ॐ आत्मगृहीतिरितरवदुत्तरात् ॐ
९. आत्मगृहीत्यधिकरणम्
सूत्रभाष्यम्
॥ ॐ आत्मगृहीतिरितरवदुत्तरात् ॐ ॥ १७ ॥
न ‘चानन्दादयः प्रधानस्य’ इत्युक्तिविरोधः । यतः ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै.उ.२-१) ‘विज्ञानमानन्दं ब्रह्म’ (बृ.उ.५-९-२८) इतिवदेवाऽऽत्मशब्दगृहीतिः । ‘अत्र ह्येते सर्व एकीभवन्ती’ (बृ.उ.३-४-७) इत्युत्तरात् ।
‘आनन्दानुभवत्वाच्च निर्दोषत्वाच्च भण्यते ।
नित्यत्वाच्च तथाऽऽत्मेति वेदवादिभिरीश्वर’ इति (हि) बृहत्तन्त्रे ॥
तत्त्वप्रदीपिका
कथमात्मेत्येवेत्यादिवाक्यमुक्तोपसंहारे प्रमाणं स्यात् । यावतैक एव गुणस्तस्मिन्प्रतीयत इत्यत आह– ॐ आत्मगृहीतिरितरवदुत्तरात् ॐ ॥ यथेतरेषु ‘विज्ञानमानन्दं ब्रह्म’इत्यादिषु वचनेषु नैकगुणगृहीतिस्तद्वदितरयुक्तत्वेनैवाऽऽत्मशब्दगृहीतिः । आनन्दादयो गुणा विवक्षिता एवाऽत्म-शब्देनेत्यर्थः । ‘अत्र ह्येते सर्वे एकीभवन्ति’ इत्युत्तराद्वाक्यात् । ‘प्राणन्नेव प्राणो नाम भवति वदन्वाक्पश्यंश्चक्षुः श्रृण्वञ्च्छोत्रं मन्वानो मन’ इत्युक्ता गुणा एवेति परामृश्यन्ते । अत्र ह्यात्मत्वगुण एते सर्वे गुणा एकं भवन्ति । एकमिति भेदाभावात् । भवन्तीति विशेषात् । ‘प्राण’ इत्यानन्दत्वं स्वामित्वं च ।
‘प्रकृष्टानन्दरूपत्वात्प्राण इत्यभिधीयते । प्राणिप्रणयनादेष’ इत्यादेः । प्रकृष्ट इति निर्दोषत्वं च लक्ष्यते ।
तत्त्वप्रकाशिका
अत्रेश्वरापरोक्षज्ञानसाधनोपासनायामानन्दादिनियतिसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथो-क्तानुपपत्तिप्रसङ्गात्सा समर्थनीया । प्रकृता भगवद्गुणा विषयः । किमानन्दादयश्चत्वारोऽपि सर्वमुमुक्षू-पास्या उतात्मत्वमेवेति सन्देहः । उभयथोक्तिः सन्देहबीजम् । आत्मत्वमेव सर्वोपास्यमिति पूर्वः पक्षः । ‘आत्मेत्येवोपासीत’ इति सावधारणश्रुतेः । आनन्दादित्रयलोपेनात्मत्वमात्रेणोपासनस्य सुशक्यत्वात् । ईश्वरापरोक्ष्यसिद्धिगुणलाभाच्च । अत आत्मत्वस्यैव सर्वोपास्यत्वादानन्दादयः प्रधानस्येत्युक्तं श्रुत्यादिविरोधादयुक्तमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ आत्मेति ॥ ‘आत्मेत्येवोपासीत’ इति सावधारणश्रुतिबलेनात्मत्वस्यैवावश्योपास्यत्वमभ्युपेत्यानन्दादयः प्रधान-स्येत्युक्तेः श्रुतिविरोधाभिधानं न युक्तम् । किं नामानन्दायश्चत्वारोऽप्युपास्या एव । कुतः । भवेदेतद्यदि श्रौतोऽयमात्मशब्दः स्वामित्वमात्रं वक्ति । नैतदस्ति । तेनानन्दादीनामपि गृहीतत्वा-त्सत्यज्ञानादिवाक्यवदेवेत्यर्थः । कुतोऽयमात्मशब्द आनन्दाद्यभिधायको न स्वामित्वमात्रवचन इत्यत आह ॥ अत्रेति ॥ अत्र आत्मत्वे । सर्वेऽप्यानन्दादयो गुणा अन्तर्भवन्तीत्यर्थः । आत्मशब्दस्य स्वामित्वमात्रानभिधायकत्वे स्मृतिं चाह ॥ आनन्देति ॥ अतो युक्तत्वाच्चतुर्गुणोपासनस्योक्तं युक्तमिति सिद्धम् ॥
गुर्वर्थदीपिका
श्रुत्यादिविरोधादित्यत्राऽऽदिपदेन सुशक्यत्वादिति युक्तिर्गृह्यते । सत्यज्ञानादिवाक्यवदित्यत्र यथा ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘विज्ञानमानन्दं ब्रह्म’इति वाक्ये बहुगुणानां गृहीतिस्तथा आत्म-पदेनापि बहुगुणसङ्गृहीतिरित्यर्थः ।
भावबोधः
आनन्दादिनियतिसमर्थनादिति ॥ यदि ‘आत्मशब्दाच्च’ इति पूर्वसूत्रे आत्मेत्येवेत्यवधारण-स्यान्ययोगव्यवच्छेदकत्वमङ्गीकृत्य तच्छिरस्कात्मशब्दस्य अनुपसंहारे प्रमाणत्वमङ्गीक्रियते । तर्ह्यात्मत्वमेवोपास्यं न तु आनन्दादयश्चत्वारोऽपीत्याक्षेपोत्थानादनन्तरसंङ्गतिरिति भावः । अत एवोक्तं भाष्ये ‘न च आनन्दादयः प्रधानस्य’ इत्युक्तिविरोध इति ॥ किमानन्दादय इति ॥ अत्र भगवद्गुणेषु किमात्मत्वमेव सर्वमुमुक्षूपास्यम् उत आनन्दादयश्चत्वारोऽपीति चिन्ता । तदर्थम् आत्मे-त्येवेत्यवधारणस्य अन्ययोगव्यवच्छेदकत्वम् आनन्दादीनामप्युपास्यत्वे नोपपद्यते उतोपपद्यत इति । तदर्थम् आत्मशब्दः किं स्वामित्वमात्रार्थक उतानन्दाद्यर्थकोऽपीति । उभयथोक्तिरिति । ‘आन-न्दादयः प्रधानस्य’ इति ‘आत्मशब्दाच्च’ इति उभयथोक्तिरित्यर्थः । आश्वापरोक्षाय आनन्दा-दीनामपि लोपेनात्मेत्येतावता पूर्यत इति न्यायविवरणं तात्पर्यतो व्याचष्टे– आनन्दादीत्यादिना ॥ सुशक्यत्वादिति ॥ ‘एतावता पूर्यते’ इत्यनेनेदं सूचितमिति ज्ञातव्यम् । आत्मशब्दार्थविशेषत्वाद् आनन्दादीनामिति न्यायविवरणं तेनानन्दादीनामपि गृहीतत्वादित्यनेनोक्ततात्पर्यकम् ॥ सत्यज्ञानादिवाक्यवदेवेति ॥ यथैतद्वाक्यगतसत्यानन्दादिपदानां सत्यत्वाद्यभिधायकत्वम्, तथाऽऽत्मशब्दस्याप्यानन्दाद्यभिधायकत्वमिति भावः ।
भावदीपः
आनन्दादिनियतिसमर्थनादिति ॥ आत्मशब्दाच्चेति पूर्वसूत्रोपात्तसावधारणात्मत्वोपासा श्रुत्या आनन्दाद्यनैयत्यशङ्कायां प्राप्तायां तन्निरासेनेति भावः । तेन तन्नैयत्यस्यानन्दादय इत्यत्रैव समर्थनात्पौनरुक्तिशङ्का निरस्ता । पूर्वसूत्रोक्तानुपसंहारप्रमाणेनानन्दसूत्रोक्तप्रमेयस्य विरोधशङ्का-निरसनाद्वा पूर्वत्राल्पाधिकारिणः प्रत्यात्मत्वमात्रमात्मशब्दो वक्तीत्यनुपसंहारे प्रमाणमुक्तमिह तु ततोऽधिकाधिकारिणं प्रति चतुरो गुणानित्युच्यते । ततोऽप्यधिकाधिकारिणं ब्रह्माणं प्रति तु सर्वान् गुणान् वक्तीत्युत्तरनयेऽभिधीयत इति वाऽत्र पूर्वसङ्गतिश्चोक्ता भवति ॥ अन्यथेति ॥ पूर्वसूत्रोक्त-श्रुतेश्चतुर्गुणपरत्वेन सावकाशत्वमुक्त्वा विरोधनिरासेन तदसमर्थने सति आनन्दसूत्रोक्तप्रमेयानु-पपत्तिप्रसङ्गादित्यर्थः ॥ आत्मत्वमेवेति ॥ स्वामित्वमेवेत्यर्थः ॥ उभयथेति ॥ आत्मशब्दा-च्चेत्यत्रात्मत्वमात्रस्यानन्दादय इत्यत्र चतुर्णामुपास्यत्वोक्तिरित्यर्थः । भाष्ये इत्युक्तिविरोध इत्यत्र इत्युक्तेः श्रुत्यादिविरोध इति विग्रहमुपेत्य तत्सूचितप्रतिज्ञाहेतू आह ॥ आत्मत्वमेवेति ॥ नन्वा-नन्दादिचतुर्भ्योऽधिकानामुपासने शक्त्यभावेन तस्य त्यागेऽपीहापेक्षितस्य शक्यस्यानन्दाद्युपासन-स्यानन्दनयोक्तस्य त्यागे को हेतुरित्यत आश्वापरोक्ष्यायानन्दादीनामपि लोपेनात्मेत्येतावता पूर्वत इति न्यायविवरणमपिपदसूचितहेतूक्तिपूर्वमत्र योजयति ॥ आनन्दादीति ॥ भाष्यं फलानुवाद-परमित्युपेत्योपसंहरति ॥ अत इति ॥ श्रुतियुक्तिबलादित्यर्थः ॥ श्रुत्यादिविरोधादिति ॥ श्रुतियुक्तिविरोधादित्यर्थः ॥ परिष्कारपूर्वं न चेत्यादिभाष्यं व्याचष्टे ॥ आत्मेत्येवेति ॥ श्रुतिबलेन श्रुत्यादिबलेनेत्यर्थः । श्रुतीति श्रुत्यादीत्यर्थः । सूत्रभाष्ययोः श्रुतिगत्युक्तिमात्रपरत्वाच्छ्रुतीत्येवानु-वादः । युक्तिगतिस्तु सुशक्यत्वगुणलाभेऽपि सर्वेषां च मुमुक्षूणां फलसाम्यादपेक्षितेत्यानन्दन-योक्तन्यायेन स्वापेक्षितफलप्राप्त्यर्थत्वाच्चत्वारोऽप्युपास्या इति सुशक्यत्वादिकमप्रयोजकमित्येवं ध्येयेति भावः । भाष्यस्य फलितार्थमाह ॥ किं नामानन्दादय इति ॥ यत इत्यादिभाष्यार्थमाह ॥ तेनेति ॥ आत्मशब्देनेत्यर्थः । यथा सत्यज्ञानादिवाक्येषु अनेकगुणगृहीतिस्तथाऽऽत्मशब्देनाप्या-नन्दादीतरगुणयुक्तत्वेनैव स्वामित्वस्य गृहीतिरित्यर्थः । असम्भावनानिरासाय दृष्टान्तः । आत्म-शब्दार्थविशेषत्वादानन्दादीनामित्यन्यत्रोक्त्यनुरोधेन भाष्यं व्याचष्टे ॥ अत्रात्मत्व इति ॥ वाजसनेये हि तृतीये पञ्चमब्राह्मणे प्राणन्नेव प्राणो नाम भवति । वदन्वाक्, पश्यंश्चक्षुः, शृण्वतश्रोत्रं, मन्वानो मन इति पूर्वत्र प्रकृष्टानन्दरूपत्वात्प्राण इत्यभिधीयत इत्यादेः प्राणशब्दोक्त-मानन्दे प्रशब्दोक्तनिर्दोषत्वं चक्षुरादिशब्दोक्तज्ञानरूपगुणं चैत इति परामृश्यात्मत्वेऽन्तर्भावं वदति श्रुतिरित्यर्थः । फलोक्त्या सूत्रार्थमुपसंहरति ॥ अत इति ॥ उत्तरवाक्यबलेन आत्मशब्देन चतुर्णामपि गृहीत्या श्रुतिविरोधाभावाद्धेतोर्युक्तत्वादनवद्यत्वादिति व्यधिकरणे पञ्चम्यौ । उक्तम् आनन्दादय इत्यत्रोक्तमित्यर्थः ।
अभिनवचन्द्रिका
ईश्वरापरोक्ष्येति ॥ आत्मत्वमात्रोपासनायां शीघ्रमपरोक्षज्ञानं भवति । चतुर्गुणोपासने तु विलम्बेन भवतीति तदेव सर्वोपास्यमिति भावः ॥ भवेत्तद्यदीति ॥ वक्तीत्यतः परम् ‘इति स्यात्’ इति शेषः । सत्यज्ञानादिवाक्यवदेवेति ॥ सत्यज्ञानादिवाक्यगतसत्यादयः शब्दाः ‘सत्त्वं जीवनमेव च । विशीर्णता च सत्त्वं स्यात्’ इत्युक्तरीत्या यथा जीवकत्व विनाशकत्वाद्यनेकगुणवाचकाः, तथा आत्मशब्दोऽप्यनेकगुणवाचक इति भावः ।
पूर्वपक्षस्तु– आत्मत्वमेव सर्वोपास्यं नानन्दादयश्चत्वारः । ‘आत्मेत्येवोपासीत’ इति सावधारणवचनात् । इतरगुणहानेन आत्मत्वमात्रोपासनस्य सुशकत्वात् । शीघ्रेणेश्वराऽऽपरोक्ष्य-सिद्धिगुणलाभाच्च । अत आत्मत्वस्यैव सर्वोपास्यत्वात्, ‘आनन्दादयः प्रधानस्य’ इत्युक्तमयुक्त-मिति ।
सिद्धान्तस्तु– आनन्दादयश्चत्वारोऽप्युपास्या एव । आत्मशब्दस्य सत्यादिशब्दवत् ‘अत्र ह्येते सर्व एकीभवन्ति’ इत्युत्तरवाक्यबलाद् बह्वर्थकत्वेन आनन्दाद्यभिधायकत्वात् । अतो विरोधाभावाद् उक्तं युक्तमिति सिद्धम् ।
वाक्यार्थमुक्तावली
आनन्दादिनियतिसमर्थनादिति ॥ आत्मशब्दाच्चेत्युक्तरीत्या आत्मत्वमात्रमेवोपास्यम् । न त्वानन्दादयश्चत्वारोऽपीत्याक्षिप्यानन्दादिनियतिसमर्थनादनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ अत्र भगवद्गुणेषु किमात्मत्वमेव सर्वमुमुक्षूपास्यमुतानन्दादयश्चत्वारोऽपीति चिन्ता । तदर्थम् एवशब्द-शिरस्कात्मशब्दः स्वामित्वमात्रार्थ उतानन्दाद्यर्थकोऽपीति । न चानन्दादयः प्रधानस्येत्युक्तिविरोध इति । इत्युक्तेर्विरोधः श्रुतिविरोधो युक्तिविरोधश्च नेति श्रुतियुक्तिविरोधमाशङ्क्य निरासात् । आत्मगृहीतिरित्यत्रात्मपदेनानन्दादिग्रहणस्योत्तरवाक्यबलेन श्रुतिविरोधपरिहारार्थमुच्यमानत्वाच्च तदनुसारेण तावच्छ्रुतिविरोधेन पूर्वपक्षयति ॥ आत्मेत्येवेति ॥ अत्र ह्येते इत्युत्तरवाक्यबलेनात्म-शब्देनानन्दादिगुणग्रहणस्य वर्जनीयत्वेन लोपानुपपत्त्युक्त्या निरस्यं युक्तिविरोधमाह ॥ आनन्दा-दीति ॥ तन्निरस्यमासु ते इत्युक्तन्यायमप्याह ॥ आस्विति ॥ आनन्दादित्रयलोपेनेत्यनुवर्तते । सूत्रे आत्मेत्यात्मशब्दपरम् । आनन्दादीनामित्यनुवर्तते । आत्मशब्देनानन्दादीनां चतुर्गुणानां गृहीति-र्ग्रहणमुक्तिर्नात्ममात्रस्येत्यर्थः । कथमेकेनानेकग्रहणमित्यत उक्तम् ॥ इतरवदिति ॥ सत्यं ज्ञान-मनन्तं ब्रह्मेत्यादिवाक्येन यथा तथेत्यर्थः । आत्मशब्दस्यापि यौगिकत्वेन वाक्यतुल्यत्वात्प्रकृति-प्रत्ययभेदेनानेकगुणोक्तिः सम्भवतीति भावः । यद्वा ननु कथमात्मशब्देनानन्दज्ञानादिग्रहणम् । अशक्यत्वादित्यत इदमुदितम् । यथा सत्यज्ञानादिवाक्ये ज्ञानादिपदेन ज्ञानादिग्रहणं रूढत्वा-त्तथात्मशब्दस्यापि आनन्दानुभवाच्चेति वक्ष्यमाणत्वेन रूढत्वात् तेनानन्दादिग्रहणमिति भावः । यद्वा यथा सत्यज्ञानादिवाक्ये सत्यशब्दः ‘सत्त्वं जीवनमेव हि । विशीर्णता च सत्वं स्यात्’ इत्युक्तरीत्यानेकगुणपरः । ज्ञानं तु मनसा विज्ञानेनाप्युदाहृतमित्युक्तरीत्येत्यर्थः । ज्ञानशब्दोऽ-वान्तरविशेषपरः । आनन्दशब्दश्चानन्दपूर्णत्वाद्यर्थः । अनन्तत्वं तथानन्दमयवाचाप्युदाहृत-मित्युक्तेः । विज्ञानमानन्दमित्यत्राप्यानन्दशब्दः प्रियादि तद्विशेषपरः । तथात्मशब्दोऽप्यनेकगुणपर इति भावः । न दृष्टान्तमात्रेणार्थसिद्धिरित्यत आह ॥ उत्तरादिति ॥ अत्र ह्येते सर्व एकी-भवन्तीत्युत्तरवाक्ये । तत्र प्राणन्नेव प्राणो नामा भवति । वदन्वाक् । पश्यंश्चक्षुः । श्रुण्वन् श्रोत्रम् । मन्वानो मन इत्यादिपूर्ववाक्यप्रकृतानन्दादिगुणान् एत इति परामृश्यात्रात्मगुणे एकीभवन्ती-त्युक्तत्वात् । प्रकृष्टानन्दरूपत्वात्प्राण इत्युक्त्या प्राणपदेनानन्दलाभात् प्रेति निर्दोषत्वलाभात् प्राणः प्रणयनादेष इत्युक्त्या स्वामित्वस्यापि प्राणपदेन लाभात् । मान इत्यादिना ज्ञानादेरिति भावः । स्पष्टमेतत्तत्वप्रदीपे । तदेवं सूत्रार्थमभिप्रेत्य विशेष इत्युक्तसिद्धान्तन्यायं व्यञ्जयन् व्याख्याति ॥ भवेदेतद्यदीत्यादिना ॥ स्वामित्वमात्रानभिधायकत्व इति । आदेयमुपादेयम् । आनन्दं माति अनुभवतीत्यात्मा । आदेयमुपादेयमेवात्ति न तु दोषानिति निर्दोषत्वाच्चात्मा । आततत्वात् कालतो देशतश्च व्याप्तत्वान्नित्यत्वाच्चात्मेति श्रुत्यर्थः ।
तत्त्वसुबोधिनी
आनन्दादिनियतिसमर्थनादिति ॥ यदि आत्मशब्दाच्चेति पूर्वसूत्रे आत्मेत्येवेत्यवधारण-स्यान्ययोगव्यवच्छेदकत्वमंगीकृत्य तच्छिरस्थात्मशब्दस्यानुपसंहारे प्रमाणत्वमङ्गीक्रियते तर्हि आत्मत्वमेव उपास्यं न तु आनन्दादयश्चत्वारोऽपीत्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ॥ अन्यथेति ॥ आनन्दादिनियतिसमर्थनाभावे आनन्दादयः प्रधानस्येत्युक्तानुपपत्तिः स्यादित्यर्थः ॥ उभयथोक्तिरिति ॥ आनन्दादयः प्रधानस्येति ॥ अत्मशब्दाच्चेत्युभयथोक्तिरित्यर्थः । आत्मेत्येवेति अवधारणस्यान्ययोगव्यवच्छेदकत्वादिति भावः । किं च आनन्दादित्रयलोपेन आत्मत्वमेव उपासितव्यं तदुपासनस्य सुशक्यत्वेन शीघ्रम् आपरोक्ष्यसिद्धिहेतुभूतगुणस्यात्मत्वस्य लाभसम्भवा-दित्याह ॥ आनन्दादीति ॥ तर्हि आत्मेत्येवेति सावधारणश्रुतिविरोध इत्याशयेन हेतुं पृच्छति ॥ कुत इति ॥ उत्तरमाह ॥ भवेदेतदिति ॥ सत्यज्ञानादिवाक्यवदेवेति । यथा एतद्वाक्य-गतसत्यानन्दादिपदानां सत्यत्वाद्यभिधायकत्वं तथात्मशब्दस्याप्यानन्दाद्यभिधायकत्वमिति भावः ।
वाक्यार्थविवरणम्
उक्तेति ॥ आनन्दादय इत्युक्तचतुर्गुणोपासनेत्यर्थः ॥ श्रुत्यादीति ॥ अन्ययोगव्यवच्छेदका-वधारणयुक्ताया आत्मैवेति श्रुतेरित्यर्थः । आदिपदेनाऽऽश्वपरोक्षसिद्धिलक्षणगुणलाभरूपा युक्तिः ॥ सत्यज्ञानादिवाक्यवदिति ॥ यथा सत्यज्ञानादिवाक्ये आनन्दादेर्गुहीतिर् विज्ञानादिवाक्ये सत्यत्वानन्तत्वादेर्गुहीतिस्तद्वदित्यर्थः । भाष्ये ‘आनन्दानुभवात्’ आनन्दरूपत्वादनुभव-रूपत्वाच्चेत्यर्थः ।
वाक्यार्थमञ्जरी
उक्तेति ॥ आनन्दादय इत्युक्तेत्यर्थः ॥ उभयथोक्तिरिति ॥ आनन्दादयः प्रधानस्येत्यात्म-शब्दाच्चेत्युभयथोक्तिरित्यर्थः ।
ॐ आत्मगृहीतिरितरवदुत्तरात् ॐ ॥ आत्मशब्देनेतरगुणानां गृहीतिर्ग्रहणमस्ति कथमितरवद् यथा सत्यं ज्ञानमिति वाक्यगतसत्यादिपदानां सत्यत्वाद्यभिधायित्वं तथाऽस्यापि सच्चिदानन्दाभि-धायकत्वं कुत उत्तरात् तथाभिधायकादत्र ह्येत इत्युत्तरवाक्यादित्यर्थः ।
॥ इति आत्मगृहीत्यधिकरणम् ॥ ९ ॥