ॐ तथाऽन्यत्प्रतिषेधात् ॐ
१८. प्रतिषेधाधिकरणम्
सूत्रभाष्यं
ध्यानकाले यच्चित्ते प्रदृश्यते तदेव हि ब्रह्मरूपम् । अतः कथमव्यक्ततेत्यत आह—
॥ ॐ तथाऽन्यत्प्रतिषेधात् ॐ ॥ ३७ ॥
यथा जीवानन्दादेरन्यद् ब्रह्म तथोपासाकृतादपि ।
‘यन्मनसा न मनुते येनाऽऽहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १-६) इति प्रतिषेधात् ।
‘पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिम्बितम् ।
ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम् ॥
तदुपासनं च भवति प्रतिमोपासनं यथा ।
दृश्यते त्वपरोक्षेण ज्ञानेनैव परं पदम् ।
उपासना त्वापरोक्ष्यं गमयेत्तत्प्रसादतः’ इति ब्रह्मतर्के ॥ ३७ ॥
तत्त्वप्रदीपिका
श्रवणमननध्यानाभ्यासात्प्रसन्नं ब्रह्म प्रकाशत इत्युक्तम् । तदयुक्तम् । ध्यानकाल एव ब्रह्मरूपस्य दृश्यमानत्वात् । अतः कथमव्यक्तत्वमित्यत आह– तथाऽन्यत्प्रतिषेधात् ॥ उपास्तिस्फुरिता-दप्याकारादन्यद् ब्रह्म । अन्तःकरणप्रविष्टपदार्थाकारस्फुरणं हि स्मृतिः । न च तत्र पदार्थो दृश्यते । तस्य विनाशेऽपि स्मृतिसम्भवात् । तस्यैवान्तःप्रवेशे बहुत्वप्रसङ्गाच्च । तदाकारस्फुरणमेव तत्स्मृति-रित्युच्यते । यथा प्रतिमायामित्थम्भूतो भगवानित्युपासनं तदुपासनं भवति । एवं प्रतिबिम्बेऽपि । अल्पा अपि पिशाचादयः स्वाकारस्मृतौ किञ्चित्फलं दद्युः किमुत सर्वज्ञं सर्वशक्तिकं ब्रह्मेति ।
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनभक्त्यर्थं पुनस्तस्याव्यक्तत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । व्यक्तत्वे तस्य भक्तिवैयर्थ्यापातात्तत्समर्थनीयम् । प्रकृतं ब्रह्मैवात्र विषयः । व्यक्तमव्यक्तं वेति सन्देहः । पदार्थ-द्वैविध्यदर्शनं सन्देहबीजम् । पूर्वपक्षयति ॥ ध्यानेति ॥ न ब्रह्माव्यक्तं तस्य ध्यानकाले चित्ते प्रतीयमानत्वात् । ध्यानकाले प्रतीतं न ब्रह्म तस्य ध्यातृबहुत्वेन बहुत्वापत्तेरिति चेन्न । स्वरूपभेदाभावेऽपि ब्रह्मरूपाणां नानात्वेन तदुपपत्तेः । अन्यथा ध्यानवैयर्थ्यात् । न हि यत्किञ्चि-द्ध्यानेन ब्रह्म फलं ददातीति युक्तम् । अतो ध्यानकाले पुरुषप्रयत्नेन प्रतीतस्य ब्रह्मरूपत्वेना-व्यक्तत्वाभावाद्व्यर्था तद्भक्तिरिति भावः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ न ध्यानकाले प्रतीतत्वेन ब्रह्मणो व्यक्तत्वं मन्तव्यम् । ध्यानप्रतीतस्याब्रह्मत्वात् । तत्कुतः । ‘यथा खलु जीवानन्दादीनामल्पत्वादिकारणेन ब्रह्मानन्दादितद्विलक्षणमेव तथोपासाकृतस्य दुर्लक्षणत्वादिना कारणेन ब्रह्मणस्ततो वैलक्षण्यात् । निर्दोषदोषिणोर्ब्रह्मोपासाकृतयोरैक्यानुपपत्तेरेव हि ‘यन्मनसा’ इति श्रुतिस्तस्य ब्रह्मत्वं प्रतिषेधतीति भावः । पुरुषो यद्वस्तु न मनुते । ध्यानकालप्रतीतस्याब्रह्मत्वे कथं ब्रह्म फलदं स्यादित्यत आह ॥ पश्यन्तीति ॥ स्थितिमात्रेण कथं फलदमनुपासितत्वादित्यत आह ॥ तदिति ॥ प्रतिबिम्बोपासनमिति सम्बध्यते । ब्रह्मैव तत्कुतो नेत्यत आह ॥ दृश्यत इति ॥ तर्हि ज्ञानायैव प्रयतितव्यं किमुपासनयेत्यत आह ॥ उपासनेति ॥ अतो ध्यानप्रतीतस्याब्रह्मत्वेन तस्याव्यक्त-त्वात्कर्तव्यैव तत्र भक्तिरिति सिद्धम् ।
गुर्वर्थदीपिका
स्वरूपभेदाभावेऽपीत्यस्य ब्रह्मस्वरूपेषु भेदाभावेऽपि तेषां ब्रह्मरूपाणां नानात्वेन सिद्धान्तिनामिवानेकत्वेन तदुपपत्तेरित्यर्थः । ब्रह्मोपासाकृतयोरित्यस्य ब्रह्म चोपासार्थं कृतं रूपं च ब्रह्मोपासाकृते तयोरित्यर्थः । पश्यन्ति परमं ब्रह्मेति स्मृतेः परं ब्रह्मैव पश्यन्ति ध्यानानन्तरमा-परोक्ष्येण पश्यन्ति यद्यस्मात्कारणात्प्रतिबिम्बे चित्तनिर्मितप्रतिमायां ब्रह्मैव वर्तते । अतः कारणा-च्चित्ते प्रतिबिम्बितं यद्रूपं तदपि तेषां ध्यातॄणां फलप्रदम् । तदुपासनं प्रतिबिम्बोपासनं च प्रतिमो-पासना शिलाकांस्यादिकृतप्रतिमोपासना यथा तथा तदुपासनं ब्रह्मोपासनं भवतीत्यावृत्या योजना ।
भावबोधः
प्रकृतमिति । ‘उपपत्तेश्च’ इति सूत्रे प्रतिबिम्बवैचित्र्यघटकसामर्थ्यवत्त्वेन प्रकृतमित्यर्थः । तथा चात्र यथा जीवानन्दादेरन्यद् ब्रह्म तथोपासाकृतादपीति पूर्वाधिकरणभेदरूपसाध्यस्याधिक्य-रूपसिद्धान्तन्यायस्य चातिदेशादनन्तरसङ्गतिरिति भावः । व्यक्तमिति ॥ अत्र ब्रह्म किं व्यक्त-मव्यक्तं वेति चिन्ता । तदर्थमुपासाकृतेन चित्ते प्रतिबिम्बितेन ब्रह्माभिन्नमुत भिन्नमिति । तदर्थमुपासाकृतं किं दुर्लक्षणत्वादिदोषोपेतं न भवत्युत भवतीति । तदर्थं भेदे ब्रह्म स्वभिन्नोपासने फलदं न भवत्युत भवतीति । तदर्थं स्वभिन्नोपासनाविषयो न भवत्युत भवतीति । तस्य ध्यानकाल इति । अनेन विष्णोश्चित्तप्रतिबिम्बरूपेति न्यायवियरणांशोऽपि व्याख्यातः । नानाभावाद्विष्णोरिति न्यायविवरणांशं तन्निवर्तनीयशङ्काप्रदर्शनपूर्वकं व्याचष्टे– ध्यानकाल इत्यादिना ॥ ‘पश्यन्ति परमं ब्रह्म’ इत्यादिस्मृतिनिवर्तनीयविपक्षबाधकतर्कमाह अन्यथेति ॥ चित्प्रतिबिम्बितस्य ब्रह्मरूपत्वाभाव इत्यर्थः । सौत्र‘तथा’शब्दार्थतद्विरुद्धधर्माधिकरणत्वरूपहेतुप्रतिपादकमाधिक्यादेव प्रतिबिम्बे हि दोषाश्च प्रतीयन्त इति न्यायविवरणं मनसि निधाय यथेत्यादिभाष्यं व्याचष्टे– यथा खल्वि-त्यादिना ॥ अतो हि श्रुतिः प्रतिषेधति । नेदं यदिदमुपासत इति न्यायविवरणं व्याचष्टे– निर्दोषदोषिणोरिति ॥ ‘यन्मनसा’ इति श्रुतिप्रतीकग्रहणेन यन्मनसेत्यादिभाष्यमपि व्याख्यातं भवति । यदित्युक्तस्य ब्रह्मणः कर्तृत्वे येन ब्रह्मणा मनो मतमित्यनेन व्याघातप्रसङ्गात्कर्तृ-पदाध्याहारेण वाक्यं योजयति– पुरुष इति ॥ स्थितिमात्रेणेति ॥ अनेन प्रतिबिम्ब इत्यनन्तरं तिष्ठतीति शेष इत्युक्तं भवति । तथा च चित्ते यत्प्रतिबिम्बितं तत्परमं ब्रह्म पश्यन्तीति सामानाधि-करण्यं सादृश्याद्गौणमिति भावः । किं तु तदुपासनं भवतीति कर्तुरप्रतीतेराह– प्रतिबिम्बोपासन-मिति ॥ दृश्यत इतीति ॥ परमं पदं ब्रह्मस्वरूपं ध्यानजज्ञानेनैवापरोक्ष्येण दृश्यते, न तु ध्यानकाले, अतो ध्यानकाले परोक्ष्येण चित्तप्रतिबिम्बितं न ब्रह्मेत्यर्थः ।
भावदीपः
पुनस्तस्याव्यक्तत्वेति ॥ ध्यानप्रतीतादन्यत्वोक्त्येति भावः । अतो न पौनरुक्त्यम् । एतेन प्रागव्यक्तनये श्रवणाद्यभ्यासेन प्रसन्नं ब्रह्म व्यज्यत इत्युक्ते तदात्मनः प्रसादगुणस्य कथं तेन विशेषणविशेष्यभाव इत्याशङ्कानिरासाय तदुपलक्षिताशेषगुणानां तदात्मनामपि तद्धर्मत्वे विशेषबलात्समर्थिते अलौकिकत्वादुत्ताना वै देवगवा वहन्तीत्युत्तानानामेव देवगवानां भारवहन-मिवालौकिकत्वादेवेशगुणानां तदात्मनामपि भावेन नयद्वयेनालौकिकत्वे समर्थिते सति प्रकृत-मव्यक्तत्वमेव प्रकारान्तरेणाक्षिप्य समाधीयत इति वा विष्णोश्चित्तप्रतिबिम्बरूपत्वात्कथं बिम्बतेति ध्यातृपुरुषभेदेन ध्येयब्रह्मणोऽपि विचित्रत्वात्कथमविचित्रतेति च शङ्कानिरासाद्वा परमत इत्यत्रोक्त-न्यायातिदेशाद्वा सङ्गतिः सूचिता । स्थानविशेषादित्यस्य सम्बन्धरूपहेतुसाधकत्वेनाव्यवधाय-कत्वात् । फलोक्तिपरत्वभ्रांतिं निराह ॥ पूर्वपक्षयतीति ॥ कथमित्यादिभाष्यं व्याचष्टे ॥ न ब्रह्मेति ॥ अत इत्यन्तपूर्ववाक्यार्थमाह ॥ तस्येति ॥ तदेव ब्रह्मरूपमित्युक्तितात्पर्यं नानाभावा-द्विष्णोश्चित्तप्रतिबिम्बरूपतेत्यन्यत्रोक्तदिशा व्यनक्ति ॥ ध्यानेत्यादिना युक्तमित्यन्तेन ॥ अन्यथा ध्यानप्रतीतस्याब्रह्मत्व इत्यर्थः ॥ अत इति ॥ ध्यानवैयर्थ्यान्यथानुपपत्तिबलाद्रूपनानात्वेन ब्रह्मत्वोपपत्तिबलाच्चेत्यर्थः ।
पूर्वपक्षं प्रतिषिध्य तत्र हेतूपपादकतया सूत्रभाष्ये व्याचष्टे ॥ न ध्यानेति ॥ अब्रह्मत्वादिति ॥ श्रवणमननोत्पन्ननिर्णयजन्यवासनामयस्य वस्तुनोऽविच्छिन्नमानसावलोकनस्य ध्यानत्वात्तद्विषयस्य वासनापरिणामत्वादिति भावः । सूत्रे तथेत्यतिदेशः परमत इत्यत्रोक्तन्यायानुसन्धानार्थ इति भावेन प्रवृत्तं यथेति भाष्यमित्युपेत्याह ॥ अल्पत्वादीति ॥ सेतून्मानेत्युक्तोन्मानत्वादिप्रतिद्वन्द्वि-धर्मोक्तिरल्पत्वादीति । उपजीवकत्वमनोवाग्गोचरत्वादिपदार्थः । एतेन आधिक्यादेवेति न्यायविवरणोक्तमुपलक्षणमिति सूचितम् । प्रतिबिम्बे हि दोषाश्च प्रतीयन्त इत्यन्यत्रोक्तं हेतुमाह ॥ दुर्लक्षणत्वादिनेति ॥ अतो हि श्रुतिः प्रतिषेधति । ‘नेदं यदिदमुपासत’ इत्यन्यत्रोक्त्यनुरोधेन यदित्यादिभाष्यभावमाह ॥ निर्दोषेति ॥ एतेन प्रतिषेधादिति हेतोरन्यदित्युक्तसाध्यस्य च वह्निमत्त्वादेव हि धूमवत्त्वमितिवत्प्रयोज्यप्रयोजकभावः सूचितः । यदित्यस्य कर्तृत्वभ्रांतिं निराह ॥ पुरुष इति ॥ साकल्येनेत्यर्थः । अन्यथा मनसैवाऽनुद्रष्टव्यमित्यादिविरोधात् । ज्ञानमात्रनिषेधस्य व्याहतत्वाच्च । यदिदं वस्तूपासते ध्यायन्ति नेदं ब्रह्म । किं तु यन्न मनुते तदेव ब्रह्म त्वं विजानीहीत्यर्थो व्यक्त इति भावः । नेदं जीवस्वरूपं तद्ब्रह्म विष्ण्वाख्यमव्ययम् । किं तु यत्ते समीपस्थमासते विनियामकम् । तदेव ब्रह्म विद्धि त्वं विष्ण्वाख्यं परमव्ययमिति तलवकारभाष्ये तु आसेति भिन्नं पदमुपेत्याऽर्थान्तरमुक्तम् । (परमं ब्रह्मेति तदाश्रये तद्व्यपदेशः ।) उद्देश्याऽप्रतीतेराह ॥ प्रतिबिम्बेति ॥ यथा प्रतिमोपासनं तदुपासनं तथा प्रतिबिम्बोपासनमपि तदुपासनं ब्रह्मोपासनं भवतीत्यर्थः ॥ दृश्यत इतीति ॥ परं पदं ब्रह्मस्वरूपम् अपरोक्षेणैव ज्ञानेनोत्तमं ब्रह्मस्वरूपं दृश्यत इति स्मृतावित्यर्थः ॥ अत इति ॥ श्रुतौ ब्रह्मत्वप्रतिषेधादित्यर्थः । अत्र केनचिदुत्प्रेक्षितो दोषोऽस्माभिश्चन्द्रिकाप्रकाशे वाच्यत्वनये निरस्तो ध्येयः ॥
अभिनवचन्द्रिका
पुनस्तस्येति ॥ ‘तदव्यक्तमाह हि’ इत्यादौ समर्थितत्वात्पुनरित्युक्तम् । पुनस्समर्थनं च तस्याऽव्यक्तत्वे अनुभवविरोध इत्यभ्यधिकाशङ्कानिरासायेति बोध्यम् । ध्यातृबहुत्वेनेति ॥ ध्यातारस्तावदेकस्मिन्काले, नानादेशस्था बहवः ध्यायन्ति च स्वहृदये सामस्त्येन । न च एकस्य वस्तुनः सामस्त्येनैकदैवाऽनेकदेशस्थता सम्भवतीत्यनेकमेव ध्येयम् । तस्य च ब्रह्मत्वे ब्रह्मणोऽ-प्यनेकत्वापत्त्या भेदः स्यादिति भावः ॥ स्वरूपभेदाभावेऽपीति ॥ स्वरूपभेदाभावेऽपि विशेष-बलेनैव रामकृष्णादिरूपबहुत्वस्य प्रमाणसिद्धत्वेन तद्वद् ध्येयेऽपि विशेषबलेनैव तत्सिद्धे-र्भेदसाधकत्वाभावाद् ध्येयानेकत्वं नाऽनिष्टमिति भावः ॥ अन्यथेति ॥ ध्येयस्याऽब्रह्मत्व इत्यर्थः । भाष्ये यन्मनसेति ॥ पुरुषः यद्वस्तु मनसा न मनुते, येन परमात्मना मनो विज्ञतमाहुः, तदेव ब्रह्मत्वं विद्धि । जना यदिदमुपासते चित्ते प्रतिबिम्बितमुपासते, तद्ब्रह्म नेत्यर्थः । भाष्ये पश्यन्ति परमं ब्रह्मेति ॥ यस्य प्रतिबिम्बं चित्ते ध्याननिष्ठाः पश्यन्ति तद्बिम्बरूपमेव परमं ब्रह्म न तु ध्यानकाले प्रतीतम् । कथं तर्हि अब्रह्मणः प्रतिबिम्बस्य फलदत्वमित्यत उक्तम् ब्रह्मैव प्रतिबिम्ब इति ॥ प्रतिबिम्बे ब्रह्मणः सत्वात्तदेव फलप्रदमित्यर्थः । टीकायां प्रतिबिम्बोपासनमिति सम्बध्यत इति । अनेन यथा प्रतिमोपासनं न केवलं प्रतिमायाः, अपि तु ब्रह्मणोऽप्युपासनं भवति, तथा प्रतिबिम्बोपासनमपि न केवलं प्रतिबिम्बोपासनम् अपि तु तदुपासनं च भवतीति मूलवाक्यं योजितं भवति ॥ भाष्ये दृश्यत इति ॥ परं पदं परब्रह्मस्वरूपं ध्यान संज्ञाविधुरेणाऽपरोक्षज्ञानेनैव दृश्यते । इदं तु ध्यानसंज्ञकेनाऽपरोक्षेण दृश्यते, अतो न तयोरैक्यमिति भावः ।
पूर्वपक्षस्तु व्यक्तमेव ब्रह्म । ध्यानकाले प्रतीयमानत्वात् । न च ध्येयानां बहुत्वेन ब्रह्मभेदापत्तिर् विशेषबलेनैव बहुत्वोपपत्तेः । ध्येयस्याब्रह्मत्वे च ब्रह्मध्यानाभावेन फलं न स्यात् । अतो ध्यानकाले प्रतीतस्य ब्रह्मत्वेनाऽव्यक्तत्वाभावाव्द्यर्था भक्तिरिति ।
सिद्धान्तस्तु अव्यक्तमेव ब्रह्म जीवानन्दाद्बह्मानन्दस्य भिन्नत्ववद् ध्येयस्य दुर्लक्षणत्वेन ब्रह्मणस्तदन्यत्वात् । ‘तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासत’ इति ध्येयस्य ब्रह्मत्वनिषेधाच्च । न च ध्यानफलानुपपत्तिः प्रतिमोपासनवत् प्रतिबिम्बोपासनस्यापि ब्रह्मोपासनत्वात् । अतो ध्यानकाले प्रतीतस्याऽब्रह्मत्वेनाऽव्यक्तत्वात्, कर्तव्यैव तद्भक्तिरिति सिद्धम् ।
वाक्यार्थमुक्तावली
सूत्रे तथेति पूर्वसिद्धान्तन्यायस्यातिदेशादनन्तरसङ्गतिः । अत्र ब्रह्म किं व्यक्तमुताव्यक्तमिति चिन्ता । तदर्थमुपासाकृतेनाभिन्नमुत भिन्नमिति चिन्ता । ध्यानकाले यच्चित्ते प्रदृश्यते अतः कथमव्यक्ततेति भाष्यान्वयमभिप्रेत्य व्याचष्टे ॥ न ब्रह्माव्यक्तं तस्य ध्यानकाले चित्ते प्रतीय-मानत्वादिति ॥ ध्यानकाले यच्चित्ते प्रतीयते तद्ब्रह्म नेति भाष्यान्वयमभिप्रेत्य तद्व्यावर्त्यमाह ॥ ध्यानकाल इति ॥ कुतो नेत्यतो भाष्ये तद्ब्रह्मेति वक्तव्ये ब्रह्मरूपमिति रूपशब्दप्रयोगेन स्वरूप-भेदाभावेऽपि विशेषकृतरूपनानात्वेन बहुत्वोपपत्तिरिति नानात्वमित्युक्तन्यायं प्रदर्शयितुं ब्रह्मणो रूपं ब्रह्मरूपमिति रूपपदं मत्वा व्याचष्टे ॥ स्वरूपभेदाभावेऽपीति ॥ सूत्रे तदव्यक्तमित्यस्ति । उपासाकृतादिति शेषः । यत उपासाकृतादन्यद् भिन्नमतस्तदव्यक्तमिति सूत्रार्थमाह ॥ न ध्यानकाल इति ॥ हेत्वसिद्धिमाशङ्क्य यतस् तदुपासाकृतात् ततः ब्रह्मानन्दादेरिव अन्यद्विलक्षणम् । अतोऽन्यद्भिन्नमिति सूत्रार्थं मत्वा व्याचष्टे ॥ यथा खल्विति ॥ अन्यथात्वं तारतम्यम् अव्यक्तत्वं वा ब्रह्मानन्दादितद्विलक्षणमेवेति भगवदानन्दादेर्निरवधिकतया नित्यव्यक्ततया चाधिक्यादिति भावः । एतेनाधिक्यमित्युक्तन्यायोऽपि दर्शितः ।
ननु प्रतिषेधादिति सौत्रो हेतुः किं भेदे उत वैलक्षण्ये । नाद्यः । तथात्वे वैलक्षण्यस्यापि तत्र हेतुत्वेन प्रतिषेधाच्चेति चशब्देन भवितव्यम् । न द्वितीयः । ऐक्यनिषेधे भेदस्यैव प्राप्तत्वेन भेद-साधकवैलक्षण्यादिति भवतु वैलक्षण्यं भेदो मास्तु ऐक्यमेवास्तु बाधकाभावाद् अप्रयोजको हेतुरिति शङ्कायां वैलक्षण्यमङ्गीकृत्यैक्याङ्गीकारोऽनुपपन्नः । यन्मनसा न मनुत इति निरवधिकत्वे त्वज्ञेयत्वं, येनाहुर्मनो मतमिति मनसस्तद्विकारस्योपासाकृतस्य तदभिमानिदेवानां चात्यल्पत्वेन ज्ञेयत्वमिति निर्दोषित्वदोषित्वरूपवैलक्षण्यमुक्त्वा तदेव ब्रह्मेति निर्दोषस्य ब्रह्मत्वमुक्त्वा य उपासतेत्यल्प-तयोपासया विषयीकुर्वन्तीदमिति इदमिदं ब्रह्म न भवतीति निर्दोषदोषिरूपितया विलक्षणयोरैक्यानु-पपत्तेरेव हि यन्मनसेति श्रुतिस्तस्य ब्रह्मत्वं प्रतिषेधति । विलक्षणयोरैक्योपपत्तौ वैलक्षण्येन हेतुना ऐक्यप्रतिषेधः श्रौतो न स्यादिति बाधकोपन्यासाय प्रतिषेधादित्यस्य प्रवृत्तत्वादिति भावेन अतो हि श्रुतिः प्रतिषेधति ‘नेदं यदिदमुपासत’ इति न्यायविवरणं मनसि निधायाह ॥ निर्दोषदोष-रूपिणोरिति ॥ ‘पश्यन्ति परमं ब्रह्म’ इति भाष्यास्यायमर्थः । इतरजिति सूत्रात् प्रतिबिम्बं सञ्जातमस्येत्यर्थे प्रतिबिम्बशब्दादितरच् प्रत्यये कृते निष्पन्नः प्रतिबिम्बितशब्दः वासनामयरूप-प्रतिबिम्बोपेतमिति वक्ति । तथा च यद्वस्तु प्रतिबिम्बितं प्रतिबिम्बोपेतं तत्परमं ब्रह्म चित्ते पश्यन्ति । चित्ते यत्प्रतिबिम्बितं पश्यन्ति तत्र प्रतितिष्ठति ब्रह्मैव प्रतिबिम्बे यद्यस्मादस्ति अतस्तेषां तत्फलप्रदमिति ।
तत्त्वसुबोधिनी
प्रकृतमिति ॥ उपपत्तेश्चेति सूत्रे प्रतिबिम्बसामर्थ्यवैचित्र्यघटकसामर्थ्यवत्वेन प्रकृतमित्यर्थः । तथा चात्र यथा जीवानन्दादेस् ततमद्ब्रह्मततोपासाकृतादपीति पूर्वाधिकरणभेदरूपसाध्यस्याधिक्या-दपसिद्धान्तन्यायस्य चातिदेशादनन्तरसङ्गतिरिति भावः । तदुपपत्तेः । ब्रह्मत्वोपपत्तेरित्यर्थः ॥ अन्यथेति ॥ चित्ते प्रतिबिम्बितस्य ब्रह्मत्वाभाव इत्यर्थः । ननु न स्थानवैय्यर्थ्यम् । मोक्षरूप-फलार्थत्वादित्यत आह ॥ न हीति ॥ उपासाकृताद्ब्रह्मणो वैलक्षण्ये किं कारणमत्राह ॥ तेष्विति ॥ यदित्युक्तस्य ब्रह्मणः कर्तृत्वे येन ब्रह्मणो मतम् इत्यनेन ध्यानप्रसङ्गात् कर्तृपदाध्याहारेण वाक्यं योजयति ॥ पुरुष इति ॥ येन ब्रह्मणा मनः मतं ज्ञातम् । स्थितिमात्रेणेति । अनेन प्रतिबिम्ब इत्यनन्तरं तिष्ठतीति शेष इत्युक्तं भवति । तथा च चित्ते यत्प्रतिबिम्बितं नान्यतमब्रह्म पश्यन्तीति सामानाधिकरण्यं सादृश्याद् गौणमिति भावः । किं तदुपासनं भवतीति कर्तृरप्रतीतेराह ॥ प्रतिबिम्बोपासनमिति ॥ दृश्यन्त इति ॥ परमं पदं ब्रह्मस्वरूपं ध्यानजन्यज्ञानेनैवापरोक्ष्येण दृश्यते न तु ध्यानकाले । अतो ध्यानकाले आपरोक्ष्येण चित्तप्रतिबिम्बितं न ब्रह्मेत्यर्थः ।
वाक्यार्थविवरणम्
बहुत्वेति ॥ तथा चैकमेवेति श्रुतिविरोध इति भावः ॥ तदुपपत्तेः ॥ तद्बहुत्वोपपत्तेः । तथा च ध्यानकाले चित्ते प्रतीयते यद्वासनामयं रूपं ब्रह्मेत्याशयः ॥ अन्यथा ध्यानकाले चित्ते प्रतीतस्याब्रह्मत्वे ॥ ध्यानेति ॥ चित्ते प्रतीतस्य ध्यानेत्यर्थः ॥ यत्किञ्चिदिति ॥ ब्रह्मेतरस्य ध्याने क्रियमाणे सतीत्यर्थः ॥ पुरुषप्रयत्नेन ध्यानाख्येन ॥ ब्रह्मानन्दादीति ॥ तथा च भाष्ये ब्रह्मेत्येतद्ब्रह्मानन्दादीति व्याख्यातं भवति । भाष्ये प्रतिबिम्बे ब्रह्मैव तिष्ठतीति शेषः ॥ तदितीति ॥ तथा च यथा प्रतिमोपासनं तदन्तस्स्थभगवदुपासनं भवति तथा चित्तप्रतिबिम्बितस्योपासनमपि तत्रस्थभगवदुपासनं यतोऽतस्तद्ब्रह्म तेषां फलप्रदमित्यर्थः ॥ ब्रह्मैवेति ॥ चित्तप्रतिबिम्बितं सद् ध्यानकाले यदपरोक्षतः प्रतीयते तदेव ब्रह्मेति कुतो नाङ्गीक्रियते । किं तत्रस्थत्ववचनेनेत्यर्थः ॥ दृश्यत इतीति ॥ यत् परं सर्वोत्तमं पदं पद्यत इति व्युत्पत्त्या सर्वप्राप्यं ब्रह्म तज्ज्ञानेन परोक्षज्ञानेनैव दृश्यते विषयीक्रियते । प्रतिमादिकं त्वापरोक्ष्येण दृश्यतेऽतो ध्यानकाले आपरोक्ष्येण चित्त-प्रतिबिम्बततया दृश्यमानस्य न ब्रह्मत्वमित्यर्थः ॥ तर्हीति ॥ यदि ज्ञानेनैव परोक्षतया ब्रह्म दृश्यते नैवापरोक्षतया ब्रह्म दृश्यते तर्हीत्यर्थः ॥ किमिति ॥ तथा च तदुपासनमित्युक्तमयुक्तमिति भावः ॥ उपासनेतीति ॥ यस्मादुपासना । तत्प्रसादतस् तत्प्रसादं जनयित्वा तद्द्वारेति यावत् ॥ आपरोक्ष्यम् ब्रह्मण अपरोक्षज्ञानविषयत्वम् ॥ गमयेत् प्रापयेत् ॥ अतोऽपरोक्षज्ञानसाधनत्वादुपासनाऽ-पेक्षितेत्यर्थः । तस्याव्यक्तत्वादेवेत्यन्वयः ।
वाक्यार्थमञ्जरी
अन्यथेति ॥ चित्तप्रतिबिम्बितस्य ब्रह्मप्रतिबिम्बत्वाभाव इत्यर्थः । यत्किञ्चिद्ध्याने अन्यध्याने ॥ ॐ तथान्यत्प्रतिषेधात् ॐ ॥ यथा ब्रह्मण आनन्दादिकं लोकानन्दादेर्विलक्षणं तथा ब्रह्माप्यन्यच् चित्तप्रतीताद्विलक्षणमेव कुतः ? यन्मनसेति चित्तप्रतीतस्य ब्रह्मत्वप्रतिषेधादित्यर्थः । यदित्युक्तस्य ब्रह्मणः कर्तृत्वे येन ब्रह्मणा मनो मतमित्यनेन व्याहतिरित्यत आह ॥ पुरुष इति ॥ तदुपासनं किं भवतीत्यत आह ॥ प्रतिबिम्बोपासनमिति ॥ दृश्यत इतीति ॥ परं पदं ब्रह्मस्वरूपम् । ध्यानजन्यज्ञानेनैवापरोक्षेण दृश्यते न तु ध्यानकालीनापरोक्ष्येण । अतश्चित्त-प्रतिबिम्बितं न ब्रह्मेत्यर्थः ।
॥ इति प्रतिषेधाधिकरणम् (तथान्यत्वाधिकरणम्. पा) ॥ १८ ॥