०२ उपसंहाराधिकरणम्

ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ

२. उपसंहाराधिकरणम्

सूत्रभाष्यं

सर्वैर्वेदैर्ज्ञेयो नोपास्योऽशक्यत्वादित्यत आह—

॥ ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ ॥ ६ ॥

सर्ववेदोक्तान्गुणान्दोषाभावांश्चोपसंहृत्त्यैव परमात्मोपास्यः ।

‘उपास्य एकः परतः परो यो वेदैश्च सर्वैः सह चेतिहासैः ।

सपञ्चरात्रैः सपुराणैश्च देवः सर्वैर्गुणैस्तत्र तत्र प्रतीतैरिति (हि)

भाल्लवेयश्रुतिः ।

आग्नेये च—

विधिशेषाणि कर्माणि सर्ववेदोदितान्यपि ।

यथा कार्याणि सर्वैश्च सर्वाण्येवाविशेषतः ॥

एवं सर्वगुणान्सर्वदोषाभावांश्च यत्नतः ।

योजयित्वैव भगवानुपास्यो नान्यथा क्वचित्’इति ॥

समानविषये चोपसंहारः । न तु ‘सोऽरोदीत्’ (तै.सं.१-५-१) इत्यादीनाम् ।

‘गुणैरेव स तूपास्यो नैव दोषैः कथञ्चन ।

गुणैरपि न तूपास्यो ये पूर्णत्वविरोधिनः’ इति बृहत्तन्त्रे ॥

तत्त्वप्रदीपिका

एवं तावत्सर्ववेदपरिज्ञानं मुख्यम् । तदशक्तौ यावच्छक्तिप्रयत्नलभ्यमित्युक्तं भवति । यद्यपि केषाञ्चिद्वितप्रज्ञानां सर्वपरिज्ञानं कथञ्चित्क्रमेण शक्यम् । तथाऽपि न सर्ववेदोदितगुणोप-संहारेणोपास्यः परः । अनन्तवेदपदोदितानन्तगुणानां युगपद्बुद्धावारोपणस्याशक्यात्वादित्यत आह– उपसंहार इत्यादिसूत्रम् ॥ गुणान् बलज्ञानादीन् दोषाभावानपहतपाप्मत्वादीन् । ‘सर्वैर्गुणैस्तत्र तत्र प्रतीतैः’इत्यनेन पूर्वोक्तं व्याचष्टे श्रुतिः । एक इति श्रुतिपदेनार्थाभेदादिति सूत्रावयवं व्याचष्टे । एको हि परमात्मा सर्ववेदेषूपास्योऽर्थः सर्वगुणात्मक इत्यर्थः । यजेतेत्यादिविधिविषयत्वेन विधिशेषाणि कर्माणि ज्योतिष्टोमादीनि । अथवा प्रधानविधिशेषभूतानि कर्माणि विधिशेषाणि प्रयाजादीनि सर्वैर्वेदैः सम्भूयोदितानि सर्वैः शाखिभिः कार्याणि । समानविषये चेत्यादेरयमर्थः । गुणानामेव चोपसंहारः कार्यो नतु ‘सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वं’ ‘रुद्रस्य त्वेवधनुरार्त्निः शिर उत्पिपेष’ इत्याद्यर्थानाम् । तत्र हि ‘तदधीनत्वादर्थवत्’ इत्युक्तन्यायसिद्धरोदनस्वातन्त्र्यादीनां गुणानामुप-संहारः । रोदनादीनां दोषाणामनुपसंहार एव । लोके सुखज्ञानादीनां गुणानां सप्रतियोगिकत्वदर्शनेन परमात्मन्यपि तद्व्याप्तिराशङ्कनीया स्यादिति तत्परिहाराय समानविषये चेत्युक्तम् । इयं चाशङ्का प्रथमत एव पर्यहारि ॥ दोषवर्जितमिति ॥ अत्र तूपास्तिप्रकरणे पुनर्विशोधनार्थं सूत्रितो दोषानुपसंहारो भाष्यते ॥ समानविषये चेति ॥ गुणविपरीतलक्षणदोषानुपसंहारसिद्धावपि निर्दुःखत्वादयः पृथक्पृथगुपसंहर्तव्या इत्येतदर्थं दोषाभावांश्चेति पृथग्भाष्यम् । यद्यपि दोषाभावेषु गुणव्यवहारोऽस्ति । तथाऽपि लोकवेदानुसारेण भेदोक्तिरूपदेशस्पष्टत्वाय तात्पर्यादिति । न च सुखं दुःखाभवः । सुखदुःखयोः सहोपलब्धेः सर्वसम्मतत्वात् । न च सति सुखे दुःखं नास्तीति नियमः । उक्तहेतोरेव । तस्माद्गुणोक्त्यनन्तरं दोषाभावोक्तिर्न पुनरुक्तिः स्यात् । पूर्णत्वविरोधिनोऽमित-भुक्त्वादयः ।

तत्त्वप्रकाशिका

अत्र भगवज्ज्ञानसाधनोपासनाय सार्वत्रिकगुणोपसंहारसमर्थनादस्ति शास्त्रादिसङ्गतिः । तदभावे सर्वज्ञानस्य वैयर्थ्यप्रसङ्गात्समर्थनीय एव । यद्ध्यानाङ्गत्वेन सर्वज्ञानमुक्तं स परमात्मैव विषयः । किं सर्ववेदोक्तगुणानुपसंहृत्य ध्यातव्योऽन्यथा वेति सन्देहः । ध्यानविधेरुभयथापि पर्यवसानं सन्देहबीजम् । पूर्वपक्षयति ॥ सर्वैरिति ॥ ईश्वरः सर्ववेदोक्तप्रकारेण ज्ञातव्य एव न तु सर्वगुणानुपसंहृत्य ध्यातव्यः । तथाविधध्यानस्य कर्तुमशक्यत्वात् । ज्ञानं तु क्रमभावित्वाच्छक्यमेव । अतः सर्ववेदोक्तप्रकारेण ध्यानायोगात्तदर्थमुक्तं सर्वज्ञानं व्यर्थमिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ सर्ववेदार्थभूतानामानन्दादिगुणानामपहतपाप्मत्वादिदोषाभावानां चाभेदाद-विभागेनैवोपसंहारः कर्तव्यः । तथोपसंहृत्यैव परमात्मा ध्यातव्यः ॥ कुतः ॥ यथाविधि प्राप्तत्वा-त्सन्ध्यावन्दनादि कर्तव्यमेव । अन्यथा प्रत्यवायात् । तथा सर्वगुणोपसंहारेण परमात्मध्यानस्य ‘उपास्य एकः’ इति श्रुतौ विहितत्वात्तत्कर्तव्यमेव । अन्यथा विहितक्रियालोपेनानर्थप्राप्तेरिति भावः । तथा च श्रुतिः । ‘सर्वे गुणाः सर्वदैव ह्युपास्यास्तेनैव विद्वान्विधिकृन्नान्यथा स्यात्’ इति । अत्र गुणा इति विधिमुखवेद्या वेदोक्तधर्माः । दोषाभावा इति निषेधमुखवेद्याः । वेदैरित्यस्य विवरणं सर्वैरिति । अत्रैव स्मृतिमाह ॥ आग्नेये चेति ॥ सर्ववेदोक्तगुणोपसंहारमुक्त्वा तदपवादमाह ॥ समानेति ॥ यद्यपि सामान्यत उक्तं सर्वे विधिमुखवेद्या वेदोक्तधर्मा उपसंहर्तव्या इति । तथापि ये समाना भगवति योग्याः पूर्णत्वाविरोधिनस्त एवोपसंहर्तव्या न त्वयोग्या रोदनादयः । अयोग्योपासनस्यानर्थफलत्वादिति भावः । अत्र स्मृतिमाह ॥ गुणैरिति ॥ तथा च सांकर्षणसूत्रम् । ‘अचेतनासत्यायोग्यानुपास्यान्यफलत्वविपर्ययाभ्याम्’ इति ।

गुर्वर्थदीपिका

तथाविधध्यानस्येत्यत्र यौगपद्येन सकलशाखास्थगुणोपसंहाररूपस्येत्यर्थः । किं नाम्ना यागेन कदा कः किमर्थं यजेतेति शङ्कापूरकतया विधिवाक्यस्थसकलपदोक्तानां वसन्तकालयजमानस्वर्ग-ज्योतिष्टोमानां विधिशेषत्वेऽपि यजेतेति लिङन्तपदे लिङर्थभूतविधेरुपसर्जनतया धात्वर्थभूत-यजमानस्य सहैव पाठात्तथैव विधिशेषत्वमित्यभिप्रेत्योक्तं विधिशेषवदिति ।

भावबोधः

तदभाव इति ॥ अनेन पूर्वाधिकरणोक्तस्य सर्वपरिज्ञानस्य वैयर्थ्यपरिहारादनन्तरसङ्गतिरित्युक्तं भवति ॥ किं सर्वेति ॥ अत्र परमात्मा सर्वगुणाननुपसंहृत्य ध्यातव्य उतोपसंहृत्येति चिन्ता । तदर्थं सर्वगुणोपसंहारे यथाविधिरस्ति, तथा तदनुपसंहारेऽपि विधिरस्त्युत नास्तीति । तदर्थं ‘आत्मेत्येवोपासीत’ इत्यवधारणमन्यगुणयोगव्यवच्छेदकमुतात्मत्वायोगव्यवच्छेदकमिति । तदर्थ-मशक्यत्वं सर्वगुणोपसंहारबाधकं भवत्युत नेति । तदर्थं सर्वविद्यानां ब्रह्मनामकत्वोक्तिः सर्वगुणा-नुपसंहाराभ्युपगमविरोधिन्युत नेति । तदर्थं सर्वविद्यानां ब्रह्मनामत्वेन सर्वगुणोपसंहाराभ्युपगमे विशेषप्रमाणं नास्त्युतास्तीति । न तु सर्वगुणानुपसंहृत्य ध्यातव्य इत्यादिना शक्यत्वोक्तस्याप्युप-संहारो नास्तीति न्यायविवरणमप्युक्ततात्पर्यकम् ॥ तथा विधेति ॥ सर्ववेदोक्तगुणविषयक-स्येत्यर्थः । सर्ववेदोक्तगुणोपसंहारस्याशक्यत्वादिति भावः । अत एव न्यायविवरणोक्तोपसंहाराभावो भाष्योक्तध्यानरूपोपासनाभावं प्रति हेतुरिति ज्ञापयितुमुपसंहृत्येत्युक्तम् ।

नन्वेवं तर्हि सर्ववेदोक्तगुणज्ञानमप्यशक्यत्वादेवानुपपन्नमिति कथं सर्ववेदान्तप्रत्ययं ब्रह्मेत्युक्तमित्याशङ्कापरिहाराय भाष्ये ‘सर्वैर्वेदैर्ज्ञेयः’ इत्युक्तमित्यभिप्रेत्य तदभिप्रायमाह– ज्ञानं त्विति ॥ सूत्रे सर्ववेदान्तेत्यतः सर्ववेदेत्यस्यानुवृत्तिः । अर्थशब्दश्च गुणदोषाभावपरः । एवं सर्वगुणान् सर्वदोषाभावांश्चेति स्मृतेः । अर्थाभेदादुपसंहार इत्यन्वय इत्यभिप्रेत्य सर्ववेदेत्यादिभाष्यं प्रवृत्तमित्याशयेनाह– सर्ववेदार्थभूतानामिति ॥ सूत्रे न केवलमुपसंहार एव ग्राह्यः, किं तु योजयित्वैव भगवानुपास्य इत्युक्तमित्याशयेनाह– तथोपसंहृत्यैवेति ॥ सूत्रे ‘विधिशेषवत्’ इति दृष्टान्तोक्त्यैव श्रुतिविहितत्वादिति हेतुः सूचित इत्याशयेन भाष्ये उपास्य इत्युपासनाविधायक-श्रुत्युदाहरणमित्यभिप्रेत्य विधिशेषानिति स्मृत्यनुसारेण विधिशेषवदिति सूत्रांशतात्पर्यमाह– यथाविधिप्राप्तत्वादित्यादिना ॥ विहितक्रियाविलोपप्रसङ्गादिति न्यायविवरणं विपक्षबाधक-प्रदर्शनपरत्वेन संयोजयितुमाह– अन्यथेति ॥ इष्टापत्तिपरिहारार्थमनर्थप्राप्तेरित्युक्तम् । अन्यथा विहितक्रियालोप इत्यत्र न्यायविवरणोदाहृतां श्रुतिमुदाहरति– तथा चेति ॥

ननु सर्ववेदोक्तगुणानिति भाष्ये गुणशब्दस्य क्रियादिसङ्ग्रहार्थं धर्ममात्रपरत्वस्यावश्यकत्वात्तेनैव दोषाभावस्यापि सङ्ग्रहोपपत्तौ किमर्थं दोषाभावानां पृथग्ग्रहणमित्यत आह– अत्र गुणा इतीति ॥ वेदैरित्यस्यैव विवरणमिति । वेदैरिति बहुवचनस्य त्रित्वेऽपि सम्भवादिति भावः । भगवति योग्या इति समानपदार्थमुक्त्वा ये पूर्णत्वविरोधिन इति स्मृत्यनुसारेण तत्तात्पर्यमाह– पूर्णत्वाविरोधिन इति ॥ त एवेति ॥ अनेन सूत्रभाष्ययोश् चशब्द एवार्थः । अत एव भाष्ये न तु सोऽरोदीद् इत्यादीनामिति व्यवच्छेद्यप्रदर्शनं कृतमित्युक्तं भवति । न त्वयोग्या इति । रोदनादीनां दुःख-कार्यत्वेन पूर्णत्वविरोधित्वादयोग्यत्वमित्यर्थः ॥ अचेतनाऽसत्येति ॥

‘अचेतनमयोग्यं च तथैवातात्त्विकं क्वचित् ।

नोपासीत परोऽनर्थः स्यात्तथोपासनाकृतः ॥’

इति वचनादेतत्सूत्रार्थोऽवगन्तव्यः ।

भावदीपः

सार्वत्रिकगुणोपसंहारेति ॥ अनन्तवेदपदोदितानन्तगुणानां युगपद्बुद्धावारोपणसमर्थ-नादित्यर्थः । यद्यपि भाष्ये तथोपासनासमर्थनमेव भवति । तथापि सौत्रोपसंहारोक्तेस्तदङ्ग-कोपासनापर्यन्तत्वेनोपास्य इति भाष्योक्तौ सत्यामपि सूत्राविसंवादायोपासनायोपसंहारेत्युक्तम् । भगवदित्यनेन शास्त्रे साधनेत्यनेनाध्याये उपासनेत्यनेन पादेऽन्तर्भावसङ्गतिरुक्तेति ध्येयम् । एवमग्रेऽपि अत्रोपासनायेत्युक्त्या नामपादेऽन्तरधिकरण इव फलतः पादसङ्गतिरिति सूचितम् । सर्वगुणोपासनायेत्यर्थो बोध्यः । तेन हेतुहेतुमद्भावो व्यक्तः । ननु प्रागुक्तदिशा सर्ववेदोक्त-गुणपरिज्ञानेनैव तथोपासनोपपत्तौ किमनेनेत्यत आह ॥ तदभाव इति ॥ सर्वज्ञानस्य क्रमेणोत्पन्न-स्योपसंहारद्वारैवोपासनार्थत्वादुपसंहाराभावे प्रागुक्तसर्वज्ञानं व्यर्थमापद्येतेत्यर्थः । यद्यप्यस्त्यदृष्टं फलं गुणाः सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशय इत्यादिना ज्ञानस्यापि विधानात् तथापि दृष्टे सम्भवत्यदृष्टायोगाद्दृष्टोपासनमेव फलमित्युपेत्य वा मोक्षरूपमहादृष्टस्य दृष्टोपासनफलार्थत्वं विनाऽयोगादित्युपेत्य वा द्वारभूतोपसंहाराभावे स्वर्गहेत्वपूर्वाभावे ज्योतिष्टोमादेरिव वैयर्थ्यं मोक्ष-रूपमहाफलवत्त्वराहित्यमेवेति भावेनैवमुक्तम् । एतेन प्रागुक्तसर्वपरिज्ञानस्य गुणाः सर्वेऽपि वेत्तव्या इति विधानेनापरोक्षैकसाध्यमोक्षेतरफलार्थत्वसिद्धावपि मोक्षहेतुदृष्टिकारणध्यानांगोपसंहारार्थत्वा-

भावान्न महाफलार्थत्वमित्याक्षेपेणात्र पूर्वपक्षप्रवृत्तेः पूर्वेणास्याधिकरणस्याक्षेपिकी सङ्गतिरपि सूचिता ।

भाष्ये विषयीकृतपरमात्मनोऽप्रकृतत्वभ्रान्तिं निराह ॥ यद्ध्यानेति ॥ ध्यानविधेरिति ॥ निदिध्यासितव्य इत्यादिविधेरित्यर्थः । एतेनोपसंहारानुपसंहारयोरन्यतरस्मिन्नपि पक्षे न ध्यान-विधिविरोध इति सूचितम् । आकांक्षितपूर्त्या भाष्यं व्याचष्टे ॥ ईश्वर इति ॥ नोपास्योऽशक्य-त्वादिति भाष्योक्तसाध्यसाधनभावं व्यक्तीकर्तुमुक्तं न तु सर्वगुणानुपसंहृत्येति । एतेन सर्वैर्वेदै-रित्येतदत्राप्यन्वेतीति सूचितम् । एतेन न्यायविवरणे अशक्यत्वात्कस्याप्युपसंहारो नास्तीत्युप-संहाराभावेऽशक्यत्वं हेतूकृतमत्र पुनरुपासनाभावे तद्विरुध्यत इति निरस्तं साक्षात्परंपराभिप्रायेण ग्रन्थद्वयेन साध्यनिर्देश इति तात्पर्यस्य प्रकटितत्वात् । कथं तर्हि ज्ञेय इति वा भाषणमित्यत आह ॥ ज्ञानं त्विति ॥ अत इति ॥ अशक्यत्वेनोपसंहारायोगादित्यर्थः । ध्यानायोगे हेतुरयम् ॥ तदर्थमुक्तमिति ॥ पूर्वोक्तिलब्धमेतदिति ज्ञेयम् । सूत्रे अर्थाभेदादित्यत्र पूर्वस्मात्सर्ववेदपदमनुवर्त्य सूत्रखण्डार्थं तावदाह ॥ सर्ववेदार्थेति ॥ अभेदादिति ॥ ऐक्यादित्यर्थः । सर्ववेदेषूपास्यपरमात्मनेति शेषः । अविभागेनेति फलितोक्तिः । कस्यापि गुणस्य त्यागमकृत्वेत्यर्थः ।

यद्वाऽभेदादित्यस्यैवार्थोऽविभागेनेति । परमात्मना विभागाभावेनेत्यर्थः । सर्ववेदेष्वेकस्यैव हरेरुपास्यत्वात्सर्ववेदोक्तगुणानां दोषाभावानां च तदभेदाद्धेतोर्वा तदविभागेन प्रकारेण वा कस्याप्यत्यागेनेति वोपसंहारः कार्य इत्यर्थः । सूत्रखण्डस्य भावार्थतया भाष्यं योजयति ॥ तथोपसंहृत्येति ॥ गुणदोषाभावानविभागेनोपसंहृत्यैकबुद्ध्यारूढान् कृत्वेत्यर्थः । विधिमुखवेद्या गुणा निषेधमुखवेद्या दोषा भावा इत्यग्रे व्यक्तम् । सूत्रे कर्मवदिति वाच्ये विधिशेषवदित्युक्त्या लब्धहेतुं वदन् विधिशेषाणीति स्मृत्यनुरोधेन सौत्रदृष्टान्तांशं व्याचष्टे ॥ यथेति ॥ शिष्यत इति शेषः । कर्मणि घञ्प्रत्ययः । विधिना विधायकश्रुत्या शिष्टं विहितं विधिशेषस् तद्वदित्यर्थः सूचितः । भाष्यस्थैवकारस्योपास्य एवेत्यन्वयमुपेत्योक्तम् ॥ कर्तव्यमेवेति ॥ परमात्मध्यानमित्यनुकर्षः । एवकारव्यावर्त्यरूपाकरणेऽर्थे विहितक्रियालोपप्रसङ्गादिति न्यायविवरणोक्तबाधकं संयोजयति ॥ अन्यथा विहितेति ॥ प्रसङ्गस्यानिष्टताद्योतनायानर्थप्राप्तेरित्युक्तम् । अनिष्टादिकारिणामित्य-त्रोक्तदिशा नरकादिप्राप्तेरित्यर्थः । एवं ध्याने कृते सत्येव विहितकृतिरन्यथा तु तल्लोप इत्यर्थस्य भाष्योक्तश्रुतावस्फुटत्वान्न्यायविवरणोक्तश्रुतिमाह ॥ तथा च श्रुतिरिति ॥

ननु प्राप्तेश्चेत्यत्र गुणैः सर्वैरुपास्योऽसौ ब्रह्मणेति वक्ष्यमाणस्मृत्योपसंहारस्य ब्रह्माधि-कारिकत्वात्तस्य च निधिर्वा धारणवदित्यादौ विधिनियता मनुष्या, अनियता देवा, ब्रह्मैव स्वेच्छा-नियत इत्यादिवक्ष्यमाणश्रुतिस्मृत्यादिबलेन ब्रह्मणः प्रत्यवायाभावात्कथं तेनोपसंहारकर्तव्यत्वोक्तिः । मैवम् । देवाधिकारिकबुहुगुणोपसंहारस्याप्यत्राभिमतेः । अदृश्यत्वादिगुणक इत्यत्राभावेऽपि गुणपदप्रयोगेन दोषाभावस्यापि गुणत्वाद्भाष्ये कथं पृथगुक्तिः क्रियारूपधर्मानुक्तिश्चेत्यतोऽ-वान्तरोपाधिभेदात्पृथगुक्तिरित्याह ॥ अत्र गुणा इतीति ॥ वेदैरुपास्य इत्युक्तावपि प्रत्येकमपि वेदानामुपासनाहेतुत्वोपपत्त्या सम्भूय हेतुत्वस्य स्पष्टमप्रतीतेस्तल्लाभाय सर्वैरित्युक्तमिति भावेनाह ॥ वेदैरित्यस्य विवरणं सर्वैरितीति ॥ अन्यथा प्रकृतानुपयोगादिति भावः ॥ स्मृतिमाहेति ॥ तदर्थस्तु यजेत इत्यादिविधिविषयत्वेन विधिशेषाणि कर्माणि ज्योतिष्टोमादीनि । अथवा प्रधान-विधिशेषभूतानि कर्माणि विधिशेषाणि प्रयाजादीनि सर्वैर्वेदैः सम्भूयोदितानि सर्वैः शाखिभिरिति तत्वप्रदीपोक्तेः । समानपदार्थमाह ॥ भगवति योग्या इति ॥ योग्यत्वज्ञानं केन धर्मेणेत्यत उक्तम् ॥ पूर्णत्वाविरोधिनस्त एवेति ॥ सूत्रभाष्ययोश्चोऽवधारण इति भावः । ‘सोऽरोदी-द्यदरोदीत्तद्रुद्रस्य रुद्रत्वं, रुद्रस्य त्वेव धनुरार्त्निश्शिर उत्पिपेष’ इत्यादौ तदधीनत्वादर्थवद् इत्युक्त-न्यायेन रोदनस्वातन्त्र्यादय उपसंहार्या न रोदनादय इत्यर्थः ॥ स्मृतिमिति ॥ स्मृतौ पूर्णत्व-विरोधिनः मितभुक्त्वादयो ग्राह्याः । स्मृतावयोग्यपदाभावादाह ॥ तथा च साङ्कर्षणसूत्रमिति ॥

अभिनवचन्द्रिका

सार्वत्रिकगुणेति ॥ सार्वत्रिकगुणोपसंहारस्य असम्भावनां निराकृत्य समर्थनादित्यर्थः । एतेनास्मिन्नधिकरणेऽनुपसंहारस्यापि वक्ष्यमाणत्वाद् विशिष्य गुणोपसंहारसमर्थनादिति कथन-मयुक्तमिति परास्तम् ॥ तदभाव इति ॥ समर्थनाभावे सर्वज्ञानस्य वैयर्थ्यप्रसङ्गाद् उपसंहार-लक्षणप्रयोजनेन यत्सफलत्वं तदभावप्रसङ्गादित्यर्थः । तेन सर्वपरिज्ञानस्य संशयविपर्ययनिरासेन स्वयोग्यध्यानाधिकारार्थत्वात्, ‘वैयर्थ्यप्रसङ्गात्’ इत्ययुक्तमिति परास्तम् । ननु दोषाभावानामपि गुणत्वात्कथं पृथग्ग्रहणमित्यतः कुरुपाण्डवन्यायेनेति भावेनाह– अत्र गुणा इति ॥ तदपवाद-माहेति ॥

ननु इदमपवादाभिधानमयुक्तम् । प्राप्त्यभावात् । तथा हि वेदोक्तगुणा उपास्या इति ह्युक्तम् । न च रोदनादयो वेदोक्ताः । तेषां दोषत्वेन वेदतात्पर्याविषयत्वात् । तदुक्तम् ‘तात्पर्यं नैव दूषणम्’ इति । ततश्चापवादो व्यर्थ इति चेत्, सत्यम्, वेदोक्तस्यार्थस्योपसंहारवचने रोदनादीनामुपसंहार-स्याऽनुक्तत्वादपवादो व्यर्थस् तथापि वेदतात्पर्यविषयीभूतस्यैवोपसंहार इति इममर्थं दृढीकर्तुं सूत्रकार उपसंहारोऽर्थाभेदाद्विधिशेषवदिति सूत्रखण्डेन वेदप्रतीतार्थस्य सामान्येनोपसंहारमुक्त्वा ‘समाने च’ इति खण्डेनोपस्थितापवादमाह । न चास्मिन्पक्षे रोदनादीनामुपसंहारप्राप्तिरस्ति । तत्प्रापकस्य वेदप्रतीतत्वस्याऽऽनन्दादिगुणेष्विवाऽत्रापि भावात् । भाष्ये गुणैरपि न तूपास्य इति । येऽन्येषां गुणास् तज्जातीयैरपि भगवान्नोपास्यः, के ते यैर्नोपास्य इत्यत उक्तं ये पूर्णत्वविरोधिन इति । रजतजनकरोदनं रुद्रस्य गुणोऽपि ईश्वरस्य दोषत्वान्नोपासनायोग्यमिति भावः । टीकायाम् अचेतनेति ॥ अचेतं न च पाषाणादि, असत्यं शशविषाणादि, तथा उपास्यायोग्यो गुणश्चेत्येतानि अनुपास्यानि । अचेतनासत्योपासनयोरफलत्वात्, तृतीयस्यानर्थहेतुत्वादिति साङ्कर्षणसूत्रार्थः ।

वाक्यार्थमुक्तावली

तदभाव इति ॥ अनेन पूर्वाधिकरणोक्तस्य सर्वपरिज्ञानस्य वैय्यर्थ्यपरिहारादनन्तरसङ्गति-रित्युक्तं भवति ॥ किं सर्वेति ॥ अत्र परमात्मा सर्वगुणाननुपसंहृत्य ध्यातव्य उतोपसंहृत्येति चिन्ता । तदर्थं तदशक्यमप्रामाणिकमुत शक्यं प्रामाणिकं वेति ॥ ध्यानविधेरिति ॥ तेन मन्तव्यो निदिध्यासितव्य इति सामान्यविधेरित्यर्थः । पूर्वपक्षयतीति । अशक्यत्वमित्युक्तन्यायप्रदर्शन-पूर्वकमिति ग्राह्मम् । सर्वैरित्यस्य सर्वविधैः करणभूतैरित्यर्थमभिप्रेत्योक्तं सर्ववेदोक्तेति । सर्वैरनुपास्य इत्यपि सम्बन्धः । सर्वैगुणैर्नोपास्यः । तत्तात्पर्यमाह ॥ सर्वगुणेति ॥ अशक्यत्वादिति । युगप-त्स्वभुजवत्सर्वगुणानामेकबुद्ध्यारोहस्याशक्यत्वादित्यर्थः । सूत्रे सर्ववेदान्तेत्यतः सर्ववेदेत्यस्यावृत्तिः । अर्थशब्दश्च गुणदोषाभावपरः । सर्ववेदार्थाभेदादुपसंहार इत्यन्वय इत्यभिप्रेत्य सर्ववेदेत्यादिभाष्यं प्रवृत्तमित्याशयेनाह ॥ सर्ववेदार्थभूतानामिति ॥ अविभागेनैते उपास्याः । एते नोपास्या इति विभागं विना सूत्रे उपसंहारपदेन न केवलमुपसंहार एव ग्राह्यः । किन्तु तत्पूर्वकोपासनमपि गृह्यत इति भावेन भाष्ये उपसंहृत्यैव परमात्मा उपास्य इत्युक्तम् । तद्भावमाह । उपसंहारः कर्तव्यः ॥ तथोपसंहृत्यैवेति ॥ विधिशेषवदित्यत्र शिष्यन्त इति शेषाणि । विधिभिः शेषाणि विधिशेषाणि । कर्माणि वेति दृष्टान्तोक्त्यैव श्रुतिविहितत्वादिति हेतुः सूचित इत्याशयेन भाष्ये उपास्य इति उपासनाविधायकश्रुत्युदाहरणमिति भावेन विधिशेषाणीति स्मृत्यनुसारेण विधिशेषवदिति सूत्रखण्ड- तात्पर्यं वदन् विधिक्रियेत्युक्तन्यायमप्यारूढं दर्शयति ॥ कुत इत्यादिना ॥

ननु क्रियादिसङ्ग्रहाय गुणपदस्य धर्मपरत्वे वाच्ये तेनैव दोषाभावग्रहणसम्भवाद् व्यर्थं पृथगुक्तिरित्यत आह ॥ अत्र गुणा इति ॥ यद्वा समाने च इति सर्वगुणोपसंहारमुक्त्वा तदपवाद उच्यते स न युक्तः । अत्र सर्ववेदोक्तगुणोपसंहारस्य कर्तव्यत्वोक्त्या रोदनादिदोषाणामुत्सर्गतः प्राप्त्यभावादयुक्तः । यद्यत्र गुणपदेन वेदोक्तभावरूपधर्ममात्रग्रहणं विवक्षित्वा दोषाणां प्राप्तिरभिप्रेयते तथापि समाने चेत्यपवादो व्यर्थः । अर्थपदेन दोषाभावस्य गृहीतत्वेन तेनैव तदपवादलाभादित्यत आह ॥ अत्र गुणा इति ॥ गुणपदेन वेदोक्तभावरूपधर्ममात्रग्रहणादस्ति रोदनादीनां दोषाणा-मुत्सर्गतः प्राप्तिः । दोषाभावपदेनाभावरूपधर्मग्रहणान्न तेन दोषापवादः । तथा च गुणदोषा-भावपदाभ्यां भावाभावरूपवेदोक्तयावद्धर्मोक्त्या रोदनमिति भुक्त्यादीनां भावरूपधर्माणामत्य-शनित्वाभावादीनामभावरूपधर्माणां चोपसंहारप्रसक्तौ समाने चेत्यनेन पूर्णत्वाविरोधिनां भावरूप-धर्माणामभावरूपधर्माणां चोपसंहारः । न तु तद्विरोधि रोदनादिभावरूपाणां बहुभोक्तृत्वाभावाद्य-भावरूपधर्माणां चोपसंहार इत्यपवादो वर्तिष्यत इति भावः ।

ननु ‘वेदैश्च सर्वैः सह चेतिहासैः’ इत्यत्र वेदादिभिरुपास्यत्वमुच्यते तत्र वेदादिप्रतीतगुणै-रुपास्यत्वमेव विवक्षितम् । तथा च सर्वैर्गुणैस्तत्र तत्र प्रतीतैरिति पुनरुक्तमित्यत आह ॥ वेदैरित्यस्येति ॥ प्रतीकग्रहणमेतत् । वेदैश्च सर्वैः सह चेतिहासैः सपञ्चरात्रैः सपुराणैश्चेत्यस्य सर्वैर्गुणैस्तत्र तत्र प्रतीतैरित्यनेन पूर्वोक्तं व्याचष्टे ॥ श्रुतिरिति ॥ भावबोधादौ तु ‘वेदैश्च सर्वैः’ इत्यत्र वेदैरित्यस्य सर्वैरिति विवरणम् । अन्यथा बहुवचनस्य त्रित्वे पर्यवसानं स्यादिति भाव इत्युक्तम् ॥ गुणोपसंहारमुक्त्वेति ॥ भावरूपधर्मोपसंहारमुक्त्वेत्यर्थः ॥ समाना भगवति योग्या इति ॥ अस्य पुरुषस्येयं भार्या समानेत्युक्ते योग्येत्येवार्थप्रतीतेरिति भावः ॥ न त्वयोग्या इति ॥ एतेन सौत्रश्चशब्दोऽवधारणार्थ इत्युक्तं भवति । गुणैरेव स तूपास्य इत्यस्यायमर्थः । उपास्यतया सामान्यत उक्तानां भावरूपधर्माणां मध्ये गुणैरानन्दादिभिरेवोपास्यः न तु ये पूर्णत्वविरोधिनो रोदनादयस्तैर्दोषैरुपास्यः । गुणैरुपास्य इत्यत्राप्यपवादमाह । ये पूर्णत्वविरोधिनो मितभुक्त्वा-दयस्तैर्गुणैरपि न तूपास्यः । मितभुक्त्वस्य लोके गुणत्वेऽपि ईश्वरे पूर्णत्वविरोधित्वात् । ईश्वरे बहुभुक्त्वस्यैव गुणत्वादिति । तदुक्तं ‘बहुभुक्त्वं यथा दोषो नृषु नैव हरेः क्वचित्’ इति ।

ततश्चायं सूत्रार्थः, सर्ववेदोक्तानामर्थानां भावाभावरूपाणामभेदाद् एते उपसंहर्तव्या एते नैवोपसंहर्तव्या इति विभागमन्तरेणोपसंहारः युगपद्बुद्धावारोपलक्षणः कार्यः । उपसंहृत्य च परमात्मा तद्गुणात्मकत्वेनोपास्यः । कुतः । विधिशेषवद् विधिशिष्टसन्ध्यावन्दनादिवद् ध्यानस्यापि विहित-त्वात् । स चोपसंहारः समाने योग्ये एव पूर्णत्वाविरोधित्वेन न तु तद्विरोधिषु रोदनादिष्विति ।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिमाह ॥ तदभाव इति ॥ सर्वगुणोपसंहारसमर्थनाभाव इत्यर्थः । तथा च पूर्वाधिकरणोक्तसर्वपरिज्ञानस्य वैयर्थ्यपरिहारादनन्तरसङ्गतिरिति भावः ॥ उभयेपीति ॥ सर्वगुणोप-संहारेऽनुपसंहारे चेत्यर्थः ॥ तथाविधस्येति ॥ सर्ववेदोक्तगुणविधायकस्येत्यर्थः । सर्ववेदोक्त-गुणोपसंहारस्याशक्यत्वादिति भावः । नन्वेवं तर्हि सर्ववेदोक्तगुणज्ञानमप्यशक्यत्वादेवानुपपन्नमिति कथं सर्ववेदान्तप्रत्ययं ब्रह्मेत्युक्तमित्याशङ्क्याह ॥ ज्ञानं त्विति ॥ सूत्रे सर्ववेदान्तेत्यस्यानुवृत्तिर् अथशब्दश्च गुणदोषाभावपरः । एवं चार्थाभेदादुपसंहार इत्यभिप्रेत्य सर्ववेद इत्यादिभाष्यं प्रवृत्त-मित्याशयेनाह ॥ सर्ववेदार्थभूतानामिति ॥ सूत्रे न केवलम् उपसंहार एव ग्राह्यः किं तु योजयित्वैव भगवानुपास्य इति स्मृत्यनुसारेणोपसंहृत्य उपासनामपि ग्राह्यमित्यभिप्रेत्योपसंहृत्यैव परमात्मोपास्य इत्युक्तमित्याशयेनाह ॥ तथोपसंहृत्यैवेति ॥

सूत्रे विधिशेषवदिति दृष्टान्तोक्त्यैव श्रुतिविहितत्वादिति हेतोः सूचित इत्याशयेन वा भाष्ये उपास्य इत्युपासनाविधायकश्रुत्युदाहरणमित्यभिप्रेत्य विधिशेषवदिति सूत्रांशतात्पर्यमाह ॥ यथाविधिप्राप्तत्वादिति ॥ एवं च विधिशेषवदित्यस्य विधिशिष्टवद्विधिविहित सन्ध्यावन्दनादि-वदित्यर्थः ॥ अन्यथेति ॥ विहितस्याकर्तव्यत्वेत्यर्थ इष्टापत्तिपरिहारार्थम् अनर्थप्राप्तेरित्युक्तम् । अन्यथाविहितक्रियाऽयोग इत्यत्र श्रुतिमाह ॥ तथा चेति ॥ ननु सर्ववेदोक्तान् गुणानिति भाष्ये गुणशब्दस्य क्रियादिसङ्ग्रहार्थं धर्ममात्रस्यावश्यकत्वात् तेनैव दोषाभावस्यापि सङ्ग्रहोपपत्तौ किमर्थं दोषाभावानां पृथग्ग्रहणम् इत्यत आह ॥ अत्र गुणा इति ॥ वेदैरित्यस्यैव विवरणमिति । वेदैरिति बहुवचनस्य त्रित्वेऽपि सम्भवादिति भावः ॥ भगवति योग्या इति ॥ समाः । पदार्थमुक्त्वा ये पूर्णत्वविरोधिन इति स्मृत्यनुसारेण तात्त्पर्यमाह ॥ पूर्णत्वविरोधिन एवेति ॥ ते एवेति ॥ अनेन सूत्रभाष्ययोश्चशब्द एवार्थः ॥ न त्वयोग्या इति ॥ रोदनादीनां दुःखकार्यत्वेन पूर्णत्व-विरोधित्वादयोग्यमित्यर्थः ॥ अचेतनासत्येति ॥ अचेतनं चेतनादन्यद् अयोग्यम् असत्यम् अतात्विकम् एतानि नोपास्यानि । अफलत्वविपर्ययाभ्यामित्यर्थः ।

वाक्यार्थविवरणं

वैय्यर्थेति ॥ सर्वशाखापरिज्ञानस्य सार्वत्रिकगुणोपसंहारार्थकत्वात् । तस्य कर्तव्यत्वाभावे तद्वैय्यर्थ्यमेवेति भावः ॥ यद्ध्यानेति ॥ यत्कर्मध्यानेत्यर्थः । ध्यातव्यस् तद्वत्त्वेनेति शेषः । एकस्मिन्नेव प्रकरणे सर्वगुणोक्तिसम्भावनार्थपरिहाराय सूत्रे परोवरीयस्त्वादिवदित्युदाहरणमुक्तम् । ‘तत्र तस्येव’ इति सप्तम्यर्थे वतिरित्याशयेन भाष्ये परोवरीयस्त्वादिष्वित्युक्तम् । एकस्मिन् प्रकरणे सर्वगुणोक्तिसम्भावना न कार्या । यथा परोवरीयस्त्वादिप्रकरणे ‘तावदेव ह्युक्तं’ न सर्वगुणजात-मित्यर्थः ।

वाक्यार्थमञ्जरी

सार्वत्रिकेति ॥ सर्वशाखोक्तेत्यर्थः ॥ उपसंहारेति ॥ तत्र तत्रोक्तान्बुद्ध्या युगपत्सङ्गृह्य भगवति योजनेत्यर्थः । ध्यानविधेर् निधिध्यासितव्य इत्यस्य ॥ तथाविधेति ॥ सर्ववेदोक्त-गुणविषयकस्येत्यर्थः । सर्ववेदोक्तगुणोपसंहारस्याशक्यत्वादिति भावः ॥

अर्थाभेदात् सर्ववेदार्थानां गुणादीनामभेदेनाविभागेन सर्वानविहायेति यावत् । उपसंहारः कार्यः कुतः विधिशेषवद् विधिभिः शिष्यन्त उपदिश्यन्त इति विधिशेषाणि विध्युक्तकर्माणि सर्ववेदोक्तानि यथा विहितत्वात्क्रियन्ते तद्वदुपसंहारोऽपि कार्यः । सचोपसंहारः समाने च योग्यगुणविषय एव कार्य इत्यर्थः । तथाऽविभागेन अन्यथा विहितक्रियालोप इत्येतत्कुत इत्यत आह ॥ तथा च श्रुतिरिति ॥ विद्वांस्तेनैव विधिकृत्स्यान्नान्यथेत्यन्वयः । ननु सर्ववेदोक्तगुणानित्यत्र गुणशब्दो धर्ममात्रपरो ऽन्यथा क्रियाद्यसङ्ग्रहापत्तेः । दोषाभावोऽपि धर्म एव अतः कथं पृथग्ग्रहणमित्यत आह ॥ अत्र गुणा इतीति ॥ वेदैरित्यस्येति ॥ वेदैरिति बहुवचनस्य त्रित्वेऽपि सम्भवादिति भावः । समानशब्दार्थमुक्त्वा तत्तात्पर्यमाह ॥ पूर्णत्वाविरोधिन इति ॥ न त्वयोग्या इति ॥ रोदनादीनां दुःखकार्यत्वेन पूर्णत्वविरोधित्वादयोग्यत्वमिति भावः ॥ अचेतनेति ॥ अचेतनादीनि त्रीण्यनुपास्यानि कुतः निष्फलत्वाद्विपरीतफलत्वाच्चेत्यर्थः ।


ॐ अन्यथात्वं (च) शब्दादिति चेन्नाविशेषात् ॐ

सूत्रभाष्यम्

॥ ॐ अन्यथात्वं (च) शब्दादिति चेन्नाविशेषात् ॐ ॥ ७ ॥

‘आत्मेत्येवोपासीत’(बृ.उ.३-४-७)इतिशब्दादुपसंहारस्यान्यथात्वमिति चेन्न । एते गुणा नोपास्या इति विशेषवचनाभावात् ॥

‘सर्वैर्गुणैरेक एवेशिताऽसावुपासितव्यो न तु दोषैः कदाचित्’इति विशेषवचनाच्च । आत्मेत्यवधारणमनात्मत्वनिवृत्त्यर्थम् ॥

तत्त्वप्रदीपिका

अन्यथात्वमित्यादिसूत्रम् ॥ ‘आत्मेत्येवोपासीत’इत्यवधारणादेतावदेवोपासीत नाधिक-मित्यवगमादुपसंहारस्याकर्तव्यत्वमिति चेन्न । एते गुणा नोपास्या इति विशेषवचनाभावात् । अवधारणमेव तदिति चेन्न । अन्यार्थत्वात् । आत्मेत्येवोपासीत भगवन्तं न त्वानात्मेत्ययोग व्यवच्छेदार्थत्वात् ।

तत्त्वप्रकाशिका

उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे ॥ अन्यथात्वमिति ॥ यदुक्तं सर्वगुणोपसंहारस्य कर्तव्यत्वं तदयुक्तम् । ‘आत्मेत्येवोपासीत’ इत्युपसंहारवदनुपसंहारस्यापि विहितत्वात् । अतः सर्वगुणोपसंहारे विहितक्रियालोपप्रसङ्गात्तस्याकर्तव्यत्वमिति भावः । परिहारांशं व्याचष्टे ॥ नेति ॥ न सर्वगुणोपसंहाराभावः ॥ तथा हि ॥ किमसौ प्रामाणिकत्वादङ्गीक्रियते सर्वगुणोपसंहारे प्रमाणाभावाद्वा । नाद्यः । एते गुणा नोपसंहर्तव्या इति विशेषप्रमाणाभावात् ॥ नापि द्वितीयः ॥ सर्वैगुणैरिति श्रुतेरेव विद्यमानत्वादिति भावः । नन्वात्मत्वावधारणादेवैतदन्ये गुणा नोपास्या इति सिद्ध्यतीत्यत आह ॥ आत्मेति ॥ निरवकाशश्रुतिविरोधात्सावकाशा-वधारणस्य नान्ययोगव्यवच्छेदकत्वमिति भावः ।

गुर्वर्थदीपिका

‘आत्मेत्येवोपासीत’इति श्रुतावन्ययोगव्यवच्छेत्रैवकारेणान्योपासनस्य प्रतिषेधोऽपि कृत इति भावेनोक्तम् अनुपसंहारस्येति । गुणान्तरानुपसंहारस्येत्यर्थः । किमसावित्यत्र असौ गुणान्तरानुपसंहार इत्यर्थः । सावकाशावधारणस्येत्यत्र चतुर्मुखपक्षे आत्मपदेन सर्वगुणानामपि ग्रहणेन व्यवच्छेद्य-गुणान्तराभावादात्मत्वेनैवोपास्य इत्येवकारस्य विशेषणसङ्गतिं कृत्वा न त्वनामत्वेनोपास्य इत्यात्मत्वायोगपरत्वेनापि सावकाशत्वान्नान्ययोगव्यवच्छेदकत्वं न सजातीयगुणान्तरव्यवच्छेद-कत्वमित्यर्थः ।

भावबोधः

अनुपसंहारस्यापि विहितत्वादिति ॥ तथा च ‘विधिविशेषवत्’ इत्यनेनोक्तविहितत्वहेतुः सत्प्रतिपक्ष इत्यर्थः ॥ विशेषप्रमाणाभावादिति ॥ अनेनानुपसंहारसाधकविहितत्वहेतोरसिद्धिरुक्ता भवति ॥ नान्ययोगव्यवच्छेदकत्वमिति ॥ अनेनावधारणस्यान्यथासिद्धिं वदता विशेषप्रमाणाभावः समर्थितो भवति ।

भावदीपः

उक्तमाक्षिप्येत्युक्तं व्यञ्जयन् भाष्यं व्याचष्टे ॥ यदुक्तमित्यादिना ॥ अवधारणेन एतावदेवोपासीत नाधिकमित्यवगमादनुपसंहारस्य विहितत्वमिति भावः ॥ अत इति ॥ अनुप-संहारस्यापि विहितत्वादित्यर्थः । एतेन भाष्ये शब्दादित्यनन्तरमनुपसंहारस्यापि विहितत्वादिति शेषो दर्शितः । तस्य हेतोः साक्षात्साध्येनानन्वयान्न्यायविवरणोक्तमेव हेतुमत्रापि संयोजयति ॥ विहितक्रियेति ॥ अन्यथात्वमित्यस्यार्थोऽकर्तव्यत्वमिति । एतेनोपसंहारः कार्यो विहितत्वा-ज्ज्योतिष्टोमादिवदिति प्रागुक्तानुमाने तर्कपराहतिरुक्ता भवति । भाष्योक्तहेतुद्वयं विकल्पमुखेन विवृणोति ॥ किमसाविति ॥ उपसंहाराभाव इत्यर्थः । कल्पकाभावमाशङ्क्याह ॥ निरवकाशेति ॥ एतेनानुपसंहारस्य विधानाभावादुपसंहारकर्तव्यत्वानुमाने तर्कपराहतिरुद्धृता भवति । एतेनैव ‘आत्मेत्येवोपासीत’ इति श्रुतिविरोधोऽप्युक्तानुमानस्यापोढो भवति ।

अभिनवचन्द्रिका

अनुपसंहारस्यापि विहितत्वादिति ॥ कतिपयमात्रगुणोपसंहारस्यापि विहितत्वादित्यर्थः । विहितक्रियालोपप्रसङ्गादिति ॥ विहिताया आत्मत्वमात्रगुणोपसंहारलक्षणक्रियाया लोपप्रसङ्गात् । त्यागप्रसङ्गादित्यर्थः । किमसाविति ॥ यद्यपि अनुपसंहारस्य प्रामाणिकत्वं परेणोक्तमिति प्रश्नायोगः, तथापि परोक्तस्य प्रमाणस्याऽनुपसंहारार्थत्वाभावात् तद्वाक्यं परोक्तार्थे प्रमाणमेव न भवतीति द्योतनाय प्रश्नः कृतः । नायं सर्वगुणोपसंहारो युक्त इति । केनापि सर्वथा न सर्वगुणोप-संहारः कर्तव्यः । अशक्यत्वादित्याशङ्कां येषां न सर्वगुणोपसंहारे शक्तिर् नास्त्येव, तेषां सर्व-गुणोपसंहार इति केषाञ्चिदधिकारिणामनुपसंहारमभ्युपगम्य, शक्तानां तु सम्भवत्येव सर्वगुणोपसंहार इति गूढाशयेन परिहरत्सूत्रमुपन्यस्येत्यर्थः । एतेन यद्यभ्युपगमः न तर्हि परिहारः, यदि परिहारः न तर्ह्यभ्युपगम इति, अभ्युपगमश्च परिहारश्चेति माता वन्ध्येतिवद्व्याहतमिति परास्तम् । अभ्युपगम-परिहारयोर्भिन्नविषयत्वाङ्गीकारात् ।

वाक्यार्थमुक्तावली

सूत्रे उपसंहार इत्येतत्पदमुपसंहारस्येति षष्ठ्यन्ततयानुवर्तते । चोऽप्यर्थः । उपसंहार-स्यान्यथात्वमकर्तव्यत्वं कुतः । अनुपसंहारस्यापि शब्दविहितत्वात् । तथा च विधिशेषवदित्यनेन उक्तो हेतुः प्रकरणसम इति भावेन व्याचष्टे ॥ यदुक्तमित्यादिना ॥ अनुपसंहारस्येति ॥ आत्मे-त्येवोपास्येत्यवधारणात् सर्वाधिकारिसाधारणं स्वामित्वमात्रमुपासीत नातोऽधिकमित्यवगमादिति भावः । अविशेषादिति भिन्नपदत्वमभिप्रेत्य विशेषवचनाभावादित्युक्तम् । नाविशेषादित्येकपदत्वं न समासं विशेषवचनाभावस्याभावो नाविशेष इत्यर्थं चाभिप्रेत्य विशेषवचनादित्युक्तमित्यभिप्रेत्य व्याचष्टे । तथा हीत्यादिना । अनात्मत्वनिवृत्त्यर्थमिति भाष्यस्य आत्मत्वव्यतिरेकनिवृत्त्यर्थोऽनु-सन्धेयः ॥ नान्ययोगेति ॥ उत्तमाधिकारिणः प्रतीति भावः । यद्वा अन्ययोगव्यवच्छेदकत्वमात्रं नेति भावः । तेनान्ययोगव्यवच्छेदकत्वस्य वक्ष्यमाणत्वाद् विरोध इति निरस्तम् ।

तत्त्वसुबोधिनी

अनुपसंहारस्यापीति ॥ तथा च विधिशेषवदित्यनेनोक्तविधिविहितहेतुः सत्प्रतिपक्ष इत्यर्थः ॥ तस्येति ॥ उपसंहारस्येत्यर्थः ॥ विशेषप्रमाणाभावादिति ॥ एवं चानुपसंहारसाधकविहितत्वहेतोर् असिद्धिरुक्ता भवति ॥ नान्ययोगव्यवच्छेदकत्वमिति ॥ अनेनावधारणस्यान्यथासिद्धिं वदता विशेषप्रमाणाभावः समर्थितो भवति ।

वाक्यार्थमञ्जरी

शब्दाद् आत्मेत्येवेत्यवधारणश्रुतेर् अन्यथात्वं प्रागुक्तसर्वोपसंहारस्याकर्तव्यत्वमिति चेन्न अविशेषाद् एते गुणा नोपसंहार्या इति विशेषप्रमाणाभावादित्यर्थः ॥ अनुपसंहारस्यापीति ॥ अवधारणस्यान्ययोग्यव्यवच्छेदकत्वेन सर्वोपसंहारनिषेधकत्वेन निषेधस्यैव सर्वानुपसंहार-विधित्वादिति भावः ॥ सावकाशेति ॥ अयोगव्यवच्छेदकत्वेन सावकाशेत्यर्थः ।