०४ सर्वाभेदाधिकरणम्

ॐ सर्वाभेदादन्यत्रेमे ॐ

४. सर्वाभेदाधिकरणम्

सूत्रभाष्यम्

॥ ॐ सर्वाभेदादन्यत्रेमे ॐ ॥ ११ ॥

सर्वगुणयुक्तत्वेनोपासनादन्यत्रैव फले ब्रह्मादयो भवन्ति ।

‘सम्पूर्णोपासनाद्ब्रह्मा सम्पूर्णानन्दभाग्भवेत् ।

इतरे तु यथायोगं सम्यङ्मुक्तौ भवन्ति हि’ इति पाद्मे ॥ ११ ॥

तत्त्वप्रदीपिका

ये सर्वगुणोपास्तिं कुर्वन्ति ते सर्वगुणाभेदेनोपासनेन तेनान्यत्र विलक्षणे सम्पूर्णानन्दाद्यात्मके मोक्षफले भवन्ति । इम इति विशेषतः प्रस्तुतत्वात्सर्वोपसंहारका उच्यन्ते । यद्यपि ब्रह्मैव सर्वगुणोपासकः । तथाऽपि तदनतिन्यूनब्रह्माण्यादिविषय आदिशब्दः । इतरे तु यथाशक्त्युपास्तिं कुर्वाणा यथायोगं फलभाजो भवन्ति । ‘सम्यङ्मुक्तौ’इति वचनादत्यल्पगुणोपासकानां मुक्तिरपि सम्यङ्मुक्तिरेव । नासम्यङ्मुक्तिरिति सिद्ध्यति । दुःखलेशाभावात् ।

तत्त्वप्रकाशिका

अत्रेश्वरदर्शनसाधनोपासने बहुगुणोपसंहारस्य कर्तव्यतासमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथोक्तानुपपत्तेः समर्थनीय एव । प्रकृतो बहुगुणोपसंहारो विषयः । कर्तव्यो न वेति सन्देहः । उभयविधक्रियादर्शनं सन्देहबीजम् । न कर्तव्य इति पूर्वः पक्षः । तथा हि । अल्पगुणोपसंहारकेभ्यो बहुगुणोपसंहर्तृणां फलातिशयोऽस्ति न वा । नाद्यः । प्रमाणाभावेन फलातिशयनिर्णयाभावात् । न द्वितीयः । व्यर्थायासस्य बुद्धिमदुपादित्साऽगोचरत्वात् । अतः फलानिर्णीतेरुपसंहारस्य कर्तव्यत्वादुक्तमयुक्तमिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ सर्वेति ॥ युक्त एव ब्रह्मादीनां बहुगुणोपसंहारः । बहुगुणोपसंहारेण तेषामनुपसंहर्तृभ्यो विलक्षणफलसद्भावात् । न च फलानिर्णयः । तेषां सर्वगुणोपसंहारेणोपासकानां महत्त्वादेव महत्फलमिति निर्णयोपपत्तेः । न हि वेदोक्तमहोपासनावतामतिशयितफलाभावः सम्भवतीति भावः । स्मृत्या चायं निर्णय इति तामुदाहरति ॥ सम्पूर्णेति ॥ सम्यग्भवन्त्यतिशयवन्तो भवन्तीत्यर्थः । अतो बहुगुणोपसंहर्तृणां फलविशेषभावादुपसंहारो युक्त एवेति सिद्धम् ।

गुर्वर्थदीपिका

सर्वगुणयुक्तत्वेनोपासनादिति वदता सर्वेषां गुणानामभेदादेकीकृत्योपासनादित्यर्थस्सूत्रखण्डस्य सूचितः । इदं चोपलक्षणम् । एतादृश्युपासनयोग्यता ब्रह्मण एवास्ति न त्वन्येषाम् । एवं च ब्रह्मादय इति वदता भाष्यकारेण सूत्रे स्ववचने चोक्तमन्यस्योपलक्षणमिति सूचितम् । तथा च सर्वगुणोपासनात्ततोऽपि क्रमेण न्यूनगुणोपासनादिति साधनवैचित्र्यमुक्तं भवति । तस्मादिमे ब्रह्मादयो ऽन्यत्र फले अन्यत्र अन्यस्मिन्भिन्ने इदं चाऽऽवर्तनीयं भिन्ने फले भवन्तीति सूत्रभाष्ययोरर्थः ।

भावबोधः

अनन्तरसङ्गतिं सूचयन् विषयमाह– प्रकृत इति ॥ पूर्वसूत्र इत्यर्थः । कर्तव्य उत न वेति । अत्र बहुगुणोपसंहारः किं न कर्तव्य उत कर्तव्य इति चिन्ता । तदर्थं स किं फलातिशयवान्न भवत्युत भवतीति चिन्ता । तदर्थं फलातिशये प्रमाणं नास्त्युतास्तीति । फलातिशयोऽस्ति न वेति । गुणोपसंहारस्य सफलत्वमात्रं तु श्रुतिविहितत्वादेव सिद्धमिति भावः । फलानिर्णीतिरिति न्यायविवरणं व्याचष्टे– प्रमाणाभावेनेति ॥ ‘अन्यत्रेमे’ सूत्रांशव्याख्यानपरं, अन्यत्रैव फले ब्रह्मादयो भवन्तीति भाष्यं तात्पर्यतो व्याचष्टे– युक्त एवेत्यादिना ॥ अनेन सूत्रभाष्ययोः ‘अन्यत्र’ इत्येतत्पदं विलक्षणार्थकम् । अनुपसंहर्तृफलं तु प्रतियोगीत्युक्तं भवति । महात्म्येनैवान्यत्फलं महतामिति निर्णयोपपत्तेरिति न्यायविवरणं व्याचष्टे– तेषां सर्वगुणोपसंहारेणेति ॥ असम्यक् मुक्तेरभावात् । नासम्यगित्येतन्मुक्तिविशेषणमित्यभिप्रेत्याह– सम्यग्भवन्तीति ॥

भावदीपः

उपासन इत्यादिपूर्ववद्व्याख्येयम् । एवमग्रेऽपि । समर्थनात्फलविशेषकथनेनेति भावः । अन्यथा फलविशेषोक्त्या तदसमर्थने । अधिकारिभेदेनोभयसामञ्जस्यरूपप्रागुक्तप्रमेयानुपपत्तेरित्यर्थः । एतेन पूर्वसङ्गतिरप्यत्र सूचिता । यद्वा सर्वपरिज्ञानरूपप्रागुक्तप्रमेयानुपपत्तेरित्यर्थः । गुणोपसंहार इत्येवोक्तौ ब्रह्ममात्रकर्तृकसर्वोपसंहारप्राप्त्या ब्रह्मादय इति भाष्यनिर्देशायोगात्तदुपपत्तये ब्रह्मानतिन्यून-ब्रह्माण्यादिपरिग्रहाय बहुगुणोपसंहार इत्युक्तम् । पूर्वत्र प्राप्तेरित्यनेन सर्वोपसंहारवत्क्रमन्यून-बहुगुणोपसंहारस्यापि प्रकृतत्वात्प्रकृत इति भावः ॥ क्रियेति ॥ व्यापार इत्यर्थः । फला-निर्णीतिरिति न्यायविवरणोक्तहेतुमिह विकल्पमुखेन विवृणोति ॥ अल्पगुणेति ॥ सर्वाभेदा-दित्येतद्व्यावर्त्यमाह ॥ प्रमाणाभावेनेति ॥ व्यर्थायासस्येति ॥ विहितत्वात्कर्तव्यमिति तु आध्यानायेत्यत्राशङ्क्य निरसिष्यत इति भावः ॥ अत इति ॥ फलातिशयस्याप्रामाणि-कत्वात्सामान्यफलस्य चानुपसंहारसाध्यत्वादिति फलानिर्णीतौ हेतुरयम् ॥ उक्तमिति ॥ पूर्ववद्व्याख्येयम् । अत्र भाष्ये पूर्वभाष्याद्युज्यते चोपसंहार इति पदमनुवर्त्य तत्र हेतुतया भवन्तीत्यन्तभाष्यं व्याचष्टे ॥ युक्त एवेति ॥ सर्वेत्यादेरर्थ उपसंहारेणेति । अन्यत्रेत्यादेरर्थ-स्तेषामित्यादि । माहात्म्येनैवान्यफलं महतामिति निर्णयोपपत्तेरिति न्यायविवरणोक्तहेतुं सङ्गमयति ॥ न च फलेत्यादिना ॥ अयमिति ॥ उपसंहर्तॄणां महाफलमिति निर्णयो न केवलं वेदोक्त-महोपासनवत्त्वयुक्तेति चार्थः । मुक्तौ सम्यग्भवन्तीत्यत्र किमिदं सम्यक्त्वमित्यत आह ॥ सम्यगिति ॥ सूत्रार्थं विवृण्वन्नेव फलोक्त्योपसंहरति ॥ अत इति ॥ सर्वगुणाभेदेन वेदोक्तमहोपासनवत्त्वरूपयुक्तिः सम्पूर्णेत्यादिस्मृतिबलादिति सर्वाभेदादित्यस्यार्थः । इमे इत्यस्यार्थः बहुगुणोपसंहतृणामिति ॥ त एव पूर्वत्र प्राधान्येन प्रकृता इति भावः । अन्यत्रेत्यस्यार्थः फलविशेषेति ॥ उपसंहारः समंजस इत्यनुवृत्तस्यार्थ उपसंहारो युक्त एवेति ॥ फलान्वयार्थः पञ्चम्यन्ततया सूत्रार्थानुवादः ।

अभिनवचन्द्रिका

सर्वशब्दोऽत्र बहुशब्दपर्यायः । बहूनां गुणानामयमुपसंहर्तव्यो नायमुपसंहर्तव्य इति विभाग-मकृत्वा उपासनाद् बहुगुणोपसंहारेणोपासनादिति यावत् । अन्यत्र अल्पगुणोपसंहर्तृफलादति-शयितफले । इमे ब्रह्मादयो, भवन्तीति सूत्रार्थः । उभयविधक्रियादर्शनमिति ॥ स्वापेक्षयाऽल्पा-याससाध्यक्रियाफलाधिकफलजनकाजनकक्रियादर्शनं सन्देहबीजमित्यर्थः । अल्पगुणेति ॥ केषांचिद्बहुगुणोपसंहारः किमल्पगुणोपसंहारकेभ्यो बहुगुणोपसंहारकर्तृणां फलातिशयसद्भावादङ्गी-क्रियते, उत फलाऽभावेऽप्यङ्गीक्रियत इति भावः । नाद्य इति ॥ फलातिशयेन बहुगुणोपसंहारः साधयितुं न शक्य इत्यर्थः । तत्र हेतुमाह– प्रमाणाभावेनेति ॥ फलातिशयस्यासिद्धत्वान्न तेन लिङ्गेन तत्साधनमिति भावः । एतेन– प्रमाणाभावादित्यनेनैव पूर्णत्वात्फलातिशयनिर्णयाभावा-दित्यधिकमिति परास्तम् । स्वपरिचितप्रमाणाभावेऽपि प्रमाणान्तरसम्भवात् स्वरूपासिद्धेर्दातु-मशक्यत्वेन अज्ञानासिद्धिं वक्तुं तस्य सार्थक्यात् ॥ न द्वितीय इति ॥ नास्त्येव फलं तथापि बहुगुणोपसंहारः कर्तव्य एवेति द्वितीयः पक्षो न युक्त इत्यर्थः ॥ महत्वादेवेति ॥ महा-साधनवत्वादेवेत्यर्थः ।

पूर्वपक्षस्तु– न बहुगुणोपसंहारः कर्तव्यः । उपासनातारतम्यानुसारिफलतारतम्ये प्रमाणा-भावादिति ॥

सिद्धान्तस्तु– कर्तव्य एव बहुगुणोपसंहारः । साधनतारतम्ये फलतारतम्यनियमाद् वेदोक्तमहोपासनावतामतिशयितफलाभावायोगादिति ।

वाक्यार्थमुक्तावली

अन्यथेति ॥ उपसंहारस्यैवाकर्तव्यत्वे प्राप्तेरित्यत्र योग्यताविशेषेणोपसंहारानुपसंहारयोः सामञ्जस्योक्त्यनुपपत्तिरित्यर्थः ॥ कर्तव्य इति ॥ बहुगुणोपसंहारो न कर्तव्य उत कर्तव्यः । तदर्थमुपसंहारेण फलातिशयो नास्त्युतास्तीति । तदर्थं फलातिशये प्रमाणं नास्त्युतास्तीति । अत्रापि फलातिशयनिर्णायकोक्त्या तद्व्यावर्त्यमनिर्णीतिरित्युक्तन्यायं दर्शयन् पूर्वपक्षयति ॥ तथा हीति ॥ गुणोपसंहारस्य श्रुतिविहितत्वात् फलं सिद्धवत्कृत्य फलातिशयोऽस्ति वा न वेत्युक्तम् ॥ व्यर्थायासस्येति ॥ साध्यातिशयाभावे साधनातिशयवैय्यर्थ्यादिति भावः । सर्वगुणयुक्तत्वेनोप-संहारेऽनुपसंहर्तृभ्यः फलातिशयोऽस्ति न वेति विकल्प्य द्वितीये उपसंहारानुपपत्तिरुक्ता । तत्परिहारायाद्यपक्षमभ्युपगन्तुमिदं सूत्रमिति भावेन सर्वगुणयुक्तत्वेनोपासनादिति भाष्यं प्रवृत्तम् । प्राप्तेश्चेत्यत्र महायोग्यतावत्वेन प्रकृतत्वादिमे इति ब्रह्मादिपरामर्श इति भावेन ब्रह्मादय इत्युक्तम् । सर्वाभेद इत्यस्य सर्वेषां गुणानामभेदादविभागाद् अपरिग्रहादित्यस्य तात्पर्यमुक्तं सर्वगुणयुक्तत्वे-नोपासनादिति । अन्यत्रेत्यस्य फल इति विशेष्यम् । अनुपसंहर्तॄणां प्रकृतत्वेन तत्फलमन्यत्रेत्युक्त-वैलक्षण्यप्रतियोगितया गृह्यत इति भावेनान्यत्रैव फल इत्युक्तम् । तथा च सर्वगुणयुक्तत्वेनोपासनेन तदुपासका ब्रह्मादयः । अन्यत्रानुपसंहर्तृफलादतिशयितफलं भवत्येवेत्याद्यपक्षो गृह्यत इति सूत्रभाष्ययोराद्यपक्षपरिग्रहमात्रार्थत्वं तावन्मनसि निधायाद्यपक्षस्य स्वीकृतत्वाद् द्वितीयपक्षोक्तो वैय्यर्थ्येनानुपसंहारायोगो नास्तीति तात्पर्यमाह ॥ युक्त एवेति ॥ आद्यपक्षाङ्गीकारे तत्पक्षोक्तदोष इत्याशङ्क्य निषेधति ॥ न चेति ॥ कुतो नेत्यतस्ते येन सूत्रभाष्ये माहात्म्यमित्युक्त-न्यायस्फोरकत्वेन व्याचष्टे तेषामित्यर्थः । एतेन सर्वाभेदात् सर्वगुणयुक्तत्वेनोपासनाद् अतिमहत्वात् तन्निमित्ताद् अन्यत्रातिमहत्येव फले ब्रह्मादयो भवन्ति नान्य इत्यत्र उक्तो भवति । असम्यङ्मुक्तेर-भावान् न सम्यगित्येतन्मुक्तिविशेषणमित्यभिप्रेत्याह ॥ सम्यग्भवन्तीति ॥

तत्त्वसुबोधिनी

अन्यथोक्तानुपपत्तेरिति ॥ बहुगुणोपसंहारसमर्थनाभावे उक्तोपसंहारानुपपत्तेरित्यर्थः । अनन्तरसङ्गतिमाह ॥ प्रकृत इति ॥ प्राप्तेरिति पूर्वसूत्र इत्यर्थः । फलातिशयोऽस्ति न वेति । गुणोपसंहारस्य सफलत्वमात्रं तु श्रुतिविहितत्वादेव सिद्धमिति भावः ॥ उक्तमिति ॥ उपसंहार-समर्थनमित्यर्थः । अन्यत्रेमे इति सूत्रांशव्याख्यानपरम् अन्यत्रैवेति भाष्यं व्याचष्टे । युक्त एवेति ॥ अनेन सूत्रभाष्ययोर् अन्यत्रेत्येतत्पदं विलक्षणार्थकम् । अनुपसंहर्तृफलं तु प्रतियोगीत्युक्तं भवति । असम्यङ्मुक्तेरभावान्न सम्यगित्येतन्मुक्तिविशेषणमित्यभिप्रेत्याह ॥ सम्यग् भवतीति ॥

वाक्यार्थविवरणम्

उक्तेति ॥ उपसंहारोऽर्थाभेदादित्युक्तेत्यर्थः । सूत्रार्थस्तु सर्वाभेदात् सर्वेषां गुणानाम-भेदादविभागेन युगपदुपसंहारपूर्वं तद्युक्ततया भगवदुपासनाद् इमे ब्रह्मादयोऽन्यत्र अनुपसंहर्तृफल-विलक्षणे फले भवन्ति । तादृशफलभाजो भवन्तीति ॥ अतिशयेति ॥ अनुपसंहर्तृभ्यः ॥ फलविशेषेति ॥ अनुपसंहर्तृभ्यः ।

वाक्यार्थमञ्जरी

प्रकृतेति ॥ प्राप्तेरिति पूर्वसूत्रप्रकृतेत्यर्थः ॥ ॐ सर्वाभेदादन्यत्रेमे ॐ ॥ इमे ब्रह्मादयोऽनुपसंहर्तृफलापेक्षयाऽन्यत्र विलक्षणे फले भवन्ति कुतः सर्वाभेदात् सर्वेषां गुणानामभेदाद् अविभागेनोपसंहारात् तेषां सर्वगुणोपसंहर्तृत्वादिति भावः । असम्यङ्मुक्त्यभावेन सम्यगित्यस्य मुक्तिविशेषणत्वायोगादाह ॥ सम्यग्भवन्तीति ॥

॥ इति सर्वाभेदाधिकरणम् ॥ ४ ॥