ॐ आध्यानाय प्रयोजनाभावात् ॐ
८. आध्यानाधिकरणम्
सूत्रभाष्यम्
उपसंहारानुपसंहारप्रमाणमाह —
॥ ॐ आध्यानाय प्रयोजनाभावात् ॐ ॥ १५ ॥
आध्यानार्थं हि सर्वे गुणा उच्यन्ते प्रयोजनान्तराभावात् ॥
‘ज्ञानार्थमथ ध्यानार्थं गुणानां समुदीरणा ।
ज्ञातव्याश्चैव ध्यातव्या गुणास्सर्वेऽप्यतो हरेः ॥
नान्यत्प्रयोजनं ज्ञानाद्ध्यानात्कर्मकृतेरपि ।
श्रवणाच्चाथ पाठाद्वा विद्याभिः किञ्चिदिष्यत’। इति परमसंहितायाम् ।
‘गुणाः सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशयः ।
नान्यत्प्रयोजनं मुख्यं गुणानां कथने भवेत् ॥
ज्ञानध्यानसमायोगाद्गुणानां सर्वशः फलं
मुख्यं भवेन्न चान्येन फलं मुख्यं क्वचिद्भवेत्’ इति बृहत्तन्त्रे ॥
तत्त्वप्रदीपिका
सर्वगुणोपसंहारोऽल्पोपसंहारश्च प्रमाणतः साधितौ, विषयविवेकेन चाविरोधं नीतौ । तयो-स्तात्पर्यात्पुनः प्रमाणमाह– आध्यानाय प्रयोजनाभावात् ॥ आप्त्वा धिया ध्यानार्थं हि सर्वे गुणा उच्यन्ते ।
तत्त्वप्रकाशिका
अत्र परमात्मज्ञानसाधनोपासने गुणोपसंहारानुपसंहारसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथोक्तमयुक्तं स्यादिति समर्थनीयौ । प्रागुक्तौ गुणोपसंहारानुपसंहारौ विषयः । कर्तव्यौ न वेति सन्देहः । क्रियाद्वैविध्यदर्शनं सन्देहबीजम् । न कर्तव्याविति पूर्वः पक्षः । प्रमाणाभावात् । न च सर्वगुणोपसंहारे विधिरस्तीत्युक्तमिति । अनुपसंहारेऽपि मोक्षप्राप्तेरुक्तत्वात् । फलान्तरस्य चानपेक्षितत्वाद्व्यर्थविधेश्चानवधेयत्वात् । यदप्युक्तं सर्वविद्यानां भगवद्गुणाभिधायकत्वात्तदुपसंहारः कर्तव्य इति । तन्न । गुणानां नानास्थानेष्वुक्तत्वेन तदभिधानस्योपसंहारार्थत्वाभावात् । गुणाभिधानस्योपसंहारार्थत्वे वा सर्वेप्येकत्रैवोच्येरन् । उक्तं च वैफल्यम् । यदपि प्रकरणभेदादनुप-संहार इति तदप्ययुक्तम् । प्रकरणेष्वेतावदेवोपास्यमित्युक्त्यभावात् । अतः सर्वगुणोपसंहारानुप-संहारयोरयोगान्नोपासनं युक्तमिति । सिद्धान्तयन्नधिकरणतात्पर्यमाह ॥ उपसंहारेति ॥ सर्वगुणोप-संहारानुपसंहारयोः कर्तव्यत्वे प्रमाणमाहाऽस्मिन्नधिकरणे सूत्रकृदित्यर्थः । तत्रोपसंहारप्रमाणदर्शनार्थं सूत्रं पठित्वा व्याचष्टे ॥ आध्यानायेति ॥ कर्तव्यास्तावदुपसंहारः । सर्वविद्यानां भगवन्नामत्वेन तद्गुणाभिधायकत्वाद्गुणाभिधानस्य चाशेषगुणोपसंहारपूर्वक ध्यानार्थत्वादिति भावः । गुणाभिधानस्य ध्यानार्थत्वं कुत इत्यत आह ॥ प्रयोजनेति ॥ न च गुणोपसंहारो निष्फलः । विप्रकीर्णगुणा-नुपसंहृत्योपासकस्य तदनुसारिमुक्त्यानन्दातिशयलक्षणफलसद्भावात् । ‘यावत्सेवा परे तत्त्वे तावत्सुखविशेषता’ इति स्मृतेः । अत एव विशेषफलस्य दौर्लभ्याय नानास्थानेषूक्तिरुपपन्नेति । गुणाभिधानस्य ध्यानार्थत्वे स्मृतिं चाह ॥ ज्ञानार्थमिति ॥ विद्याभिर् ब्रह्मकर्मविद्याभिः । एवं च गुणाभिधानस्य श्रवणपाठावपि प्रयोजनं न ध्यानमेवेत्यत आह ॥ गुणो इति ॥ श्रवणादे-र्ज्ञानाद्यर्थत्वेन न तद्गुणकथनस्य मुख्यं प्रयोजनमिति भावः । तथापि ज्ञानस्य प्रयोजनत्वान्न ध्यानमेवेत्यत आह ॥ ज्ञानेति ॥ ज्ञानमपि ध्यानोपयोगितया प्रयोजनं न मुख्यमिति भावः । अन्येन ज्ञानमात्रेण । यद्यपि श्रवणादेर्जनलोकादिफलस्य प्रयोजनत्वसम्भवस्तथापि महाफलज्ञानसाधनत्वेन विहितस्य न तत्फलमिति ॥
गुर्वर्थदीपिका
अतः सर्वगुणोपसंहारानुपसंहारयोरयोगादित्यत्र ब्रह्मण्युक्तसर्वगुणोपसंहारस्य तदितरदेवर्षिपितृ-चक्रवर्तिषूक्तानुपसंहारस्य च वैफल्यादयोगादित्यर्थः । सर्वापेक्षितफलस्य चतुर्गुणोपासनेनैव सिद्धेर् ब्रह्मण्युक्तसर्वगुणोपसंहारस्तदितरेषूक्तानुपसंहारश्च नापेक्षित इति भावः । एवमपि विभागे चतुर्गुणोपसंहारस्य मोक्षे अवश्यापेक्षितफलसाधकत्वेन सर्वैः कर्तव्यत्वाच्चतुर्गुणोपसंहारस्तदितर-गुणानुपसंहारश्चेत्युपसंहारानुपसंहारयोर्योग एव स्यान्न त्वयोग इति ज्ञेयम् । ज्ञानार्थमथ ध्यानार्थ-मित्यत्र ज्ञानपदेन श्रवणमननजनितज्ञानमुच्यते । श्रवणादेर्ज्ञानाद्यर्थत्वेनेत्यत्र श्रवणं ध्यानोपयोगि-गुणज्ञानार्थम् । आदिपदेन मननं ज्ञातेऽर्थे ध्यानोपयोगिसंशयविपर्ययव्युदासार्थमित्यर्थः । ज्ञानमात्रेण श्रवणादिजनितज्ञानमात्रेण । मुख्यं फलमपरोक्षज्ञानम् ।
भावबोधः
गुणोपसंहारेति । ‘उपसंहारोऽर्थाभेदात्’ इति । ‘न वा प्रकरणभेदात्’ इत्युक्तयोः सर्वगुणोप-संहारानुपसंहारयोर् व्याहतत्वशङ्काया अत्युल्बणतया ‘प्राप्तेश्च’ इत्यादिना ‘इतरे त्वसामान्यात्’ इत्यन्तेन सामान्यविशेषाभ्यामधिकाशङ्काविशेषोक्त्या प्रथमं तां परिहृत्येदानीं तत्र प्रमाणमुच्यते-त्यनन्तरसङ्गतिरिति भावः । कर्तव्यौ न वेति । अत्र गुणोपसंहारानुपसंहारौ किं न कर्तर्व्यौ उत कर्तर्व्याविति चिन्ता । तदर्थं तत्र प्रमाणं नास्त्युतास्तीति । तदर्थमुपसंहारानुपसंहारयोः प्रसाण-त्वेनोक्तौ सर्वविद्यानां भगवन्नामत्ववचनं प्रकरणभेदश्चेत्येतौ न युक्तावुत युक्ताविति । तदर्थं विप्रकीर्णभगवद्गुणोक्त्यात्मेत्यवधारणयोर् ध्यानमात्रप्रयोजकत्वान्ययोगव्यवच्छेदपरत्वे किं न युज्येते उत युज्येते इति । विधिरस्तीति । प्रमाणत्वेनेति शेषः । ‘उक्तं विधिशेषवत्’ इत्यनेनेत्यर्थः । ‘विधिशेषवत्’ इत्यत्र विहितत्वेनोक्तो गुणोपसंहारः किं सफल उत निष्फलः । आद्येऽपि किं मोक्षफलक उतान्यफलक इति विकल्पं मनसि निधाय आद्यं निराकरोति– अनुपसंहार इति ॥ ‘आनन्दादयः प्रधानस्य’ इत्यादावित्यर्थः । द्वितीयं निराकरोति– फलान्तरस्येति ॥ विरक्ता-नामेवोपासनाधिकारित्वादिति भावः । तृतीयं दूषयति– व्यर्थविधेरिति ॥ यदप्युक्तमिति ॥ ‘संज्ञातश्चेत्तदुक्तमस्ति तु तदपि’ इत्यत्रेत्यर्थः । तदुत्तरत्वेन नानावस्थानेषूक्तगुणानामनुपासनार्थत्व-मिति न्यायविवरणं योजयति– गुणानामिति ॥ नानास्थानेषूक्तेरप्रयोजकत्वपरिहारार्थं विपक्षे बाधकमाह– गुणाभिधानस्येति ॥ अस्तु वा गुणाभिधानस्य उपसंहारार्थत्वं तथापि गुणोप-संहाराभावेऽपि मोक्षप्राप्तेः ‘आनन्दादयः प्रधानस्य’ इत्यादावुक्तत्वात् तदन्यफलस्य चानपेक्षि-तत्वाद् विफलोऽसौ न कर्तव्य इत्यभिप्रेत्याह– उक्तं चेति ॥ यदपीति ॥ उक्तमित्यनुवर्तते । ‘न वा प्रकरणभेदात्’ इत्यत्रेत्यर्थः ॥ आध्यानायेति ॥ आङोऽर्थमाह– अशेषगुणोपसंहारपूर्वकेति ॥ विप्रकीर्णगुणान् पिण्डीकृत्योपासितुस् तादृशफलप्राप्तेरिति न्यायविवरणांशं तन्निवर्तनीयाशङ्का-निरासपूर्वकं व्याचष्टे– न चोपसंहार इत्यादिना ॥ अनेन पिण्डीकृत्येत्येतदुपसंहृत्येति व्याख्यातम् ।
ननु उक्तमत्र गुणाभिधानस्य उपसंहारार्थत्वे सर्वेऽप्येकत्रैवोच्येरन्नित्येतत्परिहाराय प्रवृत्तस्य तथा ध्यानार्थमेव गुणानामुक्तिरित्युपपत्तिरिति न्यायविवरणांशस्याभिप्रायमाह– अत एवेत्यादिना ॥ तथा च गुणानां नानास्थानेषु उक्तत्वमन्यथासिद्धमिति भावः । एतेन विहितत्वहेतुरपि समर्थितो भवति । अनुपसंहारे मोक्षमात्रसिद्धावपि तद्गतानन्दातिशयलक्षणफलासिद्धेस् तद्योग्यान् प्रति सर्वगुणोपसंहारस्य विधेयत्वादिति ॥ ब्रह्मकर्मविद्याभिरिति ॥ कर्मकृतेरित्यप्युक्तत्वादिति भावः ।
ननु श्रवणादेरमुख्यस्य फलान्तरस्यादर्शनात् कथं न चान्येन फलं मुख्यं क्वचिदुक्तमित्यत आह– यद्यपीति ॥ श्रवणादिभिर्मध्यम इति ॥ मध्यमाज्जनलोकादिरिति चोक्तत्वादिति भावः ।
भावदीपः
समर्थनादिति ॥ यद्यपि सर्वमध्यमगुणोपसंहारोऽल्पगुणोपसंहाररूपानुपसंहारश्च प्रमाणतः साधितौ । विषयभेदेनाविरोधं च नीतौ फलभेदश्चोक्तः । तथापि प्रागुक्तप्रमाणानामत्राक्षेप-समाधानाभ्यां दृढीकरणेन विशेषप्रमाणोक्त्या च तयोरिह समर्थनादित्यर्थः । एतेनेतरे त्वित्यन्तमुप-संहारः । न वेत्यादिनाऽल्पगुणोपसंहाररूपानुपसंहारश्च यः प्रकृतस्तयोरत्र प्रामाणिकत्वोक्त्या समर्थनमवसरप्राप्तमिति पूर्वसङ्गतिरपि सूचिता ॥ प्रागुक्ताविति ॥ उपसंहार इति न वेति प्रागुक्तावित्यर्थः ॥ क्रियेति ॥ सफलनिष्पलक्रिययोर्लोके कर्तव्यत्वाकर्तव्यत्वदर्शनमित्यर्थः ॥ विधिरिति ॥ उपास्य एक इति विधिरित्यर्थः ॥ उक्तत्वादिति ॥ आनन्दादय इत्यत्रेत्यर्थः ॥ अनपेक्षितत्वादिति ॥ मुमुक्षुत्वादिति भावः । मुक्तावानन्दातिशयरूपं फलं तु प्रमाणशून्यमिति भावः । अनवधेयत्वाद् अश्रद्धेयत्वादित्यर्थः ॥ यदप्युक्तमिति ॥ संज्ञातश्चेत्तदुक्तमित्यत्रेति भावः । संज्ञातः संज्ञात्वत इति सौत्रहेत्वर्थोऽत्र गुणाभिधायकत्वादिति । नानास्थानेषूक्तेर्गुणानामनुपास्यत्व-मित्यन्यत्रोक्तं हेतुमाह ॥ गुणानामिति ॥ सर्वविद्यानां भगवत्संज्ञात्वात्सर्वगुणोपसंहारः कार्य इत्ययुक्तं हेतोरप्रयोजकत्वात् । तथात्वे हि गुणानां नानास्थानेषूक्तिर्न स्यादित्यर्थः । कथं तर्ह्युक्तिः स्यादित्यत आह ॥ गुणेति ॥ तथा चैकत्रैव सर्वगुणोक्तिरुपसंहारे प्रयोजिका न तु सौत्रः संज्ञात्वहेतुरिति भावः ।
ननु विप्रकीर्णोपसंहारेणैव फलप्राप्तेर्नानास्थानेषूक्तिः फलार्थतयोपपन्ना सती नानुपसंहार-कारणम् । येनैकत्रोक्तिरेवोपसंहारे कारणं न संज्ञात्वमिति स्यादिति चेत् । तत्किं फलमभिप्रेतं मोक्षाख्यं वा ततोऽन्यद्वा । नान्त्यः । तस्य मुमुक्षोरनपेक्षितत्वात् । आद्य आह उक्तं चेति ॥ अनुपसंहारेऽपि मोक्षप्राप्तेरुक्तत्वादित्यनेनेत्यर्थः । मोक्षगतातिशयः फलमिति त्वप्रमाणिकमिति भावः । तर्ह्यस्त्वनुपसंहार एवेत्यत आह ॥ यदपीति ॥ न वा प्रकरणभेदादित्यत्रोक्तमित्यर्थः । फलोक्त्योपसंहरति ॥ अत इति ॥ उक्तदिशा प्रमाणाभावादित्यर्थः । संज्ञातश्चेत्तदुक्तमित्यत्रोक्त-साध्यहेतू एवोक्त्वा हेतोरुपसंहारकर्तव्यत्वे साध्ये प्रयोजकत्वोक्तिपरतया सूत्रभाष्ये व्याचष्टे ॥ कर्तव्यस्तावदिति ॥ वक्ष्यमाणानुपसंहारकर्तव्यत्वोक्त्यपेक्षया तावच्छब्दः । संज्ञात्वं परम्परया हेतुरिति भावेनोक्तं भगवन्नामत्वेनेत्यादि । तावता किमित्यतो भाष्यार्थं हेतुत्वेन योजयति ॥ गुणाभिधानस्य चेति ॥ आङोऽर्थोऽशेषगुणोपसंहारपूर्वकेति । विप्रकीर्णगुणान् पिण्डीकृत्यो-पासितुस्तत्सदृशफलप्राप्तेरिति न्यायविवरणं प्रागुक्तशङ्कानिरासकत्वेन विप्रकीर्णतयोक्तगुणोपसंहारो निष्फलोऽनुपसंहारेणापि मोक्षसिद्धेरित्यर्थः । उपासकस्य उपासनं कुर्वत इत्यर्थः ॥ तदनुसारीति ॥ एतेनासम्यक्स्वप्राप्यफलानुसारिध्यानायेत्याङोऽर्थान्तरं सूचितम् ।
अतिशयरूपफलसत्वे देवतानयभाष्योक्तं मानमाह ॥ यावदिति ॥ एत एव फलविशेष-सद्भावादेवेत्यर्थः । कर्मकृतेरित्युक्तत्वादाह ॥ ब्रह्मकर्मविद्याभिरिति ॥ स्मृतौ नान्यत्प्रयोजनं मुख्यमिति श्रवणात्तद्व्यावर्त्यमाह ॥ श्रवणपाठावपीति ॥ तथा च प्रयोजनान्तरभावादित्यसिद्धो हेतुरिति भावः । प्रकारान्तरेण हेत्वसिद्धिमाशङ्क्य निराह ॥ तथापीति ॥ ज्ञानमात्रेणाऽऽ-श्रवणादिजन्यध्यानोपयोगिज्ञानमात्रेणेत्यर्थः । ननु श्रवणादेर्ज्ञानार्थत्वेन न तद्गुणकथनस्य मुख्यं प्रयोजनमिति भाव इत्युक्तिरयुक्ता उपयोग्युपयोज्यभावापन्नयोर्ज्ञानध्यानयोर्मुख्यफलहेतुतया तद्द्वयं गुणोक्तेर्यथा मुख्यं प्रयोजनं तथा श्रवणाज्जनलोकादिरिति जिज्ञासानयभाष्योक्तदिशा श्रवणादेरपि जनलोकादिफलहेतुत्वात्तदपि गुणोक्तेरस्तु मुख्यं प्रयोजनम् । तथा च नान्यत्प्रयोजनं मुख्यमित्युक्तिरयुक्तेति भावेन शङ्कित्वा निराह ॥ यद्यपीति ॥ महाफलेति बहुर्वीहिः । महाफलं यज्ज्ञानं तदर्थत्वेन द्रष्टव्यः श्रोतव्य इति विहितस्य श्रवणादेरित्यर्थः । यद्वा विहितस्य गुणाभि-धानस्येत्यर्थः । न तत्फलं श्रवणादिकं फलं नेत्यर्थः । ज्ञानार्थमथ ध्यानार्थमित्यादौ विहित-स्येत्यर्थः । यद्वा स्मृतौ नान्येन फलमित्येव वाच्ये फलं मुख्यमित्युक्तमुख्यपदस्य कृत्यं व्यनक्ति ॥ यद्यपीत्यादिना ॥ विहितस्य श्रवणादेः । तज् जनलोकादिकं फलम् । न मुख्यमित्यर्थः ।
अभिनवचन्द्रिका
गुणोपसंहारानुपसंहारेति ॥ सर्वगुणोपसंहारकतिपयगुणोपसंहारयोः समर्थनादित्यर्थः । उपसंहारांशे प्रमाणाभावोऽसिद्ध इत्याक्षिप्य निषेधति– न चेति ॥ व्यर्थविधेरिति ॥ इष्ट-साधनतारूपविध्यर्थ विधुरविधिप्रत्ययान्तस्याऽनवधेयत्वादित्यर्थः । अनुपसंहारेऽपि मोक्षप्राप्तेरुक्तत्वेन मोक्षासाधनोपसंहारस्य मोक्षसाधनताप्रतिपादकविधिवाक््यस्याप्रामाण्यमिति भावः । उक्तं च वैफल्यमिति । उपसंहारस्य व्यतिरेकव्यभिचारेण मोक्षार्थत्वं नेत्युक्तमित्यर्थः । निरर्थकोपसंहारार्थत्वं गुणाभिधानस्य न सम्भवतीति भावः । अनुपसंहारांशे प्रमाणाभावोऽसिद्ध इत्याशङ्क्य निषेधति यदपीति ॥ उपंसहारानुपसंहारयोरिति ॥ सर्वगुणोपसंहारकतिपयमात्रोपसंहारयोरित्यर्थः । प्राप्तेश्च समञ्चसमिति न्यायेनेति । अधिकारिभेदेन उपसंहारानुपसंहारवद् अस्य वाक्यस्याधिकारिभेदेन अनभिमतव्यवच्छेदबोधकत्वम् अन्यव्यवच्छेदबोधकत्वं च युज्यत इति भावः ।
पूर्वपक्षस्तु– सर्वगुणोपसंहारो न कर्तव्यः प्रमाणाभावात् । न च ‘उपास्य एकः परतः परः’ इति भाल्लवेयश्रुतौ सर्वगुणोपसंहारस्य विहितत्वात् कथं प्रमाणाभाव इति वाच्यम् । अनुपसंहारि-णामपि चतुर्गुणोपासकानां मोक्षस्य जायमानत्वात् । व्यभिचारिणश्च साधनत्वायोगेन असाधनं साधनतया प्रतिपादयतो वाक्यस्याऽप्रामाण्यात् । न च सर्वविद्यानां भगवद्गुणाभिधायकत्वेन तदुपसंहारः कर्तव्य इति वाच्यम् । गुणानां नानास्थानेषूक्तत्वेन तदभिधानस्योपसंहारार्थत्वाभावात्, उपसंहारस्य निष्फलत्वेन, गुणाभिधानस्य तदर्थत्वायोगाच्च । नापि कतिपयमात्रगुणोपसंहारो युक्तः । प्रमाणाभावात् । न च वाच्यं प्रकरणभेदस् तत्र प्रमाणमिति तत्रैतावदेवोपास्यमित्यनुक्तत्वात् । ततश्च नोपासनं युक्तमिति ।
सिद्धान्तस्तु– कर्तव्य एवोपसंहारः । सर्वविद्यानां भगवन्नामत्वेन तद्गुणाभिधायकत्वात् । तस्य च प्रयोजनान्तराभावेनोपसंहारपूर्वकध्यानार्थत्वात् । न चोपसंहारो निष्फल आनन्दातिशय-लक्षणफलसद्भावात् । तथा विरिञ्चेतरैः कतिपयगुणानुपसंहारेण कतिपयगुणोपसंहारः कार्यः । ‘आत्मेत्येवोपासीत’ (बृ.) इत्याद्यनुपसंहारप्रमाणस्य विद्यमानत्वात् । अतश्चोपसंहारानुपसंहारयोः कर्तव्यत्वाद् उपासनं युक्तमिति सिद्धम् ।
वाक्यार्थमुक्तावली
अन्यथोक्तमिति ॥ उपसंहारोऽर्थाभेदात्, संज्ञातश्चेत्तदुक्तम्, इतरेऽत्वर्थसामान्याद् इत्यन्तोक्तोपसंहारो न वा प्रकरणभेदादित्यादिनोक्तोऽनुपसंहारश्च न स्यादित्यर्थः । तथा चाव्यवहितेनाप्याक्षेपिकी सङ्गतिरिति भावः ॥ कर्तव्याविति ॥ उपसंहारानुपसंहारौ न कर्तव्यावुत कर्तव्याविति चिन्ता । तदर्थं पूर्वोक्तप्रमाणानां सावकाशत्वावद्विशेषप्रमाणं नास्त्युतास्तीति ॥ विधिरस्तीति ॥ विधिरूपप्रमाणमित्यर्थः । विहितो गुणोपसंहारः किं मोक्षफलक उत तदन्य-फलकोऽथवा निष्फलक इति विकल्पं मनसि निधायाद्यं दूषयति ॥ अनुपसंहारोऽपीति ॥ आनन्दादयः प्रधानस्येत्यादावित्यर्थः । द्वितीयं निराकरोति । फलान्तरस्येति ॥ विरक्तानामेवो-पासनाधिकारित्वादिति भावः । तृतीयं दूषयति ॥ व्यर्थविधेरिति ॥ तदप्युक्तमिति ॥ संज्ञातश्चे-दित्यत्रेत्यर्थः । सिद्धान्ते नानोक्तेरुपसंहारार्थत्वोक्त्या लब्धं नानोक्तिरिति न्यायं सङ्गमयति ॥ गुणानामिति ॥ गुणानां नानास्थानेषूक्तत्वस्य प्रयोजकत्वमाशङ्क्य विपक्षे गुणानां नानास्थाने-षूक्तत्वरूपहेतोरुच्छित्तिं बाधकमाह ॥ गुणाभिधानस्येति ॥ उपसंहारस्य निष्फलत्वेन गुणाभिधानस्योपसंहार्यत्वायोगाच्चेति । उपसंहारार्थत्वद्दूषणान्तरमाह ॥ उक्तं चेति ॥ अनुप-संहारेऽपि मोक्षप्राप्तेरित्यादिनात्रैवोक्तमित्यर्थः । आत्मशब्दाच्चेति सूत्रनिरस्यमनुपसंहारस्या-कर्तव्यत्वमाशङ्कते ॥ यदपीति ॥ न वा प्रकरणभेदादित्यत्रोक्तमित्यनुवर्तते । संज्ञातेति सूत्रेऽभ्यधिकाशङ्कायां तत्परिहारायेदं सूत्रमिति भावेन तदर्थं तावदनुवदति ॥ कर्तव्य इति ॥
ननु गुणानां नानाविद्यासूक्तत्वमुपसंहारविरोधीत्युक्तमित्याशङ्क्य तत्परिहारकत्वेन प्रवृत्तं सूत्रं ‘सर्वे गुणा उच्यन्ते’ इत्यध्याहारेण व्याकुर्वद्भाष्यं व्याचष्टे ॥ गुणाभिधानस्येति ॥ आङोऽर्थमाह ॥ अशेषगुणोपसंहारपूर्वकेति ॥ उक्तं च वैफल्यमित्येतदाशङ्क्य निराकरोति न चेति ॥ तद्व्यतिरेकेणापि सर्वापेक्षितानन्दादिसिद्धेर् गुणोपसंहारो निष्फल इति न चेत्यर्थः । कुतो नेत्यतः फलसाम्यमित्युक्तन्यायप्रदर्शकम् आध्यानार्थमित्येतदेवासम्यगनुरूपफलजनकध्यानार्थमित्येवमर्थतया व्याचष्टे ॥ विप्रकीर्णेति ॥ तदुक्तं न्यायविवरणे । विप्रकीर्णगुणान्पिण्डीकृत्योपासितुस् तत्सदृश-फलप्राप्तेस्तथाध्यानार्थमेव गुणानामुक्तिरित्युपपत्तिरिति । तथाध्यानार्थमित्यस्य तथाविधध्यानार्थं तदनुसारिफलकध्यानार्थमित्यर्थः ।
ननूक्तमत्र गुणाभिधानस्योपसंहारार्थत्वे वा सर्वेष्वेकत्रैवोच्येरन् इत्येतत्परिहारायाप्याध्यानार्थ-मित्येतद्व्याचष्टे ॥ अत एवेति ॥ नानास्थानेषु विप्रकीर्णोक्तगुणोपासकस्य सेवातिशयानु-सारिमौक्तानन्दातिशयाख्यफलसद्भावादेवेत्यर्थः । दौर्लभ्यायेति ॥ एकत्रोक्तो सौलभ्ये तत्फलाति-शयो न स्यादिति भावः । एतेनातिदुर्लभानन्दातिशयफलकध्यानार्थं नानास्थानेषु सर्वगुणा उच्यन्ते । एकत्रोक्तौ फलदौर्लभ्यायोगादित्यर्थ उक्तो भवति । तथा च गुणानां नानास्थाने-षूक्तत्वमन्यथासिद्धमिति भावः । एतेन विहितत्वहेतुरपि समर्थितो भवति । अनुपसंहारे मोक्षमात्र-सिद्धावपि तद्गतानन्दातिशयसिद्धेस् तद्योग्यान्प्रति सर्वगुणोपसंहारस्य विधेयत्वादिति ॥ ज्ञानध्यान-समायोगादित्यस्याङ्गाङ्गिभावेन समायोगादित्यर्थं मत्वाह ज्ञानमपि ध्यानोपयोगितयेति ॥
ननु यदुक्तं श्रवणादेर्ज्ञानार्थत्वेन श्रवणादिकं गुणादिकथनस्य मुख्यं प्रयोजनमिति । तदयुक्तम् । मध्यामाज्जनलोकादिरिति वचनात् । साक्षादामुष्मिकजनलोकादिफलकस्य श्रवणादेर्गुणकथन-रूपमुख्यफलकत्वोपपत्तेरित्याशङ्क्य निषेधति ॥ यद्यपीति ॥ जनलोकादिः फलं यस्येति विग्रहः । प्रयोजनत्वसम्भवः । गुणकथनप्रयोजनत्वसम्भवः ॥ महाफलेति ॥ महन्मोक्षाख्यं फलं यस्य तन्महाफलम् । तच्च तज्ज्ञानं च महाफलज्ञानमपरोक्षज्ञानम् । परोक्षनिश्चयध्यानद्वारा तत्साधनत्वेन विहितस्य श्रवणादेर्न तज्जनलोकादिकं मुख्यफलमिति न तत्फलकं श्रवणादिकं गुणकथनस्य मुख्यं प्रयोजनमित्यर्थः । भावबोधे च ननु श्रवणादेर्मुख्यफलान्तरदर्शनात्कथं चान्येन फलं मुख्यं क्वचिदित्यत आह ॥ यद्यपीत्यवतारितम् ॥
तत्त्वसुबोधिनी
गुणोपसंहारानुपसंहारयोर् व्याहतत्वशङ्काया अत्युल्बणायाः प्राप्तेरित्यादिना इतरेत्वर्थ-सामान्यादित्यन्तेन तां परिहृत्य इदानीं तत्तप्रमाणमुच्यत इत्यनन्तरगतिरिति भावः । विधिरस्तीति ॥ प्रमाणत्वेनैवेति शेषः । उक्तं विधिशेषवदित्यनेनेत्यर्थः । विधिशेषवदित्यत्र विहितत्वेनोक्तो गुणोप-संहारः किं सफल उत निष्फलः । आद्येऽपि किं मोक्षफलक उत न फलक इति विकल्पं हृदि निधायाद्यं निराकरोति ॥ अनुपसंहारेऽपीति ॥ आनन्दादयः प्रधानस्येत्यादावित्यर्थः । द्वितीयं निराकरोति ॥ फलान्तरस्येति ॥ विरक्तानामेव उपासनाधिकारित्वादिति भावः ॥ तृतीयं दूषयति ॥ व्यर्थविधेरिति ॥ यदप्युक्तमिति ॥ संज्ञातश्चेतदुक्तमित्यत्रेत्यर्थः । नानास्थानेषु उक्तत्वेऽपि उपसंहारार्थत्वाभावः कुत इत्यत आह ॥ गुणाभिधानस्येति ॥ अस्तु वा गुणाभिधानस्योप-संहारार्थत्वं तथापि सर्वगुणोपसंहाराभावेऽपि मोक्षप्राप्तेर् आनन्दादयः प्रधानस्येत्यादावुक्तत्वा-द्विफलोऽसौ न कर्तव्य एवेत्यभिप्रेत्याह । उक्तं चेति ॥ यदपीति ॥ उक्तमित्यनुवर्तते न वा प्रकरणभेदादित्यत्रेत्यर्थः । आध्यानयेत्याङोऽर्थमाह ॥ अशेषगुणोपसंहारेति ॥
ननु उक्तमत्रगुणाभिधानस्य उपसंहारार्थत्वे सर्वेऽप्येकत्रैव उच्येरन्नित्यत आह ॥ अत एवेति ॥ विप्रकीर्णगुणोपसंहारपूर्वकोपासने यतः फलविशेषोऽत एवेत्यर्थः । ननु एकत्रैव सर्वे गुणा वक्तव्या तदुपसंहारपूर्वकोपासने फलविशेषः स्यादेवेत्यत उक्तम् । विशेषफलस्य दौर्लभ्यायेति । फलविशेषस्य दुर्लभत्वेन सुलभसाधनेन तस्य प्राप्तिः । एक प्राप्तो हि सौलभ्यं स्यादिति भावः । तथा च नानास्थानेषु उक्तिरन्यथासिद्धेति भावः । एतेन विहितत्वहेतुरपि समर्थितः । अनुपसंहारे मोक्षमात्रसिद्धावपि तद्गतानान्दातिशयलक्षणफलविशेषासिद्धेस् तद्योग्यान्प्रति उपसंहारस्य विधेयत्वादिति ॥ ब्रह्मकर्मविधिभिरिति ॥ कर्मकृतेरित्युक्तत्वादिति भावः । एवं च ब्रह्मविधिभिर् ज्ञानाद् ध्यानात्, श्रवणात्, पाठाच्च, अन्यत्प्रयोजनं नास्ति । एवं कर्मविधिभिः कर्मकृतेरन्य-त्प्रयोजनं नास्तीति स्मृतियोजना सूचिता भवति । ज्ञानध्यानसमायोगादित्यत्र ज्ञानजन्यः यो ध्यानसमायोगः समीचीनो योगस् तस्मादित्यर्थः । ननु श्रवणादेरमुख्यस्य फलान्तरदर्शनात्कथं न चान्येन फलं मुख्यं क्वचिदित्यक्तमित्यत आह ॥ यद्यपीति ॥ मध्यमाज्जनलोकादिरित्युक्तत्वादिति भावः ।
वाक्यार्थविवरणम्
अनवधेयत्वात् ॥ अश्रद्धेयत्वात् । सर्वविद्यानामित्यनन्तरं भगवन्नामत्वेन नाम्नां चेत्येतावान् शेषः । गुणाभिधायकत्वादित्यनन्तरं गुणाभिधानस्य चोपसंहारार्थत्वादिति शेषः ॥ उक्तम् ॥ आनन्दादय इत्यत्र । वैफल्यं गुणोपसंहारस्येति शेषः ॥ एतावदेवेति ॥ तथा चान्यनिषेधाभावेन गुणान्तरोपसंहारोऽपि तत्राभिप्रेत एवेति भावः । ध्यानस्य सम्यक्त्ववाचिन आङाऽर्थोऽशेष-गुणोपसंहारपूर्वकेति कुत इति ॥ प्रयोजनान्तरार्थत्वमेवास्त्विति भावः ॥ अत एवेति ॥ सेवाधिक्येन फलाधिक्यस्योक्तत्वादेवेत्यर्थः ॥ नानास्थानेष्विति ॥ एकत्रैवोक्तौ विप्रकीर्णगुणा-नामेकीकरणरूपोपसंहाराख्यसेवाधिक्याभावेन सर्वेषामेकप्रकारफलापत्तेरिति भावः । भाष्ये समुदीरणा यत इति शेषः । कुत इत्यत आह भाष्ये ‘नान्यदिति, विद्याभिः’ इतीति ब्रह्मविद्याभिर्ज्ञानाद्ध्यानाच्छ्रवणात्पाठाद्वाऽन्यत्प्रयोजनं नेष्यते । कर्मविद्याभिश्च कर्मकृतेः । कर्मानुष्ठानादन्यत्प्रयोजनं नेष्यत इति विवेकः ॥ प्रयोजनमिति ॥ श्रवणाच्चाथ पाठाद्वेत्युक्तत्वादिति भावः ॥ न ध्यानमेवेति ॥ तथा च ध्यानायेत्युक्तमसदिति भावः ॥ तत् । श्रवणादि । ज्ञानस्य । ज्ञानस्यापि । प्रयोजनत्वात् । गुणकथनप्रयोजनत्वात् । गुणानां च कथने वेदनाद् ध्यानाच्चान्य-न्मुख्यप्रयोजनं नास्तीत्युक्तत्वादिति भावः ॥ ज्ञानमपीति ॥ तथा च सर्वशः सर्वेषां गुणानां ज्ञानध्यानसमायोगात् । ज्ञानध्यानयोः साहित्यान्मुख्यफलं भवेदित्यर्थः ॥ ज्ञानमात्रेण । ध्यानासहितश्रवणेन । मुख्यपदप्रयोजनं वक्तुमाह ॥ यद्यपीत्यादिना ॥ जनलोकादिरूपफलस्य जनलोकस्यादिर् महर्लोक इत्यर्थः । श्रवणजनितमध्यमप्रसादस्य जनलोकादिफलकत्वस्य ‘मध्यमा-ज्जनलोकादिः’ इति प्रमाणसिद्धत्वादिति भावः । तथा चान्येन फलं न भवेदित्युक्तमयुक्तमिति हृदयम् । एतच्छङ्कावारणाय मुख्यपदमित्याशयेन तदभिप्रायमाह ॥ तथापीति ॥ महाफलेत्यादि ॥ मोक्षरूपं यन्महाफलं तद्वद्यज्ज्ञानं तत्साधनत्वेन ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यः’ इति श्रुतिविहितस्य श्रवणादेरित्यर्थः । तज् जनलोकादि ।
वाक्यार्थमञ्जरी
उक्तमिति ॥ ‘उपसंहारोऽर्थाभेदात्’ न वा प्रकरणभेदादिति सूत्राभ्यां क्रमेणोक्तं, तयोः कर्तव्यत्वमित्यर्थः ॥ विधिरस्तीति ॥ प्रमाणत्वेनेति शेषः । उक्तं विधिशेषवदित्यनेन विधिशेषवदित्यत्र विहितत्वेनोक्तो गुणोपसंहारः किं सफल उत निष्फलः । आद्येऽपि किं मोक्षफलकम् उतान्यफलकेति विकल्पं मनसि निधायाद्यं दूषयति ॥ अनुपसंहारेऽपीति ॥ ‘आनन्दादयः प्रधानस्य’ इत्यादावित्यर्थः । द्वितीयं निराकरोति ॥ फलान्तरस्येति ॥ फलान्तरे विरक्तानामेवोपासनाधिकारित्वादिति भावः । तृतीयं दूषयति ॥ व्यर्थविधेरिति ॥ अनादरणीय-त्वादिति भावः ॥ यदप्युक्तमिति ॥ संज्ञातश्चेत्तदुक्तमित्यत्रेत्यर्थः । अस्तु वा गुणोपसंहार-स्योपसंहारार्थत्वं तथापि सर्वोपसंहाराभावेऽपि मोक्षप्राप्तेरानन्दादयः प्रधानस्येत्यादावुक्तत्वा-त्तदन्यफलस्य चानपेक्षितत्वाद्विफलोऽसौ न कर्तव्य इत्यभिप्रेत्याह ॥ उक्तं चेति ॥ यदपीति ॥ उक्तमित्यनुवर्तते न वा प्रकरणभेदादित्यत्रेत्यर्थः ।
ॐ आध्यानाय प्रयोजनाभावात् ॐ ॥ सर्वगुणोक्तिराध्यानायासंमतात्सर्वगुणोपसंहारेण ध्यानार्थमेव कुतः, तद्विना प्रयोजनाभावात् ॥ मुक्त्यानन्देति ॥ मुक्तावानन्दातिशयेत्यर्थः । ननु गुणाभिधानस्योपसंहारार्थत्वे सर्वेप्येकत्रैवोच्चेरन्नित्यत आह ॥ अत एवेति ॥ ज्ञानार्थमेवेत्यादौ ज्ञानं परोक्षज्ञानं ज्ञानात्कर्मकृतेरपीत्युभयानुसारेणाह ॥ ब्रह्मकर्मविद्याभिरिति ॥ तत् श्रवणादि साक्षात्फलहेतुत्वाभावादिति भावः । फलस्य फलवतः ॥ प्रयोजनत्वेनेति ॥ गुणकथन-प्रयोजनत्वसम्भव इत्यर्थः । तथा च साक्षात्फलहेतुत्वान्मुख्यप्रयोजनत्वमिति भावः । विहितस्य श्रवणादेस् तज् जनोलोकादिः ।