोक्तेति ॥ अलौकिकगुणोपासनसमर्थनाभावे परमत इत्युक्तालौकिकत्वमपि सिद्धेरित्यर्थः ॥ लोकदृष्टिरिति ॥ लोके लौकिकस्यैव पुत्रादेर् ध्यानस्य दर्शनादिति भावः । परमत इत्यत्र तु भगवद्गुणानामलौकिकत्वसमर्थनमत्र तु तेषामेवोपसंहर्तव्यत्वसमर्थनमिति तयोर्भेद इति ज्ञातव्यम् ॥ लौकिकानामध्याने ध्यानाभावप्रसक्तिः कुत इत्यत आह ॥ अलौकिकानामिति ॥ न च बुध्यर्थः पादवदित्यत्राप्रसिध्येऽप्यानन्दादि-पदप्रयोगस्य समर्थितत्वात् । अनुभवोपायस्योक्तत्वाक्तथं पूर्वपक्षोत्थानमिति वाच्यम् । अलोकिकत्वे व्युत्पत्ययोगेन तत्प्रयोगस्याप्यनुपपत्तेरिति तदाक्षेपेण पूर्वपक्षप्रवृत्तेः । न च व्युत्पत्तिश्च सौवर्णघट इत्यादिना तत्रैव समर्थितेति वाच्यम् । तस्य तदेतदधिकरणद्वयतात्पर्यकथनपरत्वोपपत्तेः । विपर्यये पर्यवसानमाह ॥ कर्तव्यं चेति ॥ निदिध्यासितव्य इति श्रुतिविहितत्वादिति भावः । नन्वस्तु लौकिकानामेव ध्यानं तथापि न भगवद्गुणानामलौकिकत्वहानिः । ‘योषितमग्निं ध्यायीत’ इतिवदविद्यमानस्यापि ध्यानसम्भवादित्यत आह ॥ न चाविद्यमानमिति ॥ लौकिका एवेति ॥ तथा च परमत इत्युक्तमलौकिकत्वमयुक्तमिति भावः ॥ इन्द्रादिवदिति ॥ यः सहस्राक्षः स इन्द्र इत्यादिवत्साक्षात्कृतभगवद्गुणानां यत्सर्वविषयं तदीश्वरज्ञानमित्याद्युपदेशवद्विदूषणामपि तत्प्रतीत्यु-पपत्तेरित्यर्थः । अस्य च सूत्रस्य अलौकिकमेव गुणजातमुपास्यं कुत इत्यत उक्तम् ॥ कार्याख्यानादिति ॥ कार्यस्यालौकिकत्वाख्यानं कार्याख्यानमिति मध्यमपदलोपीसमासः । एवं च मोक्षरूपकार्यस्यालौकिकत्वाख्यानादित्यर्थः । अलौकिकं कार्यम् अलौकिककारणेन विना न सम्भवतीत्यक्षरार्थः ।
वाक्यार्थविवरणम्
उक्तालौकिकत्वेति ॥ परमत इत्यत्र उक्तालौकिकत्वेत्यर्थः । लौकिकानामध्याने ॥ अलौकिकगुणध्यानाङ्गीकारे इत्यर्थः । कुत इत्यत आह ॥ अलौकिकानामिति ॥ ननु वस्तुतो अलौकिकानामेव लौकिकत्वेन विद्यमानध्यानाङ्गीकाराददोष इत्यत आह ॥ न चेति ॥ लौकिका एव वस्तुत इति शेषः । कार्याख्यानाद् ध्यानकार्यस्य मोक्षस्यालौकिकत्वाख्यानादपूर्वं लोक-विलक्षणमेव गुणजातमुपास्यमिति सूत्रार्थः । भाष्ये ॥ मुक्तिकार्यम् ॥ मुक्तिरूपध्यानार्थमित्यर्थः ॥ न चेति ॥ अयमर्थः । ज्ञानादिपदानां न भगवज्ज्ञानादिगुणेषु व्युत्पत्तिः सम्भवति । सम्बन्धस्य सम्बन्धिज्ञानसापेक्षत्वात् सम्बन्धिनां भगवद्गुणानां प्रत्यक्षेण दुरधिगमत्वात् । लिङ्गाभावेनानुमाना-योगात् । न च शब्दतस्तदवगमः । सत्यां व्युत्पत्तौ शब्दतस्तदवगमः सति च तस्मिन् व्युत्पत्ति-रिति परस्पराश्रयत्वात् । न च शब्दविशेषस्यागृहीतसङ्गतिकस्यैव बोधकत्वम् । एतददृष्टकल्पना-प्रसङ्गादिति ॥ कुतो दोषो न चेदित्यतः ‘शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः’ इत्यनुव्याख्यानं हृदि कृत्वाह ॥ इन्द्रादाविवेति ॥ यथा खलु लोके यथा मुद्गस्तथा, मुद्गपर्णा यथा माषस्तथा माषपर्णा, दीर्घग्रीवादिमान् पशुरुष्ट्र इति लक्षणान्युपादाय मुद्गपर्णादिशब्दा व्युत्पाद्यन्ते तथा लोकविलक्षणेऽपीन्द्रादौ यः सहस्राक्षत्वादिमान् स इन्द्रादिशब्दार्थ इति शास्त्रोक्ततत्तद्देवतालक्षणान्युपादायोपदेशादिन्द्रादिशब्दव्युत्पत्तिः सुकरैव । सहस्रादिशब्दाश्च लोक एव गृहीतसङ्गतयः । समासस्य च वाक्यरूपत्वेन अपूर्वार्थोपस्थापकतया व्युत्पत्त्यपेक्षत्वाभावादेवं प्रकृतेऽपीश्वरगुणानामलौकिकत्वेऽपि यत्सर्वविषयं तदीश्वरज्ञानमित्येवमादिरूपेण शास्त्रोक्त-तल्लक्षणमादाय विद्वदुपदेशतो व्युत्पत्तिः सम्भवत्येव । सर्वविषयादिशब्दानां लोके गृहीत-सङ्गतिकत्वात् समासस्य वाक्यत्वेन अपूर्वार्थोपस्थापकतया व्युत्पत्त्यनपेक्षत्वादिति भावः ॥ पूर्वोक्तम् ॥ परमत इत्युक्तमलौकिकत्वम् ।
वाक्यार्थमञ्जरी
उक्तेति ॥ ‘परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः’ इत्यनेनोक्तेत्यर्थः ॥ लोकदृष्टिरिति ॥ लोके लौकिकस्यैव पुत्रादेर्ध्यानदर्शनादिति भावः । न ध्यानाभावप्रसङ्गोऽलौकिकानां ध्यानसम्भवा-दित्यत आह ॥ अलौकिकानामिति ॥ विपर्यये पर्यवसानमाह ॥ कर्तव्यं चेति ॥ निदिध्यासितव्य इति श्रुतिविहितत्वादिति भावः । नन्वस्तु लौकिकानामेव ध्यानं तथापि न भगवद्गुणानाम-लौकिकत्वहानिः । ‘योषितमग्निं ध्यायीत’ इतिवदविद्यमानध्यानस्यापि सम्भवादित्यत आह ॥ न चाविद्यमान एवेति ॥ लौकिका एवेति ॥ तथा च परमत इत्युक्तमलौकिकत्वमयुक्तमिति भावः ।
ॐ कार्याख्यानादपूर्वम् ॐ ॥ भगवद्गुणजातमपूर्वमलौकिकं ध्येयं, कुतः कार्यस्य ध्यानकार्यस्य मोक्षस्याख्यानाद् अलौकिकत्वाभिधानादित्यर्थः ॥ इन्द्रादाविवेति ॥ यः सहस्राक्षः स इन्द्र इतिवत्साक्षात्कृतभगवद्गुणानां यत्सर्वविषयं तदीश्वरज्ञानमित्याद्युपदेशेन तदविदुषामपि प्रतीतेरिति भावः ॥
॥ इति कार्या(ख्याना)धिकरणम् ॥ ११ ॥