०३ प्राप्त्यधिकरणम्

ॐ प्राप्तेश्च समञ्जसम् ॐ

३. प्राप्त्यधिकरणम्

सूत्रभाष्यम्

॥ ॐ प्राप्तेश्च समञ्जसम् ॐ ॥ १० ॥

युज्यते चोपसंहारोऽनुपसंहारश्च योग्यताविशेषात् ।

‘गुणैस्सर्वैरुपास्योऽसौ ब्रह्मणा परमेश्वरः ।

अन्यैर्यथाक्रमं चैव मानुषैः कैश्चिदेव तु’इति भविष्यत्पर्वणि ॥

तत्त्वप्रदीपिका

उपसंहारः कर्तव्य इत्युक्तम् । न वा सर्वगुणोपसंहार इति चोक्तम् । तक्तथमित्यत आह–प्राप्तेश्च समञ्जसम् ॥ ब्रह्मणः सर्वगुणोपसंहारयोग्यता । ततः क्रमेण न्यूनोपसंहारो देवपित्रादिषु । मानुषेष्वल्पोपसंहारयोग्यता ।

तत्त्वप्रकाशिका

अत्र ब्रह्मज्ञानसाधनोपासने गुणोपसंहारानुपसंहारयोः कर्तव्यतासमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथोक्तबाधप्रसङ्गात्तौ समर्थनीयौ । प्रकृतौ गुणोपसंहारानुपसंहारौ विषयः । युज्येते न वेति सन्देहः । प्रतिपादनं विरोधश्च सन्देहबीजम् । न युज्येते इति पूर्वः पक्षः । तथा हि । किं तौ द्वावप्येकस्यैव पुरुषस्योत पुरुषभेदेन । नाद्यः । विरोधात् । नापि द्वितीयः । अनेनोपसंहारः कर्तव्यो नानेनेति निर्णयाभावात् । अतः प्रकारद्वयेऽपि तदनुपपत्तेरुक्तमनुपपन्नमिति । सिद्धान्त-यत्सूत्रमुपन्यस्य व्याचष्टे ॥ प्राप्तेश्चेति ॥ युक्तावुपसंहारानुपसंहारौ पुरुषभेदेन । न च निर्णयाभावः । ‘यस्य यावद्गुणाः स्पष्टं प्रतिभासन्त्युपासने । युगपत्स्वभुजौ यद्वद्ध्यायेत्तावत एव सः’ । इति श्रुतेर्युगपत्प्रतीत्यादियोग्यताविशेषेण निर्णयोपपत्तेरिति भावः । एतदेव शृङ्गग्राहिकया स्मृत्या दर्शयति ॥ गुणैरिति ॥ कैश्चिदानन्दादिगुणैरित्यर्थः । युगपत्सर्वगुणप्रतीतिर्ब्रह्मण इत्यादि ज्ञातव्यम् । अतो गुणोपसंहारानुपसंहारयोः सामञ्जस्याद्युक्तं पूर्वोक्तमिति सिद्धम् ।

गुर्वर्थदीपिका

युगपत्प्रतीत्यादियोग्यताविशेषेणेत्यत्र शास्त्रश्रवणमननाभ्यां शास्त्रोक्तसकलगुणपरिज्ञाने पृथक्पृथगेकैकगुणस्मरणे च सत्यपि ध्यानकाले युगपत्स्वयोग्या एव गुणा भासन्ते नापरे । एवं च युगपद्भासमानेषु गुणेषु योग्यता, अभासमानगुणेषु योग्यता नेति विवेकोपपत्तेरित्यर्थः । युगप-त्सर्वगुणप्रतीतिरित्यस्य निरवधिकसर्वगुणानां ब्रह्मणाऽप्युपासितुमशक्यत्वाद्वेदोक्त सकलगुण-प्रतीतिरित्यर्थः ।

भावबोधः

अनन्तरसङ्गतिं प्रदर्शयन् विषयमाह– प्रकृताविति ॥ ‘उपसंहार इति’ ‘न वेति’ सूत्राभ्यां प्रकृतावित्यर्थः । युज्येते न वेति । अत्रोपसंहारानुपसंहारौ न युज्येते, उत युज्येते, इति चिन्ता । तदर्थं तौ किं परस्परं विरुद्धावुताधिकारिभेदेनाविरुद्धाविति । तदर्थमधिकारिभेदव्यवस्थापकं नास्त्युतास्तीति ॥ अनेनैवोपसंहार इति ॥ एतेन अनेनोपसंहर्तव्या अनेन नोपसंहर्तव्या इत्य-निर्णीतिरेवेति न्यायविवरणमुक्तार्थं भवति । न केवलमुक्तरीत्योपसंहारानुपसंहारयोः कर्तव्यत्वं किं तु तद्द्वयं समञ्जसं युक्तं चेति सूत्रार्थमभिप्रेत्य प्रवृत्तं युज्यते चोपसंहारोऽनुपसंहारश्चेति भाष्यं व्याख्याति– युक्ताविति ॥ न्यायविवरणोदाहृतश्रुतिमुदाहृत्य प्राप्तेरित्येतद्व्याख्यानपरं योग्यता-विशेषादिति भाष्यं युगपत्प्रतीत्यादिमाहात्म्यान् निर्णयोपपत्तेरिति न्यायविवरणानुसारेण व्याचष्टे– यस्येति ॥ अनेन न्यायविवरणे माहात्म्यशब्दो योग्यताविशेषार्थक इत्युक्तं भवति ॥ एतदेवेति ॥ योग्यताविशेषादित्यनेनोक्तमेवेत्यर्थः । कैश्चिदित्यस्यानिर्दिष्टयत्किञ्चिद्गुणपरत्वप्रतीतिनिवारणार्थं ‘आनन्दादयः प्रधानस्य’ इत्युत्तरसूत्रानुसारेणार्थमाह– कैश्चिदानन्दादिगुणैरिति ॥

ननु ‘यस्य यावद्गुणाः स्पष्टम्’ इत्युक्तयुगपत्प्रतीत्यादिरूपयोग्यताविशेषस्यात्र चतुर्मुखादि-सम्बन्धित्वेनानुक्तेरुपासना कथं चतुर्मुखादिसम्बन्धित्वेनोच्यत इत्यतः,

‘युगपद्ब्रह्मणः सर्वे भासन्ते हि गुणा हरेः ।

तदन्येषां यथायोग्यं स्वमाहात्म्यानुसारतः ॥’

इति न्यायविवरणोदाहृतां श्रुतिं मनसि निधायाह– युगपदिति ॥

भावदीपः

उपासने उपासनार्थम् । या उपसंहारानुपसंहारयोः कर्तव्यता तत्समर्थनादित्यनेन फलतः पादसङ्गतिः सूचिता ॥ समर्थनादिति ॥ अधिकारिभेदकथनेनेति भावः । अनेन पूर्वानन्तर्य-सङ्गतिरपि सूचिता । प्रतिपादनं श्रुतियुक्तिभिः पूर्वत्रेत्यर्थः । युज्यत इत्यादिभाष्यसूचित-संशयकोटीरुक्त्वा पूर्वपक्षकोटिमाह ॥ न युज्येते इति ॥ कुत इत्याकाङ्क्षायाम् अनेनोपसंहर्तव्या अनेन नोपसंहर्तव्या इत्यनिर्णीतेरित्यन्यत्रोक्तं हेतुमत्र विकल्पमुखेन संयोजयति ॥ किं ताविति ॥ अत इति ॥ पक्षद्वयेऽपि दोषभावादित्यर्थः ॥ तदनुपपत्तेरिति ॥ अन्यतरानुपपत्तेः प्रागुक्तमुभय-कर्तव्यत्वमनुपपन्नमित्यर्थः । यद्वा तदनुपपत्तेरुभयकर्तव्यत्वानुपपत्तेः प्रागुक्तं सर्वपरिज्ञानमनुपपन्न-मित्यर्थः । भाष्योक्तसाध्यहेतू न साक्षादन्वितावित्यभिप्रेत्य मध्येऽपेक्षितमध्याहृत्य भाष्यं व्याचष्टे ॥ युक्ताविति ॥ न्यायविवरणे श्रुत्युक्तिपूर्वमुक्तमत्र योग्यतास्वरूपं विवृण्वन् हेत्वंशं व्याचष्टे ॥ यस्य यावदिति ॥ युगपदिति ॥ पूर्वं श्रवणादिविषयीभूतगुणानां मध्ये ध्यानकाले यावन्तो गुणा यस्य स्पष्टं युगपन्मनसा प्रतीयन्ते तावद्गुणोपसंहारे तस्य योग्यतेत्येवं योग्यताविशेषेणेत्यर्थः । प्रागेव योग्यतानियमाज्ञानेऽयोग्योपासनप्रयत्नप्रसङ्गेनानर्थप्राप्तेः । प्रागेव योग्यतानिर्णयेन भाव्यमिति चोद्यं तु इतरे त्वर्थसामान्यादित्यत्र समाधास्यत इति भावः ॥ शृृङ्गग्राहिकयेति ॥ धात्वर्थनिर्देशे ण्वुल्वक्तव्य इति रूपम् । शृङ्गग्रहणेनेत्यर्थः । अधिकारिविशेषनिर्धारणेनेत्यर्थः । स्मृतावुपासनाविशेष एवोच्यते । न तु प्रतीतिनियम इत्यतोऽर्थात्तल्लाभ इत्याह ॥ युगपदिति ॥ देवपित्रादीनां क्रमेण न्यूनगुण-प्रतीतिर्मानुषाणामल्पगुणप्रतीतिरिति ज्ञातव्यमित्यर्थः । ‘युगपद्ब्रह्मणः सर्वे भासन्ते हि गुणा हरेः । तदन्येषां यथायोग्यं स्वमाहात्म्यानुसारतः’ इति न्यायविवरणोक्तश्रुतेरिति भावः । सूत्रार्थं विवृण्वन्नेव फलोक्त्योपसंहरति ॥ अत इति ॥ युगपद्गुणप्रतिभासवत्त्वादिरूपयोग्यताभेदेन निर्णयोपपत्तेरिति प्राप्तेरित्यस्यार्थः ॥ उपसंहारेति ॥ एतेनोपसंहारानुपसंहारकर्तव्यत्वं समंजसं युक्तमित्यर्थः सूचितः । पूर्वोक्तं सर्वपरिज्ञानमुभयकर्तव्यत्वं चेत्यर्थः ।

अभिनवचन्द्रिका

कर्तव्यतासमर्थनादिति ॥ प्रागधिकारिभेदस्य व्यक्तमनुक्तत्वेन वक्ष्यमाणाभ्यधिकाशङ्काप्राप्ति-सद्भावादिति भावः । प्राक्संक्षेपेणोक्तस्य इह विस्तरेणाऽभिधानाद्भिन्नाधिकरणता । तदुक्तम् ‘सङ्क्षेपविस्तराभ्यां च प्रवदन्ति मनीषिणः । बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात्’ इति ॥ नियामकाभावादिति ॥ ननु शक्त्यशक्त्योरेव नियामकत्वेन कथं नियामकाभाव इति चेत्, कृच्छ्रेणाऽनुष्ठाने सर्वेषां शक्यत्वाद् अन्यथा सर्वेषामशक्यत्वात् ।

पूर्वपक्षस्तु– अयुक्तौ प्रागुक्तोपसंहारानुपसंहारौ विरोधात् । न हि विरुद्धयोर्युगपदनुष्ठानमेकेन सम्भवति । न च अधिकारिभेदादुभयोपपत्तिर् नियामकाभावादिति ।

सिद्धान्तस्तु– उपपन्नावेवोपसंहारानुपसंहारौ यस्य युगपत् स्वभुजाविव यावन्तो गुणाः स्पष्टं प्रतिभासन्ते स तावतामुपसंहारे योग्यः । अन्यस्तु नेति नियामकसद्भावात् । ब्रह्मणस्तु युगपद्वेदोक्ताः सर्वगुणाः प्रतिभासन्ते । रुद्रादीनां तु तत्तद्योग्यतानुसारेणेति विवेकः । अतो गुणोपसंहारानुपसंहारयोः सामञ्जस्याद्युक्तं पूर्वोक्तमिति सिद्धम् ।

वाक्यार्थमुक्तावली

अन्यथेति ॥ असमर्थत्वे उपसंहारोऽर्थाभेदान्न वा प्रकरणेन लिङ्गादित्युक्ते बाधप्रसङ्गादित्यर्थः ॥ युज्येतेति ॥ गुणोपसंहारानुपसंहारौ युज्येते उत न युज्येत इति चिन्ता । किं तयोः पुरुषभेदेन विरोधनये निर्णायकं नास्त्युतास्तीति । सिद्धान्ते निर्णायकोक्त्या लब्धानिर्णीतिरित्युक्तन्यायं विशदयन् पूर्वपक्षयति ॥ न युज्येत इति ॥ न केवलमुक्तरीत्योपसंहारानुपसंहारयोः कर्तव्यत्वं किन्तु तद्द्वयं समञ्जसं युक्तं चेति सूत्रार्थमभिप्रेत्य प्रवृत्तं युज्यते चोपसंहारोऽनुपसंहारश्चेति भाष्यं व्याचष्टे ॥ युक्ताविति ॥ भाष्ये योग्यताविशेषादित्यत्र योग्यताशब्देन तत्पुरुषोपलक्षणं मत्वा व्याचष्टे ॥ पुरुषभेदेनेति ॥ एतेन प्राप्तेः प्राप्तत्वात्पुरुषभेदेन व्यवस्थितत्वादिति सूत्रार्थ उक्तो भवति । माहात्म्यमित्युक्तन्यायप्रदर्शकयोग्यताविशेषादित्येतद्भाष्यमेव प्राप्तेरित्यस्यार्थन्तरपरतया प्रमाणो-दाहरणपूर्वकं व्याचष्टे ॥ यस्येति ॥ तावतो गुणान्युगपत्प्रतीत्य । आदीत्यादिपदेन तदभाव उच्यते । एतेन ध्यानकाले गुणानां युगपद्बुद्धौ प्राप्तिमपेक्ष्य तद्भावाभावलक्षणयोग्यता विशेषादिति यावत् । पुरुषविशेषनिर्णयेन तदुभयं समञ्जसमित्यर्थ उक्तो भवति । नन्वेतेन ध्यानकाले यस्य यावन्तो गुणा उपस्थाप्यन्ते तेनैव तावन्तो गुणा उपास्या नान्येनेति पुरुषविशेषनिर्णयानन्तरं ध्याने प्रवृत्तिः । अन्यथा योग्यप्रयत्नदोषप्रसरात् । प्रवृत्त्यनन्तरं पुरुषविशेषनिर्णय इत्यन्योन्याश्रयदोष इति चेन्न, इतरे त्वर्थसामान्यादित्यत्र वक्ष्यमाणत्वात् । ननु भविष्यत्पर्ववचने युगपत्प्रतीत्यादियोग्यता-विशेषस्य चतुर्मुखादिसम्बन्धितयाऽनुपादानात् कथं सर्वगुणोपासकस्यैवोक्तं कथं प्रकृतोपयोग इत्यतः ‘युगपद्ब्रह्मणः सर्वे भासन्ते हि गुणा हरेः । तदन्येषां यथायोग्यं स्वमाहात्म्यानुसारतः’ इति न्यायविवरणानुसारात्तदप्यत्रोपलक्षणत्वेन ज्ञातव्यमित्याह ॥ युगपदिति ॥

तत्त्वसुबोधिनी

अन्यथेति ॥ गुणोपसंहारानुपसंहारयोः कर्तव्यतासमर्थनाभावे उक्तसर्वपरिज्ञानस्य वैय्यर्थ्य-रूपबाधप्रसङ्गादित्यर्थः । अनन्तरसङ्गतिमाह ॥ प्रकृताविति ॥ उपसंहार इति न चेति सूत्राभ्यां प्रकृतौ इत्यर्थः । उक्तयोर् उपसंहारानुपसंहारयोर् बाधकपरिहारादनन्तरसङ्गतिरिति भावः । न केवलम् उक्तरीत्या उपसंहारानुपसंहारयोः कर्तव्यत्वं किन्तु तद्वयं समंजसं युक्तं चेति सूत्रार्थमभिप्रेत्य प्रवृत्तस्य युज्यते चेत्यस्यार्थमाह ॥ युक्ताविति ॥ निर्णयाभावपरिहाराय योग्यताविशेषादिति भाष्यं सप्रमाणकं व्याचष्टे यस्येति ॥ एतदेवेति ॥ योग्यताविशेषादित्यनेन उक्तमेवेत्यर्थः । कैश्चिदित्यस्य निर्दिष्टयत्किञ्चिद्गुणपरत्वप्रतीतिनिवारणार्थमानन्दादय इत्युत्तरसूत्रानुसारेणार्थमाह ॥ कैश्चिदिति ॥ ननु यस्य यावद्गुणाः स्पष्टमित्युक्त युगपत्प्रतीत्यादिरूपयोग्यताविशेषस्यात्र चतुर्मुखादिसम्बन्धि-त्वेनानुक्ते उपासनं कथं चतुर्मुखादिसम्बन्धित्वेन उच्यत इत्यत आह ॥ युगपदिति ॥ न केवलम् उपसंहारानुपसंहारयोः कर्तव्यत्वं किन्तु तद्वयं समंजसं युक्तं च कुतः प्राप्तेर् योग्यताविशेषादित्यर्थः ।

वाक्यार्थविवरणम्

उक्तेति ॥ उपसंहारानुपसंहारयोरुभयोरपि कर्तव्यत्वं यदुक्तं तस्य बाधप्रसङ्गादित्यर्थः ॥ प्रतिपादनमिति ॥ ‘संज्ञातश्चेन् न वा प्रकरणभेदात्’ इति उभयोरपि प्रतिपादनमित्यर्थः ॥ नियमाभावात् ॥ नियामकप्रमाणाभावात् ॥ न चेति ॥ तयोरित्यर्थः ॥ पुरुषभेदेनेति ॥ तथा चाविरोध इति भावः ॥ तावतो गुणान् ॥ आनन्दादीति ॥ ‘सच्चिदानन्दात्मेति मानुषैस्तु’ इत्युक्तेरिति भावः ॥ इत्यादीति ॥ ‘सुरैर्हरिर्यथाक्रमं बहुगुणैः’ इत्युक्तेरिति द्रष्टव्यम् ॥ शृङ्गिग्राहिकयेति ॥ शृङ्गिग्राहिकन्यायरूपया स्मृत्येत्यर्थः ॥ सामञ्जस्यादिति ॥ तथा च सूत्रे समञ्जसमिति भावप्रधानो निर्देशः । प्राप्तेर्योग्यताया अनुसारेणोपसंहारानुपसंहारयोः । समञ्जसं सामञ्जस्यं विरोधो निर्णयाभावश्च नास्तीति सूत्रार्थः ।

वाक्यार्थमञ्जरी

उक्तबाधेति ॥ पूर्वाधिकरणोक्तस्योभयोरपि कर्तव्यत्वस्य बाधेत्यर्थः । प्रतिपादनम् उक्तरीत्या-विरोधः ॥ अन्योन्यनियमेनेति ॥ नियामकेत्यर्थः ॥ ॐ प्राप्तेश्च समंजसं ॐ ॥ न केवल-मुक्तरीत्योपसंहारानुपसंहारयोः कर्तव्यत्वमपि तु तद्द्वयं समंजसं च युक्तं, कुतः प्राप्तेर् योग्यताया व्यवस्थितत्वादित्यर्थः ॥ यस्येति ॥ यस्योपासकस्योपासनासमये स्वभुजवद्यावन्तोभ गवतो गुणाः स्पष्टं युगपत्प्रतिभासन्ते स तावत एव गुणान् ध्यायेदिति सम्बन्धः ॥ एतदेवेति ॥ योग्यताविशेषादित्यनेनोक्तमेवेत्यर्थः । कैश्चिदित्यस्यानिर्दिष्टयत्किञ्चिद्गुणपरत्वप्रतीतिनिरासायाह ॥ आनन्दादीति ॥ यस्य यावद्गुणाः स्पष्टमित्युक्तयुगपत्प्रतीतियोग्यताविशेषो नात्र चतुर्मुख-सम्बन्धित्वेनोच्यत इत्यत आह ॥ युगपदिति ॥ ‘युगपद्ब्रह्मणः सर्वे भासन्ते हि गुणा हरेः । तदन्येषां यथायोग्यम्’इति श्रुतेरिति भावः ।

॥ इति प्राप्त्यधिकरणम् ॥ ३ ॥