१० अन्वयाधिकरणम्

ॐ अन्वयादिति चेत्स्यादवधारणात् ॐ

१०. अन्वयाधिकरणम्

सूत्रभाष्यम्

॥ ॐ अन्वयादिति चेत्स्यादवधारणात् ॐ ॥ १८ ॥

सर्वगुणानामन्वय आत्मशब्दे भवति । ‘आप्तव्याप्तेरात्मशब्दः परमस्य प्रयुज्यत’ इति वचनादिति चेत्सत्यम् । स्याच्चैवम् । आत्मेत्येव (बृ.उ.३-४-७) इत्यवधारणात् । अन्यथा सर्वोपसंहारवचनविरोधात् ।

तत्त्वप्रदीपिका

तर्हि तावन्त एवेति नियन्तुं न शक्यते । सर्वगुणानामप्यात्मशब्दे वाच्यत्वेनान्वयात् । अतः कथमनुपसंहारप्रमाणत्वमिति चेत्सत्यम् । न तत्रैव प्रमाणम् । सर्वोपसंहारेऽपि प्रमाणमेव । आत्मेत्येवेति सर्वगुणपूर्ण इत्येवेत्यवधारणात् । एवमर्थानङ्गीकारे सर्वोपसंहारवचनविरोधात् ।

तत्त्वप्रकाशिका

अत्र भगवद्दर्शनसाधनात्मशब्दोक्तगुणोपासनस्य सर्वैः कर्तव्यत्वसाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथानुपसंहारप्रमाणौक्तिर्व्याहन्यत इति साधनीयम् । प्रकृतात्मशब्दोक्तगुणा एवात्र विषयः । सर्वोपास्या न वेति सन्देहः । गुणद्वैविध्यदर्शनं सन्देहबीजम् । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद्व्याचष्टे ॥ अन्वयादिति ॥ आत्मशब्दोक्तगुणा न सर्वोपास्याः । आप्तव्याप्तेरिति तस्य सर्वगुणाभिधायकत्वोक्तेः । तथा चायं श्रुतचतुर्गुणोपासनस्य पुंसो विभ्रमकरो भवति । न त्वेवमुपासनं कार्यमिति निश्चायकः । न ह्युभयथा श्रुतवतोऽन्यतरस्मिन्नर्थे निश्चयो भवति । न च वाच्यं तस्य सर्वगुणाभिधायकत्वेऽपि स्वयोग्यं तदुक्तमुपास्यमिति । तथा सत्यवधारणविरोधात् । अत आत्मशब्दोक्तगुणानां सर्वोपास्यत्वाभावादनुपसंहारप्रमाणत्वानुपपत्तिरिति भावः । सिद्धान्तांशं व्याचष्टे ॥ सत्यमिति ॥ कथं परेणोक्तमभ्युपगम्यत इत्यत आह ॥ स्यादिति ॥ सर्वगुणाभि-धायकत्वमात्मशब्दस्य यत्परेणोक्तं तत्तथा स्यादेवातो नाभ्युपगमो दोषाय । इयांस्तु विशेषः । सर्वगुणांश्चात्मशब्दो वदन् ब्रह्मादीन्प्रत्येव वदति नान्यान्प्रति । तथानुभवात् । अतस्तस्याविभ्रम-करत्वात्तदुक्तोपासनं सर्वेषां युक्तमिति भावः ।

ननु ब्रह्मादीनामात्मशब्दः सर्वगुणान्ज्ञापयतीति कुतोऽन्यान्प्रतीव ब्रह्मादीन्प्रत्यल्पगुणाभिधायकः किं न स्यादित्यत आह ॥ आत्मेति ॥ अवधारणेऽपि किमायातमित्यत आह अन्यथेति ॥ अन्ययोगव्यवच्छेदकावधारणयुक्तात्मशब्दो ब्रह्मादीनधिकरोति ततस्तैरपि तदुक्तमेवोपास्यम् । तथा च यद्यसौ न तान्प्रति सर्वगुणानभिधत्ते तर्हि ‘सर्वैर्गुणैरुपास्योऽसौ ब्रह्मणा परमेश्वरः’ । इत्यादि-सर्वोपसंहारवचनविरोधः स्यात् । अतोऽसौ तेषां सर्वगुणाभिधायक इति भावः । तस्मादात्म-शब्दोक्तगुणोपासनं सर्वेषामस्तीत्युक्तमुपपन्नमिति सिद्धम् ।

गुर्वर्थदीपिका

अन्यथाऽनुपसंहारप्रमाणत्वोक्तिरित्यस्य चतुर्मुखेतरेषामपि स्वयोग्यगुणानुपसंहारेऽप्यस्या एव श्रुतेः प्रमाणत्वोक्तिरित्यर्थः । आप्तव्याप्तेरित्यत्र आप्तव्यानामाप्तुं योग्यानां सर्वगुणानामाप्तेरित्यर्थः । प्रागात्मशब्देनैव सर्वगुणानामुक्तत्वं सिद्धवत्कृत्यावधारणस्य व्यवच्छेद्यान्तराभावादयोगव्यवच्छेद-परतोक्ता । इदानीम्‘आत्मेत्येवोपासीत’ न त्वात्मत्वं विहायेत्येवमाकारेणान्ययोगव्यवच्छेद-मङ्गीकृत्य ब्रह्माद्युपास्यसकलगुणानामप्यात्मशब्दवाच्यरूपमात्मत्वं बलादानयति । ब्रह्माद्युपास्यैक-गुणस्याप्यात्मत्वाभावे न त्वात्मत्वं विहायेत्यभिलषितान्ययोगव्यवच्छेदस्य भङ्गप्रसङ्गात् । अतो ब्रह्माद्युपास्याः सर्वेऽपि गुणा आत्मशब्देनैव बोधनीया इति भावेनाह भगवान्भाष्यकारः ‘आत्मेत्येवेत्यवधारणात्’ इति । एवं च टीकोक्तान्ययोगव्यवच्छेदोऽपि आत्मत्वरहितगुण-योगव्यवच्छेद इति ज्ञेयम् ।

भावबोधः

आत्मशब्दोक्तगुणोपासनस्येति ॥ यद्यात्मशब्देन आनन्दादेर्गृहीतेस्तेषां सर्वोपास्यत्वं तर्हि सर्वेषामपि गुणानां प्रतिपाद्यतया आत्मशब्देनान्वयात् सर्वेषामपि सर्वगुणोपासकत्वं स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ॥ सर्वोपास्या इति ॥ अत्राऽऽत्मशब्दोक्ता गुणाः सर्वोपास्या न भवन्त्युत भवन्तीति चिन्ता । तदर्थं किमात्मशब्दो ब्रह्मादिसर्वाधिकारिणः प्रति सर्वगुणाभिधायक उत यो यावद्गुणोपास्तियोग्यस्तस्य तावद्गुणाभिधायक इति । आत्मशब्दो विभ्रमकर इति न्यायविवरणं सर्वगुणानामन्वय आत्मशब्दे भवतीति भाष्योक्तहेतोः साध्य-प्रतिपादकत्वेन व्याचष्टे– तथा चेति ॥ न ह्युभयथेति ॥ ‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात् । नान्यत् किञ्चित् समुपासीत धीरः’ इति आत्मेत्येवेत्यन्ययोगव्यगच्छेद-परावधारणयुक्तात्मशब्दं च श्रुतवत इत्यर्थः । अवधारणोपपत्तेरिति सिद्धान्तयन्न्यायविवरणानु-रोधादाह– न च वाच्यं तस्येति ॥ अवधारणविरोधादिति ॥ आत्मशब्दोक्तसर्वगुणानुपासने आत्मशब्दोक्तम् उपास्यमेवेत्ययोगव्यवच्छेदपरावधारणविरोधः स्यादित्यर्थः ।

नन्वेवं तर्हि सर्वेषामपि सर्वोपास्तिः स्यादित्युक्तमित्याशङ्कापरिहारत्वेन गुणाधिका-नामधिकारिणां भगवद्गुणानधिकान् प्रकाशयतीत्यवधारणोपपत्तेरिति न्यायविवरणं योजयति । इयांस्त्वित्यादिना । अनेन गुणाधिकानामिति सावधारणम् । तथा च नान्येषां सर्वगुणान् प्रकाशयति । किं तु तत्तदुपासनयोग्यानेवेति लभ्यते । तथा च श्रुतचतुर्गुणोपासनं प्रति गुणचतुष्टयमेवात्मशब्दः प्रकाशयति; नाधिकम् । एवं सति अयोगव्यवच्छेदपरावधारणमप्युपपद्यत इति न्यायविवरणमप्युक्ततात्पर्यम् । तथा च सूत्रे ‘स्यात्’ इत्यतः परं ब्रह्मादीन्प्रत्येव नान्यान्प्रतीति शेषः । तत्र नान्यान्प्रतीत्यत्र हेतुतयाऽवधारणादित्येतदयोगव्यवच्छेदपरावधारणादिति न्यायविवरणेन व्याख्यातमिति ज्ञातव्यम् ।

भावदीपः

सर्वैः कर्तव्यत्वसाधनादिति ॥ फलितोक्तिरियम् । पूर्वोक्तदिशा आनन्दादिचतुर्णामिव सर्वयोग्यसर्वगुणानामप्यात्मशब्दोक्ततयाऽवधारणेन च सर्वगुणयुक्तत्वेनैवोपासनाप्राप्तौ तस्य सर्वायोग्यतया ब्रह्मादीतराकर्तव्यत्वशङ्कायां तस्योत्तमान् प्रत्येव सर्वगुणाभिधायकताकथनेन सर्वैः कर्तव्यत्वसाधनादित्यर्थः । एतेनात्मशब्देन चतुर्गुणानामुक्तेरानन्दादिचतुष्टयोपासनसमर्थनमयुक्तम् । सर्वगुणानामप्यात्मशब्दोक्ततयाऽवधारणेन तेषामेवोपास्यता प्राप्तेरिति शङ्कनात्पूर्वसङ्गतिरपि सूचिता ॥ अनुपसंहारेति ॥ सर्वगुणोपसंहारभिन्नाल्पगुणोपसंहाररूपानुपसंहारे आत्मगृहीतिरित्यत्रात्म-शब्दाच्चेत्यत्र चेति वा आत्मशब्दाच्चेत्यत्रैव वा प्रमाणतयाऽऽत्मशब्दोक्तिर्व्याहन्येतेत्यर्थः ॥ गुणद्वैविध्येति ॥ आनन्दादेः सर्वोपास्यत्वस्य प्रियशिरस्त्वादेरतादृक्त्वस्य दर्शनमित्यर्थः । साध्यमध्याहृत्य तत्र भाष्यं हेतुतया व्याचष्टे ॥ आत्मेत्यादिना ॥ एतेन पूर्वस्मादात्मपदमनुवर्त्य आत्मशब्दे सर्वगुणानामन्वयादिति सूत्रस्य, भाष्यस्य तु इति वचनात्सर्वगुणानामन्वय आत्मशब्दे भवति । तस्मात्तदुक्तगुणा न सर्वोपास्या इति योजना सूचिता । व्याप्तिशब्दार्थश्च देशकालगुणापरिच्छेद इति भावः । यद्वा आप्तव्यानामाप्तुं योग्यानां गुणानामाप्तेः प्राप्तत्वादित्यर्थः । हेतोरसिद्धिनिरासायोक्तेरित्युक्तम् ।

नन्वथाप्यप्रयोजको हेतुः । आत्मशब्दस्य सर्वगुणाभिधायकत्वेऽपि तदुक्तगुणानां सर्वोपास्यत्वसम्भवादित्यतो हेतोरप्रयोजकत्वशङ्काव्युदासायाऽऽत्मशब्दो विभ्रमकर इत्यन्यत्रोक्ता-निर्णायकत्वहेतुमाह ॥ तथा चेति ॥ सर्वगुणाभिधायकत्वे सतीत्यर्थः । अयम् आत्मशब्द इत्यर्थः । श्रुतेति बहुव्रीहिः । पूर्वोक्तदिशा अत्र ह्येते सर्व इति वाक्यशेषबलेनात्मेत्येवोपासीतेत्यात्मशब्देनैव चतुर्गुणोपासनं श्रावितमिति तेनैव श्रुतचतुर्गुणोपासनस्य पुरुषस्य ततोऽधिकं सर्वगुणानप्यात्म-शब्देनैव श्रुतवतः पुंसः किमात्मपदेनोक्ताश्चत्वार एवोपास्या उत तेनैवोक्तास्ततोऽधिकाः सर्वेऽपीति संदेहो भवति । द्वयोरप्यात्मपदेनोक्तत्वात् । यथा लोके श्वेतो धावतीत्युपासितव्यमित्युक्ते श्वेतः शुक्लो गच्छतीति श्वा इतो गच्छतीत्यनेकार्थश्रावयद्वाक्यं संदेहकरमेव न तु निर्णायकं तथैवेत्यर्थः । विभ्रमकरत्वं व्यनक्ति ॥ न हीति ॥ योग्यताविशेषेण निर्णयोपपत्तेरिति प्राप्ते-श्चेत्यत्रोक्तदिशा परिहृतमेतदिति भावेनाशङ्क्य सिद्धान्तहेतुसूचितविशेषशङ्कामाह ॥ न च वाच्यमिति ॥ अवधारणेति ॥ तेन सर्वगुणाभिधायकतया विभ्रमकरत्वादित्यर्थः । ब्रह्मा-द्युपास्यत्वेऽपि तदितरानुपास्यत्वात्सर्वोपास्यत्वाभावादित्युक्तम् । भाष्ये चशब्दोऽवधारण इत्युपेत्याह ॥ तत्तथा स्यादेवेति ॥ कथं तर्हि विभ्रमकरत्वनिरास इत्यतो गुणाधिकानामधिकारिणां भगवद्गुणानधिकान्प्रकाशयतीत्यन्यत्रोक्तं समाधिमाह ॥ इयांस्त्विति ॥ फलोक्त्या सूत्रार्थमुपसंहरति ॥ तस्मादिति ॥ अवधारणाऽन्यथानुपपत्त्याऽऽत्मशब्दस्य ब्रह्मादीन्प्रति सर्वगुणवाचित्वेऽपि तत्तदधिकारिणं प्रति तत्तद्योग्यगुणाभिधायकतया विभ्रमकरत्वाभावादित्यर्थः । इति हेतोरुक्त-मनुपसंहारप्रमाणमुपपन्नमित्यर्थः ।

अभिनवचन्द्रिका

आत्मशब्दोक्तगुणोपासनस्येति ॥ आत्मशब्दस्य सर्वानुपासकान् प्रति तत्तद्योग्य-गुणाभिधायकत्वसमर्थनादिति भावः । अन्यथेति ॥ सर्वान् प्रति सर्वगुणाभिधायकत्व इत्यर्थः ॥ प्रकृतात्मशब्दोक्तेति ॥ अत्र बुध्या विवेकेन सर्वोपास्या गुणा विषयः । आत्मशब्दोक्ता न वेति सन्देह इति विषयसन्देहौ द्रष्टव्यौ ॥ गुणद्वैविध्यदर्शनमिति ॥ आनन्दादिगुणेषु केनचिच्छब्दे-नोक्तत्वं केनचिच्छब्देनानुक्तत्वं च दृश्यते तत्सन्देहबीजमित्यर्थः । एतेनात्मशब्दोक्तानां गुणानां सन्देहधर्मित्वेन तदन्यत्र सर्वोपास्यत्वस्यादर्शनाद् गुणद्वैविध्यदर्शनं सन्देहबीजमित्ययुक्तमिति परास्तम् ॥ आत्मशब्दोक्तेति ॥ सर्वोपास्या गुणा घटो घटशब्देनेव नासाधारण्येनात्मशब्दोक्ता इति भावः ॥ आप्तव्याप्तेरिति ॥ परमात्मना आत्मशब्दार्थ सर्वगुणानामाप्तत्वात् परमात्मनो बोधजननाय ‘आत्मशब्दः प्रयुज्यत’ इत्युक्त्या सर्वगुणानाम् आत्मशब्दप्रवृत्तिनिमित्तत्वं लभ्यत इति भावः ॥ श्रुतचतुर्गुणोपासनस्येति ॥ ‘सच्चिदानन्द आत्मेति ब्रह्मेपासा विनिश्चिता’ इति प्रमाणेन श्रुत चतुर्गुणोपासनस्य पुंसो विभ्रमकरो भवति विभ्रंशकरो भवतीत्यर्थः ॥ न ह्युभयथेति ॥ ‘सच्चिदानन्द आत्मेति’ चतुर्गुणोपासनं, ‘आत्मेत्येवोपासीत’ इति सर्वगुणोपासनं च, श्रुतवत इत्यर्थः ॥ अवधारणेऽपीति ॥ अनुपसंहारप्रमाणत्वाभावेनाऽवधारणस्य वैयर्थ्याख्यविरोधः स्यादित्यर्थः ॥ अत इति ॥ सर्वोपास्यानां गुणानाम् आत्मशब्दोक्तत्वाभावात् ‘आत्मेत्येवोपासीत’ इत्यस्याऽनुपसंहारप्रमाणत्वमनुपपन्नमिति भावः ।

पूर्वपक्षस्तु– सर्वोपास्या गुणा नाऽसाधारण्येनाऽऽत्मशब्दोक्ताः । तस्य सर्वगुणाभिधायकत्वात् । ततश्च नास्याऽनुपसंहारप्रमाणत्वमिति ।

सिद्धान्तस्तु– सत्यमात्मशब्दः सर्वगुणाभिधायकस् तथापि न सर्वान् प्रति, किंनाम तत्तद्योग्य-तानुसारेण तांस्तान्प्रति गुणाभिधायकः । ततश्चात्मशब्देन यस्य यावन्तो गुणाः प्रतिभासन्ते तेन तावन्तो गुणा उपस्या इति आत्मशब्दोक्तगुणानां सर्वोपास्यत्वादुक्तं युक्तमिति सिद्धम् ।

वाक्यार्थमुक्तावली

यद्यानन्दादिगुणानामात्मशब्देन गृहीतिस्तर्हि तावन्त एवेति नियन्तुं शक्यते । सर्वगुणा-नामप्यात्मशब्देन वाच्यत्वेऽन्वयादिति तत्त्वप्रदीपरीत्या पूर्वाधिकरणसिद्धार्थावष्टम्भेन पूर्वपक्षोत्था-नादनन्तरसङ्गतिः ॥ सर्वैरिति ॥ ब्रह्मादिभिरुत्तमैरिव देवादिभिर्मध्यमैरधमैश्चेत्यर्थः ॥ अन्यथेति ॥ आत्मशब्दोक्तगुणोपासनस्य सर्वैरकर्तव्यत्वे उत्तमैरेव कर्तव्यत्वे च मध्यमाधमान् प्रति अन्ययोगव्यवच्छेदकावधारणयुक्तात्मशब्दः गुणान्तरव्यावृत्तिपूर्वमात्मत्वमात्रोपासनं विदधद् अनुपसंहारे प्रमाणमित्यात्मशब्दाच्चेति व्याहन्येत । तदुक्तगुणोपासनस्यैव कर्तव्यत्वे तान्प्रत्यात्म-शब्दोक्तगुणातिरिक्तगुणानुपसंहारप्रमापकत्वोक्त्यनुपपत्तेरिति भावः ॥ सवर्•ेपास्या इति ॥ आत्म-शब्दोक्तगुणाः सर्वोपास्या न भवन्त्युत भवन्तीति चिन्ता । तदर्थमात्मशब्दः सर्वाधिकारिणः प्रति सर्वगुणाभिधायक उतोत्तमान्प्रत्येवेति ॥ गुणद्वैविध्येति ॥ प्रियशिरस्त्वादीनामानन्दादीनां चेति ॥ गुणद्वैविध्यदर्शनमित्यर्थः ॥ सूत्रे प्रतिज्ञांशमध्याहरति ॥ आत्मशब्दोक्त इति ॥ उत्तमैरेवोपास्या न सर्वैरित्यर्थः । अन्वयादित्यत्र आत्मशब्दाच्चेत्यत आत्मशब्द इति सप्तम्यन्त-तयानुवर्तते । सर्वगुणानामिति योग्यतयान्वेति । तथा चात्मशब्दे गुणानामन्वयात् । तदपि कुतः? अन्वयात् । आप्तव्याप्तेरित्यन्वयवचनादिति भावेन हेत्वंशं व्याचष्टे ॥ आप्तव्याप्तेरिति ॥ यदाप्तव्यं कल्याणगुणजातं तस्याप्तेः प्राप्तेरित्यर्थः ।

नन्वात्मशब्दस्य सर्वगुणवाचकत्वेऽपि तदुक्तोपासनं किं न स्यादित्यतः नायमन्वयादित्युक्तो हेतुः साक्षात्साध्यसाधकः किन्तु आत्मशब्दोक्तगुणानां सर्वैरुपासितुमशक्यत्वेऽपि भ्रमाख्यो न्यायो हेतुस् तदुपपादकतया अन्वयादिति सौत्रो हेतुरिति भावेनाह ॥ तथा चेति ॥ तथा चात्मशब्दस्य सर्वगुणाभिधायकत्वादयमात्मशब्दः श्रुतचतुर्गुणोपासकस्य ‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात् । नान्यत्किञ्चित्समुपासीत धीरः’ इति श्रुतचतुर्गुणोपासनस्य पुंसां विभ्रमकरो भवति । संशयहेतुरिति यावत् । तदेवोपपादयति न हीति ॥ शब्दात् सर्वगुणान् सत्यो ज्ञान इति चतुर्गुणांश्चोपासनार्थं श्रुतवत इत्यर्थः ॥ स्वयोग्यमिति ॥ सत्यो जीव इत्युक्तरीत्या स्वयोग्यम् आत्मगृहीतिरित्युक्तरीत्या तदुक्तमुपास्यं नातोऽधिकमिति निश्चयो भवतीति न वाच्यमित्यर्थः ॥ अवधारणेति ॥ आत्मशब्दोक्तसर्वगुणानुपासने आत्मपदेन यावत्प्रतीतं तावदुपास्यमेवेत्ययोग-व्यवच्छेदपरावधारणविरोधादित्यर्थः ।

ननु यद्युपसंहार एवावधारणस्यायोगव्यवच्छेदकत्वमुक्तं तथापि न तद्विरोधः । आत्मशब्दाच्चेति सूत्रटीकायां चतुर्मुखादीन्प्रत्ययोगव्यवच्छेदकत्वम् अन्यान्प्रत्यन्ययोगव्यवच्छेदकत्वमिति व्यवस्थापि-तत्वादिति चेन्न । गुणाधिकानामधिकारिणां भगवद्भुणानधिकान् प्रदर्शयतीति अवधारणोपपत्तेर् इत्येतदधिकरणन्यायविवरणे सिद्धान्तेऽवधारणस्याधिकारिभेदेनायोगव्यवच्छेदकत्वस्योच्यमान-त्वेनागामिनम् एतदभिप्रेत्य शिष्यहिताय प्राक्तनटीकायां समाहितत्वेऽप्येतदधिकरणे पुनराशङ्कोपपत्तेः ॥ अत इति ॥ आत्मशब्दस्य सर्वगुणाभिधायकत्वादित्यर्थः ॥ अनुपसंहारेति ॥ आत्मशब्दोक्त-गुणोपासनाप्रसक्तौ हि तान्प्रत्यनुपसंहारप्रमापकत्वं स्यादिति भावः । सूत्रे स्यादिति वर्तते । तत्राद्यस्य परेणोक्तमनुपसंहाराप्रमाणत्वं स्यात् । अङ्गीक्रियते तन्मात्रप्रमाणत्वाभावादिति भावेन सत्यमित्येतद्व्याचष्टे ॥ सिद्धान्तांशमिति ॥ उक्तं च तत्वप्रदीपे । सत्यं न तत्रैव प्रमाणमितीति ॥ इत्यतश्चाहेति ॥ इत्यतः । द्वितीयं स्यात्पदं व्याचष्ट इत्यर्थः । स्याच्चैवम् एवमपि स्यात् । तत्र हेतुत्वेनोक्तं यत्सर्वगुणाभिधायकत्वमात्मशब्दस्य तदपि स्यादेव । अत उक्ताभ्युपगमो न दोषायेति भाष्यार्थमाह ॥ सर्वेति ॥ यद्वा सत्यमित्यस्य परेणोक्तमात्मशब्दस्य सर्वगुणाभिधायकत्वमङ्गीक्रियत इत्यर्थः ॥ कथमिति ॥ प्रमाणाभावादिति भावः ॥ तत्तथा स्यादेवेति ॥ प्रामाणिकत्वादिति भावः । अतः प्रमितत्वेन वस्तुनः सत्यत्वात् ।

नन्वात्मशब्दस्य सर्वगुणाभिधायकत्वे आत्मशब्दोक्तगुणानां सर्वेषां सर्वोपास्यत्वप्रसङ्ग इत्यतः सूत्रे भाष्ये च स्याच्चैवमित्यतःपरं ब्रह्मादीन् प्रत्येव नान्यान् प्रतीति शेषः । तथा चैवं सर्वगुणाभि-धायकत्वं ब्रह्मादीन् गुणाधिकान् प्रत्येव नान्यान् प्रति स्यात् । अतो विभ्रमकरत्वात् स्याच्चैवं तदुक्तोपासनं स्यात् । सर्वेषां युक्तमित्यर्थमभिप्रेत्य गुणाधिक्यमित्युक्तन्यायं भाष्यारूढं दर्शयति ॥ इयानिति ॥ आत्मशब्देन गुणाभिधानविषये इयांस्तु विशेष इत्यर्थः ॥ तथानुभवादिति ॥ यद्यप्यल्पकानामपि आत्मशब्दाद् बहुगुणप्रतीतिरस्ति । तथाप्यात्मशब्देन गुणानामुपासनार्थं युगप-त्प्रतीत्यभावादात्मशब्देन गुणप्रतीतेर् एतादृशा एव विवर्जितत्वाददोषः । वक्ष्यति चैतत् । अन्यथा सर्वोपसंहारेति भाष्ये आत्मशब्दस्यान्यान्प्रतीव ब्रह्मादीन् प्रत्यल्पगुणाभिधायकत्वे गुणैस्सर्वैरुपास्योऽसावित्यादि सर्वोपसंहार एव च न विरोध उच्यते । तन्न सम्भवति शब्द-स्वाभाव्यात् । आत्मशब्दस्याल्पगुणाभिधायकत्वेऽपि वेदाद्युक्तसर्वगुणोपसंहारोपपत्तेः । किञ्चाव-धारणादित्यस्य कथमनेनोपपादनमित्यत आह ॥ अन्ययोगव्यवच्छेदकेति ॥ अत्रैवं तावद्योज्यम् । आत्मशब्दोक्तसर्वगुणोपासाविधिर् ब्रह्मादीनप्यधिकरोति । विधेः सर्वसाधारणत्वात् । ततस्तैरपि तदुक्तमेवोपास्यम् । तथा च यद्यसौ न तान् प्रति सर्वगुणानभिधत्ते तर्हि सर्वैर्गुणैरित्यादिसर्वोप-संहारवचनविरोध इति । नन्ववधारणस्य ब्रह्मादीन् प्रत्ययोगव्यवच्छेदकत्वाद् आत्मेत्येवेत्यात्म-शब्दोक्ताल्पगुणपरित्यागेनोपासनाविधानेऽपि सर्वोपसंहारवचनविरोध इत्यत उक्तम् । अन्ययोग-व्यवच्छेदकावधारणयुक्तेति । अन्यान् प्रतीव आत्मशब्दस्य ब्रह्मादीन् प्रत्यल्पगुणाभिधायकत्वे अवधारणमप्यन्यान् प्रतीवान्ययोगमपि व्यवच्छिद्यात् । अर्धजरतीयानुपपत्तेः । आत्मशब्दस्य बहुगुणाभिधायकत्वे एव तदयोगस्यान्यत्र प्रसक्तत्वेन तद्व्यवच्छेदकत्वोपपत्तावपि स्वामित्वाद्यल्प-गुणाभिधायकत्वे तदयोगप्रसक्तेरभावेनान्ययोगव्यवच्छेदकत्वस्यैव त्वयाङ्गीकार्यत्वादिति भावः ।

तत्त्वसुबोधिनी

आत्मशब्दोक्तगुणोपासनस्येति ॥ यदि आत्मशब्देनानन्दादिनां गृहीतेस् तेषां सर्वोपास्यत्वं तर्हि सर्वेषामपि गुणानां प्रतिपाद्यतया आत्मशब्दोक्तत्वात् सर्वेषामपि सर्वगुणोपासकत्वं स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ॥ अन्यथेति ॥ आत्मशब्दोक्तगुणोपासनस्य सर्वैः-कर्तव्यत्वाभावासमर्थने इत्यर्थः । अस्तु सर्वगुणाभिधायकत्वमित्यत आह ॥ तथा चेति ॥ कुतो न निश्चायक इत्यत आह ॥ न हीति ॥ ‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात् । नान्यत्किञ्चित् समुपासीत धीरः’ इति आत्मेत्येवेत्यन्ययोगव्यवच्छेदपरावधारणयुक्तात्म-शब्दत्वं च श्रुतवत इत्यर्थः ॥ अवधारणविरोधादिति ॥ आत्मशब्दोक्तसर्वगुणानुपासने आत्म-शब्दोक्तमुपास्यमेवेत्ययोगव्यवच्छेदपरावधारणविरोधः स्यादित्यर्थः । कथं सर्वोपसंहारविरोध इत्यत आह ॥ अन्ययोगेति ॥ अधमाधिकारिणः प्रति अन्ययोगव्यवच्छेकावधारणं युक्त इत्यर्थः । अस्य च सूत्रस्य आत्मशब्दोक्तमेवोपास्यमिति नियमश्चेद् आत्मशब्दे सर्वगुणानामन्वयात् सर्वोपास्यत्वं प्रतीयते इति श्रुतचतुर्गुणोपासनस्य पुंसो विभ्रम एवानेन भवति कथमुपासनं कार्यमिति ॥ तथा च नात्मशब्दोक्तमेवोपास्यमिति चेन् न स्यादवधारणात् स्यादुक्तात्मशब्दे सर्वगुणानामन्वय इति । तथा स्यादेव तत्तथैव तर्हि सर्वेषां सर्वगुणोपास्तिः स्यादित्यतो परब्रह्मादीन्प्रत्येव नान्यान्प्रतीति शेषः पूरणीयः । एवं चात्मशब्दे ब्रह्मादीन्प्रत्येव सर्वगुणाभिधायकः स्यान्नान्यान्प्रतीति । कुत एतदित्यत उक्तम् ॥ अवधारणादिति ॥ अयोगव्यवच्छेदपरावधारणादित्यर्थः । ब्रह्मादेः सर्वगुणोपास्तेः श्रुतिसिद्धत्वेन तान्प्रति अयोगव्यवच्छेदकत्वमेवावधारणस्येत्यक्षरार्थः ।

वाक्यार्थविवरणम्

अन्यथेति ॥ आत्मशब्दोक्तगुणोपासनस्य सर्वकर्तव्यत्वाभावे ॥ अनुपसंहारेति ॥ आत्मशब्दाच्चेत्यत्र गुणान्तरव्यावृत्तिकथनपूर्वकम् आत्मत्वस्य सर्वोपास्यत्वविधानेनानुपसंहारोऽपि सिद्ध्यतीति यदनुपसंहारप्रमाणत्वं सावधारणात्मशब्दस्योक्तं तद् व्याहतं स्यादित्यर्थः ॥ तस्य ॥ आत्मशब्दस्य भाष्ये ॥ आप्तेति ॥ गुणैराप्तेत्यर्थः । अयम् आत्मशब्दः ॥ श्रुतेति ॥ सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदेति श्रुत्यर्थः ॥ विभ्रमेति ॥ सर्वगुणोपासनं कार्यमुत चतुर्गुणो-पासनमिति संशयेत्यर्थः । एवं चतुर्गुणत्वेन । तदेवोपपादयति ॥ न हीति ॥ उभयथा ॥ सर्वगुणाभिधायकत्वेन चतुर्गुणाभिधायकत्वेन च ॥ श्रुतवतः ॥ आत्मशब्दमिति शेषः ॥ अन्यतरस्मिन्् ॥ चतुर्गुणोपासनरूपे ॥ तदुक्तम्् ॥ आत्मशब्दोक्तम् ॥ स्वयोग्यम् ॥ गुणचतुष्टयम् ॥ अवधारणेति ॥ अयोगव्यवच्छेदपरावधारणेन तदुक्तसर्वगुणोपासनोक्तेस्तद्विरोध इत्यर्थः । तर्हि सर्वेषां सर्वगुणोपास्तिः स्यादित्यत आह ॥ इयांस्त्विति ॥ तस्य ॥ आत्मशब्दस्य ॥ उक्तोपासनम् ॥ आत्मशब्दोक्तगुणोपासनम् ॥ ब्रह्मादीनिति ॥

अयं भावः ॥ आत्मशब्दस्य सर्वान्प्रति सर्वगुणाभिधायकत्वमङ्गीकृत्य तदुक्तं स्वयोग्य-मेवोपासितव्यमित्यङ्गीकारे ह्ययोगव्यवच्छेदपरावधारणविरोधः स्यात् । न चैवम् । किं नाम ब्रह्मादीन्प्रति सर्वगुणाभिधायी इतरान्प्रति तु चतुर्गुणाभिधाय्येव । आत्मशब्दवाच्यगुणत्वेनैवो-पासीतेत्यन्ययोगव्यवच्छेदपरावधारणमुक्तात्मशब्दो ब्रह्मादीनधिकरोति । तावताऽपि तेषां बहु-गुणोपसंहारसिद्धिः । तान्प्रति तस्य बहुत्वाभिधायकत्वात् । अयोगव्यवच्छेदकत्वेऽपि न दोषः । इतरान्प्रति तस्य चतुर्गुणाभिधायकत्वेन तदुक्तगुणोपासनासत्त्वात् । अयोगव्यवच्छेदकत्वेऽपि तेषां न सर्वगुणोपासनाप्राप्तिः । आत्मशब्दप्रकाशितयावद्गुणोपास्त्यङ्गीकारात् । तान्प्रत्यात्मशब्दप्रकाशित-गुणानां चतुष्ट्वादेवेति ध्येयं सूत्रार्थस्तु सर्वगुणानामात्मशब्देऽन्वयादात्मशब्दोक्तगुणा न सर्वोपास्या इति चेत् । उच्यते ॥ तर्हि स्यात् ॥ सर्वगुणाभिधायकत्वमात्मशब्दस्य स्यादेव । तत्तु ब्रह्मादीन्प्रत्येव । इतरान्प्रति तु चतुर्गुणप्रकाशकत्वमेवेति शेषः । कुत इत्यत उक्तम् ॥ अवधारणादिति ॥ अन्ययोगव्यवच्छेदपरावधारणात् । तस्य तादृशावधारणं तु ब्रह्मादीने-वाधिकरोति । तथाऽयोगव्यवच्छेदपरस्त्वितरान् । न तस्यैतावता तेषां बहुगुणोपासनाप्रसङ्गः । आत्मशब्दप्रकाशितगुणवत्तयोपासीतेति आत्मशब्दप्रकाशितयावद्गुणोपासनाङ्गीकारात् ॥ तेषाम्् ॥ आत्मप्रकाशितगुणानाम् ॥ चतुष्ट्वादेवेति ॥ सर्वोपसंहारवचनेति ॥ ब्रह्मणः सर्वगुणोप-संहारवचनेत्यर्थः ।

वाक्यार्थमञ्जरी

प्रमाणत्वोक्तिर् आत्मशब्दस्य तदुक्तानङ्गीकारे तस्यैवाप्रामाण्यप्राप्तेरिति भावः ॥ ॐ अन्वयादिति चेत्स्यादवधारणात् ॐ ॥ आत्मशब्दे सर्वगुणानामन्वयात् तस्य सर्वगुणवाचित्वादिति यावत् । तस्यानुपसंहारित्वमयुक्तमिति चेत्, स्यादात्मशब्दस्य सर्वगुणवाचित्वं किन्तु ब्रह्मादीन्प्रत्येव नान्यान्प्रति, कुतो ऽवधारणाद् अन्ययोगव्यवच्छेदपरात्मेत्येवेत्यवधारणात् ॥ आप्तव्याप्तेरिति ॥ आप्तव्यानां गुणानामाप्तेः प्राप्तत्वादित्यर्थः ॥ अयमिति ॥ श्रुतआत्मेत्येवेत्यन्ययोगव्यवच्छेदक-पदावधारणयुक्तात्मशब्दयुक्त इत्यर्थः ॥ श्रुतचतुर्गुणेति ॥ ‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात्’ इति चतुर्गुणोपासनं श्रुतवत इत्यर्थः । विभ्रमकरः संशयजनकः ॥ अवधारणविरोधादिति ॥ आत्मशब्दोक्तसर्वगुणानुपासने आत्मशब्दोक्तमुपास्यमेवेत्ययोग-व्यवच्छेदपरावधारणविरोधादित्यर्थः । नन्वेवं तर्हि सर्वेषां सर्वगुणोपास्तिः स्यादित्यत आह ॥ इयांस्त्विति ॥ अधिकरोतीति ॥ स्वविहितकारितया सङ्गृह्णातीत्यर्थः ।

॥ इति अन्वयाधिकरणम् ॥ १० ॥