ॐ इतरे त्वर्थसामान्यात् ॐ
७. इतराधिकरणम्
सूत्रभाष्यम्
॥ ॐ इतरे त्वर्थसामान्यात् ॐ ॥ १४ ॥
इतरे गुणाः फलसाम्यापेक्षयोपसंहर्तव्याः ।
तत्त्वप्रकाशिका
अत्रेश्वरसाक्षात्कारसाधनोपासने देवादीनां बहुगुणोपासनसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथोपसंहारोक्त्यनुपपत्तिप्रसङ्गात्तत्समर्थनीयम् । प्रकृतभगवद्गुणेषु चतुर्गुणाधिका विषयः । देवादिभिरुपास्या न वेति सन्देहः । फलाधिक्यं विशेषहेत्वदर्शनं च सन्देहबीजम् । चत्वार एव विरिञ्चेतरदेवादिभिरुपास्या नाधिका इति पूर्वः पक्षः । योग्या एव खलु गुणा उपास्याः । अयोग्यो-पासनस्यानर्थफलत्वात् । तत्र युज्यते चतुर्मुखस्य सर्वगुणोपासनम् । सर्वमुमुक्षूणां च चतुर्गुणोपासन-योग्यताया एव निर्णीतत्वात् । न च तथा मध्यमगुणेष्वस्यैतावन्तोऽस्यैतावन्त इति योग्यतानियमः शक्यते ज्ञातुं येनोपासनं स्यात् । न चोपासनाभ्यासे सति यस्य यावन्तो गुणा युगपत्प्रतीयन्ते तस्य तावन्त इति योग्यतानियमो ज्ञातुं शक्यत इति वाच्यम् । प्रागेव योग्यतानियमाज्ञानेऽयोग्योपासन-प्रयत्नप्रसङ्गेनानर्थप्राप्तेः । अतो मध्यमगुणानामनुपास्यत्वात्तदुपसंहारविधानानुपपत्तिरिति । सिद्धान्त-यत्सूत्रं पठित्वा व्याचष्टे ॥ इतरे त्विति ॥ चतुर्भ्यः सर्वेभ्यश्चेतरे मध्यमगुणा देवादिभिरुपसंहर्तव्या एव । न च योग्यताऽनिर्णीतिः । तत्तत्प्राप्यफलमपेक्ष्योपासने योग्यतानिर्णयोपपत्तेः । फलोपासनयोः साम्यात् । न च वाच्यं भविष्यत्फलानिर्णयेनोपास्तियोग्यताऽनिर्णयः । तेषां भाव्युत्कर्षं ज्ञात्वा ब्रह्मणोऽन्यस्य वा सर्वज्ञस्य गुरोस्तदनुसारिगुणनियमोपदेशोपपत्तेरिति भावः । तथा च श्रुतिः । ‘यो यो भावो देवतानां विमुक्तौ तत्तत्प्राप्तौ सद्गुणा नीशितुश्च । ब्रह्मादिशत्यथतांस्ते विचिन्त्य तत्तद्भावं प्राप्नुवन्त्यात्मशक्त्या’ इति । अतो मध्यमगुणानामपि देवाद्युपास्यत्वाद्युक्तं तदुपसंहाराभि-धानमिति सिद्धम् ।
गुर्वर्थदीपिका
अयोग्योपासनप्रयत्नप्रसङ्गेनेत्यत्रोपासनाकाले योग्यानामेव स्फुरणेऽप्युपासनात्प्राग्योग्यानाम-योग्यानां च गुणानां श्रुतत्वात् स्मरणं भवत्येव । तथा च तेषामुपासनाप्रयत्नोऽपि भक्तिमतः स्यादेव । एवं चायोग्यगुणोपासनाप्रयत्नेन ‘अयोग्यमिच्छन्पुरुषः पतत्येव न संशयः’ इति वचनान्महदवद्यं स्यादिति भावः । मध्यमगुणानामित्यस्य चतुर्णां सर्वगुणानां च मध्ये या सङ्ख्या दशविंशतिशतसहस्रादिरूपा तद्धटिता गुणा मध्यमगुणा इत्यर्थः ।
भावबोधः
देवादीनामिति ॥ ‘सर्वाभेदादन्यत्रेमे’ इत्यत्र चतुर्मुखस्यैव वेदोक्तसकलगुणोपासनयोग्यत्व-मुक्त्वा ‘अनन्दादयः प्रधानस्य’ इत्यत्र तद्व्यतिरिक्तानां सामान्यतो गुणचतुष्टयमात्रोपासनोक्तौ चतुर्मुखेतरदेवानामपि गुणचतुष्टयमात्रोपासनयोग्यता स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिः । प्रियशिरस्त्वाधिकरणस्य आनन्दादिविशेषविचाररूपत्वेन तदनन्तरमेव कर्तव्यत्वात् तद्व्यवधानस्या-दोषत्वादिति भावः ॥ देवादिभिरिति ॥ अत्र वेदोक्तसर्वेभ्य आनन्दादिचतुर्भ्यश्चान्ये भगवद्गुणा विरिञ्चेतरदेवादिभिरनुपास्या उतोपास्या इति चिन्ता । तदर्थमस्यैतावन्त इति योग्यतानियमो नास्त्युतास्तीति । तदर्थं तावत्तावद्गुणोपासनायां फलविशेषनिर्णयो नास्त्युतास्तीति । तर्हि ब्रह्मणोऽन्येषां देवादीनां बहुगुणोपासनया कार्यं नास्ति । मध्ये नियमासिद्धेरिति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह चत्वार एवेत्यादिना ॥ अनेन उपासनया कार्यं नास्तीत्यस्य न्यायविवरणांशस्य बहुगुणोपासना न कार्या किं तु चत्वार एवोपास्या इति तात्पर्यमुक्तं भवति । अत्र न्यायविवरणे मध्ये नियमासिद्धेरिति हेतुरुक्तः । स च बहुगुणोपासनाभावे तदा अप्रयोजकः स्यात् । यद्युपासनायां योग्यतानियमः प्रयोजकः स्यादित्यत आह– योग्या एवेति ॥ हेतुवाक्यं योजयति– अस्यैतावन्त इति ॥
ननु ‘प्राप्तेश्च समञ्जसम्’ इत्यत्र ‘युगपत् स्वभुजौ यद्वद् ध्यायेत्तावत एव सः’ इति योग्यता-निर्णायकस्योक्तत्वात् कथम् अस्योत्थानमित्यतस्तदाशङ्क्य निषेधति– न चेति ॥ इतर इत्यस्य प्रतियोगिसापेक्षत्वाद् भाष्ये च तस्य अनुक्तेः स्वयमाह– चतुर्भ्यः सर्वेभ्यश्चेति ॥ तथा च ‘आनन्दादयः’ इत्यत्र ‘सर्वाभेदात्’ इत्यत्र चोक्तानां चतुर्णां सर्वेषां च गुणानां प्रतियोगितयाऽन्वय इति भावः । तेषां भाव्युत्कर्षं ज्ञात्वा तदभिज्ञस्य ब्रह्मण एव गुणनियमोपपत्तेरिति न्यायविवरणं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे– न च वाच्यमित्यादिना ॥
नन्वपरोक्षज्ञानात्पूर्वं सर्वेषां चतुर्मुखोपदेशाभावात् कथं ब्रह्मण एवोपदेष्टृत्वमुक्तमित्यत अन्येषु यथायोगं यथा ह्याचार्या आचक्षते तेषां विशेषोपदेशोपपत्तेरित्यन्वयात् ।
‘तेषां विशेषमाचार्यो वेत्ति सर्वज्ञतां गतः’
इत्यादिश्रुतिस्मृत्यनुसारेण तदुपलक्षणपरमित्यभिप्रेत्याह– अन्यस्य वा सर्वज्ञस्येति ॥ ज्ञात्वोपदेशोपपत्तेरित्यन्वयात् । समानकर्तृत्वम् । तत्रोदाहृतं श्रुतिमुदाहरति– तथा च श्रुतिरिति ॥
भावदीपः
ब्रह्मणोऽन्येषां देवानामपि बहुगुणोपासनया कार्यं नास्ति मध्ये नियमासिद्धेरिति न्यायविवरणोक्तिं हृदि कृत्वाऽऽह ॥ देवादीनामित्यादि ॥ तत्र देवानामिति पदम् ऋषिगन्धर्वादेरुपलक्षणमिति भावः । समर्थनात्, चतुर्णामेवोपास्यत्वशङ्कानिरासेनेति भावः । एतेन पूर्वत्रोपसंहारनये सर्वोत्तमस्य ब्रह्मणः, पूर्वनयद्वये च मानुषाणां चोपासनानिर्णयोक्तावत्र मध्यमाधिकारिणामुपासनानिर्णयादिति वा योग्यगुणोपासनेनैव फलप्राप्तेरिति पूर्वोक्तन्यायेन चतुर्णा-मेवोपास्तिप्राप्तावत्र तन्निरासादिति वा पूर्वसङ्गतिरपि सूचिता ॥ अन्यथेति ॥
ननु देवादीनां बहुगुणोपास्त्यनिर्णयेऽपि ब्रह्माधिकारिकतया उपसंहारोक्तिर्युक्तैवेति कथं तदनुपपत्तिरिति चेन्मैवम् । यथाशक्ति सर्वोपसंहारस्य तत्राभिमतत्वेन देवाद्यधिकारिकगुणोप-संहारस्यापि तत्र प्राप्तत्वादत एव विहितत्वहेतूक्तिः प्राप्तेश्चेत्यत्र च ब्रह्मादयो भवन्तीत्यादि-भाष्योक्तिः ॥ फलाधिक्यमिति ॥ सर्वाभेदादन्यत्रेम इत्यत्रोक्तन्यायेनेति भावः । बहुगुणोपासनया कार्यं नास्तीत्यन्यत्रोक्तेर्भावमाह ॥ चत्वार एवेति ॥ ब्रह्मणोऽन्येषां देवानामित्यस्यार्थो विरिञ्चेत-रेत्यादि ॥ नाधिका न बहुगुणा इत्यर्थः । कुतोऽधिका नोपास्या इत्यतोऽयोग्योपासनत्वादिति हेतुमभिप्रेत्य तस्य व्याप्यतां व्यनक्ति ॥ योग्या इति ॥ कार्यं नास्तीत्युक्तिरुपलक्षणमित्युपेत्याह ॥ अयोग्योपासनस्यानर्थफलत्वादिति ॥ ‘अचेतनासत्यायोग्यान्यनुपास्यान्यफलत्वविपर्ययाभ्याम्’ इति साङ्कर्षणोक्तेरिति भावः । ब्रह्मणोऽन्येषामिति विशेषणतात्पर्यार्थमाह ॥ तत्र युज्यत इति ॥ चत्वार एवेत्यत्र हेतुमाह ॥ सर्वेति ॥
ननु नाधिका उपास्यास्तदुपासनस्यायोग्योपासनत्वादित्यभिप्रेतो हेतुरसिद्ध इत्यतस्तदुप-पादकत्वेन मध्ये नियमासिद्धेरित्युक्तिं व्याकुर्वन्नेव योजयति ॥ न च तथा मध्यमेति ॥ प्राप्तेश्च समञ्जसमित्यनेन गतार्थत्वमाशङ्क्य निराह ॥ न चोपासनेति ॥ फलोक्त्योपसंहरति ॥ अत इति ॥ अयोग्योपासनस्यानर्थत्वान्मध्यगुणोपासनयोग्यतानियमस्य च ज्ञातुमशक्यत्वादित्यर्थः । अनुपपत्तिर् देवादीनामिति भावः । प्रागुक्तानन्दादिमात्रप्रतियोगिकत्वभ्रान्तिमितरपदस्य निरस्यन्न-न्यत्रोक्तकर्त्रुक्तिपूर्वमितर इत्यादिभाष्यं व्याचष्टे ॥ चतुर्भ्य इति ॥ सर्वाभेदादित्यतः सर्वपदानुवृत्तिं मत्वाऽऽह ॥ सर्वेभ्यश्चेति ॥ सौत्रतुशब्दार्थ एवेति ॥ फलसाम्यापेक्षयेति भाष्यव्यावर्त्यशङ्कापूर्वं व्याचष्टे ॥ न च योग्यतेति ॥ फलापेक्षयेत्येव पूर्तौ साम्येत्युक्तितात्पर्यमाह ॥ फलेति ॥ तं यथा यथेति श्रुतेः । समान एवं चाभेदादित्यत्र तथा वक्ष्यमाणत्वाच्चेति भावः । तेषां भाव्युत्कर्षं ज्ञात्वा तदभिज्ञस्य ब्रह्मण एव गुणनियमोपदेशोपपत्तेरित्यन्यत्रोक्तं सूत्रभावार्थं शङ्कापूर्वं भाष्यसङ्गततयाऽत्र योजयति ॥ न च वाच्यमित्यादिना ॥ ब्रह्मण एवेत्युपलक्षणमिति मत्त्वोक्तम् अन्यस्य वा सर्वज्ञस्येति ॥ न्यायविवरणोक्तामेव श्रुतिमाह ॥ तथा चेति ॥ ब्रह्मा चतुर्मुखः । दिशति उपदिशतीत्यर्थः । फलोक्त्या सूत्रार्थमुपसंहरति ॥ अत इति ॥ तत्तत्प्राप्यफलापेक्षया योग्यता-निर्णयसम्भवादित्यर्थः ।
अभिनवचन्द्रिका
अन्यथेति ॥ ‘अन्यैर्यथाक्रमं चैव मानुषैः कैश्चिदेव तु’ इति मध्यमसङ्ख्योपेतगुणोप-संहारोक्त्यनुपपत्तिप्रसङ्गादित्यर्थः । ननु यदि अयोग्योपासनमनर्थफलं तर्हि चतुर्मुखस्य सर्व-गुणोपासनं न स्यादित्यत आह तत्र युज्यत इति ॥ योग्यत्वादेवेति भावः । ननु इतरदेवानामपि योग्यत्वादेव बहुगुणोपासनं भविष्यतीत्यत आह सर्वमुमुक्षूणामिति ॥ अस्तु योग्यत्वं तथापि न बहुगुणोपासनं युज्यते निर्णयाभावात् । किन्तु निर्णीतत्वाच्चतुर्गुणोपासनमेव युज्यत इति भावः । चतुर्गुणोपासनयोग्यतानिर्णयवन् मध्यमगुणोपासनयोग्यतानिर्णयोऽपि भविष्यतीत्यत आह न च तथेति ॥ चतुर्भ्यः सर्वेभ्यश्चेतर इति ॥ ननु चतुर्भ्य इतर इत्युपपन्नं न तु सर्वेभ्य इतर इति । एतेषां सर्वान्तःपातित्वेन तदितरत्वायोगात् । सर्वगुणेतरत्व च गुणुत्वमेव न स्याद् घटवदिति चेत्, न सर्वत्वचतुष्ट्वाभ्यां भिन्नधर्मावच्छिन्नत्वाद् उपसंहर्तव्यत्वस्याभिमतत्वात् । तेषां भाव्युत्कर्षं ज्ञात्वेति । ननु किं सर्वज्ञानां तत्तत्प्राप्यफलमपेक्ष्य योग्यतानिर्णयेन, सर्वज्ञत्वात् साक्षादेव योग्यतानिर्णयः किं न स्यादिति चेत्, सत्यम् ‘साक्षादेव योग्यतानिर्णयः सम्भवति’ इति तथापि मध्यमगुणोपासकानां फलेच्छुत्वात्, गुरुणा फलमुपदिश्यैवोपासनायां ते प्रवर्तितव्या इति ज्ञापनाय, फलनिर्णयद्वारा योग्यतानिर्णयोक्तिः ।
पूर्वपक्षस्तु– विरिञ्चेतरदेवादिभिश् चत्वार एव गुणा उपास्या नाधिकाः । सर्वमुमुक्षूणां चतुर्गुणोपासनयोग्यताया अनिर्णीतत्वात् । अधिकस्यानिर्णयात् । अतो मध्यमगुणानामनुपास्यत्वात् तदुपसंहारानुपपत्तिरिति ।
सिद्धान्तस्तु– चतुर्गुणाधिका गुणा देवादिभिरुपास्या एव । तदपेक्षिततत्प्राप्यफलनिर्णयं प्रथमतः कृत्वा, पश्चात्साधननिर्णयं विधाय, ब्रह्मणोऽन्यस्य वा सर्वज्ञस्य गुरोरुपदेशेन योग्यता-निर्णयोपपत्तेः । अतो मध्यमगुणानामपि देवाद्युपास्यत्वाद् युक्तं तदुपसंहाराभिधानमिति सिद्धम् ।
वाक्यार्थमुक्तावली
देवादीनामिति ॥ सरस्वत्यवरदेवादीनामित्यर्थः ॥ बहुगुणेति ॥ प्रियशिरस्त्वादि-बहुगुणोपसंहारसमर्थनादित्यर्थः ॥ अन्यथोपसंहारेति ॥ प्राप्तेरित्यत्रान्यैर्यथाक्रमं चैवेति देवादीनां बहुगुणोपासनस्योक्तत्वात् पूर्वाधिकरणे मानुषाणां प्रियशिरस्त्वाद्यप्राप्तिमुक्त्वा शिवादीनां देवगन्धर्वान्तानां तत्सद्भावस्योक्तत्वात्तदनुपपत्तिप्रसङ्ग इत्यर्थः । स्पष्टमेतद् आनन्दमालायाम् । तथा च आक्षेपिकी अनन्तरसङ्गतिरिति भावः । चतुर्गुणाधिका इति । प्रियशिरस्त्वादिका इत्यर्थः ॥ देवादिभिरिति ॥ वेदोक्तसर्वेभ्य आनन्दादिभ्यश् चतुर्भ्यश्चान्ये भगवद्गुणा विरिञ्चेतरदेवादि-भिर्नोपास्या उतोपास्या इति चिन्ता । तदर्थं मध्यमगुणेषु अस्यैतावन्तोऽस्यैतावन्त इति निर्णायकं नास्त्युतास्तीति ॥ फलाधिक्यमिति ॥ उपचयापचयौ हि भेद इत्यनेन फलाधिक्येनोपचय-स्योक्तत्वाद् देवादिभिरेते गुणा उपास्या इति विशेषप्रमाणादर्शनाच्च सन्देह इत्यर्थः । सिद्धान्ते योग्यतानिर्णायकोक्त्या सूचितमयोग्योपासने कार्यलोप इत्युक्तन्यायं कार्यस्य फलस्य लोप इति व्यञ्जयन्पूर्वपक्षयति ॥ योग्या एवेति ॥ अनर्थफलवत्त्वादित्युपलक्षणम् । व्यर्थत्वादिति च बोध्यम् । कथं विरिञ्चेतरदेवादीनां देवगन्धर्वान्तानां मध्यमगुणोपासनेऽयोग्यता । तथात्वे चतुर्मुखस्य सर्वगुणोपासने मानुषान्तानां चतुर्गुणोपासने चायोग्यतया तदभाव इत्यतस्तद्वैपरीत्यमाह तत्र युज्यते चेति ॥ चतुर्मुखशब्देन तदनतिन्यूनसरस्वत्यादेर्ग्रहणम् । सर्वाभेदादन्यत्रेत्यत्र सर्वगुण्युक्तत्वेनो-पासनादन्यत्रैव फले ब्रह्मादयो भवन्तीत्यादिशब्दप्रयोगात् । यद्यपि ब्रह्मैव सर्वगुणोपासकस्तथापि तदतिन्यूनब्रह्माण्यादिविषय आदिशब्द इति तत्त्वप्रदीपे व्याख्यतत्वाच्च ॥ निर्णीतत्वादिति ॥ सम्पूर्णफलेन ब्रह्मणः सर्वोपासनस्यापेक्षितसुखज्ञाननिर्दोषत्वस्वावरस्वामित्वफलेन चतुर्गुणोपासनस्य निर्णीतत्वादिति भावः ।
ननु प्राप्तेश्चेत्यत्र ध्यानकाले युगपत्स्वभुजवद्यावन्तो गुणा उपस्थाप्यन्ते । तावतामुपासना इत्युक्तत्वाद्योग्यतानिर्णयोपपत्तेर्गतार्थमिदमधिकरणमित्यशङ्क्य निषेधति ॥ न चेति ॥ अनर्थप्राप्तेरित्यनेन कार्यलोप इत्युक्तन्यायः प्रकारान्तरेण विवृतो भवति । सूत्रे इतर इत्यत्रानन्दादय इत्यत्र सर्वाभेदादित्यत्र च उक्तानां सर्वेषां गुणानां च प्रतियोगितया सम्बन्धः । देवादिभिरिति शेषः । तुरवधारणे । उपसंहर्तव्या इत्यध्याहृतेन सम्बध्यते । अर्थसामान्यादिति ल्यब्लोपनिमित्ता पञ्चमी । उपासनस्य स्वस्वप्राप्यफलसाम्यमपेक्ष्येत्यर्थ इति भावेन व्याचष्टे । चतुर्भ्य इति ॥ तत्प्राप्यफलमिति ॥ एतेन भव इत्युक्तन्यायः भवतीति भाव्यं फलं भवस्तदपेक्ष्येति दर्शितो भवति । उपासकानां भविष्यत्फलानिर्णयेऽपि सर्वज्ञानामुपदेशकानां भाविफलज्ञानसम्भवेन तदनुसारि-गुणोपदेशे उपासकानामुपासने योग्यतानिर्णयोपपत्तिरिति भावेन परिहरति ॥ तेषामिति ॥ सर्वेषामपरोक्षात्पूर्वं ब्रह्मोपदेशाभावादुक्तम् अन्यस्य वेति ॥ तथा च तत्तत्प्राप्यफलसाम्यमपेक्ष्येतरेषां गुणानामुपसंहर्तव्यत्वं नामोपदेशकैः स्वावगतफलसाम्यमपेक्ष्य गुणोपदेशे योग्यताज्ञानेनेतरेषां गुणा-नामुपसंहर्तव्यत्वं विवक्षितमिति भावः । नन्वेतदधिकरणन्यायेन गुरूपदेशेन योग्यताज्ञानसम्भवा-त्प्राप्त्यधिकरणे युगपत्प्रतीतेरुपासनानियमप्रयोजकत्ववचनं व्यर्थमुयुक्तम् । प्रागेव योग्यतानियमा-ज्ञानेऽयोग्योपासाप्रयत्नदोषप्रसङ्गेनानर्थफलत्वात् । गुरूपदेशेन तद्भाने च तेनैव पूर्तिरिति चेन्न । उपासनाभ्यासदशायां युगपत्प्रतीतिरिवोपासनानियमप्रयोजिकोपासकान्तरङ्गत्वाद्गुरूपदेशेऽप्याश्वास-जनकतया दार्ढ्यहेतुत्वाच्चायोग्यदोषपरिहाराय युगपत्प्रतीतिसाधनतया अपेक्षित इति न कश्चिद्दोषः । यो यो भाव इत्यत्र भावः फलोत्कर्षः । पूर्णात्वाविरोधिगुणस्वीकाराय सद्गुणानित्युक्तम् । आत्म-शक्त्या विचार्येत्यन्वयः ।
तत्त्वसुबोधिनी
देवादीनामिति ॥ ‘सर्वाभेदादन्यत्रेमे’ इत्यत्र चतुर्मुखस्यैव वेदोक्तसकलगुणोपासन-योग्यत्वमुक्त्वा आनन्दादयः प्रधानस्येत्यत्र तद्व्यतिरिक्तानां सामान्यतो गुणचतुष्टयमात्रोपासनोक्तौ चतुर्मुखेतरदेवानामपि गुणचतुष्टयमात्रोपासनायोग्यता स्यादिति पूर्वपक्षोत्थानादानन्तरसङ्गतिरिति भावः । प्रियशिरस्त्वाधिकरणस्यानन्दादिविशेषविचाररूपत्वेन तदनन्तरमेव कर्तव्यत्वात्, तद्व्यवधानस्यादोषत्वादिति भावः । पूर्वपक्ष इत्यनन्तरं योग्यतानियमाभावादिति शेषः । ननु बहुगुणोपासनाभावे योग्यतानियमाभावस् तदाऽप्रयोजकः स्याद् इत्यत आह ॥ योग्या एव हीति ॥ ननु प्राप्तेश्चेत्यत्र युगपत्स्वभुजाविति योग्यतानिर्णयस्योक्तत्वात्कथमस्योपासनम् इत्याशङ्कय निषेधति ॥ न चेति ॥ इतर इत्यस्य प्रतियोगिसापेक्षत्वत्वाद्भाष्ये च तस्यानुक्तेः स्वयमाह ॥ चतुर्भ्यः सर्वेभ्यश्चेति ॥ तथा चानन्दादय इत्यत्र सर्वाभेदादित्यत्र चोक्तानां चतुर्णां सर्वेषां च गुणानां प्रतियोगितयात्र य इति भावः । ननु अपरोक्षज्ञानात्पूर्वं सर्वेषां चतुर्भ्यः स्वोपदेशाभावात् कथं ब्रह्मण एवोपदेष्ट्रत्वमित्यत आह ॥ अन्यस्य वा सर्वज्ञस्येति ॥ ‘तेषां विशेषमाचार्यो वा’ इति । सर्वज्ञतां गत इति स्मृतेरिति भावः । अत्र प्रमाणमाह ॥ तथा चेति ॥ सद्गुणान् पूर्णत्वा-विरोधिनः । आत्मशक्त्या विचिन्त्येत्यर्थः ।
वाक्यार्थविवरणं
देवादीनामिति ॥ विरिञ्चेतरेषाम् ॥ युज्यत इति ॥ तस्य सर्वमुमुक्षूत्तमत्वादिति भावः ॥ सर्वमुमुक्षूणामिति ॥ विरिञ्चादितरेषां मनुष्योत्तमपर्यन्तानाम् । तथा च तेषां चतुर्गुणोपासनानियम एवेति भावः ॥ मध्यमगुणेष्विति ॥ बहुगुणेषु मध्ये इति शेषः । विरिञ्चोपास्यसर्वगुणेभ्यो ऽर्वाक्तनत्वान् मनुष्योत्तमोपास्यचतुर्गुणेभ्य उपरितनत्वाच्च बहुगुणानां मध्यमत्वमिति ज्ञेयम् । एतावन्त उपासितुं योग्या इति शेषः ॥ योग्यतेति ॥ उपास्यत्वयोग्यतेत्यर्थः । उत्कर्षर्ंं मोक्षाख्यम् ॥ ब्रह्मणोऽन्यस्य वेति ॥ यथा प्रियव्रतराजस्य ब्रह्मा, ध्रुवस्य नारद इत्यादि ज्ञातव्यम् ॥ सर्वज्ञस्य ॥ योग्याताभिज्ञस्य ॥ उक्तम् ॥ गुणोपसंहारानुपसंहारपूर्वकमुपासनम् ।
वाक्यार्थमञ्जरी
उपसंहारोक्त्यनुपपत्तीति ॥ एकस्मिन्प्रकरणेऽपि गुणचतुष्टयोक्तिसम्भवेन तदुपासनाय तत्र तत्रोक्तगुणानां युगपद्बुद्ध्यारोहरूपोपसंहारानपेक्षणादिति भावः ॥ मध्यमेति ॥ चतुष्टय-मध्यवर्तीत्यर्थः । प्राक् उपासनाभ्यासात् ।
ॐ इतरे त्वर्थसामान्यात् ॐ ॥ तुरेव इतरे मध्यमगुणा देवादिभिरुपास्या एव कुतो ऽर्थे सामान्याद् अर्थे स्वस्वप्राप्यफले सामान्यात् साम्यमपेक्ष्येत्यर्थः ॥ य इति ॥ देवतानां यो यो भावः स्वभावविशेषो भविष्यति ब्रह्मा तं तं ज्ञात्वा तत्तत्प्राप्तौ तत्तत्प्राप्त्यर्थमीशतुः सद्गुणान् अधिकारिभ्य आदिशति उपदिशति । अथ ते अधिकारिणस्तान् गुणान् विचिन्त्य ध्यात्वा ज्ञानजन्य-परमात्मप्रसादेन तत्तद्भावं प्राप्नुवन्तीत्यर्थः ॥
॥ इति इतराधिकरणम् (फलसाम्याधिकरणम्) ॥ ७ ॥