२० फलोपपत्त्यधिकरणम्

ॐ फलमत उपपत्तेः ॐ

२०. फलोपपत्त्यधिकरणम्

सूत्रभाष्यं

कर्माऽपेक्षत्वात्फलदानस्य तदेव ददातीति न वाच्यम् । कुतः?—

॥ ॐ फलमत उपपत्तेः ॐ ॥ ३९ ॥

अत एवेश्वरात्फलं भवति । न ह्यचेतनस्य स्वतः प्रवृत्तिर्युज्यते ।

तत्त्वप्रदीपिका

वैषम्यादिपरिहारार्थमीश्वरस्य फलदाने कर्मसापेक्षत्वमुक्तम् । अतस्तत्र कर्मणः प्राधान्यम् । तत्र कथमनेनैव सर्वं प्रवर्तत इत्यत आह– फलमत उपपत्तेः ॥ अत एव ‘सर्वत्र सर्वमेतस्मात्’ इत्युक्तेरेव । तस्मादेवेश्वरात्फलं भवति तस्यैव सर्वेशितृत्वात् । चेतनस्याप्यन्यस्य स्वतः प्रवृत्ति-र्नास्तीत्युक्तं किं पुनरचेतनस्येत्यर्थः ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनभक्त्यर्थं तस्य कर्मफलदातृत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । तदभावे निरतिशयैश्वर्यायोगेन तत्र निरतिशयभक्त्यनुदयात्तत्समर्थनीयम् । प्रकृतो हरिरेव विषयः । किं कर्मफलदाता न वेति सन्देहः । विप्रतिपत्तिः सन्देहबीजम् । पूर्वपक्षयति ॥ कर्मेति ॥ कर्मैव फलदातृ नेश्वरः । यैः फलदातृत्वमीश्वरस्योच्यते तैरपि तस्य कर्मापेक्षया फलदातृत्वस्यावश्य-मङ्गीकार्यत्वात् । अन्यथा कर्मवैयर्थ्यापातात् । ततश्च वेदाप्रामाण्यप्रसङ्गाद्वैषम्यादिदोषानुषङ्गाद-कृतकर्मणः फलादर्शनाच्च । एवं च सति फलस्य कर्मान्वयव्यतिरेकित्वात्तदेव फलप्रदं नेश्वरः । अतो न तद्भक्तिः कार्येति भावः ।

सिद्धान्तयन्नेतत्प्रतिषेधति ॥ इति न वाच्यमिति । हेतुं पृच्छति ॥ कुत इति ॥ तदुत्तरत्वेन सूत्रमुपन्यस्य व्याचष्टे ॥ फलमिति ॥ ईश्वर एव फलदाता न कर्म । तस्य चेतनत्वेन फलदानोपपत्तेः । इतरस्याचेतनत्वेनानुपपत्तेः । यत एवमतो न वाच्यमिति भावः ।

भावबोधः

प्रकृतो हरिरेवेति । ‘अनेन’ इति पूर्वसूत्रे सर्वदेशकालीनसृष्ट्यादिकर्तृतया प्रकृत इत्यर्थः । तथा च फलदातृत्वाभावे पूर्वोक्तसकलसृष्ट्याद्यष्टककर्तृत्वासम्भव इति पूर्वाक्षेपेण प्रवृत्तेरनन्तर-सङ्गतिरिति भावः ॥ किमिति ॥ अत्र कर्मैव फलदातृ उत हरिरेवेति चिन्ता । तदर्थं कर्मब्रह्मणोः फलदातृत्वे वा उपपत्त्यनुपपत्ती स्त उत ब्रह्मकर्मणोः फलदातृत्व इति । तदर्थम् ‘रातिर्दातुः’ इति विशेषश्रुतिर् ब्रह्मणः फलदातृत्वसाधिका न भवत्युत भवतीति । तदर्थं फलस्य कर्मान्वय-व्यतिरेकानुविधायित्वं ब्रह्मणः फलदातृत्वविरोध्युत नेति । तदर्थं ब्रह्मकर्मणोः कर्तृकरणभावे हेतुर्नास्त्युतास्तीति ॥ तदेवेति ॥ भाष्यगतैवकारव्यावर्त्यमाह– नेश्वर इति ॥ अनेनेश्वरः फलदातेति प्रलोभमात्रमिति न्यायविवरणांशोऽपि व्याख्यातो भवति । फलस्य कर्मान्वयानु-विधायित्वप्रतिपादनपरतया कर्मापेक्षत्वात् फलदानस्येति भाष्यं व्याचष्टे– यैरिति ॥ अपेक्षापदोक्तमावश्यकत्वं विपक्षबाधकमुखेनोपपादयति– अन्येथेति ॥

‘वैषम्यं निर्घृणत्वं च वेदाप्रामाण्यकारणम्’ ॥ इत्युक्तेरिति भावः ।

व्यतिरेकानुविधायित्वमाह– अकृतकर्मण इति ॥ फलितमाह– एवं चेति ॥ अनेन कर्मान्वयव्यतिरेकात् फलस्येति न्यायविवरणं व्याख्यातं भवति । भाष्ये सौत्र ‘अतः’ शब्दं सावधारणं व्याख्याय ‘फलमतः’ इत्यत्रोपपत्तेरिति हेतोः स्फुटप्रतिभासादवधारणव्यावर्त्य एव न हीत्यनेन हेतुरुक्तः । स्वयं त्वीश्वर एवेत्यादिना प्रतिज्ञाभागं व्याख्यायोपपत्तेः सौत्रहेतुव्याख्यान-पूर्वकं न हीत्यादिभाष्यं व्याचष्टे– तस्य चेतनत्वेनेत्यादिना । उपलक्षणमेतत् । तस्यैव स्वातन्त्र्यादिति न्यायविवरणानुसारेण स्वातन्त्र्यात् फलदानोपपत्तेरित्यपि ग्राह्यम् ।

भावदीपः

तस्य कर्मफलदातृत्वेति ॥ कर्मणस्तत्कर्तृत्वनिरासेनेति भावः । तेन पूर्वत्र भगवतैव सर्वसृष्ट्यादीत्युक्तमयुक्तम् । कर्मफलसृष्ट्यादेः कर्माधीनत्वादिति शङ्कासमाधानात् पूर्वसङ्गति-स्सूचिता ॥ विप्रतिपत्तिरिति ॥ कर्मतः फलमिति निरीश्वरप्रभृतयः ब्रह्मतः फलमिति तत्वविदो वदन्तीति वादिविप्रतिपत्तिरित्यर्थः । बादरायणजैमिन्योर्वा विप्रतिपत्तिरित्यर्थः । तथात्वे आपातत इति ध्येयम् । वस्तुत एकार्थत्वेन विप्रतिपत्त्यभावात् । तदेव ददातीत्यंशं व्याचष्टे ॥ कर्मैवेति ॥ ईश्वरः फलदातेति प्रलोभमात्रमित्यन्यत्रोक्त्यनुरोधेनैवकारव्यावर्त्यमाह ॥ नेश्वर इति ॥ कर्मेत्यादि-पूर्वांशं व्याचष्टे ॥ यैरिति ॥ कर्मापेक्षत्वमेव विपक्षेऽनेकबाधकोक्त्या द्रढयति ॥ अन्यथेति ॥ कर्माभावेऽपि फलदान इत्यर्थः । प्राणिभिः क्रियमाणं कर्म व्यर्थमापद्येतेत्यर्थः । अस्त्वित्यत आह ॥ ततश्चेति ॥ कर्मणो वैयर्थ्यतश्च स्वर्गादिफलोद्देशेन तद्विधायकवेदस्याप्रामाण्यप्रसङ्गादित्यर्थः । न च तदिष्टम् । अपौरुषेयतया प्राप्तप्रमाणभावस्य तदयोगात् ॥ वैषम्येति ॥ अन्यथेत्यनुकर्षः । वैषम्यनैर्घृण्ये न सापेक्षत्वादित्यत्र कर्मसापेक्षत्वेनैव वैषम्यादिदोषपरिहारादिति भावः । दोषपद-प्रयोगेन वेदाप्रामाण्यानापादकस्य वैषम्यादेरदोषत्वस्योपपद्यते चाप्युपलभ्यते चेति सूत्रेणा-भ्युपेतत्वेऽपि तदापादकं वैषम्यादि तु दोष एवेति सूचयति । अत एवाप्रामाण्यापादनानन्तरं तदुक्तिः । कर्मापेक्षत्वादिति भाष्यं कर्मान्वयव्यतिरेकादिति न्यायविवरणं च हेतुहेतुमद्भावापन्नमिति भावेनान्यत्रोक्तं हेतुमपि संयोज्य भाष्यमुपसंहरति ॥ एवं च सतीति ॥ फलदानवेलायां सर्वदेश्वरस्य कर्मसापेक्षत्वे सतीत्यर्थः ॥ तदेवेति ॥ ईश्वरस्तु कर्मशेषत्वात्पुमर्थदातेत्युच्यत इति भावः । अतः फलदातृत्वाभावादित्यर्थः ॥ भाष्यं व्याचष्टे ॥ ईश्वर एवेति ॥ न हीत्यंशस्य न कर्मेत्यर्थमात्रोपपादकत्वेनेश्वरात्फलमित्यर्थोपपादकत्वाय मध्ये सौत्रहेतुमाह ॥ तस्येति ॥ उपपत्तेरित्युक्तिलब्धार्थमाह ॥ इतरस्येति ॥ यद्यप्युपपत्तेरित्यस्य तस्यैव स्वातन्त्र्यादित्यन्यत्रोक्त-दिशा ईश्वरस्यैव स्वातन्त्र्यादन्यस्यास्वातन्त्र्यादित्युपपत्तेरित्येवोपपत्तिपदं व्याख्यातुं शक्यम् । तथापि श्रुतत्वाच्चेत्युत्तरसूत्रस्वारस्याय तद्व्यावर्त्य शङ्कोत्थापनाय जीवसाधारणचेतनत्वरूपोपपत्ति-परत्वेन व्याचख्यौ ।

अभिनवचन्द्रिका

भाष्ये ‘कर्मापेक्षत्वात्फलदानस्य’ इति सापेक्षफलदातृत्वं हेतूकृत्य तदेव फलं ददाती-तीश्वरस्य फलदातृत्वाभावसाधनमयुक्तं व्याहतत्वादित्यत आह– यैरिति ॥ लाघवात्कर्मण एव फलदातृत्वं न तु कर्मसापेक्षस्येश्वरस्य गौरवादिति भावः । एतेन व्याहतिः परास्ता । पूर्वपक्षिणा लाघवप्रदर्शनाय परोक्तसापेक्षफलदातृत्वानुवादमात्रस्य कृतत्वात् । ननु न मया कर्मसापेक्षस्येश्वरस्य फलदातृत्व- मुच्यते येन लाघवात्कर्मण एव फलदातृत्वं स्यात् । ईश्वर एव सुखदुःखदिकं ददाति । तच्च न कर्मफलमित्यत आह– अन्यथेति ॥ नेश्वर इति ॥ अन्यथासिद्धत्वादिति भावः । इतरस्या-चेतनत्वेनेति ॥ अवश्यक्लृप्तनियतपूर्ववर्तिनैव कार्यसम्भवे हि ईश्वरस्याऽन्यथासिद्धत्वं स्यात् । तदेव नास्तीति भावः । यत एवमिति ॥ यतः कर्मणैव फलसम्भवो नास्ति अतोऽन्यथा-सिद्धत्वरूपहेतोरसिद्धत्वादीश्वरो न फलदातेति न वाच्यमित्यर्थः । ‘तिष्टमानस्य तद्विद’ इति वाक्यशेषगत ‘तिष्टमानस्य’ इति पदमनूद्य व्याचष्टे तिष्टमानस्येति ॥ द्विधा व्याख्यातमिति ॥ अत ईश्वराद्धर्ममेवेति, अतः=‘एष ह्येव’ इति श्रुतेरेवेति, द्विधा व्याख्यातमित्यर्थः । ननु फलकारणं कर्म ईश्वराद्भवतीति वदता जौमिनिना ईश्वरस्य फलकारणत्वाभाव उक्तः । भगवता बादरायणेन तु ईश्वरस्यैव फलदातृत्वमुक्तम् । ततश्च विरोध इत्यत आह– सामान्यत इति ॥ कर्मणः सामान्यतः दण्डादिसाधारण्येन कर्तृप्रयोज्यतया कारणत्वं जैमिनेरभिप्रेतम् । नन्वीश्वरस्या-कारणत्वं कर्तृप्रयोज्यताज्ञापनायेव ‘यतः कर्मणः सकाशात् फलं भवति, तत्कर्म ईश्वराद्भवति’ इत्यभिहितम् । नन्वीश्वरस्य फलहेतुत्वाभावाभिप्रायेण श्रुतिविरुद्धस्य मुनिमतत्वायोगाद् एतत्सर्वं बादरायणेनाभ्युपगतमेवेति न विरोध इति भावः ।

पूर्वपक्षस्तु ईश्वरो न फलदाता अवश्यकृप्तनियतपूर्ववर्तिना कर्मणैव फलसम्भवेनाऽन्यथा-सिद्धत्वात् । ततश्च न तद्भक्तिः कार्येति ।

सिद्धान्तस्तु अचेतनत्वात्कर्मणैव फलसम्भवाभावेन अन्यथासिद्धत्वहेतोरसिद्धत्वेन बाधका-भावात् । ‘विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्’ इति फलदातृत्वस्य श्रुतत्वाच्च, ईश्वर एव फलदाता । ननु नैतच्छ्रुतिबलेनेश्वरस्य फलदातृत्वमभ्युपगन्तुं शक्यम् । फलकारणस्य कर्मण ईश्वरजन्यत्वेन श्रुतावीश्वरस्य फलदातृत्वस्योपचारेणैवोक्तत्वात् । किं च एवमाप्ततमो जौमिनिर्मन्यत इति चेत्, स्यादेतच्छ्रुतेरौपचारिकत्वकल्पनम्, यदीश्वरं विना केवलेन कर्मणा फलं भवेत् । न च तत्सम्भवति अचेतनस्य स्वतःप्रवृत्त्ययोगात् । एवं च श्रुत्यन्वयव्यतिरेकबलादुभयोरपि कारणत्वे सिद्धे कर्मैवेश्वरप्रयोज्यमित्यभ्युपगन्तव्यम् । ‘पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इति हेतुव्यपदेशाज् जैमिनेरपि कर्मादेरीश्वराधीनकारणत्वमभिमतमिति न तन्मतमप्रमाणम् । अतः परमेश्वरस्यैव कर्मफलदातृत्वान् निरतिशयमहिमि्न तस्मिन् भक्तिः कर्तव्येति सिद्धम् ।

॥ इति श्रीसत्यनिधितीर्थश्रीचरणचरणाराधकश्रीमत्सत्यनाथयतिविरचितायां श्रीमत्तत्त्वप्रकाशिकाव्याख्याऽभिनवचन्द्रिकायां तृतीयाध्यायस्य द्वितीयः पादः समाप्तः ॥

वाक्यार्थमुक्तावली

ननु यदुक्तं सर्वत्र सर्वमेतस्मात् सर्वदा सर्ववस्तुष्विति सर्ववस्तुविषयस्य सृष्ट्यादेः सर्वस्य भगवदायत्तत्वमिति । तदयुक्तम् । फलादानेऽस्य तदभावादित्याक्षिप्य पूर्वसिद्धान्तन्यायेनैव समाधानादाक्षेपिक्यातिदेशिक्यनन्तरसङ्गतिः ॥ किमिति ॥ अनेनेश्वरः कर्मफलदाता न भवत्युत भवतीति चिन्ता । तदर्थं फलस्येशायत्तत्वप्रतिपादकश्रुतिः फलस्य कर्मान्वयव्यतिरेकित्वदर्शनात् फलकारणकर्मकारयितृत्वेनोपचरिता उत बाधिता । उपपत्तिबलादन्वयव्यतिरेकयोः करणत्वमात्र-विषयत्वेनान्यथासिद्धत्वात् ॥ मुख्येति ॥ भाष्ये कर्मापेक्षत्वात्फलदानस्येति सापेक्षफलदातृत्वं हेतूकृत्य तदेव फलं ददातीतीश्वरस्य फलदातृत्वाभावसमर्थनमयुक्तं व्याहतत्वादनुवादोऽयमित्याह ॥ यैरिति ॥ अवर्जनीयसन्निधितया कर्म मयाङ्गीक्रियते । अतोऽन्वयोऽन्यथासिद्ध इत्यत उक्त-मवश्यमिति । आवश्यकत्वं विपक्षे बाधकमुखेनोपपादयति । अन्यथेति ॥ अवर्जनीयसन्निधित्व-परिहाराय व्यतिरेकानुविधायित्वमप्याह ॥ अकृतमिति ॥ फलितमाह ॥ एवं चेति ॥ तदेवेति ॥ अवश्यमपेक्षणीयेनैव पूर्णत्वादीश्वरस्याप्यङ्गीकारे गौरवमिति भावः । धर्ममित्यागामिसूत्रादेवानुकृष्यत इति भावेनोक्तं भाष्ये ॥ अत एवेति ॥ अचेतनत्वेति ॥ अचेतनत्वेन फलदानकर्तृतानुपपत्तेरिति भावः । भाष्येऽपि स्वतः प्रवृत्तिरिति कर्तृतोच्यते ।

तत्त्वसुबोधिनी

प्रकृतो हरिरेवेति ॥ अनेनेति पूर्वसूत्रे सर्वदेशकालीनसृष्ट्यादिकर्तृतया प्रकृत इत्यर्थः । तत्फलदातृत्वाभावे पूर्वोक्तसकलसृष्ट्याद्यकर्तृत्वसम्भव इति पूर्वाक्षेपेण प्रवृत्तेरनन्तरसङ्गतिरिति भावः । तदेवेति भाष्यगतैवकारव्यावर्त्यमाह ॥ नेश्वर इति ॥ कुत इत्यतः फलस्य कर्मान्वयव्यति-रेकित्वादित्याशयेनान्वयं तावदुपपादयति ॥ यैरिति ॥ अन्यथा कर्मापेक्षाभाव इत्यर्थः । अस्तु कर्मवैय्यर्थ्यं ततः किमित्यत आह ॥ ततश्चेति ॥ किञ्च कर्मानपेक्षयैवेश्वरः फलं ददाति चेत् तर्हि कारणमन्तरेण कस्यचित् सुखं कस्यचिद्दुःखं प्रयच्छतीति वैषम्यनैर्घृण्ये स्यातामित्याह ॥ वैषम्यादीति ॥ अन्वयानुविधायित्वमुक्त्वा व्यतिरेकानुविधायित्वमाह ॥ अकृतेति ॥ फलितमाह ॥ एवं चेति ॥ भाष्ये सौत्रातःशब्दं सावधारणं व्याख्याय फलमत इत्यत्रोपपत्तेरिति हेतोः स्फुटप्रति-भासादवधारणव्यावर्त्य एव न हीत्यनेन हेतुरुक्तः । स्वयमीश्वर एवेत्यादिना प्रतिज्ञाभागं व्याख्यायोपपत्तेरिति सौत्रहेतुव्याख्यानपूर्वकं न हीति भाष्यं व्याचष्टे ॥ तस्य चेतनत्वेनेति ॥

वाक्यार्थविवरणं

वेदेति ॥ पुण्येन पुण्यं लोकं नयतीत्यादिवेद इत्यर्थः । कर्मणो वैय्यर्थ्ये दोषान्तरमुच्यते । वैषम्यादीत्यादिना ॥ अनुषङ्गात् ॥ हरेरिति शेषः ।

वाक्यार्थमञ्जरी

कुत इत्यतस्तदन्वयव्यतिरेकित्वादित्याशयेन तावदन्वयानुविधायित्वमाह ॥ यैरिति ॥ अपेक्षापदोक्तावश्यकत्वमेव विपक्षे बाधकत्वेनोपपादयति ॥ अन्यथेत्यादिना ॥ व्यतिरेकानु-विधायित्वमाह ॥ अकृतकर्मण इति ॥ फलितमाह ॥ एवमिति ॥ ॐ फलमत उपपत्तेः ॐ ॥ अतःपरमात्मन एव फलं भवति तस्य चेतनत्वेन फलदानोपपत्तिरित्यर्थः ।


ॐ श्रुतत्वाच्च ॐ

सूत्रभाष्यम्

॥ ॐ श्रुतत्वाच्च ॐ ॥ ४० ॥

‘विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्’ (बृ. उ. ५-९-२७) इति ।

तत्त्वप्रकाशिका

नन्वीश्वरस्य चेतनत्वेन फलदातृत्वसम्भावनैव भवेन्न तु निश्चयः । अतः कुतोऽसावित्याशङ्कां परिहरत्सूत्रं पठित्वा तदुपात्तश्रुतिमुदाहरति ॥ श्रुतत्वाच्चेति ॥ दातुर्यजमानस्य तिष्ठमानस्य स्वस्मिन्मनसा वर्तमानस्य रातिः फलप्रदमित्यर्थः ।

भावबोधः**

सम्भावनैवेति ॥ चेतनत्वस्य जीवेऽपि सत्त्वेन व्यभिचारान्न निश्चायकत्वमिति भावः । दानादिकर्ममात्रेण नेश्वरः फलदाता किन्तु स्वनिष्ठानादिपूर्वकर्मणेत्यभिप्रेत्य प्रवृत्तं तिष्ठमानस्येति श्रुतिशेषमनूद्य व्याचष्टे– तिष्ठमानस्येति ॥ स्थितिमात्रस्य सर्वसाधारण्यात् स्वस्मिन् मनसेत्युक्तम् । रातिरित्यस्य ‘रा दाने’ इति धातुजत्वमभिप्रेत्याह– फलप्रदमिति ॥

भावदीपः

अत एव चेतनत्वेन फलदातृत्वसम्भावनैव भवेदित्याह ॥ उपपत्तिशब्दस्य स्वातन्त्र्यादि-रूपोपपत्तिपरत्वे तु उपपत्त्येश्वरस्य फलदातृत्वं प्रसाध्य श्रुत्या च साधयतीत्युत्तरसूत्रमवतारणीयम् । अन्यथा फलमतः सम्भवादित्येव सूत्रं स्यात् । यदा तु अत एवेत्यस्य तत्वप्रदीपदिशा सर्वत्र सर्वमेतस्मादिति श्रुतेरेवेत्यप्यर्थस् तदा विशेषश्रुत्या च साधयतीत्यवतारिका ध्येया । दातुरुत्तमर्ण-स्येति भ्रमं निराह ॥ दातुरिति ॥ यजमानमात्रस्य फलदातृत्वभ्रमनिरासाय तिष्ठमानस्य तद्विद इति शेषार्थमाह ॥ स्वस्मिन्निति ॥ प्रकाशनस्थेयाख्ययोश्चेत्यात्मनेपदत्वादिति भावः ॥ फलेति ॥ रा दाने इति धातोः ।

वाक्यार्थमुक्तावली

न निश्चय इति ॥ चेतनस्य व्यभिचारित्वादिति भावः । सूत्रार्थस्तु ज्ञानात्मकं ब्रह्म तद्विदो भगवत्सर्वोत्तमत्वविदस् तिष्ठमानस्याध्यात्मचेतनसामान्यस्थारिबलकर्मणो यजमानस्य रातिं ददातीति स तथा । रा दान इति धातोः फलप्रदमिति चेतनत्वेन फलदातृत्वस्य श्रुतत्वाच्च फलमत एवेति ।

तत्त्वसुबोधिनी

सम्भावनेति ॥ चेतनत्वस्य जीवेऽपि सत्वेन व्यभिचारान्न निश्चायकत्वमिति भावः । दानादिकर्ममात्रेण नेश्वरः फलदाता किन्तु स्वनिष्ठादिपूर्वकर्मणेत्यभिप्रेत्य प्रवृत्तं तिष्ठमानस्येति श्रुतिशेषममनूद्य व्याचष्टे ॥ तिष्ठमानस्येति ॥ स्थितिमात्रस्य सर्वसाधारण्यात् स्वस्मिन्मनसे-त्युक्तम् । रातीत्यस्य रा दान इति धातुजत्वमभिप्रेत्याह ॥ फलप्रदमिति ॥

वाक्यार्थविवरणं

तिष्ठमानस्येति ॥ तिष्ठमानस्य तद्विद इति श्रुतिशेषस्थतिष्ठमानपदव्याख्यानमिदम् ।

वाक्यार्थमञ्जरी

सम्भावनैवेति ॥ चेतनत्वस्य जीवेऽपि सत्वादनिश्चायकत्वादिति भावः । असौ निश्चयः ॥ ॐ श्रुतत्वाच्च ॐ ॥ रातिर्दातुरिति श्रुत्युक्तत्वाच्च ब्रह्मैव फलदात्रित्यर्थः । दानादिकर्ममात्रेण नेश्वरः फलदाता किन्तु स्वनिष्ठादिपूर्वकर्मणैवेत्यभिप्रेत्य प्रवृत्तं तिष्ठमानस्येति श्रुतिशेषमनूद्य व्याचष्टे ॥ तिष्ठमानस्येति ॥ स्थितिमात्रस्य सर्वसाधारण्यात्स्वस्मिन्मनसेत्युक्तम् ॥ फलप्रदमिति ॥ रा दान इति धातोरिति भावः ।