ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ
ब्रह्मसूत्रभाष्यम्
अथ तृतीयाध्यायस्य तृतीयः पादः
सर्ववेदा(न्तप्रत्यया)धिकरणम्
सूत्रभाष्यम्
उपासनाऽस्मिन्पाद उच्यते । सर्वपरिज्ञानं प्रथमत उच्यते —
॥ ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ॥ १ ॥
अन्तो निर्णयः । ‘उभयोरपि दृष्टोऽन्तः’ (भ.गी.२-१६) इति वचनात् । सर्ववेद-विनिर्णयोत्पाद्यज्ञानं ब्रह्म । ‘आत्मेत्येवोपासीत’ (बृ.उ.३-४-७) इत्यादिविधीनां तदुक्त-युक्तीनां चाविशिष्टत्वात् ॥
श्रीत्रिविक्रमपण्डिताचार्यविरचिता तत्त्वप्रदीपिका
भक्तानामधिकारिणां भगवदुपासनाप्रकारोऽस्मिन्पाद उच्यते । सा चोपासना द्विविधा ।
‘सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी ।
ध्यानरूपाऽपरा चैव तदङ्गं धारणादिकम्’ इति ह्यनुव्याख्याने ॥
‘ऋतं च स्वाध्यायप्रवचने च’ इत्यादिना स्वाध्यायप्रवचने सर्वत्रानुगमयित्वा ‘स्वाध्यायप्रवचने एवेति नाको मौद्गल्यस्तद्धि तपस्तद्धि तपः’ इति च श्रुतिः ॥
‘सम्यग्ज्ञात्वा तु यो विष्णुं व्याख्यायीत जपेत च ।
न तस्य किञ्चिदकृतं कर्तव्यं मुच्यते च सः’ इति च कर्मतत्वे ॥
‘सिद्धोपायेन विष्णोस्तु ध्यानव्याख्यार्चनादिकम् ।
कार्यं नान्यत् तस्य तेन तुष्ठो भवति केशवः’ इति प्रवृत्ते ॥
‘ज्ञात्वाऽपि विष्णुं तस्य स्याच्छास्त्रं श्रुत्वा ततोऽधिकम् ।
मुक्तौ सुखं तत्पठतस्ततोऽप्यधिकमिष्यते ॥
व्याख्यातुस्तु समं मुक्तौ सुखं नान्यस्य कस्यचित् ।
ततोऽधिकं तु देवानां मुख्यव्याख्याकृतो यतः’ इति पाद्मे ॥
सा चोपासना ज्ञानपूर्विकेति ब्रह्मणः परिज्ञानं प्रथमतोऽपेक्ष्यम् । तच्च सर्ववेदार्थपरिज्ञानात्मकम् । सर्ववेदार्थरूपत्वाद्ब्रह्मणः । अतः सर्ववेदार्थपरिज्ञानं प्रथमत आपादनीयमाचार्यसेवापूर्वकश्रवण-मननाभ्याम् । तत्प्रथमत उच्यते ॥ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । सर्ववेदनिर्णयोत्पाद्यज्ञानं ब्रह्मेति । अयं भावः । सर्वान्वेदानधिगम्य तदर्थनिर्णयात्मकत्वेनोत्पाद्यं ब्रह्मज्ञानम् । निर्णयः शास्त्रश्रवणेनैव भवतीति तत्कार्यम् । ‘तस्मादेनं सर्ववेदानधीत्य विचार्य च ज्ञातुमिच्छेन्मुमुक्षुः’ इति हि श्रुतिमत्रैव दर्शयिष्यति । ‘आत्मेत्येवोपासीत’ ‘आत्मानमेव लोकमुपासीत’ ‘तमेवैकं जानथ’ ‘विज्ञाय प्रज्ञां कुर्वीत’ इत्यादिविधीनां, ‘अत्र ते सर्व एकं भवन्ति । स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते’ ‘अमृतस्यैष सेतुः’ ‘वाचो विग्लापनं हि तत्’ इत्यादिना तत्र तत्र विधिवाक्येषूक्तयुक्तीनां च सर्वशाखिनामविशिष्टत्वात् । ‘तमेवैकं जानथ’इति ‘पौर्णमासी निर्वपति’इतिवत् । न ह्येतदेतस्यैव शाखिन इति विशेषः प्रतीयते ।
श्रीजयतीर्थविरचिता तत्त्वप्रकाशिका
एतत्पादार्थं दर्शयति ॥ उपासनेति ॥ उपासना नाम ब्रह्मजिज्ञासा । सा च भक्तिसाध्यत्वाज् ज्ञानसाधनत्वाद् भक्त्यनन्तरं ज्ञानात्पूर्वमेवोच्यत इति भावः । आद्याधिकरणतात्पर्यमाह ॥ सर्वेति ॥ उपासना द्विविधा । समस्तस्च्छास्त्राभ्यासरूपा यामाहुः श्रवणमनने इति । ध्यानरूपा चेति । तत्राद्याया ध्यानाङ्गत्वात्सैव प्रथमाधिकरणे विधीयते । समस्तसच्छास्त्रश्रवणमननाभ्यां दूरोत्सारिताज्ञानसंशयविपर्ययस्यैव ध्यानाधिकारित्वादिति भावः । अत एवात्रास्ति शास्त्रादि-सङ्गतिः । आद्यसूत्रे श्रवणमनने कर्तव्ये इत्युक्तम् । तयोश्च सर्वशाखाऽविषयत्वेऽस्य शास्त्रस्य सर्वोपादेयताभावप्रसङ्गात्सर्वशाखाविषयत्वं समर्थनीयम् । वेदोदितं ब्रह्म विषयः । किमेकैकेनैव सर्वशाखोक्तं श्रवणमननाभ्यां ज्ञातव्यमुत स्वस्वशाखोक्तमिति पूर्वः पक्षः । प्रतिशाखमुच्य-मानानामर्थानां पृथक्त्वेन दर्शनात् । अन्यथा सर्वशाखास्वप्येकप्रकारोक्तिः स्यात् । सर्वज्ञानमन्तरेण च ध्यानानधिकारित्वे मन्दानां तदभावः स्यात् । अतः स्वस्वशाखागतार्थस्यैव ज्ञेयत्वान्नास्य शास्त्रस्य सर्वश्रुतिनिर्णायकस्य सर्वोपादेयतेति । सिद्धान्तयत्सूत्रं पठति ॥ सर्वेति ॥ उपनिषदो वेदान्तपदेनोच्यन्तेऽत्रेति व्याख्यानं पूर्वोत्तरविरुद्धमिति मन्वानोऽन्तशब्दं सप्रमाणकं व्याचष्टे ॥ अन्त इति ॥ समस्तसूत्रं व्याचष्टे ॥ सर्वेति ॥ पूर्वसूत्रे पूर्वपदोदितं ब्रह्म सर्ववेदनिर्णये-नोत्पाद्यज्ञानविषयः । किमुक्तं भवति । ध्यानार्थिना श्रवणमननाभ्यां सर्ववेदान्निर्णीय ज्ञातव्यमिति । कुतः । एवं काण्वैर्ज्ञातव्यमेवं माध्यन्दिनैरेवेति काण्वादिशाखास्वधिकारिविशेषनिर्देशाभावात् । स हि भवन् विधिसमीपे स्यात् । विधयश्च ‘आत्मेत्येवोपासीत’ इत्यादयः सर्वाधिकारिसाधारणा एव पठ्यन्ते । न च वाच्यं यथा कर्मविद्यायामधिकारी गृही कल्प्यते तथाऽत्राप्यधिकारिविशेषः कल्प्यतामिति । तत्र स्वर्गकामत्वादिकल्पकसद्भाववदत्र तदभावात् । कल्पकत्वं च ज्ञानविध्यर्थं तत्रोक्तयुक्तीनामत्र ‘ह्येते सर्व एकीभवन्ति’ इत्यादीनां सम्भवति । इतरांशस्य ज्ञेयादिप्रतिपाद-कत्वात् । युक्तयश्च सर्वाधिकारिसाधारणा एवातः सर्वं सर्वैज्ञातव्यमिति भावः ।
श्रीवादिराजतीर्थविरचिता गुर्वर्थदीपिका
ॐ पृथक्त्वेन दर्शनादित्यत्र ऋग्वेदिनां पुरुषसूक्ते एकप्रकारेण कथ्यते । यजुर्वेदिनां पुरुषसूक्ते तु ‘वेदाहमेतं पुरुषं महान्तम्’इत्यादिना बहूनि भिन्नार्थकानि वाक्यानि सन्ति । सर्वस्याप्येकाधि-कारिकत्वे तन्न स्यादिति भावः । उपनिषदो वेदान्तपदेनोच्यन्तेऽत्रेति व्याख्यानं पूर्वोत्तरविरुद्ध-मित्यत्र आदिसूत्रे ब्रह्मजिज्ञासां प्रतिज्ञाय केन जिज्ञासेत्याकाङ्क्षायां तृतीयसूत्रे शास्त्रेणेति निरूपितम् । शास्त्रं च ‘ऋग्यजुस्सामाथर्वाश्च भारतं पञ्चरात्रकम् । मूलरामायणं चैव शास्त्र-मित्यभिधीयत’ इति वचनाच्चत्वारोऽपौरुषेयवेदविद्याः, भारतपञ्चरात्रमूलरामायणाख्यपौरुषेय-विद्याश्च । अतः कथमुपनिषन्मात्रचर्चेति भावः । सर्ववेदानामन्तेन प्रत्ययो यस्येति बहुव्रीह्यर्थ-भूतषष्ठ्यर्थसम्बन्धस्य विषयविषयिभावरूपत्वाज् ज्ञानविषय इत्युक्तम् । इत्यादिविधीना-मित्यत्राऽऽदिपदेन ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्यादिविधिवाक्यं गृह्यते । आदिपदेन ‘यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म’ इति श्रुत्युक्तलोडन्तजिज्ञासा-विधिसमीपस्थमोक्षदायकत्वरूपार्थवादयुक्तीनां सङ्ग्रह इत्यर्थः । स्वर्गकामत्वादिकल्पकसद्भाव-वदित्यस्य वानप्रस्थानां च यतीनां च मुमुक्षुतया स्वर्गकामनाभावेन काम्यकर्मस्वधिकाराभावात् । ब्रह्मचारिणामध्ययनमात्राधिकारिणां काम्यकर्मस्वधिकाराभावात्स्वर्गकामत्वविशेषणेनादिपदोक्तेन अपत्नीकोऽग्निहोत्रं कथमेव जुहोति इत्यादिवाक्येन च यथा गृहस्थस्यैवाधिकारसिद्धिरित्यर्थः । कल्पकत्वं च विध्यर्थमित्यस्य ज्ञानविध्यर्थं कल्पकत्वमधिकारिकल्पकत्वं च । अत्र ‘आत्मेत्येवो-पासीत’ इत्यत्रोक्तात्मशब्देन एते वेदोक्तास्सर्वे गुणा एकीभवन्ति एकाकारतया प्रतिपाद्या भवन्तीत्याद्यानां तत्र समीपे उक्तानां रुच्युत्पादनायोक्तार्थवादरूपयुक्तीनां सम्भवतीत्यर्थः । इतरांशस्येत्यस्य एतद्विविधवाक्यशेषतयाऽनुक्तस्य ‘सहस्रशीर्षा’ इत्यादिवाक्यजातस्य ज्ञेय-परमात्मस्वरूपमात्रप्रतिपादकत्वान्नोक्ताधिकारिविशेषकल्पकत्वमित्यर्थः । युक्तयश्चेत्यस्य युक्तयः ‘अत्र ह्येते सर्व एकीभवन्ति’ इत्यादियुक्तयः सर्वाधिकार्यपेक्षितसकलगुणसमर्पकत्वा दुक्तविधौ सर्वेषामप्यधिकारित्वकल्पिका इत्यर्थः ।
श्रीरघूत्तमतीर्थविरचितस् तत्त्वप्रकाशिकाभावबोधः
‘अथ’ ‘ब्रह्मजिज्ञासा’पदाभ्यामुक्तं साधनजातमस्मिन्नध्याये विचार्यत इत्यभिप्रायेण साधन-विचारोऽयमध्याय इत्युक्तम् । तत्र ‘अथ’ शब्देनोक्तयोर्वैराग्यभक्त्योः पादद्वयेन विचारितत्वा-दवसरप्राप्ताज्ञानसाधनीभूता ब्रह्मजिज्ञासा अस्मिन् पादे उच्यत इति वक्तव्यम् । उपासनाऽस्मिन् पाद उच्यत इति कथमुक्तमित्यत आह– उपासना इति ॥ ‘तेनोपासा यदा भवेत् । आपरोक्ष्यं ततो विष्णोः’ इत्यनुव्याख्यानानुसारेण ‘अस्मिन्’ इत्यस्याभिप्रायमाह– सा चेति ॥ ननूपासना-प्रतिपादकेऽस्मिन् पादे सर्वपरिज्ञानोक्तिः कथं सङ्गता? तस्याप्युपासनत्वेन सङ्गतत्वेऽपि प्रथमतस्तदुक्तौ किं निमित्तमित्यतः ‘सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यान-रूपाऽपरा चैव’ इत्यनुव्याख्यानं मनसि निधाय सर्वपरिज्ञानमिति भाष्याभिप्रायमाह– उपासना द्विविधेति ॥
ननु श्रवणमनननिदिध्यासनानामेवोपासनात्वस्य जिज्ञासाधिकरणेऽभिहितत्वात् कथं सच्छास्त्राभ्यासस्याप्युपासनात्वमित्यत आह– यामाहुरिति ॥ श्रवणमननयोर्ध्यानाङ्गत्वमेवो-पपादयति– समस्तेति ॥ अत्र श्रवणं तत्त्वज्ञानमुत्पादयदज्ञानं निवर्तयति । मननं तु वेदार्थनिर्णयं कुर्वत्संशयविपर्ययौ निवर्तयतीति बोद्धव्यम् ॥ अत एवेति ॥ श्रवणमननयोरुपासनारूपत्वा-देवेत्यर्थः । पूर्वसूत्रे पूर्वपदोक्ते ब्रह्मणि सर्ववेदान्तप्रत्ययत्वं विचार्यत इत्यनन्तरसङ्गतिः । यद्वक्ष्यति पूर्वसूत्रे पूर्वपदोदितं ब्रह्मेत्यादि । कर्तव्ये इत्युक्तमिति । जिज्ञासापदेनेत्यर्थः ॥ किमेकैकेनेति ॥ अत्र ब्रह्म किमेकैकेनैव सर्वशाखोक्तं श्रवणमननाभ्यां ज्ञातव्यमुत स्वस्वशाखोक्तमिति चिन्ता । तदर्थं प्रतिशाखमुच्यमानानामर्थानां पृथक्त्वं सर्वशाखोक्तज्ञानसाधकचोदनाद्यविशेषबाधकं न भवत्युत भवतीति । तदर्थं प्रतिशाखमुच्यमानानां पृथक्त्वं सर्वशाखाध्ययनाद्यभावरूपयुक्त्युपबृंहितं न भवत्युत भवतीति । तदर्थं सर्वशाखाध्ययनाद्यभावो ऽशक्तिनिबन्धनो न भवत्युत भवतीति । तदर्थं चोदनाद्यविशेषरूपोपपत्तेर्बाधकत्वेनोपन्यस्तानां सर्वशाखाध्ययनाभावादीनामन्यथाकरणे मूल-प्रमाणं नास्त्युतास्तीति ॥ सामान्योक्तिरिति ॥ ब्रह्मजिज्ञासा कर्तव्येति सामान्योक्तिरित्यर्थः । ‘भेदान्नेति चेत्’ इति सौत्रपूर्वपक्षप्रदर्शनपरं प्रतिशाखमुच्यमानानामर्थानां पृथक्त्वात्तत्तच्छाखिभिरेव तत्र तत्रोक्तं ज्ञेयमिति नियम इति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– स्वस्वेति ॥ अनेन तत्तच्छाखिभिरित्यादिसाध्यप्रतिपादकांशो व्याख्यातः । प्रतिशाखमित्यनेन हेत्वंशो व्याख्यातः । दर्शनादित्यनेन ‘पृथग्दृष्टिः’ इत्यनुव्याख्यानानुसारेण न्यायविवरणे पृथक्त्वपदं तद्दर्शनोपलक्षक-मित्युक्तं भवति । हेतुच्छित्तिरूपविपक्षबाधकतर्कमाह– अन्यथेति ॥ ‘सलिलवच्च तन्नियमः’ इति सूत्रनिवर्तनीयं बाधकमाह– सर्वज्ञानमिति ॥ पूर्वोत्तरविरुद्धमिति ॥ पूर्वं प्रथमाध्याये मन्त्र-ब्राह्मणादिरूपस्य सर्वस्य वेदस्य समन्वयस्योक्तेः ‘उपसंहारोऽर्थाभेदात्’ इत्याद्युत्तरत्रापि सर्व-वेदोक्तप्रकारेण ध्यानस्य वक्ष्यमाणत्वादत्रापि सर्ववेदपदेन मन्त्रादिरूपस्य सर्ववेदस्य ग्राह्यत्वात् ‘सर्ववेदान्त’ इत्येकं पदमङ्गीकृत्योपनिषन्मात्रग्रहणं पूर्वोत्तरविरुद्धमित्यर्थः । सूत्रे सर्ववेदानामन्तेन प्रत्ययो यस्येति व्यधिकरणो बहुव्रीहिः । अन्तपदार्थश्च ब्रह्मेत्यभिप्रेत्य प्रवृत्तसर्ववेदेति भाष्यं व्याचष्टे– पूर्वसूत्र इति ॥ सूत्रभाष्ययोर्विवक्षितसाध्यस्य स्पष्टमप्रतीतेराह– किमुक्तमिति ॥ अस्मिन् साध्ये सूत्रभाष्योक्तविध्यविशिष्टत्वस्य साक्षाद्धेतुत्वाभावात्तत्साध्यं साक्षाद्धेतुं तत्प्रश्नपूर्वक-माह– कुत इति ॥ अधिकारिविशेषनिर्देशाभावस्य स्वरूपासिद्ध्याशङ्कापरिहारार्थमात्मेत्यादि-भाष्याभिप्रायमाह– स हि भवन्नित्यादिना ॥
नन्वधिकारिविशेषनिर्देशाभावेऽपि फलोक्त्यादिनाधिकारिविशेषनिश्चयो भविष्यतीत्याशङ्का-निरासपूर्वकं सौत्र‘आदि’शब्दव्याख्यानपरं तत्रोक्तयुक्तीनामविशिष्टत्वादिति भाष्यं व्याचष्टे– न च वाच्यमित्यादिना ॥ स्वर्गकामत्वादिति ॥ लोकेषणादेर्यत्यादीनामविहितत्वादिति भावः ॥ तत्रोक्तयुक्तीनामिति ॥ आत्मत्वमेव कुत उपास्यमित्याशङ्कायामात्मत्वे सर्वगुणानामन्तर्भावा-दित्यभिप्रायेण ‘अत्र ह्येते’ इति वाक्यस्य प्रवृत्तत्वादिति भावः ॥ इतरांशस्येति ॥ तद्धैतदन्तर्ह्य-व्याकृतमासीदित्यादिरित्यर्थः । सर्वाधिकारिसाधारणा एवेति ॥ सर्वेषामपि ज्ञानार्थिनां मुमुक्षु-त्वादिति भावः ।
श्रीराघवेन्द्रतीर्थविरचितः भावदीपः
कतिचिन्नयेषूच्यत इति भ्रान्तिं निराह ॥ पादार्थमिति ॥ एतत्प्रदर्शनं च ‘वैराग्यतो भक्ति-दाढर्््यं तेनोपासा यदा भवेत् । अपरोक्ष्यं भवेद्विष्णोः’इत्यनुभाष्योक्तदिशा वृत्तवर्तिष्यमाणसङ्गति-सूचनायेति भावेन तद्व्याचष्टे ॥ उपासना नामेत्यादिना ॥ कर्मादिरूपोपासनाया अपरोक्षा-हेतुत्वादिह तदनुक्तेश्च तत्स्वरूपमाह ॥ ब्रह्मजिज्ञासेति ॥ यद्वा आद्यसूत्रस्थाथपदार्थरूप-वैराग्यभक्त्योरुक्त्यनन्तरमिह जिज्ञासापदार्थो वक्तव्यः । तथैवाध्यायादौ प्रस्तावादित्यत आह ॥ उपासना नाम ब्रह्मजिज्ञासेति ॥ यद्वा उपासनाया ध्यानरूपत्वादाद्यनयस्यात्रानिवेशमाशङ्क्याह ॥ उपासना नामेति ॥ श्रवणमनननिदिध्यासन रूपा जिज्ञासेत्यर्थः । अपादार्थत्वशङ्कां निरसितु-माह ॥ उपासना द्विविधेति ॥ यद्वोपासनोच्यत इत्युक्त्या सर्वपरिज्ञानमुच्यत इत्युक्तेर्विरोध-माशङ्क्योपासनैकदेशत्वादविरोध इति भावेनाह ॥ उपासनेति ॥ ‘सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परा च’इत्यनुभाष्योक्तेरिति भावः । उपासना ब्रह्मजिज्ञासे-त्युपासनाशब्दार्थोक्तिविरोध इत्यत आह ॥ यामाहुरिति ॥ जिज्ञासैकदेश एवेयमिति भावः । तथापि प्राथम्यं कुत इत्यत आह ॥ ध्यानाङ्गत्वादिति ॥ एतच्च तन्निर्धारणार्थेत्यत्राग्रे व्यक्तम् । समर्थितं चैतन्न्यायामृते तृतीयपरिच्छेदे । अङ्गत्वं वक्ष्यमाणदिशा व्यनक्ति ॥ समस्तेति ॥ श्रवणस्यौपदेशिकवाक्यार्थज्ञानरूपत्वादज्ञाननिवर्तकत्वं मननस्य युक्त्यनुसन्धानरूपत्वात्संशय-विपर्ययनिवर्तकत्वं ध्येयम् । ‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति वक्ष्यमाणत्वादिति भावः ॥ अत एवेति ॥ सर्वपरिज्ञानस्य ध्यानाङ्गत्वादेवेति वा जिज्ञासारूपत्वादेवेति वेत्यर्थः ।
पूर्वेण सङ्गतिं सूचयन् चिन्तायाः फलमाह ॥ आद्य इति ॥ इत्युक्तमिति ॥ श्रवणादिरूपा जिज्ञासा कर्तव्येत्यर्थस्योक्तत्वादेकदेशानुवादोऽयम् । अविषयत्वे इति पदच्छेदः ॥ सर्वोपादेय-तेति ॥ सूत्रेषु येषु सर्वेऽपि निर्णयाः समुदीरिता इत्युक्त्याऽस्य शास्त्रस्य मननात्मकस्य सर्वशाखा-निर्णायकत्वादिति भावः । यद्वा मननरूपस्यास्य शास्त्रस्य कतिपयशाखाविषयत्वेऽल्पबुद्धी-नामेवोपादेयं स्यान्न सर्वपरिज्ञानाधिकारिणां महाबुद्धीनां ब्रह्मादीनामुपादेयं स्यादित्यर्थः ॥ वेदोदितमिति ॥ शास्त्रयोनिनयन्यायेन ब्रह्म वेदोदितमेव यद्यपि तथापि वक्ष्यमाणकोट्युपस्थित्यर्थ-मेवमुक्तम् ॥ श्रवणेति ॥ सर्वशाखाविषयश्रवणमननाभ्यामित्यर्थः ॥ स्वस्वशाखोक्तमिति ॥ स्वस्वशाखाविषयश्रवणमननाभ्यां ज्ञातव्यमिति वाक्यशेषः ॥ सामान्योक्तिरिति ॥ ब्रह्म-जिज्ञासेत्यत्र ब्रह्मज्ञानाय श्रवणादिकर्तव्यमिति सामान्योक्तेरुभयथापि सम्भवादिति भावः ।
‘सङ्गम्यन्ते गुरोर्गिरः’ इति प्रतिज्ञामनुरुन्धन् प्रतिशाखमुच्यमानानामर्थानां पृथक्त्वा-त्तत्तच्छाखिभिरेव तत्र तत्रोक्तं ज्ञेयमिति नियम इत्यन्यत्रोक्तप्रतिज्ञाहेतू संयोजयति ॥ स्वस्व-शाखेति ॥ हेतोरसिद्धिनिरासाय दर्शनादित्युक्तम् । क्वचित् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति, क्वचिच्च ‘विज्ञानमानन्दं ब्रह्म’ इत्यादिश्रवणादिति भावः । इमौ च प्रतिज्ञाहेतू भेदान्नेति चेदिति सूत्रो-पात्तावेवेति ध्येयम् । अप्रयोजकत्वं निराह ॥ अन्यथेति ॥ सर्वशाखोक्तमेव ज्ञातव्यं चेदित्यर्थः । इति नियम इत्युक्तितात्पर्यमाह ॥ सर्वज्ञानमिति ॥ एतच्च ‘सलिलवच्च’ इति सूत्रव्यावर्त्यमित्यग्रे व्यक्तम् ॥ अत इति ॥ प्रतिशाखमुक्तार्थानां पृथक्त्वदर्शनादिति वा सर्वज्ञानमन्तरेण ध्यानाधि-कारित्वे मन्दानां तदभावापातादिति वा व्यधिकरणे पञ्चम्यौ । यद्वाऽत इत्यस्यैव विवरणं स्वस्वशाखेत्यादि । इति व्याख्यानमिति ॥ परकीयमित्यर्थः ॥ पूर्वोत्तरेति ॥ शास्त्रयोनित्वादित्यत्र ऋगादिवेदरूपशास्त्रस्य ‘ऋग्यजुः सामाथर्वाश्च’ इति स्मृत्युक्तस्य जगत्कारणे ब्रह्मणि प्रामाण्य-मभिधाय तस्यैवोपक्रमादिप्रमाणकं शक्तितात्पर्यावधारणरूपं समन्वयं समन्वयसूत्रे प्रतिज्ञाय आद्या-ध्यायेन तस्य प्रपञ्चनात्पूर्वविरुद्धमग्रे सर्ववेदोक्तगुणोपसंहारेणोपासनाप्रतिपादनादुत्तरविरुद्धमित्यर्थः ॥ सप्रमाणकमिति ॥ गीतावचनसहितमित्यर्थः । भाष्ये ब्रह्मेति शेषोक्तिरिति भ्रान्तिं निरस्यन् भाष्यं व्याचष्टे ॥ पूर्वसूत्र इति ॥ कर्तृत्वादिभ्रान्तिं निराह ॥ ज्ञानविषय इति ॥ हेतुहेतुमद्भावस्या-स्फुटत्वात्कर्त्रप्रतीतेश्च प्रश्नपूर्वं व्यनक्ति ॥ किमुक्तमिति ॥ सर्ववेदानधीत्य विचार्य च ज्ञातु-मिच्छेन्मुमुक्षुरिति श्रुतेरिति भावः । भाष्ये इत्यादिविधीनामिति बहुव्रीहिः । शाखा अन्यपदार्थ इति तावदुपेत्यैकमर्थमाह ॥ एवमिति ॥ अर्थान्तरमाह ॥ स हि भवन्नित्यादिना ॥ इत्यादय इति ॥ आत्मानमेव लोकमुपासीत, तमेवैकं जानथ आत्मानं, विज्ञाय प्रज्ञां कुर्वीत, इत्यादिरादिपदार्थः । सौत्रादिपदार्थोक्तिपरं तदुक्तेत्यादिभाष्यं शङ्कापूर्वं व्यनक्ति ॥ न चेत्यादिना ॥ गृहीति ॥ ब्रह्मचारिणो प्राप्ताग्निविद्यत्वाद्यतेरकामित्वाज्ज्योतिष्टोमेन स्वर्गकामो यजेत, ‘उद्भिदा यजेत पशुकामः’ इत्यादौ स्वर्गपश्वादिकामवत्त्वश्रवणादिति भावः । आदिपदेन अग्निविद्यावत्त्वग्रहः ॥ ज्ञानविध्यर्थमिति ॥ यद्यपि ‘आत्मेत्येवोपासीत’ इत्यादावुपासनाविधिरेव श्रूयते तथाप्युपासी-तेत्यस्य जानाति चेत्यर्थपर्यन्तत्वाज्ज्ञानविध्यर्थमित्युक्तम् । यथोक्तं भाक्तं वाऽनात्मवित्त्वादित्यत्र टीकायाम् उपास्ते जानाति चेत्युपासनाया ज्ञानपर्यन्तत्वम् । यद्वोपासीतेत्यस्यैव श्रवणादित्रितय-परत्वादेवमुक्तम् ॥ तत्रेति ॥ विधिसमीप इत्यर्थः । एतेन तदुक्तेति भाष्ये तत् तत्र ज्ञानविधौ विधिसमीपे इति च अर्थ उक्तो भवति ॥ इत्यादीनामिति ॥ ‘आत्मेत्येवोपासीत’ इत्यात्मत्व-ज्ञानमावश्यकमित्युक्तम् । तत्कुत इत्याकाङ्क्षायामात्मप्रशंसार्थमत्र ‘ह्येते सर्व एकीभवन्ति’ इत्यर्थ-वादस्तदुत्तरत्र तत्समीपे पठ्यते । तस्यायमर्थः । अत्रात्मत्वरूपगुणे एते प्राणन्नेव, प्राणो नाम भवति वदन् वाक्, पश्यंश्चक्षुः, शृण्वन् श्रोत्रं, मन्वानो मन इत्यादिनोपासना विहितः । पूर्व-वाक्येनोक्ताः प्राणत्ववक्तृत्वद्रष्टृत्वादयः सर्वे गुणा एकीभवन्ति अन्तर्भवन्ति । तस्मात्प्रशस्त-मात्मत्वज्ञानमिति तत्र सर्वगुणसङ्ग्राहकत्वयुक्तिरुच्यते । वक्ष्यति चात्मगृहीतिरितरवदित्यत्र । तथा ‘आत्मानमेव लोकमुपासीत’ इत्यत्र य आत्मानमेव लोकमुपास्ते ‘न हास्य कर्म क्षीयत’ इत्यक्षयकर्मफलहेतुत्वयुक्तिः । उक्तं च भाक्तं वेत्यत्र तथा ‘तमेवैकं जानथ’ इत्यत्र ‘अमृतस्यैष सेतुः’ इति मुक्तोपसृप्यत्वयुक्तिरुच्यत इति इत्यादीनां सम्भवतीत्युक्तम् ॥ इतरांशस्येति ॥ प्राणन्नेव प्राण इत्याद्यंशस्य कस्यचिज्ज्ञेयभगवदीयगुणपरत्वात् कस्यचिज्ज्ञेयकर्माविपरत्वात् कस्यचिदु-पासनातदङ्गादिविधिपरत्वात्कस्यचित्फलप्रतिपादकत्वादित्यर्थः ॥ सर्वाधिकारीति ॥ वसूनामेवैको भूत्वेत्यादाविव विशेषाश्रवणादिति भावः ।
श्रीमत्सत्यनाथतीर्थयतिविरचिता श्रीमत्तत्वप्रकाशिकाव्याख्या अभिनवचन्द्रिका
(एतत्पादप्रतिपाद्यमिति अ.चं.पा.) एतत्पादार्थमिति ॥ ‘तर्ह्यध्यायस्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यतः साधनेऽप्यवान्तरभेदेन’ इति भावेनेति वर्तते । तस्य ‘एतत्पादप्रतिपाद्यं दर्शयति’ इत्यनेन सम्बन्धः । भाष्ये उपासनाऽस्मिन्पादे इति । प्रायेणेति शेषः । एतेन ‘छन्दत’ इति कर्म-नियमाभावाधिकरण उपासनाऽनभिधानात् ‘उपासनाऽस्मिन्पाद उच्यत’ इत्युक्तमयुक्तमिति परास्तम् ॥ अत एवेति ॥ श्रवणमननयोरुपासनारूपत्वादेवेत्यर्थः ॥ प्रतिशाखमिति ॥ उपास्यतया स्वीकृतात् स्वशाखोक्ताद्ब्रह्मणः शाखान्तरोक्तस्य भिन्नत्वान्न तदुपासनार्थं प्रतिपत्तव्यम् । स्वशाखोक्तब्रह्मद्रोहापत्तेरिति भावः ॥ अन्यथेति ॥ भेदाभाव इत्यर्थः ॥ विधयश्चेति ॥ यद्यपि अत्र ‘श्रोतव्यो मन्तव्य’ इति विधय उदाहर्तव्याः, श्रवणविधीनामेव साधारण्यस्य सर्वेषां सर्वशाखाज्ञानाधिकारसाधकत्वात्, न तूपासनाविधयः ‘आत्मा’ इत्युपासनाविधेः सर्वसाधारण्येऽपि मध्वाद्युपासनाविधीनां सर्वसाधारण्याभावात् तथापि उपासनाविधीनामपि केषाञ्चित्सर्वसाधारण्यं किमु ज्ञानविधीनां सर्वसाधारण्यमिति कैमुत्यज्ञापनायोपासनाविध्युदाहरणमिति बोध्यम् । अथवा । यद्यपि सर्वोपासनाविधयो न सर्वाधिकारिसाधारणास् तथापि सर्वशाखिसाधारणा एव । न हि वस्वादिपदयोग्या बह्वृचेषूत्पन्ना इति छन्दोगोक्तमधुविद्योपासनासु नाधिक्रियन्त इति साम्प्रतम् । ततश्चोपासनावाक्योदाहरणमुपपन्नम् ॥ युक्तयश्चेति ॥ आत्मत्वगुणस्य केनचिदुपास्यत्वे सर्वगुणान्तर्भाववत्वेनाभ्यर्हितत्वादयो युक्तयः । ताश्चैकाधिकारिणं प्रतीव सर्वान् प्रत्यप्यविशिष्टा एव । न हि आत्मत्वादीनां सर्वोपासनाफलदातृत्वेनाभ्यर्हितत्वं कंचित्प्रत्यस्ति अन्यं प्रति तु नेति विभागोऽस्तीति भावः ।
ताम्रपर्णी श्रीनिवासाचार्यविरचिता वाक्यार्थमुक्तावली
पादप्रतिपाद्यमिति ॥ अध्यायस्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यतः साधनेष्ववान्तर-भेदादिति भावेनेत्यादौ पूरणीयम् । नन्वथ ब्रह्मजिज्ञासापदोक्तसाधनविचारोऽयमध्याय इत्युक्तम् । तत्राथशब्दोक्तयोर्वैराग्यभक्त्योः पादद्वयेन विचारितत्वादवसरप्राप्ता ज्ञानसाधनीभूता जिज्ञासाऽ-स्मिन्पाद उच्यत इति वक्तव्यम् । उपासनाऽस्मिन्पादे उच्यत इति । कथमुक्तमित्यत आह– उपासना नामेति ॥ ‘वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् । आपरोक्ष्यं ततो विष्णोर् इति पादक्रमो भवेत् ’इत्यनुव्याख्यानानुसारेण पादक्रमनियामकमाह– सा चेति ॥
ननूपासना नामिका जिज्ञासा श्रवणमनननिधिध्यासनरूपा सर्वपरिज्ञानं च तृतयमपि भवति । ध्यानस्यापि ज्ञानरूपत्वात् । तृतयस्य च प्रथमप्रतिपाद्यत्वे शिष्टैरधिकरणैः किं निरूपणीयमित्यतः सर्वपरिज्ञानं नाम सर्ववेदार्थश्रवणजं शास्त्रीयोपक्रमादियुक्त्यपरनामकमननजं च ज्ञानं शास्त्राभ्यास-स्वरूपं च विवक्षितम् । तदिह आद्याधिकरणे निरूप्यते । ध्यानं तु मनःकरणकं शिष्टैरधिकरणै-र्निरूप्यत इति भावेन प्रथमतः सर्वपरिज्ञानोक्तौ नियामकमाह– उपासनेति ॥ तदुक्तं ‘सोपासना च द्विविधा’इति । श्रवणमननयोर्ध्यानाङ्गत्वमेवोपपादयति– समस्तेति ॥ अत एवेति ॥ भगव-ज्ज्ञानसाधनध्यानाङ्गयोः कर्तव्यत्वसमर्थनादेवास्ति शास्त्रादिसङ्गतिरित्यर्थः। पूर्वाधिकरणे रातिर्दातुः, एष ह्येव साधु कर्म कारयति, इति सामान्योक्त्या सर्वकर्माधिकारित्वमुक्तम् । समाचारेऽधि-काराच्चेति तदेव हेतूकृत्य सर्ववेदान्तप्रत्ययत्वसमर्थनादनन्तरसङ्गतिः ॥ किमेकेनेति ॥ अत्र ब्रह्म स्वस्वशाखोक्तश्रवणमननाभ्यां ज्ञातव्यमुत सर्वशाखोक्तप्रकारेणेति चिन्ता । तदर्थं प्रतिशाख-मुच्यमानानां पृथक्त्वं सर्वशाखाध्ययनाभावश्च किं सर्वशाखोक्तप्रकारेण ज्ञानेऽधिकाराभावनिबन्धन उत चोदनाद्यविशेषादध्ययनविधेरर्थज्ञानपर्यवसन्नायाः सामान्यतः प्रवृत्तत्वात् सर्ववेदोक्तकर्माधिकार-सद्भावाच्चाशक्तिनिबन्धन इति ॥ सामान्योक्तिरिति ॥ ब्रह्मजिज्ञासा कर्तव्येति सामान्योक्ति-रित्यर्थः । अत्र भेदान्नेति सूत्रनिरस्यं पृथग्दृष्टिरित्युक्तन्यायं दर्शयन् पूर्वपक्षयति स्वस्वशाखे-त्यादिना । हेतूच्छित्तिरूपं विपक्षे बाधकतर्कमाह अन्यथेति ॥ ‘सलिलवच्च तन्नियम’ इति सूत्र-निवर्तनीयं बाधकमाह– सर्वज्ञानमिति ॥ पूर्वोत्तरविरुद्धमिति ॥ प्रथमाध्याये मन्त्रब्राह्मणादि-रूपस्य सर्वस्य वेदस्य गतिसामान्यस्य ‘ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके’ इत्यादिना समन्वय-स्योक्तत्वादुपसंहारोऽर्थाभेदादिति सर्ववेदोपसंहारस्य वक्ष्यमाणत्वादत्रापि सर्ववेदपदेन मन्त्रादिरूपस्य सर्वस्य वेदस्य ग्राह्यत्वाद् वेदान्तपदेनोपनिषन्मात्रग्रहणं पूर्वोत्तरविरुद्धमित्यर्थः । सूत्रे सर्ववेदा-नामन्तेन प्रत्ययो यस्येति व्यधिकरणबहुव्रीहिः । अन्तेनेति करणे तृतीयेति भावेन पूर्वानुवृत्त्या व्याचष्टे पूर्वसूत्रेति ॥ सर्ववेदनिर्णयेनेति ॥ सर्ववेदार्थश्रवणमननरूपनिर्णयेनोत्पाद्यं शाब्दानुमिति-लक्षणं यन्निश्चयात्मकं ज्ञानं तद्विषयज्ञानमित्यर्थः ॥ किमुक्तमिति ॥ एकैकेनापि सर्वशाखा-श्रवणयुक्त्यनुसन्धानाभ्यां ब्रह्म ज्ञातव्यमिति प्रतिज्ञाय सर्ववेदोत्पाद्यज्ञानविषयत्वप्रतिज्ञानेन किमुक्तं भवति, सिद्धत्वादिति भावः ॥ ध्यानार्थिनापीति ॥ एकैकेनापीति भावः । श्रवणमननाभ्या-मिति । श्रवणमननाभ्यामयमेवार्थो नान्य इति निर्धार्य ज्ञातुं प्रयतेतेत्यर्थः । एकैकस्यापि श्रवण-मननाभ्यां सर्ववेदोक्तब्रह्मज्ञानेऽधिकारः, न तु स्वस्वशाखोक्तमात्रब्रह्मज्ञानेऽधिकार इत्येतत्कुतः परपक्षे साधकाभावाद्वा, स्वपक्षे तत्सद्भावाद्वेत्याशयेन पृच्छति– कुत इति ॥ तत्र तावत्परपक्षे साधकाभावान्न शाखानामेकाधिकारिविशेषकल्पना युक्ता । किन्तु सर्वाधिकारिकत्वमेवेति प्रतिपादयितुं चोदनाद्यविशेषादिति सूत्रखण्डं प्रवृत्तम् । तच्च भाष्ये आत्मेत्येवोपासीत इत्यादिविधीनाम् अविशिष्टत्वात्सर्वाधिकारिसाधारणत्वादिति व्याख्यायते, अतः साधकाभावपरतया न साक्षा-त्प्रतीयत इत्यतः साक्षात्साधकाभावप्रदर्शनपरतयापि सूत्रखण्डं व्याचष्टे– एवं काण्वैरिति ॥ एतेन चोदनासु विधिगर्भासु काण्वादिशाखासु काण्वैरेवं श्रवणमननाभ्यां ज्ञातव्यं माध्यन्दिनैरेवमित्य-विशेषादधिकारिविशेषनिर्देशाभावादिति सूत्रखण्डार्थ उक्तो भवति । न चेदुद्भाष्यं व्याख्यानम् । विधीनां विधिगर्भाणां काण्वादिशाखानामविशिष्टत्वादधिकारिविशेषनिर्देशशून्यत्वादिति भाष्यार्थं तावदभिप्रेत्य टीकाप्रवृत्तिसम्भवात् । अधिकारिविशेषनिर्देशाभावस्य स्वरूपासिद्ध्या शङ्का-परिहारार्थं सूत्रखण्डं प्रकारान्तरेण व्याकुर्वदात्मेत्येवोपासीत इत्यादिविधीनामविशिष्टत्वाद् इति भाष्यं व्याचष्टे– स हि भवन्निति ॥ अधिकारिविशेषनिर्देशो भवत्तद्यत्प्रथमममृतं तद्वद् उपजीवन्तीतिवद् विधिसमीपे स्यादित्यर्थः ॥ विधयश्चेति ॥ ‘आत्मेत्येवोपासीत,’ ‘आत्मानमेव लोकमुपासीत,’ ‘तमेवैकं जानथ,’ ‘विज्ञाय प्रज्ञां कुर्वीत इत्यादयः । पौर्णमासीं निर्वपतीतिवत् सर्वाधिकारिसाधारणा एव पठ्यन्ते न तु स्वसमीपेऽधिकारिविशेषनिर्देशवन्त इत्यर्थः । यद्यपि श्रोतव्यो मन्तव्य इत्यादयः श्रवणमननविधयः प्रकृततत्वात्पठनीयास् तथाप्युपासीतेत्यस्यैव ‘सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी’इत्युक्तरीत्या श्रवणमननविधित्वाद्भाष्यगतादिशब्देन ‘तमेवैकं जानथ, श्रोतव्य’ इत्यादिविधिग्रहणाद्वा नानुपपत्तिः । स्पष्टं तदुपासनं तु उपासनाविधीनामेव सर्वसाधारण्यं किमु ज्ञानविधीनामिति कैमुत्यद्योतनायेति ज्ञेयम् । नन्वधिकारिविशेषनिर्देशाभावेऽपि फलोक्त्यादिनाऽधिकारिविशेषनिश्चयो भवतीत्याशङ्क्य तन्निरासपूर्वकं सूत्रादिशब्दव्याख्यानपरं तत्रोक्तयुक्तीनां चाविशिष्टत्वादिति भाष्यं व्याचष्टे । न च वाच्यमित्यादिना ॥ स्वर्गकाम-त्वादीति ॥ लोकेषणादेर्यत्यादीनामविहितत्वादिति भावः । अत्र ह्येते कवयः सम्भवन्तीत्याद्या-नामित्याद्यपदेन तत्त्वप्रदीपरीत्यात्मानमेव लोकमुपासीत इत्यादावुक्तानां स य आत्मानमेव लोक-मुपास्ते, न हास्य कर्म क्षीयत, अमृतस्यैष सेतुः, वाचो विग्लापनं हि तदित्यादीनां ग्रहणम् ॥ इतरांशस्येति ॥ प्राणन्नेव प्राणो भवति, श्रुण्वानः श्रोत्रं पश्यंश्चक्षुरित्यादीतरांशस्येत्यर्थः ॥ युक्तयश्चेति ॥ यस्मादेते प्राणादिशब्दोक्ताः सर्वे आनन्दादय आत्मत्वेऽन्तर्भवन्ति । अत आत्मे-त्युपासने आनन्दादिगुणलाभादात्मेत्युपासीतेत्यादियुक्तयश्च सर्वाधिकारिसाधारणा एव आनन्दादेः सर्वापेक्षितत्वादिति भावः ।
पाण्डुरङ्गि श्रीनिवासाचार्यविरचिता तत्त्वसुबोधिनी
ननु अथ ब्रह्मजिज्ञासेति पदद्वयोक्तसाधनचतुष्टये अथपदोक्तवैराग्यभक्त्योः पादद्वयेनोक्तत्वादि-दानीमवसरप्राप्ता ज्ञानसाधनीभूता जिज्ञासापदोक्तब्रह्मजिज्ञासा अस्मिन्पाद उच्यते इति भाष्ये वक्तव्यम् । उपासनास्मिन्पाद उच्यत इति कथमुक्तमित्यत आह ॥ उपासना नामेति ॥ ननु तथापि भक्त्यनन्तरं ज्ञानात्पूर्वम् उपासनानिरूपणे कासङ्गतिरित्यत आह ॥ सा चेति ॥ तथा च साध्यसाधनरूपैव सङ्गतिरिति तन्निरूपणमिति भावः । ननु उपासनाप्रतिपादके अस्मिन्पादे सर्व-परिज्ञानोक्तिः कथं सङ्गता तस्याप्युपासनत्वेऽपि प्रथमतस् तदुक्तौ किं निमित्तमित्यत आह ॥ उपासना द्विविधेति ॥ तत्राद्यमाह ॥ समस्तेति ॥ ननु श्रवणमनननिदिध्यासनानामे-वोपासनात्वस्य जिज्ञासाधिकरणेऽभिहितत्वात्कथं सच्छास्त्राभ्यासस्याप्युपासनात्वमित्यत आह ॥ यामाहुरिति ॥ द्वितीयामाह ॥ ध्यानेति ॥ तत्राद्याधिकरणे का निरूप्यते इति विशये सत्याह ॥ तत्रेति ॥ तत्र हेतुर्ध्यानेति । कथमस्य ध्यानाङ्गत्वमित्यत आह ॥ समस्तेति ॥ दूरोत्सारिता अज्ञानसंशयविपर्यया येनेति विग्रहः । अत्र श्रवणं तत्वज्ञानं जनयदज्ञानं निवर्तयति । मननं तु वेदार्थनिर्णयं कुर्वत् संशयविपर्ययौ निवर्तयतीति बोद्धव्यम् ॥ अत एवेति ॥ श्रवणमननयो-रुपासनारूपत्वादेवेत्यर्थः । पूर्वसूत्रे पूर्वपदोक्ते ब्रह्मणि सर्ववेदान्तप्रत्ययत्वं विचार्यते इत्यनन्तर-सङ्गतिः ॥ कर्तव्येत्युक्तमिति ॥ जिज्ञासापदेनेत्यर्थः ॥ सामान्योक्तेरिति ॥ ब्रह्मजिज्ञासाकर्तव्येति सामान्योक्तिरित्यर्थः । नन्वस्तु प्रतिशाखमुच्यमानानामर्थानां पृथक्त्वं तथापि स्वस्वशाखोक्तमेव ज्ञेयमिति कुतः सर्वशाखोक्तमेव ज्ञेयमिति किं न स्यादित्यत आह ॥ अन्यथेति ॥ एकप्रकारस्यैव वस्तुनो ध्यानार्थं ज्ञेयत्वादिति भावः ।
ननु ध्यानार्थं सर्वज्ञानस्यावश्यकत्वेन तस्य च सर्वशाखाविषयकश्रवणमननाभ्यां विना असम्भवादवश्यं सर्वशाखाविषयकश्रवणादिकर्तव्यमन्यथा ध्यानाधिकार एव न स्यादित्यत आह ॥ सर्वज्ञानमिति ॥ पूर्वोत्तरविरुद्धमिति ॥ पूर्वं प्रथमाध्याये मन्त्रब्राह्मणादिरूपस्य सर्ववेदसमन्वय-स्योक्तेर् उपसंहारोऽर्थाभेदादित्युत्तरत्रापि सर्ववेदोक्तप्रकारेण ध्यानस्य वक्ष्यमाणत्वेनात्रापि सर्ववेद-पदेन मन्त्रादिरूपस्य सर्ववेदस्याग्राह्यत्वाद् वेदान्तपदेनोपनिषन्मात्रग्रहणं पूर्वोत्तरविरुद्धमित्यर्थः । सूत्रे सर्ववेदानामन्तेन प्रत्ययोयस्येति व्यधिकरणो बहुव्रीहिरन्यपदार्थश्च ब्रह्मेत्यभिप्रेत्याह ॥ पूर्वसूत्र इति ॥ सूत्रभाष्ययोर्विवक्षितसाध्याप्रतीतेराह । अस्मिन् पादे सूत्रभाष्योक्तविध्यविशिष्टत्वस्य साक्षाद्धेतुत्वासम्भवात्साक्षाद्धेतुं प्रश्नपूर्वकमाह ॥ कुत इति ॥ ननु अधिकारिविशेषनिर्देशा-भावोऽसिद्ध इत्याह ॥ स हि भवतीति ॥
ननु कर्मविद्यायामधिकारिविशेषनिर्देशाभावेऽपि स्वर्गकामत्वादिरूपकल्पबलेन गृहिण एवाधि-कारित्वकल्पनवत् प्रकृतेऽपि फलोत्पत्यादिनाऽधिकारिविशेषनिश्चयो भविष्यतीत्याशङ्क्य निषेधति ॥ न च वाच्यमिति ॥ स्वर्गकामत्वादिति ॥ लोकेषणादेर् यज्ञादीनामविहितत्वादिति भावः । ननु प्रकृतेऽपि आत्मेत्युपासनाविधिसमीपोक्तानाम् अत्र ह्येते सर्व एकीभवन्ति इत्यादीनामेवाधिकारि-विशेषकल्पकत्वं स्यादित्यत आह ॥ कल्पकत्वस्येति ॥ ननु उपासनाविधिसमीपे अत्र ह्येते इत्यादिना किमर्थेयमुक्तिरित्यत उक्तम् ॥ ज्ञानविध्यर्थमिति ॥ उपासनाविध्युपपत्यर्थमित्यर्थः । आत्मेत्येवोपासीत इत्युक्ते तदेव कुत उपास्यमित्याशङ्कायामात्मत्वे सर्वगुणानामन्तर्भावादित्यभि-प्रायेणात्र ह्येत इति वाक्यस्य प्रवृत्तत्वादिति भावः । युक्तीनामेव कुतः कल्पकत्वम् अन्यांशस्यापि तत्किं न स्यादित्यत आह ॥ इतरांशस्येति ॥ तद्वेद तर्ह्यव्याकृतमासीदित्यादेरित्यर्थः । सर्वाधिकारिसाधारणा इति । सर्वेषामपि ज्ञानार्थिनां मुमुक्षुत्वादिति भावः ।
श्रीनिवासतीर्थविरचितं वाक्यार्थविवरणम्
॥ समस्तेति ॥ सर्वपरिज्ञानशब्दार्थोऽयम् ॥ अत एवेति ॥ श्रवणमननयोरुपासनात्वादेव भगवज्ज्ञानसाधनसर्वपरिज्ञानापरपर्यायसमस्तसच्छास्त्राभ्यासरूपश्रवणमननरूपोपासनस्य कर्तव्यता- समर्थनादित्यर्थः ॥ अस्य शास्त्रस्येति ॥ सर्वशाखानिर्णायकस्यास्य शास्त्रस्य सर्वाधिकार्यनुपादेयता स्यात् । कुतः । अधिकारिणां सर्वशाखाविषयश्रवणाद्यसम्भवादिति भावः । पृथक्त्वेन अनेक-प्रकारत्वेन ॥ अन्यथेति ॥ तैस्तैः स्वशाखोक्तरीत्यैव ब्रह्म न ज्ञेयं किन्तु एकेनैव सर्वशाखोक्त-रीत्येत्यङ्गीकारे ॥ एकप्रकारेति ॥ एकप्रकारेणानेकवस्तु ज्ञातव्यम् । अनेकप्रकारेणैवोक्तौ तस्याधिकारिणा मन्देन ज्ञातुमशक्यत्वादिति भावः ॥ स हीति ॥ काण्वाद्यधिकारिनिर्देशः । विधिसमीपेे विधिवाक्यसमीपे । ‘स्वर्गकामो यजेत’ इतिवदिति भावः । न त्वधिकारिविशेषं प्रति प्रवृत्ताः । तदनिर्देशादित्येवकारार्थः ॥ गृही ॥ अनुक्तोऽपीति शेषः ॥ अत्रापि ॥ उपासना-विधिवाक्यम् अनुक्तोऽपीति शेषः ॥ स्वर्गेति ॥ स्वर्गकामनाया यत्यादेरविहितत्वात् तत्कामनावानेव गृही ज्योतिष्टोमाधिकारित्वेन कल्प्यत इत्येवं गृहिणोऽधिकारित्वकल्पकं स्वर्गकामपदमेवास्तीति स्वर्गकामत्वादिरूपकल्पकवदित्यर्थः ॥ ज्ञानविध्यर्थम् ॥ उपासनाविध्यर्थम् ॥ ‘आत्मेत्येवो-पासीत’ इत्युपासनाविधावधिकारिविशेषकल्पकत्वं तत्रोक्तयुक्तीनामेव सम्भवतीत्यन्वयः ॥ तत्रोक्तेति ॥ उपासनाविधिवाक्यसमीपस्थवाक्योक्तेत्यर्थः । तत्रोक्तयुक्तीनामेव कुतः कल्पकत्व-मित्यत आह ॥ इतरांशस्येति ॥ ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ इत्यादेरित्यर्थः ॥ ज्ञेयेति ॥ ज्ञेयभूतात्मस्वरूपेत्यर्थः । युक्तीनामधिकारिविशेषं प्रति प्रवृत्तत्वे युक्तमेव तासां कल्पकत्वम् । तदेव नास्तीत्याह ॥ युक्तयश्चेति ॥ साधारणा अधिकारिविशेषानुपादानादिति भावः ।
शर्करा श्रीनिवासाचार्यविरचिता वाक्यार्थमञ्जरी
नन्वथ ब्रह्मजिज्ञासापदोक्तसाधनविचारात्मकेऽस्मिन्नध्याये पादद्वयेनाथशब्दोक्तवैराग्यभक्ति-निरूपणानन्तरं ब्रह्मजिज्ञासापदोक्तज्ञानसाधनीभूता ब्रह्मजिज्ञासाऽस्मिन्पादे निरूपणीया । किमुपासनानिरूपणेनेत्यत आह ॥ उपासना नामेति ॥ ननूपासनाप्रतिपादकेऽस्मिन्पादे सर्व-परिज्ञानोक्तिः कथं सङ्गता । तस्याऽप्युपासनात्वेन सङ्गतत्वेऽपि प्रथमतस् तदुक्तौ किं निमित्तमित्यत आह ॥ उपासना द्विविधेति ॥ श्रवणमनननिदिध्यासनानामेवोपासनात्वस्य जिज्ञासाधि-करणेऽभिहितत्वात्कथं सच्छास्त्राभ्यासस्याप्युपासनात्वमित्यत आह ॥ यामाहुरिति ॥ श्रवण-मननयोर्ध्यानांगत्वमेवोपपादयति ॥ समस्तेति ॥ अत्र श्रवणं तत्त्वज्ञानमुत्पादयदज्ञानं निवर्तयति । मननं तु वेदार्थनिर्णयं कुर्वत्संशयविपर्ययौ निवर्तयतीति विवेकः ॥ अत एवेति ॥ श्रवण-मननयोरप्युपासनात्वादेवेत्यर्थः । ततश्चात्र भगवत्प्राप्तिसाधनीभूतायाः सर्ववेदश्रवणमननोपासना-रूपायाः समर्थनादस्ति शास्त्रादिसङ्गतिरित्युक्तं भवति । अविषयत्व इति छेदः ॥ सर्वोपादेयतेति ॥ एकशाखाविषयश्रवणादिकुर्वतः शाखान्तरज्ञानाभावेन सर्वशाखानिर्णायकैतच्छास्त्रेण प्रयोजना-भावादिति भावः ॥ सामान्योक्तिरिति ॥ ब्रह्मजिज्ञासा कर्तव्येति सामान्योक्तिरित्यर्थः ॥ पृथक्त्वे-नेति ॥ क्वचित् ‘विज्ञानमानन्दं ब्रह्म’ इति विज्ञानाद्यात्मकस्य क्वचिच्च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति सत्याद्यात्मकस्य वस्तुनोऽभिधानदर्शनादित्यर्थः ।
ब्रह्म सर्ववेदान्तप्रत्ययं सर्वेषां वेदानामन्तेन निर्णयेन जातो यः प्रत्ययः ज्ञानं तद्विषयः कुतश् चोदनाद्यविशेषाच् चोदनानामुपासनाविधीनामादिपदोक्तयुक्तीनां च सर्वान्प्रति विशेषरहितत्वादित्यर्थः ॥ पूर्वोत्तरविरुद्धमिति ॥ पूर्वं प्रथमाध्याये मन्त्रब्राह्मणादिरूपस्य सर्वस्य वेदस्य समन्वय-स्योक्तत्वाद् उपसंहारोऽर्थाभेदादित्युत्तरत्रापि सर्ववेदोक्तप्रकारेण ध्यानस्य वक्ष्यमाणत्वात् । अत्रापि सर्ववेदपदेन मन्त्रादिरूपस्य सर्वस्यापि वेदस्य ग्राह्यत्वात्सर्ववेदान्तेत्येकं पदमंगीकृत्योपनिषद्ग्रहणं पूर्वोत्तरविरुद्धमित्यर्थः । विवक्षितसाध्यस्य स्पष्टमप्रतीतेराह ॥ किमुक्तमिति ॥ ज्ञातव्य-मित्यनन्तरमुक्तं भवतीत्यनुवर्तते । नन्वधिकारिविशेषनिर्देशाभावेऽपि फलविशेषादिनाऽधिकारि-विशेषनिश्चयो भविष्यतीत्याशङ्क्य निषेधति ॥ न च वाच्यमिति ॥ ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादिका कर्मविद्या ॥ कल्पकाभावमेवोपपादयति । कल्पकत्वं चेत्यादिना ॥ तत्रोक्त-युक्तीनामिति ॥ आत्मत्वमेव कुत उपास्यमित्याशङ्कायामात्मत्वे गुणानामन्तर्भावादित्यभिप्रायेणा-त्रेति वाक्यस्य प्रवृत्तत्वादिति भावः । अत्रात्मत्वे एते सर्वगुणा एकीभवन्ति अन्तर्भवन्तीत्यर्थः ॥ इतरांशस्येति ॥ तद्धीदन्तर्ह्यव्याकृतमासीद् इत्यादेरित्यर्थः ॥ सर्वाधिकारिसाधारणा एवेति ॥ सर्वेषामपि ज्ञानार्थिना मुमुक्षुत्वेन स्वयोग्येतरगुणसङ्ग्राहकात्मत्वोपासकत्वादिति भावः ।
ॐ भेदान्नेति चेदेकस्यामपि ॐ
सूत्रभाष्यम्
॥ ॐ भेदान्नेति चेदेकस्यामपि ॐ ॥ २ ॥
‘विज्ञानमानन्दं ब्रह्म’ (बृ.उ.५-९-२८) । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै.उ.२-१) इत्यादिप्रतिशाखमुक्तिभेदान्नैकाधिकारिविषयाः सर्वशाखा इति चेन्न । एकस्यामपि शाखायां ‘आत्मेत्येवोपासीत’ (बृ.उ.३-४-७) ‘कं ब्रह्म खं ब्रह्म’ (छां.उ.४-१०-५) इत्यादिभेद-दर्शनात् ॥
तत्त्वप्रदीपिका
तत्तच्छाखासु पृथक्पृथक् ब्रह्मरूपस्योच्यमानत्वान्नैराकाङ्क्ष्यात्तत्तच्छाखिनां तत्तदुदितपरिज्ञानेन पूर्यत इति चेन्न । एवं चेदेकस्यामप्युक्तिभेददर्शनादधिकारिभेदप्रसङ्गात् ।
तत्त्वप्रकाशिका
उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे ॥ भेदादिति ॥ यदुक्तं सर्वशाखोक्त-मेकैकेनैव ज्ञातव्यमिति न तद्युक्तम् । एकं हि वस्तु अनेन ज्ञातव्यम् । न हि सर्वशाखोक्तं वस्त्वेकम् । कस्याञ्चिच्छाखायां हि विज्ञानानन्दरूपं वस्तूच्यते । क्वचिच्च सत्यज्ञानानन्तं क्वचिच्छ्रोतृमन्त्रादिरूपम् अपहतपाप्मत्वादिरूपं चान्यत्रेत्येवमादि । अतः सर्वशाखोक्तानां पृथक्त्वादेकस्यैव ज्ञातव्यत्वात्स्वशाखोक्तमेव ज्ञातव्यमिति भावः । परिहारांशं व्याचष्टे ॥ नेति ॥ न च तत्तच्छाखोक्तार्थानां पृथक्त्वात्सर्वशाखोक्तं नैकेन ज्ञातव्यमिति वाच्यम् । तथा सत्येक-शाखोक्तस्याप्येकेनाज्ञातव्यत्वप्रसङ्गात् । तत्रोक्तार्थानामपि पृथक्त्वदर्शनात् । अथोच्येत तत्र धर्म्यनु-वादेनान्यान्यधर्मविधानादेकमेवोच्यत इति । हन्त तर्ह्यत्रापि तथा किं न स्यात् । न च सर्वशाखा-नामेकविषयत्वेंऽशे पौनरुक्त्यमिति । एकस्यामपि साम्यात् । अथ यदि तत्र प्रसङ्गभेदादनुवादादि-परिहारः । स च समः प्रकृतेऽपीति भावः ।
गुर्वर्थदीपिका
तत्रोक्तार्थानामपि पृथक्त्वदर्शनादित्यत्र ‘अग्निमीे पुरोहितम्’ इत्येकत्र ‘वायवाया हि दर्शते’ इत्यन्यत्र दर्शनादित्यर्थः ।
भावबोधः
इत्यादीतिभाष्यगतादिपदेन ‘श्रोता मन्ता’ इति ‘य आत्माऽपहतपाप्मा’ इत्यादि ऐतरेय-च्छान्दोग्यादिशाखान्तरगतं वाक्यं गृहीतमित्यभिप्रेत्याह– क्वचिच्छ्रोतृमन्त्रादीत्यादिना ॥
भावदीपः
नैकाधिकारीति प्रतिज्ञाभाष्यं व्याचष्टे ॥ यदुक्तमित्यादिना ॥ एतेन सर्ववेदान्तप्रत्ययं ब्रह्मेति पूर्वसूत्रादनुवृत्तिरत्र सूत्र इति सूचितम् । तेन भाष्यस्य नोत्सूत्रत्वप्रसङ्गः । परिष्कारपूर्वं विज्ञान-मित्यादिभाष्यं व्याचष्टे ॥ एकं हीत्यादिना ॥ कस्याञ्चिदिति ॥ शाखान्तरे ॥ क्वचिच्चेति ॥ तैत्तिरीयोपनिषदि । भाष्यस्थादिपदार्थमाह ॥ क्वचिच्छ्रोत्रिति ॥ श्रोता मन्ता द्रष्टादेष्टा घोष्टा विज्ञाता प्रज्ञाता इत्यैतरेये, य आत्माऽपहतपाप्मा, विजरो विमृत्युर्विशोक इत्यादि छान्दोग्ये । एवमादीत्यादिपदेन प्राणस्य प्राणश्चक्षुषश्चक्षुरित्यादिग्रहः । नेति नञः प्रतिशाखमित्यादि-पूर्वभाष्येणान्वयमाह ॥ न च तत्तदिति ॥ सूत्रे नञोऽध्याहारेण वाऽऽवृत्त्या वा भाष्ये नेत्युक्तमिति भावः । एकस्यामित्यादिनोक्तहेतुं परम्परया घटयति ॥ तथा सतीत्यादिना ॥ नन्वेतावता प्रतिशाखं नानोक्तेः का गतिरुक्तेत्यतः परमुखेनैव समाधिवाचनं तात्पर्यमिति भावेन सूत्रभाष्ययोर्भावं व्यनक्ति ॥ अथोच्येतेति ॥ भेदान्नेति चेद् इत्येतदभेदान्नेति चेदित्यस्याप्युपलक्षणमित्युपेत्य प्रकारान्तरेण व्याख्याति ॥ न चेत्यादिना ॥ साम्यादिति शेषोक्तिः । शेषस्य तात्पर्यमाह ॥ अथ यदीति ॥ काण्वश्रुतावत्रायं पुरुषः स्वयंज्योतिरिति द्विरुक्तावपि स्वप्नसुप्तिप्रसङ्गभेदेनापौनरुक्त्यम् । तथा शाखान्तरेऽपि । यथा च छान्दोग्ये सैषा षड्विधा चतुष्पदेति प्रागुक्तषाडि्वध्यानुवादेन चतुष्पात्त्वविधिस्तथा शाखान्तरोक्तानुवाद इत्यर्थः ।
अभिनवचन्द्रिका
॥ एकं हीति ॥ एकमेव वस्तु मोक्षाऽर्थिना श्रवणमनननिदिध्यासनादिना भक्तिपूर्वमुपास्यम् । अन्यथानेकप्राघुणिकन्यायेन मोक्षासिद्धिस्स्यादिति भावः ।
पूर्वपक्षस्तु– स्वस्वशाखोक्तमेव तेन तेन ज्ञेयं न सर्वशाखोक्तम् । शाखाप्रतिपाद्यानां नानात्वात् । एकस्यां हि शाखायां ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्युच्यते । अपरस्यां तु ‘विज्ञानमानन्दं ब्रह्म’ इति सत्यत्वपरित्यागेनोच्यते । सत्यत्वभावाभावाभ्यां प्रतिपाद्यं भिद्यते । किं च वस्त्वैक्येंऽशे पौनरुक्त्यं स्यात् । शाखान्तरोक्तस्यैव ज्ञानरूपत्वादेः शाखान्तरेऽभिधानात् । न च नानात्वेऽपि सर्वेषामेकोपास्यता । अनेकप्राघुणिकन्यायेन मोक्षाऽसिद्धिप्रसङ्गात् । ततश्च सर्वशाखानिर्णायकं ब्रह्ममीमांसाशास्त्रमनुपादेयमेवेति ।
सिद्धान्तस्तु- सर्ववेदश्रवणमननाद्युत्पाद्यज्ञानमेव ब्रह्म सर्वैरुपास्यम् । ‘श्रोतव्यो मन्तव्यः’ इत्यादिविधीनां सर्वसाधारणत्वात् । न हि काण्वादिशाखासु तैरेवेदं ज्ञेयं नान्यैरित्युच्यते । येन साधारण्यं न स्यात् । यदत्रोक्तं ‘उपदेशभेदाद् वस्तु भिद्यते’ इति । तन्न एकत्वेन त्वयाऽभ्युपगते एकशाखाप्रतिपाद्येऽपि उपदेशभेददर्शनेन व्यभिचारात् । यदपि वस्त्वैक्येंऽशे पौनरुक्त्यं स्यादिति, तदपि एकस्यामपि शाखायाम् उक्तानामेव गुणानां पुनरभिधानेन समानम्, यदि तत्र धर्म्यनुवादेन धर्मविधानान् नोपदेशभेदः, नापि पौनरुक्त्यं, प्रसङ्गभेदादनुवादकत्वाद्वेत्युच्यते तच्छाखान्तरेऽपि समानम् । किं च ‘स्वाध्यायोऽध्येतव्यः’ इत्यध्ययनविधेः सामान्यत्वाद् अध्ययनस्य च ज्ञानार्थत्वात् सर्वेषां सर्ववेदोक्तज्ञानेऽधिकारः । अपि च सर्वेषां सर्ववेदोक्तकर्माधिकारस्तावद्दृश्यते । ततो ज्ञानाधिकारोऽपि मन्तव्यो विशेषाभावात् । यानि चेमानि विरुद्धकर्माणि ‘सामगो वटुर्मुण्डः, अन्यः शिखी’ इत्यादीनि तानि च एकशाखागतविरुद्धकर्मवद्विकल्पेन भवन्ति । न च मन्दानां ध्यानाभाव इति वाच्यम् । ‘सर्वासामपां समुद्र एकायनम्’ इत्यादिवाक्यानां बाधकाभावे समुद्रायनत्वनियमतात्पर्यवत्, श्रवणादिविधीनामपि यथाशक्ति सर्वश्रवणविधौ तात्पर्यांगीकारात् । ‘सर्वैश्च वेदैः परमो हि देवो जिज्ञास्योऽसौ नाल्पवेदैः प्रसिध्येत्’ इति श्रुतेश्च । अतो भगवद्ध्यानार्थं सर्ववेदोक्तं ज्ञेयमिति सर्वोपादेयं शास्त्रमिति सिद्धम् ।
वाक्यार्थमुक्तावली
अत्र ब्रह्म सर्ववेदान्तप्रत्ययमित्यनुवर्तते । तेन नञोऽन्वयः । एकस्यामिति प्रकृतत्वात् सर्वशाखास्विति पूर्वपक्षे लभ्यते । भेदादित्युक्तिभेदादित्यर्थमभिप्रेत्य प्रवृत्तं भाष्यं व्याचष्टे । यदुक्त-मित्यादिना ॥ कस्यांचिदित्यंशं व्याचष्टे ॥ इतीति ॥ नञः भेदादित्यस्य चानुवृत्तिपूर्वमिति शेषः । तत्र धर्म्यनुवादेनेति । आत्मेत्येवोपास्यं ब्रह्म धर्मिभूतं खं ब्रह्मेत्यत्रानूद्य खं प्रकाशरूपमित्यन्य-धर्मविधानादित्यर्थः । एतेनैकस्यां शाखायां विधेयधर्मभेदान्न प्रतिपाद्यार्थपृथक्त्वमिति चेदिति सूत्रार्थ उक्तो भवति । हन्त तर्हीति । एतेनापि अत्रापि सर्वशाखास्वपि धर्म्यैक्येऽपि विधेयधर्मभेदान्न पृथक्त्वमिति सिद्धान्तांशार्थ उक्तो भवति ॥ अंशे पौनरुक्त्यमिति ॥ ‘विज्ञानमानन्दं ब्रह्म’ इत्यत्रोक्तस्य विज्ञानस्यैव सत्यं ज्ञानमित्यत्रोक्तत्वादंशे पौनरुक्त्यमित्यर्थः ॥ एकस्यामपीति ॥ एकस्यामपि शाखायाम् ‘आत्मेत्येवोपासीत’ इति प्रकरणे प्राणन्नेव प्राणो भवतीत्यत्रोक्त-प्रकृष्टानन्दरूपत्वस्य ‘कं ब्रह्म’ इति पुनराम्नानादंशे पौनरुक्त्यसाम्यादित्यर्थः । एतेन शाखा-नामेकाधिकारिकत्वे एकविषयत्वे च विज्ञानमानन्दं ब्रह्म, ‘सत्यं ज्ञानम्’ इत्यादि प्रतिशाखासु पुनः पुनरुक्तिभेदात् पृथक्पृथगुक्तस्यैव ब्रह्मस्वरूपांशस्योच्यमानत्वात्पुनरुक्ततया अंशे नैकाकायान् नैकाधिकारिकत्वं नैकविषयत्वं चेन् नैकस्यामपि शाखायामुक्तस्यैव पुनरुक्तिभेदान्नैकाधिकारि-कत्वमिति सूत्रभाष्यार्थ उक्तो भवति । उक्तं च तत्त्वप्रदीपे । तत्तच्छाखासु पृथक्पृथग्ब्रह्मस्वरूप-स्योच्यमानत्वान्नैकाकायात्तत्तच्छाखिनां तत्तदुदितपरिज्ञानेन पूर्यत इति चेन्न । एकस्यामप्युक्तिभेदा-दधिकारिभेदप्रसङ्गादिति । एकस्यां शाखायां भेदात् प्रसङ्गभेदाद् अनुवादादिना पुनर्दाढर्््यादिना न पौनरुक्त्यमिति चेन्न । अपि सर्वशाखास्वपि प्रसङ्गभेदादनुवादादिना न पौनरुक्त्यमिति सूत्रार्थमाह ॥ तत्र तत्रेति ॥
तत्त्वसुबोधिनी
इत्यादीति भाष्यगतादिपदेन ‘श्रोता मन्ता’ इति ‘य आत्माऽपहतपाप्मा’ इत्यादि एैतरेय-छान्दोग्यादिगतं वाक्यं गृहीतमित्याह ॥ क्वचिच्छ्रोत्रिति ॥ अथैकस्यां शाखायां प्रसङ्गादुक्त-स्योक्तिरिति नानुवादादिदोषप्राप्तिरिति शङ्कते ॥ अथ यदीति ॥
वाक्यार्थविवरणम्
एकं हीति ॥ एकप्रकारमित्यर्थः । एवमुत्तरत्रापि ॥ तत्रोक्तेति ॥ एकशाखोक्तेत्यर्थः ॥ तत्र एकशाखायाम् ॥ धर्म्यंशेति ॥ तथा च ज्ञेयब्रह्मरूपधर्म्यंशे एकप्रकारत्वमेव न पृथक्त्वमिति भावः । अत्रापि सर्वशाखास्वपि । धर्म्यंशानुवादेनान्यधर्मविधानादेकमेवोच्यत इति न पृथक्त्वमिति साम्यमिति भावः ॥ अंशे धर्म्यंशे । एकस्यां शाखायाम् ॥ साम्यात् ॥ धर्म्यंशानुवादेनैकविषयत्वे अंशे पौनरुक्त्यसाम्यादित्यर्थः ॥ तत्र ॥ एकस्यां शाखायाम् ॥ प्रसङ्गभेदादिति ॥ एकस्मिन्नेव प्रसङ्गे ‘आत्मेत्येवोपासीत’ ‘कं ब्रह्म’ इत्याद्युक्तौ तत्र पृथक्त्वपरिहाराय धर्म्यंशानुवादेनान्य-धर्मविधानं कल्प्यत इति साम्यं स्यात् । न चैवम् उपकोसलाग्निप्रसङ्गे ‘कं ब्रह्म’ इत्यादिकमुच्यते । अन्ययोः प्रसङ्गे आत्मेत्येवेत्यादिकम् । अतः प्रसङ्गभेदान्नानुवादादिकल्पनावकाश इत्याशयः । आदिपदेन पुनरुक्तिग्रहणम् ॥ प्रकृत इति ॥ सर्वशाखायामपीत्यर्थः । ‘विज्ञानमानन्दं ब्रह्म’ ‘सत्यं ज्ञानम्’ इत्यादेरपि भिन्नभिन्नप्रसङ्ग एवोक्तत्वेनानुवादित्वादिपरिहारः सम इत्याशयः ।
वाक्यार्थमञ्जरी
प्रतिशाखं वस्तुभेदान्नैकं ब्रह्म सर्ववेदान्तप्रत्ययमिति चेन्न एकस्यामपि शाखायामर्थभेदसद्भावेन तदुक्तस्याप्यज्ञेयत्वप्रसक्तेरित्यर्थः । कस्याञ्चिद् अथर्वणशाखायां क्वचिद्यजुःशाखायां क्वचिदृक्-शाखायाम् अन्यत्र सामशाखायाम् । तत्रैकशाखायाम् ॥ पृथक्त्वदर्शनादिति ॥ ‘कं ब्रह्म, खं ब्रह्म’ इत्यत्र भेददर्शनादित्यर्थः ॥ धर्मीति ॥ ब्रह्मरूपधर्मिणमनूद्य सुखज्ञानादिरूपधर्मविधाना-दित्यर्थः ॥ तथेति ॥ ब्रह्मात्मादिपदैर्धर्मिणमनूद्य विज्ञानादिधर्मविधानादिति भावः ॥ अंशे धर्म्यंशे ॥ प्रसङ्गभेदेति ॥ प्रकरणभेदादधिकविधानायानुवादाच्च न पौनरुक्त्यमिति परिहार इत्यर्थः ।