०६ प्रियशिरस्त्वाधिकरणम्

ॐ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॐ

६. प्रियशिरस्त्वाधिकरणम्

सूत्रभाष्यम्

॥ ॐ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॐ ॥ १३ ॥

फलभेदार्थमुपचयापचययोर्भावान्न सर्वेषां प्रियशिरस्त्वादिगुणोपासा प्राप्तिः ।

‘नैव सर्वगुणाः सर्वैरुपास्या मुक्तिभेदतः ।

विरिञ्चस्यैव यन्मुक्तावानन्दस्य सुपूर्णता’ इति (हि) वाराहे ॥

तत्त्वप्रदीपिका

भूम्नः क्रतुवज्ज्यायस्त्वमिति वक्ष्यमाणन्यायेन पूर्णानन्दः पूर्णज्ञान इत्याद्युपासनं प्राप्यते । तस्य च पूर्णानन्दस्याऽनन्दमयशब्दोदितस्य विशेषा उच्यन्ते ‘तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा’इति । तेऽप्युपसंहर्तव्याः । चतुर्णां गुणानां साकल्येनोपासनीयत्वादित्यत आह– प्रियशिरस्त्वादीत्यादिसूत्रम् ॥ एकैकस्मिन्नपि गुणे विशेषाणामुपचयापचयौ फलतारतम्यार्थं भवतः । अपचयः फलमात्राय भवति । न फलाभावाय । उक्तगुणोपास्तावुपचयोऽधिकफलाय भवति । अतो नापरेषां प्रियशिरस्त्वादिगुणविशेषोपास्तिः प्राप्यते । श्रवणोत्थं ‘प्रियं’ दर्शनोत्थो ‘मोदः’ भोगोत्थः ‘प्रमोदः’ स्वरूपभूत ‘आनन्दः’ । तत्तत्प्रवर्तकतया च तत्तद्व्यपदेशः ।

‘शिरः प्रिये स्थितं तस्य परेयं प्रियनामकम् ।

मोदप्रमोदयोर्बाहू मोदनाच्च प्रमोदनात् ॥

मोदप्रमोदनामानावानन्दश्चाऽततत्वतः ।

मध्यमानन्दसंस्थं च ब्रह्म सृष्ट्यादि बृंहयत् ।

पुच्छं प्रधानवायौ च ब्रह्माख्ये संस्थितं सदा ॥

अभेदोऽप्यविशेषोऽपि परमैश्वर्ययोगतः ।

देहदेहिव देवासौ पञ्चधाऽवस्थितो हरिः’ इति यजुस्संहितायाम् ॥

तत्त्वप्रकाशिका

अत्र ब्रह्मज्ञानसाधनोपासने प्रियशिरस्त्वादिगुणानां साधारण्यनिरासादस्ति शास्त्रादिसङ्गतिः । साधारण्ये तूक्तबाधप्रसङ्गान्निरसनीयमेतत् । भगवद्गुणान्तर्गताः प्रियशिरस्त्वादिगुणाः श्रूयन्ते तस्य प्रियमेव शिर इत्यादौ । त एवात्र विषयः । किं सर्वमुमुक्षूपास्या न वेति सन्देहः । द्विविधगुणप्रतीतिः सन्देहबीजम् । सर्वोपास्या इति पूर्वः पक्षः । प्रियशिरस्त्वादीनामानन्दादिविशेषत्वादानन्दादीनां च सर्वोपास्यत्वात् । अन्यथाऽऽनन्दादेः सम्यगनुपासनेनाऽमुक्तिप्रसङ्गात् । अतः प्रियशिरस्त्वादीनां सर्वोपास्यत्वान्न चत्वार एवेति नियम इति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ प्रियेति ॥ नानन्दादिविशेषत्वेन सर्वेषां प्रियशिरस्त्वादिगुणोपासनयोग्यता वक्तव्या । विशेषावलम्बनेनोपासने सर्वेषां सर्वगुणोपास्तिप्रसङ्गात् । सर्वगुणानामपि गुणचतुष्टयविशेषत्वस्य वक्तुं शक्यत्वात् । न च सर्वेषां सर्वगुणोपास्तिरस्त्विति वाच्यम् । आनन्दश्रुतिसिद्धफलभेदसिद्ध्यर्थं गुणोपासनेऽपि तारतम्यस्यापेक्षितत्वादिति भावः । अत्रैव स्मृतिमाह ॥ नैवेति ॥ न च प्रियशिरस्त्वाद्यनुपासने मोक्षाभावः । ‘यथायोग्यं गुणपूगानुपास्यफलं भवेन्मुक्तिगं नैव चान्यत् । नित्यैकाग्य्रव्यङ्ग्यताहेतुतश्च साक्षाद्दृशिर्नो तद्विशेषैः स्मृतेश्च’ इति श्रुतेर्विशेषानुपासनेऽपि योग्यगुणोपासनेनैव फलप्राप्तेः । अतः प्रियशिरस्त्वादीनामसाधारण्याच्चत्वार एव सर्वोपास्या इति सिद्धम् ।

गुर्वर्थदीपिका

सम्यगनुपासनेनामुक्तिप्रसङ्गादित्यत्र सम्यगनुपासने सविशेषानन्दानुपासने सम्यगनुपासित-राजवदानन्द एव नायास्यतीति शङ्कितुराशयः । सर्वगुणानामपि गुणचतुष्टयविशेषत्वस्येत्यत्र गुणचतुष्टयान्तर्गतात्मत्वेऽन्तर्भावादित्यर्थः । नित्यैकाग्य्रव्यङ्ग्यताहेतुतश्चेत्यत्र एकाग्रस्य चित्तस्य भाव ऐकाग्य्रं ध्यानमिति यावत् । नित्यमैकाग्य्रे कृते सति यस्य गुणस्य व्यङ्ग्यता तस्यैवोपास्यतेति हेतोरित्यर्थः ।

भावबोधः

प्रियशिरस्त्वादिगुणानामिति ॥ आनन्दस्योपास्यतया सर्वमुमुक्षुसाधारण्येऽभिहिते तद्विशेषस्य प्रियशिरस्त्वादेरपि साधारण्यशङ्कायां तन्निरासादनन्तरसङ्गतिरिति भावः ॥ किं सर्वेति ॥ अत्र प्रियशिरस्त्वादयो गुणाः सर्वमुमुक्षूपास्या भवन्त्युत न भवन्तीति चिन्ता । तदर्थं प्रियशिरस्त्वादीनां सर्वोपास्यानन्दादिविशेषत्वं सर्वेषां तदुपासनाप्रयोजकं भवत्युत न भवतीति ॥ तदर्थमुपासनायां किं तारतम्यं नाङ्गीकार्यमुताङ्गीकार्यमिति ॥ तदर्थं विशिष्योपासनाजनिते फले सर्वेषां योग्यताऽस्ति उत नास्तीति । तदर्थं विशिष्योपासनाभावेऽपि सामान्याकारोपासनेन मोक्षो न भवत्युत भवतीति । प्रियशिरस्त्वादीनामानन्दादिविशेषत्वेनैव दर्शनात्तेषामपि सर्वोपसंहार्यत्वमिति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– सर्वोपास्या इतीति ॥ प्रियशिरस्त्वादीनामानन्दादिविशेषत्वादिति पूर्वपक्ष-हेतोस्तर्कपराहतिमाह– विशेषावलम्बेनेति ॥ इष्टापत्तिमाशङ्क्य तन्निषेधपूर्वकं फलभेदार्थमुप-चयापचययोर् भावादिति भाष्यं व्याचष्टे– न चेति ॥ गुणोपासनेऽपीति भाष्ये शेषोक्तिः । फलभेदस्य प्रामाणिकत्वे स्यातां तेनोपासनोपचयापचयौ स एव कुत इत्यत उक्तम्– आनन्दादि-श्रुतिसिद्धेति ॥ विशेषत्वहेतोः पूर्वपक्ष्युक्तविपक्षबाधकतर्कमनूद्य तन्निषेधपूर्वकं तद्धेतुत्वेन सिद्धान्तन्यायविवरणं योजयति– न चेत्यादिना ॥

भावदीपः

साधारण्ये त्विति ॥ सर्वमुमुक्षुसाधारण्य इत्यर्थः । फलसाम्यादिति पूर्वोक्तन्यायेनेति भावः । तेन पूर्वन्यायेन वा पूर्वोक्ताक्षेपेण वेह पूर्वपक्षप्रवृत्तेरवान्तरसङ्गतिरपि सूचिता ॥ तस्य प्रियमेवेति ॥ तस्यानन्दमयस्येत्यर्थः । आनन्दमयस्य भगवत्त्वं चानन्दमयोऽभ्यासादित्यत्र निर्णीतमिति भावः ॥ द्विविधेति ॥ सुखादेः सम्भृत्यादेश्च प्रतीतिरित्यर्थः । प्रियशिरस्त्वादीनामानन्दादिविशेषत्वेनैव दर्शनात्तेषामपि सर्वोपसंहार्यत्वमित्यन्यत्रोक्तपूर्वपक्षप्रतिज्ञाहेतू व्यनक्ति ॥ सर्वोपास्या इति ॥ एतेनोपसंहार्यत्वोक्तिर्भाष्यदिशोपासनोपलक्षणमिति सूचितम् । आनन्दविशेषत्वमानंदमयनयटीकायां व्यक्तम् । श्रवणोत्थं प्रियम् । दर्शोनोत्थं सुखं मोदः । भोगोत्थं सुखं प्रमोद इति तत्वप्रदीपोक्तिः ॥ अन्यथेति ॥ सविशेषानन्दानुपासन इत्यर्थः । फलोक्त्योपसंहरति ॥ अत इति ॥ सम्यगुपासनस्यैवानन्दानुभवरूपमुक्तिहेतुत्वात्सर्वोपास्यत्वमित्यर्थः ॥ पूर्वोक्तं प्रापकहेतुमनुवदन्नेव न सर्वेषामित्यादिभाष्यं व्याचष्टे ॥ नानन्दादीति ॥ प्रापकहेतुमतिप्रसङ्गेन निराह ॥ विशेषेति ॥ व्यावर्त्यचोद्यपूर्वं फलभेदार्थमित्यादिभाष्यं व्याचष्टे ॥ न चेत्यादिना ॥ फलभेदो मास्त्विति शङ्कानिरासायोक्तम् आनन्दश्रुतिसिद्धेति ॥ ‘सैषानन्दस्य मीमांसा’ इत्यादिश्रुतिसिद्धेत्यर्थः । एवमानन्दादिविशेषत्वरूपपूर्वपक्षहेतुनिरसनपरतया फलभेदेत्यादिभाष्यं व्याख्याय तस्य हेतोः सहकारितया यो विपक्षे बाधकतर्कोऽन्यथेत्यादिना पूर्वत्रोपन्यस्तस्तन्निरसनपरतया न्यायविवरण एव श्रुत्युक्तिपूर्वमुक्तं हेतुं योजयति ॥ न चेत्यादिना ॥ उपास्य वर्तमानस्येति शेषः । मुक्तिगं फलं साक्षादृशिश्च भवेत् । तद्द्वयमप्युपासनया भवतीत्यत्र हेतुर्नित्येत्यादि । प्रियशिरस्त्वादि तद्विशेषस्मृतितोऽप्युक्तफलद्वयं भवतीति नेत्यर्थः । सूत्रार्थं हेतूकृत्य फलोक्त्योपसंहरति ॥ अत इति ॥ श्रुतिसिद्धफलभेदार्थं गुणोपासनोपचयापचययोरावश्यकत्वादित्यर्थः । व्यधिकरणे पञ्चम्यौ । असाधारण्यात् तद्योग्यविरिञ्चिमात्रोपास्यत्वादिति स्मृतिबलाद्भाति ।

अभिनवचन्द्रिका

प्रियशिरस्त्वादीनामिति ॥ प्रियशिरस्त्वादीनाम् आनन्दादिविशेषघटितत्वादित्यर्थः ॥ अन्यथेति ॥ प्रियशिरस्त्वाद्यनुपासने तदेकदेशप्रियत्वाद्यनुपासनेन आनन्दादीनां सामस्त्ये-नोपासनाभावेन मुक्त्यभावप्रसङ्गादित्यर्थः । विशेषावलम्बेनेति ॥ आनन्दादिविशेषघटितत्वेन प्रियशिरस्त्वाद्युपासनाङ्गीकार इत्यर्थः ॥ यथायोग्यमिति ॥ स्वयोग्यान् गुणान् उपास्य स्थितस्य, मुक्तिगं फलं भवेत् । तदर्थम् अन्यत् स्वयोग्यातिरिक्तोपासनं नैवापेक्षितम् । ननु माभूत्फल-प्राप्त्यर्थमधिकगुणोपासनम् । अपरोक्षज्ञानार्थं तु अपेक्षितमित्यत उक्तम्– नित्यैकेति ॥ परमात्मनो नित्यैकाग्रताव्यङ्ग्यताहेतोर् योग्योपासनेनैव अपरोक्षदृशिश्चोपपन्ना । न तु तद्विशेषैः प्रियशिर-स्त्वादिगुणैः स्मृतैर्ध्यातैर् अपरोक्षदृशिरुपपन्ना । अयोग्योपासनस्यानर्थहेतुत्वादित्यर्थः ।

पूर्वपक्षस्तु– प्रियशिरस्त्वादयोऽपि सर्वोपास्या आनन्दादिविशेषघटितत्वात् । अन्यथा आनन्दादेः सम्यगनुपासितत्वेन मोक्षासिद्धिः स्यात् । ततश्च चत्वार एव गुणास्सर्वोपास्या इत्ययुक्तमिति ।

सिद्धान्तस्तु– न प्रियशिरस्त्वादयः सर्वोपास्याः । आनन्दादिविशेषत्वावलम्बनेन तेषामुपासने सर्वेषां सर्वगुणोपास्तिप्रसङ्गात् । सर्वगुणानामपि आनन्दादिचतुष्टयविशेषत्वस्य वक्तुं शक्यत्वात् । न च प्रियशिरस्त्वाद्यनुपासने मोक्षाऽभाव इति वाच्यम् ‘यथायोग्यान् गुणपूगानुपास्य फलं भवेन्मुक्तिगं नैव चाऽन्यदिति श्रुतेर्विशेषानुपासनेऽपि योग्यगुणोपासनामात्रेण फलप्राप्तिसम्भवात् । अतः प्रियशिरस्त्वादीनामसाधारण्याच् चत्वार एव सर्वोपास्या इति सिद्धम् ।

वाक्यार्थमुक्तावली

उक्तबाधप्रसङ्गादिति । चत्वार एवेत्युक्तबाधप्रसङ्गादित्यर्थः । अत एवाक्षेपिकी अनन्तर-सङ्गतिः ॥ किमिति ॥ प्रियशिरस्त्वादिगुणाः सर्वोपास्या भवन्त्युत नेति चिन्ता । तदर्थमानन्द-विशेषाणां तेषामनुपासने मुक्त्यभावोऽस्ति न वेति । तस्य प्रियमेव शिर इति श्रुतिसूचनपूर्वं प्रियशिरस्त्वादीत्यानन्दादिविशेषग्रहणेन सूचितं विशेषदर्शनमित्युक्तन्यायं व्यनक्ति ॥ प्रियशिर-स्त्वादीनामिति ॥ प्रियशिरस्त्वमोदादिपक्षकत्वादीनां विज्ञानादीनां चानन्दज्ञानादि-विशेषत्वादित्यर्थः । प्रियशिरसो भावो हि प्रियशिरस्त्वम् । तत्र शिरोरूपं प्रियमेवेति युक्तमानन्दविशेषत्वमिति भावः । यद्वा आनन्दविशेषत्वादित्यस्यानन्दविशेषघटितत्वादित्यर्थः । न चत्वार एवेति विशषमपहाय सामान्यतश् चत्वार एवेत्युक्तनियमो नेत्यर्थः । सूत्रे प्रिय-शिरस्त्वादिशब्दस् तदुपास्तिपर इति भावेन प्रवृत्तम् । न सर्वेषामित्यादिपूर्वपक्षप्रतिक्षेपरूपं प्रतिज्ञाभागं व्याचष्टे ॥ आनन्दादिविशेषत्वेनेति ॥ उपचयापचयौ हि भेद इत्यत्र भेद इति तादर्थ्ये सप्तमी । प्रधानस्येत्यस्ति । हिशब्दो हेत्वर्थे । आनन्दश्रुतिप्रसिद्धिद्योतकश्च । उपचयापचयौ वृद्धिह्रासौ आनन्दश्रुतिसिद्धौ । भाव्याविति शेषः । तथा च हि यस्मात्प्रधानस्य मोक्षाख्यस्य फलस्य भेदे भेदार्थे तारतम्यार्थमुपचयापचयौ गुणोपासाया वृद्धिह्रासौ भाव्यौ तारतम्य-मावश्यकमिति यावत् । तस्माद् इत्यर्थ इति भावेन फलभेदार्थमुपचयापचययोर् भाव्यत्वादिति भाष्यं प्रवृत्तम् । तदुक्तं प्रतिज्ञया न साक्षात्सम्बद्ध्यते । आनन्दश्रुतिसिद्धफलतारतम्यार्थमुपासना-तारतम्यस्याङ्गीकार्यत्वेऽपि प्रियशिरस्त्वाद्यनुपासाया निर्हेतुकत्वाद् गुणान्तरोपास्तितारतम्येन तदुपपत्तेरित्यतो नायं तत्र साक्षाद्धेतुरिति भावेन प्रतिज्ञार्थसाधनाय प्रियशिरस्त्वादीनामानन्दादि-विशेषत्वादिति पूर्वपक्षहेतोस् तर्कपराहतिमाह ॥ विशेषावलम्बनेनेति ॥ प्रियशिरस्त्वादीनाम् आनन्दादिविशेषत्वेनोपासने सर्वेषां सर्वगुणोपास्तिः कुत इत्यत आह ॥ सर्वगुणानामिति ॥ सर्वज्ञत्वादेः प्रियशिरस्त्वादेरानन्दादौ निषेधमुखवेद्यानां सर्वेषां सप्तपदार्थेऽन्तर्भाववद् आत्मत्वे सर्वगुणान्तर्भावस्य वक्ष्यमाणत्वेन चतुष्टयविशेषणत्वस्य वक्तुं शक्यत्वादित्यर्थः । इष्टापत्तिमाशङ्क्य न सर्वेषां प्रियशिरस्त्वादिगुणोपासाप्राप्तिरिति भाष्यस्य प्रियशिरस्त्वादिसर्वगुणोपासाप्राप्तिरित्यर्थः । तत्र हेत्वाकाङ्क्षायां फलभेदार्थमिति सौत्रहेतुव्याख्यापरं भाष्यं योजयति ॥ आनन्दश्रुतिसिद्धेति ॥

ननु प्रियशिरस्त्वाद्यनुपासने कुतो मोक्षाभावः, अवान्तरविशेषात् सम्यगुपासनानामेव फलवत्वादित्याशङ्क्योपचयापचयावित्यनेनोपचयापचययुक्तस्वयोग्योपासनेनैव स्वयोग्यफलसिद्धिरिति सूचितं यथायोग्यमित्युक्तन्यायं न्यायविवरणोदाहृतप्रमाणोदाहरणपूर्वं विवृणोति ॥ यथायोग्यमिति ॥ स्वयोग्यान् गुणानुपास्य स्थितस्यैव मुक्तिगं फलं भवेत् । अन्यथाऽनुपासने मुक्तिगं फलं न भवेत् । ननु युगपत्स्वभुजवदनुपासनेऽपि तस्य प्रियमेव शिर इत्यादिशास्त्रवासनावताम् आनन्दादि-विशेषस्मृतिमात्रेण तदपरोक्षे जाते सति फलं भवेदेवेत्यत उक्तम् ॥ नित्येति ॥ तद्विशेषैः स्मृतैरपि साक्षाद्दृशिर्न भवति । कुतः परमात्मगुणानामादरनैरन्तर्याभ्यां नित्यं मनःप्रणिधानरूपध्यानेनैव योग्यत्वमपरोक्षविषयत्वमित्येतस्मात्कारणादित्यर्थः ।

तत्त्वसुबोधिनी

उक्तबाधप्रसङ्गादिति ॥ चत्वार एव गुणा उपास्या इत्युक्तबाधप्रसङ्गादित्यर्थः ॥ प्रिया-शिरस्त्वादीति ॥ आनन्दोपास्यतया सर्वमुमुक्षुसाधारण्ये विहिते तद्विशेषस्य प्रियशिरस्त्वादेरपि साधारण्याशङ्कायां तन्निरासादनन्तरसङ्गतिरिति भावः ॥ अन्यथेति ॥ विशेषविशिष्टानन्दाद्यनु-पासने इत्यर्थः । ननु प्रियशिरस्त्वादीनाम् आनन्दादिविशेषत्वात् तदुपासनावश्यकमेवेत्यत आह ॥ विशेषावलम्बनेनेति ॥ विशेषविशिष्टानन्दाद्युपासने इत्यर्थः । इष्टापत्तिमाशङ्क्य तन्निषेधपूर्वकं फलभेदार्थम् उपचयापचययोर् भावादिति भाष्यं व्याचष्टे ॥ न चेति ॥ गुणोपासनेऽपीति भाष्ये शेषोक्तिः । फलभेदस्य प्रामाणिकत्वे स्यातां तेनोपचयापचयौ । स एव कुत इत्यत उक्तम् ॥ आनन्दश्रुतिसिद्धेति ॥ यथायोग्यानिति ॥ उपस्थितस्येति शेषः । तेन समानकर्तृत्वोपपत्तिः । मुक्तिगं फलमपरोक्षज्ञानद्वारेति शेषः । अत्र हेतुमाह ॥ नित्येति ॥ आद्यश्चशब्दो हेत्वर्थः । द्वितीयोऽप्यर्थ्ये । ततश्च यस्मादानन्दादीनां नित्यैकाग्य्रे नियतदाने व्यङ्ग्यताहेतुतः युगपद् व्यङ्ग्यता- लक्षणहेतुतस् तद्गुणविशिष्टपरमात्मापरोक्षदृशिर्भवति । न त्वयोग्यैरानन्दादिविशेषैः प्रियशिरस्त्वाद्यैः स्मृतैरपि तस्मादिति पूर्वेण सम्बन्धः । स्मृतैरित्यनेनायोग्यानां ज्ञानमात्रमभ्युपेति । अन्यथा सर्ववेदान्तप्रत्ययेत्युक्तविरोधः ।

वाक्यार्थविवरणम्

उक्तबाधेति ॥ चतुर्गुणोपासनानियमबाधेत्यर्थः ॥ सर्वोपास्यत्वादिति ॥ तथा च तद्विशेषस्य तत्प्राप्तमेवेति भावः ॥ अन्यथेति ॥ प्रियशिरस्त्वादेरनुपास्यत्वे ॥ सम्यगिति ॥ अवान्तर-विशेषसाहित्येनेत्यर्थः ॥ अमुक्तीति ॥ सम्यगानन्दाविर्भावरूपमुक्त्यभावेत्यर्थः ॥ विशेषावलम्बे-नोपासने ॥ अवान्तरविशेषसाहित्येनानन्दादेरुपासने । तत्कथमित्यत आह ॥ सर्वेति ॥ गुणचतुष्टयविशेषत्वस्य तत्प्रभेदत्वस्य ॥ गुणोपासनेऽपीति ॥ तथा च प्रियशिरस्त्वादीनां सर्वोपास्यत्वाप्राप्तिः कुतः । यतः भेदे अथात आनन्दस्येति आनन्दश्रुतिसिद्धफलभेदसिध्द््यर्थं तदुपासनेऽप्युपचयापचयौ उत्कर्षापकर्षौ सर्वेषामपेक्षितौ । तारतम्यमावश्यकमपेक्षितमिति याव-त्तस्मादिति सूत्रार्थः ॥ स्यादिति ॥ तद्विशेषास्तूपासनायोग्या इति शेषः । तथापि तदुपासने को दोष इत्यत आह ॥ नित्येति ॥ नित्यं भगवति मनसो यदैकाग्य्रं तच्चाञ्चल्यहेतुत्वादित्यर्थः ॥ असाधारण्यात् ॥ सर्वसाधारण्येनोपास्यत्वाभावात् ।

वाक्यार्थमञ्जरी

प्रियशिरस्त्वादीति ॥ उपकारजं सुखं प्रियं तदेव शिरो यस्य तस्य भावः प्रियशिरस्त्वं तदादीत्यर्थः ॥ उक्तबाधेति ॥ आनन्दादयश्चत्वार एवेत्युक्तबाधेत्यर्थः । सामान्यस्यैव सर्वोपास्यत्वं न विशेषस्येत्यत आह ॥ अन्यथेति ॥ विशेषोपासनस्यैव सम्यगुपासनात्वादिति भावः ।

ॐ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॐ ॥ सर्वेषां मुमुक्षूणां प्रियशिरस्त्वाद्यप्राप्तिः प्रियशिरस्त्वादिगुणोपासनाप्राप्तिर्नास्ति कुतः हि यस्माद्भेदे फलतारतम्यार्थमुपचयापचयौ उपासनाया वृद्धिह्रासावपेक्षितौ तस्मादित्यर्थः ॥ आनन्दादिश्रुतीति ॥ ‘ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणां’ इत्याद्यानन्दतारतम्यप्रतिपादकश्रुतीत्यर्थः ॥ यथा योग्यानिति ॥ स्वयोग्यान् गुणसमुदायानुपास्यस्थितस्यैव मुक्तिगमकमपरोक्षज्ञानरूपं फलं भवेद् अन्यत्साधनं नैवास्ति कुतः भगवतो नित्यैकाग्य्रव्यंग्यताहेतुतः नित्यं चित्तस्य स्वविषयत्वाख्यज्ञानाख्योपासनैवापरोक्षविषयत्वा-न्निमित्तात् तद्विशेषैर्गुणविशेषैः प्रियशिरस्त्वादिभिरयोग्यैः स्मृतैर्ध्यातैरपि साक्षाद्दृशिरपरोक्षज्ञानं नो भवेदित्यर्थः । यद्वा मुक्तिगं फलम् आनन्दादिकं कुत इत्यतस्तस्यापरोक्षज्ञानसाध्यत्वात्तस्य चोपासनासाध्यत्वादित्याशयेन नित्येत्याद्युक्तमिति ध्येयम् ।

॥ इति प्रियशिरस्त्वाधिकरणम् ॥ ६ ॥