१९ सर्वगतत्वाधिकरणम्

ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॐ

१९. सर्वगतत्वाधिकरणम्

सूत्रभाष्यं

देशकालान्तरेऽन्यतोऽपि सृष्ट्यादिर्युक्तेत्यतो ब्रूते—

॥ ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॐ ॥ ३८ ॥

सर्वदेशकालवस्तुष्वनेनैव सृष्ट्यादिकं प्रवर्तते । ‘एष सर्व एष सर्वगत एष सर्वेश्वर एषोऽचिन्त्य एष परमः’ इति भाल्लवेयश्रुतिः ।

‘सर्वत्र सर्वमेतस्मात्सर्वदा सर्ववस्तुषु ।

स्वरूपभूतया नित्यशक्त्या मायाख्यया यतः ॥

अतो मायामयं विष्णुं प्रवदन्ति सनातनम्’ इति

चतुर्वेदशिखायाम् । आदिशब्दादन्यत्र प्रमाणाभावाच्च ।

तत्त्वप्रदीपिका

यद्यपि सृष्टिस्थितिसंहारादिकर्ता स स्वयमेव । तथाऽपि कदाचित्क्वचित्किञ्चित्स्वकार्यं प्रत्यन्यं नियोजयिष्यति । स्वावतारादिकौतुकादित्यत आह– अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॥ अनेनैव सर्वं प्रवर्तते । अनन्तेष्वपि स्वकार्येषु नित्यशक्तिमत्त्वात् । तद्विरुद्धधर्माभावाच्च ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनभक्त्यर्थं तस्यैव जगत्कर्तृत्वादिसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा तत्र निरतिशयभक्त्ययोगात्समर्थनीयमेव । प्रकृतः परमेश्वरो विषयः । किं सर्वदेशकालीन-सृष्ट्यादिकर्ता न वेति सन्देहः । प्राचीनोक्तेरुभयथा सम्भवः सन्देहबीजम् । पूर्वपक्षयति ॥ देशेति ॥ सर्वसृष्ट्यादि न ब्रह्मण एव किं तु देशकालान्तरेऽन्यतोऽपि । राजादीनां तथा दर्शनात् । न च विष्णोरन्यस्य स्वातन्त्र्याभावेन ततः सृष्ट्यादिक्रियाऽयुक्तेति युक्तम् । भगवतैवान्येभ्यः स्वस्वातन्त्र्यदानेनोपपत्तेः । न चैतदसम्भावितम् । तस्यावतारेषु विविधासम्भावितलीलादर्शनात् । अतोऽन्येषामपि स्वातन्त्र्यान्न विष्णावेव निरतिशयभक्तिर्युक्तेति भावः ।

सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ भगवतैव सर्वदेशकालीनं सृष्ट्यादि न तु देशकालान्तरे अन्यस्य कल्पनीयम् । तथा हि । किं विष्णोः सर्वकर्तृत्वादौ प्रमाणाभावादेतत्कल्प्यते अन्यत्र प्रमाणसद्भावाद्वा । उत सम्भावनामात्रात् । नाद्यः । श्रुतिसद्भावात् । न द्वितीयः । तदभावात् । नान्त्यो ऽप्रामाणिककल्पनस्य क्वाप्यनुपयोगित्वात् । न चावतारेषु विविधलीलादर्शना-देतत्कल्प्यम् । ‘स्वातन्त्र्यात्क्रीडते विष्णुर्न हि स्वातन्त्र्यमन्यगम् । करोति क्वापि’ इत्यादेरत्यक्त-स्वातन्त्र्यस्यैव क्रीडावगमादिति भावः । सर्वगतत्वं च ब्रह्मणः सर्वसृष्ट्याद्यर्थमेव । ‘अनुप्रविश्य नामरूपे व्याकरोद्’ इत्यादेः । मायामयशब्दो मायामयशब्दं व्याकुर्वती श्रुतिः सर्ववस्तुषु सर्वं सर्ववस्तुविषयं सृष्ट्यादीत्यर्थः । इति सङ्गृहीतमिति शेषः । अतो ब्रह्मणि सर्वजगज्जन्मादिकर्तरि भक्तिः कार्येति सिद्धम् ।

गुर्वर्थदीपिका

‘स एव च कर्मानुस्मृतिशब्दविधिभ्यः’ इत्यधिकरणे सर्वत्र सर्वदा सर्वजीवानां जाग्रदा-द्यवस्थाप्रेरकत्वमात्रं भगवत एवेति निर्णीतम् । ‘सन्ध्ये सृष्टिराह ही’त्यादिना तस्यैव प्रस्तुतत्वात् । ‘अनेन सर्वगतत्वमायामयशब्दादिभ्यः’ इत्यधिकरणे तु सर्वदेशकालेषु चेतनाचेतनात्मक-सकलजगत्सृष्ट्यादिकर्ता भगवानेवेति समर्थ्यते । अतो न गतार्थता । तदुक्तमणुभाष्ये ‘सर्वावस्था-प्रेरकश्च सर्वरूपेष्वभेदवान् । सर्वदेशेषु कालेषु स एकः परमेश्वरः’ इति । ‘एष सर्वगत’ इति भाल्लवेयश्रुत्या सर्वगतत्वमेव साक्षादुच्यते न तु सर्वप्रवर्तकत्वम् । सर्वप्रवर्तकत्वं त्वस्यैव सर्वगतत्वस्यावैयर्थ्यायाऽऽनीयते । मायामयश्रुतिस्तु सर्वगतत्वमार्थिकमभिसन्धाय साक्षात्सर्वत्र सर्वदा प्रवर्तकत्वमेवाह । अतः प्रमेयवैचित्र्यात् श्रुतिद्वयमसूत्रयत्सूत्रकारः । विविधासम्भावितलीलेत्यनेन स्वयं दासीभूयोग्रसेनस्य राज्यदानादिकं गृह्यते ।

भावबोधः

प्रकृत इति ॥ ‘तथान्यत्’ इति पूर्वसूत्र इत्यर्थः । तथा च नानाभावरूपपूर्वाधिकरणीय-पूर्वपक्षन्यायेनैवात्रापि पूर्वपक्ष इत्यनन्तरसङ्गतिति भावः ॥ किं सर्वेति ॥ अत्र परमेश्वरः किं सर्वदेशकालीनसृष्ट्यादिकर्ता न भवति, किं तु देशकालान्तरेऽन्योऽपि कर्ता उत स्वयमेव सर्वदेशकालीनसृष्ट्यादिकर्तेति चिन्ता । तदर्थं कदाचित् स्वातन्त्र्यमन्यस्मै ददात्युत नेति । तदर्थं तस्य स्वातन्त्र्यदानं किं सम्भावितमुतासम्भावितमिति ॥ प्राचीनोक्तेरिति ॥ ‘जन्माद्यस्य यतः’ इत्युक्तेरित्यर्थः । युक्तिमिति भाष्याभिप्रायमाह– राजादीनामिति ॥ नानावतारकौतुकदर्शना-द्विष्णोः क्वचिद्देशकालान्तरे कौतुकादेव सृष्ट्यादिकर्म कुर्वन्नन्यमेव सामस्त्येन नियोजयतीति न्यायविवरणं व्याख्यातुमाह– न चेति ॥ कुतो नेत्यतः क्वचिद्देशकालान्तर इत्यादिन्यायविवरणांशं व्याख्याति– भगवतैवेति ॥ नानावतारकौतुकदर्शनाद्विष्णोरिति न्यायविवरणं तन्निवर्तनीयाशङ्का-प्रदर्शनपूर्वकं व्याचष्टे– न चैतदसम्भावितमित्यादिना ॥ किं विष्णोरिति ॥ अत्राद्यपक्षद्वयं भाष्यानुरोधेन । तृतीयस्तु न्यायविवरणानुरोधेनेति ज्ञातव्यम् ॥ श्रुतिसद्भावादिति ॥ ‘एष सर्वः’ इति ‘सर्वत्र’ इति च भाष्योदाहृतश्रुतिसद्भावादिति भावः । अनेन ‘सर्वत्र सर्वमेतस्मात्’ इति श्रुत्या क्रीडायामपि स्वातन्त्र्यावगमादिति न्यायविवरणमप्युक्तार्थं भवति ॥ तदभावादिति ॥ अनेनादिशब्दादन्यत्र प्रमाणाभावाच्चेति भाष्यमुक्तार्थं भवति । स्वातन्त्र्यात् क्रीडत इत्यादिन्याय-विवरणोदाहृतश्रुतिं संयोजयितुमाह– न चावतारेष्विति ॥ क्रीडावगमादित्यनेन न्यायविवरणे श्रुतेश्चेत्यनन्तरमत्यक्तस्वातन्त्र्यस्यैव क्रीडावगमादिति शेष इत्युक्तं भवति ।

ननु ‘एष सर्वः’ इति सर्वगतत्वप्रतिपादकश्रुत्या कथं विष्णोः सर्वदेशकालीनसृष्ट्यादि-सर्वकर्तृत्वसिद्धिरित्यत आह– सर्वगतत्वं चेति ॥ सर्ववस्तुविषयं सृष्ट्यादीत्यर्थ इति । अनेन सर्ववस्तुष्विति विषयसप्तमी सर्वशब्दश्च सृष्ट्याद्यष्टकपर इत्युक्तं भवति । इति सङ्गृहीतमिति शेष इति । प्रमाणाभावाच्चेत्यनन्तरमित्यर्थः ।

भावदीपः

तस्यैवेति ॥ अन्यस्य स्वातन्त्र्यदाननिरासेनेति भावः । तेन तदनन्यत्वं तेजोऽतः स एव च कर्मानुस्मृतीत्यादिनयैर्न पौनरुक्त्यमिति ध्येयम् । एतेन पूर्वत्र ब्रह्मैव फलप्रदमित्युक्तम् । तर्हि स्वस्वातंत्र्यदात्रपि स्यादिति वा यथा ध्यानकृतादन्यद्ब्रह्म तथा देशकालान्तरकर्तृतोऽप्यन्यदिति वा शङ्कनात्सङ्गतिः सूचिता ॥ प्राचीनोक्तेरिति ॥ जन्माद्यस्य यत इत्युक्तेरित्यर्थः ॥ उभयथेति ॥ वक्ष्यमाणदिशेति भावः । तेनैकस्मादेव सृष्ट्यादीति जन्मादिसूत्रादावनेकन्यायनिर्णीतस्य कथमुभयथा सम्भव इति शङ्काऽपास्ता । फलोक्तिपरत्वभ्रान्तिं निराह ॥ पूर्वपक्षयतीति ॥ अन्यतोऽपीत्यपि पदव्यावर्त्यमाह ॥ न ब्रह्मण एवेति ॥ युक्तमित्युक्तेर्भावमाह ॥ राजेति ॥ नानावतारकौतुकदर्शनाद्विष्णोः क्वचिद्देशकालान्तरे कौतुकादेव सृष्ट्यादिकर्म कुर्वन्नन्यमेव सामस्त्येन नियोजयतीत्यन्यत्रोक्तिं शङ्कापूर्वं सङ्गमयति ॥ न च विष्णोरित्यादिना ॥ एतेन तदनन्यत्वमित्यादिनयेषु विष्णोरेव सर्वस्वातन्त्र्यसिद्धेः कथमेषा शङ्केति प्रत्युक्तम् ॥ अवतारे-ष्विति ॥ कृष्णाद्यवतारेषु पार्थसारथ्यविप्रपादावनेजनविश्वामित्राद्यनु यायित्वस्त्रीविरहक्लेश-दुःखादिप्रदर्शनरूपविविधलीलादर्शनादित्यर्थः ॥ अत इति ॥ अन्येषु स्वातन्त्र्यदानस्योपपन्नत्वा-दित्यर्थः ।

सर्वेत्यादिभाष्यं व्याचष्टे ॥ भगवतैवेति ॥ पूर्वत्रान्यदिति विशेष्यतया प्रकृतं ब्रह्मानेन परामृश्यत इति भावः । एवकारव्यावर्त्यं व्यनक्ति ॥ न त्विति ॥ न कल्प्यमित्येतद्विवरणपरतया सूत्रभाष्ये व्यनक्ति ॥ तथा हीत्यादिना ॥ पूर्वोक्तशङ्कामनूद्य तन्निवर्तकतया सर्वत्र सर्वमेतस्मा-दित्यादिश्रुत्या क्रीडायामपि स्वातन्त्र्यात्क्रीडत इत्यादिन्यायविवरणं संयोजयति ॥ न चेत्यादिना ॥ सर्वगतत्वश्रुत्युक्तेरुपयोगमाह ॥ सर्वगतत्वं चेति ॥ अनुप्रविश्येति ॥ ता इमास्तिस्रो देवता इति पूर्वप्रकृतदेवताशब्दिततेजोबन्नान्यनुप्रविश्येत्यर्थः । नामरूपे शब्दार्थप्रपञ्चौ । सर्वत्रेत्यादिश्रुत्युक्तेः सूत्राविसंवादायाह ॥ मायामयशब्द इति ॥ यद्वा सौत्रमायामयशब्दार्थमाह ॥ मायामयशब्दं व्याकुर्वती श्रुतिरिति ॥ सर्ववस्तुष्विति विषयसप्तमी । सर्वशब्दस्तु सृष्ट्याद्यष्टकपर इत्यभिप्रेत्याह ॥ सर्ववस्तुषु सर्वमिति ॥ प्रमेयभेदान्न पौनरुक्त्यम् ॥ अत इति ॥ विष्णोरेव सर्वदेशकाल-वस्तुविषयसृष्ट्यादिकर्तृत्वादित्यर्थः ।

अभिनवचन्द्रिका

जगत्कर्तृत्वादिसमर्थनादिति ॥ ‘स इदं सर्वमसृजत’ इत्यादीनाम्, इदं शब्दश्रवणेन वर्तमानकालीनजगत्कारणतापरत्वस्यैवोचितत्वात्, कालान्तरे पुनरस्यैव जगत्कारणत्वे प्रमाणाभावेन न कालान्तरीयजगत्कारणत्वमस्येत्यभ्यधिकाशङ्कानिरासेनेति शेषः ॥ प्राचीनोक्तेरिति ॥ ‘यतो वा इमानि भूतानि जायन्त’ इत्याद्युक्तेर्वर्तमानैतद्देशीयजगत्कारणतापरत्वेनेव सर्वदेशीय सर्वकालिक-जगत्कारणतापरत्वेनापि सम्भवः सन्देहबीजमित्यर्थः । न सर्वदा ब्रह्मण एव जगत्कारणत्वम् अपि तु कल्पान्तरेषु अन्येषाम् । तथा हि कालान्तरे विष्णोर्जगत्कारणत्वे प्रमाणाभावात् । ‘यतो वा इमानि भूतानि’ इत्यादेश्च इमानीति विशेषणबलेन वर्तमानैतद्देशीय जगत्कारणतावादित्वात् । अन्यथा ‘यतो वा भूतानि जायन्त’ इत्येतावता पूर्णत्वाद् इमानीति विशेषणं व्यर्थं स्यात् । किं च अस्ति तावत्सोमादीनामपि जगत्कारणत्वे ‘सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्या जनिताऽग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोऽथ विष्णोः’ इत्यादिवाक्यम् । अस्ति च विष्णोर्जगत्कारणत्वे ‘यतो वा इमानि भूतानि’ इत्यादि वाक्यम् । न च अन्यतरबाधो युक्त इति व्रीहियवन्यायेन सर्वेषां कल्पभेदेन कारणत्वं युक्तम् । अपि च कालभेदेन राजानो विभिन्ना एव दृश्यन्ते । ततश्च कल्पभेदेन कर्तृभेद एव युक्त इति गूढाभिसन्धिः । पूर्वपक्षयति न सर्वसृष्ट्यादीति ॥

ननु इदानीमीश्वरस्य सर्वकारणत्वमभ्युपगच्छता ईश्वरस्वातन्त्र्यम्, अन्येषां तदधीनत्वमित्य-भ्युपगन्तव्यम् । अन्यथा तन्नियमनाद्ययोगप्रसङ्गात् । न च अस्वतन्त्रस्वभावस्य कालान्तरे स्वातन्त्र्यमुपपद्यते । न च स्वातन्त्र्याभावे जगत्काणत्वमुपपद्यत इत्याशङ्क्य निषेधति न च विष्णोरिति ॥ अवतारेष्विति ॥ कृष्णाद्यवतारेषु उग्रसेनादीनां राज्यं दत्वा स्वस्य तदाज्ञा-धारित्वादिलीलादर्शनादित्यर्थः । नन्वीश्वरदत्तस्वातन्त्र्येणाऽन्येषां जगत्कारणत्वं नाऽनिष्टम् । ईश्वरजगत्कारणत्वाऽनपायादिति चेत्, न ब्रूमो वयमीश्वरः स्वस्वातन्त्र्यमवशिष्य परस्मै ददातीति, येनोक्तदोषः स्यात्, किं नाम अपहायैव स्वस्वातन्त्र्यं परस्मै ददातीति । दृश्यन्ते हि कृपालवो दधीच्याद्याः परार्थे स्वात्मानमपि त्यजन्तः । न चाऽस्मिन्पक्षे विष्णोरपि जगत्कारणत्वं सम्भवति त्यक्तस्वातन्त्र्यत्वात् । पूर्वपक्षिणो गूढाभिसन्धित्वाद्विकल्पेन पृच्छति किं विष्णोरिति ॥ तदभावादिति ॥ ‘सोमः पवत’ इत्यादीनां विष्णुपरत्वादिति भावः । ननु न सम्भावना-मात्रादेतत्कल्प्यते । किं नाम रामकृष्णाद्यवतारेषु स्वस्वातन्त्र्यदानस्य प्रमाणदृष्टत्वेन तद्दानस्य तत्स्वभावत्वाद् यो यत्स्व भावस्स तत्करोत्येवेति नियमबलेनैव तत्कल्प्यत इत्यत आह– न चेति ॥ सूत्रे सर्वगतत्वोपन्यासो व्यर्थ इत्यत आह– सर्वगतत्वमिति ।

पूर्वपक्षस्तु अभिसन्धिवर्णनव्याजेन प्रागेव दर्शितः ।

सिद्धान्तस्तु भगवतैव सर्वदशेकालीनं सृष्ट्यादि, ‘अनुप्रविश्यनामरूपे व्याकरोत्’ इति श्रुति सिद्धसृष्ट्युपयोगिसर्वगतत्वस्य, ‘एष सर्व एष सर्वगत’ इति भाल्लवेयश्रुतौ विष्णोरभिधानात् । मायामयशब्दव्याख्यानरूप ‘सर्वत्र सर्वमेतस्मात्’ इति चतुर्वेदशिखोक्तेश्च । कालान्तरेऽन्यस्य जगत्कारणत्वे प्रमाणाभावाच्च । प्रमाणाभावे सम्भावनामात्रस्याऽप्रयोजकत्वात् । अतः सर्वजग-ज्जन्मादिकर्तरि ब्रह्मणि भक्तिः कार्येति सिद्धम् ।

वाक्यार्थमुक्तावली

तस्यैव तत्कर्तृत्व इति । अन्यथा पूर्वाधिकरणसिद्धान्तन्यायस्याधिक्यस्यानुपपत्तेरिति तदा-क्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिः । नानाभाव इत्युक्तपूर्वपक्षन्यायेनैवात्रापि पूर्वपक्ष इति वक्ति ॥ किं सर्वेति ॥ अत्र किं परमेश्वरः सर्वदेशकालीनसृष्ट्यादिकर्ता न भवत्युत भवतीति चिन्ता । तदर्थं कदाचित्स्वातन्त्र्यमन्यस्मै सम्भावितमुत नेति । युक्तेति भाष्याभिप्रायमाह ॥ राजादीनामिति ॥ एतेन सृष्ट्यादिकं देशकालान्तरेऽन्यायत्तं कार्यत्वाद्राज्यपालनादिकार्यवदित्यनुमानमुक्तं भवति । नान्यो देशकालान्तरे सृष्ट्यादिकर्ता अस्वतन्त्रत्वादिति सत्प्रतिपक्षमाशङ्क्य सत्प्रतिपक्षस्या-सिद्धिमाह ॥ न चेति ॥ एतेन देशकालान्तरे सृष्ट्यादिरन्यतो न युक्तिविरुद्धा, किन्त्वन्यस्य स्वातन्त्र्यदानेन प्रतिपक्षहेतोरसिद्ध्या युक्तैवेति व्याख्यातं भवति । कुतो नासम्भावितमित्यतो नानाभाव इति न्यायसिद्धत्वादिति भावेन प्रवृत्तं भाष्यमेव व्याचष्टे ॥ तस्येति ॥ सारथ्यपार्षद-सुसेवनसख्यदौत्यवीरासनानुगमनस्तवनप्रणामादीश्वरासम्भावितना नाविधलीलादर्शनादित्यर्थः । ननु ‘स एव च कर्मानुस्मृतिशब्दविधिभ्य’ इत्यधिकरणन्यायेनैतदधिकरणं गतार्थमिति चेन्न । तत्रैष ह्येव साधु कर्म कारयतीति श्रुतेर्वर्तमानविषयत्वसम्भवात् । प्रदर्शकश्च सर्वेषामिति श्रुतावपि वर्तमानकाल इत्यर्थोपपत्तेः । एष स्वप्नान्दर्शयतीति श्रुतावपि लट् प्रयोगो न सर्वकालविषयत्वाभावेन सावकाश-त्वादतदारम्भसम्भवात् । ननु तर्ह्यैतदेवाधिकरणमलं तद्व्यर्थमिति चेन्न स्वप्नाद्यवस्थाविषये विशेष-प्रमाणोदाहरणाय तत्सार्थक्यादिति ज्ञेयः ।

सूत्रेऽनेनेति सावधारणम् । सृष्ट्यादिकमिति शेषः । शब्देत्येतदन्तं स्वपक्षे प्रमाणोक्तिपरम् । आदिशब्दस्तु परपक्षे प्रमाणाभावोक्त्यर्थः । सम्भावनामात्रस्यानुपयोगित्वं तन्मूलभूत-प्रमाणा-भावादिति । मूलप्रमाणोक्त्यभावश्चेत्यभिप्रेत्य विकल्प्य दूषयति ॥ तथा हीत्यादिना ॥ भाष्येऽपि प्रमाणाभावश्चेत्यस्यान्यत्र प्रमाणाभावात् सम्भावनामूलप्रमाणाभावाच्चेत्यर्थः । अतस् तृतीयो भाष्यारूढ इत्याह ॥ नान्त्य इति ॥ सम्भावकं प्रमाणं शङ्कते ॥ न चेति ॥ सम्भावकस्या-न्यथासिद्धिं भाष्ये चशब्दसूचितं सौत्रस्वातन्त्र्यमित्युक्तन्यायापादनपूर्वमाह ॥ न चावतारेष्विति ॥ शेष इति प्रमाणाभावाच्चेत्यतः परमिति भावः ।

तत्त्वसुबोधिनी

प्रकृत इति ॥ तथान्यदिति पूर्वसूत्रे इत्यर्थः । तथा च नानारूपेण भवनरूपपूर्वपक्ष-न्यायेनैवात्रापि पूर्वपक्षादनन्तरसङ्गतिरिति भावः ॥ प्राचीनोक्तेरिति ॥ जन्माद्यस्य यत इत्युक्ते-रित्यर्थः । युक्तमिति भाष्याभिप्रायमाह ॥ राजादीनामिति ॥ यथास्मिन् देशेऽस्मिन्काले एकः राजा देशान्तरे कालान्तरे अन्य एव तद्वत् प्रकृतेऽपीत्यर्थः । ननु विष्णोः स्वस्वातन्त्र्यदानम-सम्भावितमित्याह ॥ न चेति ॥ श्रुतिसद्भावादिति ॥ एषः सर्व इति सर्वत्रेति च भाष्यो-दाहृतश्रुतिसद्भावादिति भावः ॥ तदभावादिति ॥ अन्यत आह । सर्वस्य कर्तृत्वे प्रमाणा-भावादित्यर्थः । ननु एष सर्व इति सर्वगतत्वप्रतिपादकश्रुत्या कथं विष्णोः सर्वदेशकालीन-सृष्ट्यादिकर्तृत्वसिद्धिरित्यत आह ॥ सर्वगतत्वं चेति ॥ तत्र प्रमाणमाह ॥ अनुप्रविश्येति ॥ सर्ववस्तुविषयसृष्ट्यादीत्यर्थः । अनेन सर्ववस्तुष्विति विषयसप्तमी सर्वशब्दश्च सृष्ट्याद्यष्टकपर इत्युक्तं भवति ॥ इति सङ्गृहीतमिति ॥ प्रमाणाभावाच्चेत्यनन्तरमित्यर्थः ।

वाक्यार्थविवरणम्

प्राचीनोक्तेरिति ॥ ‘जन्माद्यस्य यत’ इत्युक्तेरित्यर्थः । ब्रह्मणः सकाशात् ॥ तथा दर्शनादिति ॥ सर्वदेशकालीनाधिपत्याभावस्य दर्शनादित्यर्थः ॥ असम्भावितलीलेति ॥ कृष्णावतारे उग्रसेनाय राज्याधिपत्यं दत्वाऽभृत्यस्य स्वस्य सेवकत्वदर्शनादित्यर्थः । असम्भावितैतल्लीलावत्सृष्ट्यादि-कर्मण्यन्येभ्योऽपि स्वकीयस्वातन्त्र्यप्रदानरूपासम्भावितलीलाऽपि सम्भावितेत्याशयः ॥ अन्यस्य ॥ सकाशात् । भाष्ये सर्वस्मिन् देशे काले च सर्ववस्तुविषयकं सृष्ट्यादिकमनेनैव प्रवर्तत इत्यर्थः । प्रमाणे सर्वत्रेत्यस्य देश इत्यर्थः ॥ सृष्ट्यादीति ॥ हरिः करोतीति शेषः ।

वाक्यार्थमञ्जरी

प्राचीनोक्तेर् जन्माद्यस्य यत इत्यस्याः ॥ ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॐ ॥ अनेनैव ब्रह्मणैव सर्वं सृष्ट्यादि । कुतः ? सर्वगतत्वात् । एष सर्वगत इति सर्वगतत्वश्रवणान् मायामयशब्दान् मायामयत्वव्याख्यायकश्रुतेः । अन्यकर्तृत्वे प्रमाणाभावाच्चेत्यर्थः । एत-त्स्वातन्त्र्यादानं सर्वगतोक्त्या कथं तस्य सर्वकर्तृत्वं प्राप्तमिति तत्राह ॥ सर्वगतत्वं चेति ॥ सर्ववस्तुविषयमिति ॥ सप्तमी विषयार्था । सर्वमित्येतत्सृष्ट्याद्यष्टकपरमिति भावः ॥ इति सङ्ग्रहीतमिति शेष इति ॥ प्रमाणाभावाच्चेत्यनन्तरमित्यर्थः ।

॥ इति सर्वगतत्वाधिकरणम् ॥ १९ ॥