ॐ स्थानविशेषात्प्रकाशादिवत् ॐ
१७. स्थानविशेषाधिकरणम्
सूत्रभाष्यम्
परानन्दमात्रत्वे कथं ब्रह्माद्यानन्दादीनां विशेष इत्यत उच्यते
॥ ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ॥ ३५ ॥
यथाऽऽदित्यस्य दर्पणादिस्थानविशेषात्प्रतिबिम्बविशेष एवमानन्दादेरपि ।
‘ब्रह्मादिगुणवैशेष्यादानन्दादिः परस्य च ।
प्रतिबिम्बत्वमायाति मध्योच्चादिविशेषत’ इति वाराहे ॥
तत्त्वप्रदीपिका
परानन्दादिप्रतिबिम्बत्वे कथं ब्रह्माद्यानन्दादीनां मिथो विशेषः । सृतिमानां त्वदृष्टादिना वैमल्यकालुष्यादेर्वैचित्र्यमुपपद्यते । न मुक्तब्रह्माद्यानन्दादीनां विशुद्धरूपाणां तदुपपत्तिरित्यत आह ॥ स्थानविशेषात्प्रकाशादिवत् ॥ एवमानन्दादेरपीत्यस्यायमर्थः । एवं परमानन्दादेरपि ब्रह्मादि-स्थानगुणविशेषात् प्रतिबिम्बभूतानन्दादिविशेषः । ‘प्रतिबिम्बत्वमायाति’ प्रतिबिम्बकरत्व-मायातीत्यर्थः । अन्यथा सूर्यकाद्युक्तिविरोधात् । गुणानामेकैकशो गुणप्रतिबिम्बत्वज्ञापनं चात्र क्रियते । अतश्चैतत्सिद्धं यावन्तो गुणा उपास्यन्ते तावन्तः स्वस्मिन्नपि लभ्यन्त इति ।
‘ब्रह्मादीनां च मुक्तानां सुखं विष्णुसुखस्य तु ।
प्रतिबिम्बस्तु विप्लुट्को विष्णोरेव परं सुखम्’ इति महावराहे ॥
‘उपाधेश्चैव नित्यत्वान्नैव जीवो विनश्यति ।
स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पनम् ।
न चाभिन्नत्वमीशेन चिन्मात्रत्वं च युज्यते’ इति ब्रह्मतर्के ॥
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनभक्त्यर्थं ब्रह्माद्यानन्दादीनां भगवदानन्दादिप्रतिबिम्बत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । तदभावे प्रागुक्तालौकिकत्वासम्भवेन भक्त्यतिशयायोगात्तत् समर्थनीयम् । ब्रह्माद्य-नन्दादीनां ब्रह्मानन्दादिप्रतिबिम्बत्वमुक्तम् । तद्ब्रह्माद्यानन्दादि विषयः । भगवदानन्दादिप्रतिबिम्बं न वेति सन्देहः । उक्तेर्द्वैविध्यदर्शनं सन्देहबीजम् । पूर्वपक्षयति ॥ परेति ॥ नान्यानन्दादयो भगवदानन्दादिप्रतिबिम्बभूताः । तथात्वे मिथो वैचित्र्यायोगात् । मिथो विचित्राणामपि तत्प्रति-बिम्बत्वे भगवदानन्दादौ वैचित्र्यं स्यात् । तथा च भगवद्रूपेषु गुणतारतम्यं स्यादिति न तत्र भक्तिर्युक्ता । न चादृष्टादिनियमेन वैचित्र्यम् । स्वाभाविकानन्दादेरादिमत्कारणानुपपत्तेः । अतोऽलौकिकत्वाभावान्न भगवति निरतिशया भक्तिर्युक्तेति भावः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ भवत्यन्यानन्दादीश्वरानन्दादिप्रतिबिम्बभूतं न तावता वैचित्र्यानुपपत्तिः । नापि बिम्बवैचित्र्यापत्तिः । यथा खलु बिम्बवैचित्र्याभावेऽपि जलसूर्यकान्तादिस्थानगुणात्सूर्यादिप्रतिबिम्बेष्वग्निजनकत्वादिवैचित्र्यमेवं ब्रह्मादिस्थानगुण-वैचित्र्येणाविचित्रभगवदानन्दादिप्रतिबिम्बानां वैचित्र्योपपत्तेरिति भावः । अत्र स्मृतिं चाह ॥ ब्रह्मादीति ॥ प्रतिबिम्बत्वमायाति प्रतिफलितो भवतीत्यर्थः ।
गुर्वर्थदीपिका
उक्तेर्द्वैविध्यदर्शनमित्यत्र ‘एतस्यैवानन्दस्य मात्रामुपजीवन्ति’ इति श्रुत्युक्तमात्रापदस्य स्वरूपांशे प्रतिबिम्बांशे च प्रयोगाख्यद्वैविध्यदर्शनमित्यर्थः । विचित्रजीवानामदृष्टादिनियमेन भगव-त्प्रतिबिम्बत्वस्य प्राक्साधितत्वाद्विचित्रजीवस्यानन्दादीनामपि तत एव भगवदानन्दादिप्रतिबिम्बत्व-मपि साधितप्रायम् । अतः किमधिकरणान्तरारम्भेणेति शङ्कापनोदायाह स्वाभाविकानन्दा-देरिति ॥ अभ्यधिकाशङ्कया पुनरारम्भ इति भावः ।
भावबोधः
तदभावे प्रागुक्तालौकिकत्वासम्भवेनेति । तदभावे प्रतिबिम्बत्वाभाव इत्यर्थः । अनेन ‘परमतः’ सूत्रस्थसम्बन्धपदेनोपक्षिप्तप्रतिबिम्बत्वविषयत्वेन तत्सूत्रोक्तालौकिकत्वाक्षेपेण च द्वेधानन्तर-सङ्गतिरुक्ता भवति ॥ ब्रह्मानन्दादिप्रतिबिम्बत्वमुक्तमिति ॥ ‘परमतः’ सूत्रे सम्बन्धपदेनेत्यर्थः ॥ भगवदानन्दादीति ॥ अत्र ब्रह्माद्यानन्दादिभगवदानन्दादिप्रतिबिम्बं न भवत्युत भवतीति चिन्ता । तदर्थं प्रतिबिम्बभूतब्रह्माद्यानन्दादिवैचित्र्ये बिम्बवैचित्र्यातिरिक्तं कारणं नास्त्युतास्तीति । ब्रह्मा-द्यानन्दवैचित्र्येऽपि बिम्बभूतविष्ण्वानन्दावैचित्र्यमिति न्यायविवरणं योजयति– मिथो विचित्राणामिति ॥
ननु विचित्रस्वभावानामपि जीवानामविचित्रभगवत्प्रतिबिम्बत्वस्य ‘अदृष्टानियमात्’ इत्यत्र समर्थितत्वेन तन्न्यायेनेदमपि किं न स्यादित्याशङ्कां परिहरति– न चादृष्टादिनियमेनेत्यादिना ॥ न हि सूर्यकान्तप्रतिबिम्बस्याग्निजनकत्वशक्तिर्न जलगतस्येत्येतावता सूर्यवैचित्र्यमिति न्यायविवरणं मनसि निधाय यथादित्यस्येत्यादिभाष्यं व्याचष्टे– यथा खल्वित्यादिना ॥ अनेनादित्यादि-वदाधिक्यादिति न्यायविवरणगतं सूर्यकान्तादिस्थानपरमादिपदमपि सूर्यकान्तवच्चतुर्मुखादिस्थानाना-माधिक्यादित्युक्ततात्पर्यकं भवति । प्रतिबिम्बत्वमायातीत्यस्य बिम्बमेव प्रतिबिम्बत्वमायातीति तयोरैक्यप्रतिपादकत्वभ्रमनिरासायाह– प्रतिफलित इति ॥ तदधीनत्वे सति तत्सदृशो भवतीत्यर्थः ।
भावदीपः
प्रतिबिम्बत्वसमर्थनादिति ॥ भगवदानन्दादिषु वैचित्र्यापत्तिशङ्कानिरासेनेति भावः । अतो नादृष्टानियमादित्यनेन पौनरुक्त्यम् । तत्र विचित्रब्रह्मादिजीवानामेकरूपब्रह्मप्रतिबिम्बत्वायोगादिति शङ्काया एव निरासात् । यथोक्तं तत्र न्यायविवरणे । न च वैचित्र्यमनाभासत्वे कारणमिति । अत्र तु न च ब्रह्माद्यानन्दवैचित्र्येऽपि बिम्बभूतविष्ण्वानन्दवैचित्र्यमिति । उक्तं च चन्द्रिकाया-मेवापौनरुक्त्यम् अदृष्टानियमादित्यत्र । एतेन प्रागुक्तसम्बन्धपदोक्तबिम्बप्रतिबिम्बभावाक्षेपेणेह पूर्वपक्ष-करणात्पूर्वसङ्गतिः सूचिता ॥ अलौकिकत्वासम्भवेनेति ॥ बिम्बप्रतिबिम्बभावरूपहेतुना पूर्वत्र तत्साधनादिति भावः ॥ उक्तमिति ॥ प्राक्सम्बन्धपदेनेत्यर्थः ॥ उक्तेर्द्वैविध्येति ॥ लोक इत्यर्थः । ब्रह्माद्यानन्दवैचित्र्येऽपीत्याद्यन्यत्रोक्तमत्र योजयति ॥ मिथ इति ॥ इष्टापत्तिं निराह ॥ तथा चेति ॥ तच्च नेत्युक्तं न स्थानत इत्यत्रेति तद्विरोध इति भावः । अदृष्टानियमादित्यनेन गतार्थत्वमाशंक्य तदाक्षेपमाह ॥ न चेति ॥ आदिमदिति ॥ यद्यप्यदृष्टादेरनादित्वमप्यस्ति । उक्तं च तत्र भाष्ये अनादिविद्याकर्मादिवैचित्र्याद्वैचित्र्यमिति ॥ तथाप्युक्तदिशाऽनाद्यदृष्टवैचित्र्यसिद्धब्रह्माद्यानन्द-वैचित्र्येण बिम्बानन्दवैचित्र्यापादन एव तात्पर्यम् । अदृष्टादेरनादिमत्त्वोक्तिरप्यदृष्टव्यक्त्यपेक्षयेति ध्येयम् । यद्वा तत्र भाष्ये अनादित्वोक्तिरत्र वक्ष्यमाणाभिप्राया ॥ अत इति ॥ अलौकिकत्व-साधकबिम्बप्रतिबिम्बभावाभावादित्यर्थः ।
साध्यमध्याहृत्य तत्र हेतुतया भाष्यं योजयति ॥ भवतीत्यादिना ॥ अत्रेति ॥ स्थानगुण-वैचित्र्येणेत्यादिनोक्तार्थ इत्यर्थः । परमात्मानन्दस्यैव प्रतिबिम्बत्वमिति भ्रमं निराह ॥ प्रतिफलितो भवतीत्यर्थ इति ॥ एतच्च प्रतिफलनं यावदधिकारमित्यत्रोक्त दिशाऽनादिस्वरूपोपाधिनेति भावः । ब्रह्मादीनां च मुक्तानां सुखं विष्णुसुखस्य तु । प्रतिबिम्बस्तु विप्लुट्को विष्णोरेव परं सुखम्’ इति महावाराहस्मृतेः ।
अभिनवचन्द्रिका
प्रतिबिम्बत्वसमर्थनादिति ॥ भगवदानन्दादिभिन्नांशत्वसमर्थनादित्यर्थः । एतेन प्रतिबिम्ब-त्वस्य सादृश्यघटितत्वात् तस्य च भगवदानन्दाद्यलौकिकत्वविरोधित्वात् तत्समर्थनमयुक्तमिति परास्तम् । भिन्नांशत्वस्येह समर्थनेन अलौकिकत्वविरोध्यतिसादृश्यासमर्थनात् । तदभाव इति ॥ ब्रह्माद्यानन्दादीनां भगवदानन्दादिप्रतिबिम्बत्वाभावे ‘परमत’ इति पूर्वसूत्रोक्तालौकिकत्वं न स्यात् । तत्र सम्बन्धपदोक्तबिम्बप्रतिबिम्बभावस्याऽसिद्धत्वेन तत्रोक्तहेत्वन्तरेऽप्यनाश्वासप्रसङ्गादिति भावः । प्रतिबिम्बत्त्वमुक्तमिति ॥ पूर्वसूत्रे सम्बन्ध पदेनोक्तमित्यर्थः । उक्तेर्द्वैविध्यदर्शनमिति ॥ वचनस्य प्रामाण्याप्रामाण्यदर्शनमित्यर्थः । तथात्व इति ॥
ननु भगवदानन्दप्रतिबिम्बत्वे मिथो वैचित्र्यायोग इत्यनुपपन्नम् । सूर्यप्रतिबिम्बयोः सूर्यकेन्द्र-चापयोर्महावैलक्षण्यप्रदर्शनेन व्याप्त्यभावात् । इन्द्रचापस्य पक्षतुल्यत्वान्न तत्र व्यभिचारचोदनं युक्तमिति चेत्, मा भूत्तत्र व्यभिचारः । जलाऽऽदर्शाद्युपाधिषु प्रतीयमानतटस्थवृक्षाणां प्रतिबिम्बो हि सरसि ऊर्ध्वमूलोऽवाक्शाखः प्रतीयते । आदर्शे तु अवाङ्मूल ऊर्ध्वशाखः प्रतीयते । न चाऽनयोर्नैकप्रतिबिम्बत्वमिति साम्प्रतम् । बिम्बैक्यस्य सर्वानुभवसिद्धत्वात् । अत एव प्रतिबिम्बवैचित्र्याङ्गीकारे बिम्बरूपे भगवदानन्दादौ वैचित्र्यापादनमप्ययुक्तम् । प्रतिबिम्बवैचित्र्येऽपि तटस्थवृक्षे वैचित्र्याभावेन व्यभिचारात् । न च निर्मूलाशङ्का योगारम्भं प्रयोजयतीति अनारम्भणीय-मेवेदमधिकरणमिति चेद् उच्यते । युक्तं वृक्षप्रतिबिम्बयोर् बिम्बवैचित्र्याभावेऽपि वैचित्र्यमुपाधि-धर्मस्य वैचित्र्यकारणस्य विद्यमानत्वात् । तथा हि जलोपाधेरुत्तानत्वेन तत्प्रतिबिम्बस्योर्ध्वमूलत्व-मवाक्शाखत्वम्, आदर्शस्य तु सम्मुखत्वेन तत्रत्यप्रतिबिम्बस्य बिम्बानुसारित्वं भवति । यदा त्वादर्शोऽप्युत्तानो भवति तदा बिम्बविपरीतएकप्रतिबिम्बो भवत्युपाधिगुणात् । न चेह तथा सम्भवति उपाधिभूतानां ब्रह्मरुद्रा दीनामानन्दवैचित्र्यापादकबिम्बानधीनधर्मशून्यत्वात् । ततो ब्रह्मादिषु प्रतीयमानानन्दस्य विचित्रस्य भगवदानन्दप्रतिबिम्बत्वाभावो वा, भगवदानन्दतारतम्यं वाऽभ्युपेयमिति शङ्कासम्भवादारम्भणीयमेवेदमधिकरणमिति ।
तर्कस्याप्रयोजकत्वं परिहरति मिथो विचित्राणामिति ॥ वैचित्र्यरूपकारणविधुराणामिति शेषः । प्रतिबिम्बवैचित्र्ये हि उपाधिवैचित्र्यं, बिम्बवैचित्र्यं वा कारणम् । प्रकृते उपाधिवैचित्र्याभावे निश्चिते बिम्बवैचित्र्यमवर्जनीयमिति भावः । भगवति गुणतारतम्यस्येष्टत्वं परिहरति न तत्र भक्ति-रिति ॥ भगवति निरतिशयभक्तिसिध्द्यर्थं हि ब्रह्माद्यानन्दस्य तत्प्रतिबिम्बत्वमिहोच्यते । भगवति तारतम्याङ्गीकारे तु न सा सिद्ध्यतीति, ब्रह्माद्यानन्दस्य तत्प्रतिबिम्बत्ववर्णनं व्यर्थमेव स्यादिति भावः ॥ प्रतिफलितो भवतीति ॥ स्वसदृशवस्तुव्यवस्थापको भवतीत्यर्थः ॥ स्यादेतदिति ॥ उपपत्तेश्चेति सूत्रे एतद्दूषणं स्यादित्यर्थः । किमेतद्दूषणमित्यत आह– स्थानगुणेनेति ॥ न बिम्बसामर्थ्यमुपयुज्यत इति ॥ एतद्दूषणं स्यादिति पूर्वेण सम्बन्धः ।
पूर्वपक्षस्तु न ब्रह्माद्यानन्दादयो भगवदानन्दादिप्रतिबिम्बभूताः । तथात्वे वैचित्र्याभावप्रसङ्गात् । प्रतिबिम्बवैचित्र्ये हि कारणद्वयं, बिम्बवैचित्र्यं वा, स्थानवैचित्र्यं वेति । न चात्र ब्रह्मादि-स्थानवैचित्र्यं प्रतिबिम्बवैचित्र्योपपादकं सम्भवति । तस्यापि भगवद्धर्मप्रतिबिम्बत्वेन वैचित्र्यसिद्धये स्थानगुणान्तरवैचित्र्यानुसरणेऽनवस्थानात् । नापि बिम्बानन्दादिवैचित्र्यम् । भक्त्यभावप्रसङ्गात् । ततश्च कारणाभावेन वैचित्र्यासम्भवान् न तत्र ब्रह्मानन्दादिर्भगवदानन्दादिप्रतिबिम्ब इति तस्य लौकिकत्वाभावान्न तत्र निरतिशया भक्तिरिति ।
सिद्धान्तस्तु प्रतिबिम्ब एव ब्रह्माद्यानन्दादिर् भगवदानन्दादेः । बह्मा दीनामनादिकालीन-भक्त्यादिगुणवैचित्र्यपरमेश्वरैश्वर्याभ्यां सूर्यप्रतिबिम्बवैचित्र्यवदानन्दादिवैचित्र्यसम्भवात् । न च भक्त्यादिवैचित्र्याऽनुपपत्तिस् तस्य परमेश्वरैश्वर्यवशादेवोपपत्तेः । परमेश्वरो हि वेदाऽप्रामाण्यकारण-वैषम्यादिपरिहाराय भक्त्यादिवैचित्र्यमपेक्ष्यैव विचित्रानन्दादीन् ददाति । अनादिकालीनभक्त्यादि-विचित्रगुणांस्तु स्वेच्छयैवैश्वर्यवशाद्ददाति । तत्र वैषम्यादेरदोषत्वात् । तदुक्तम्– ‘ऐश्वर्यात्परमा-द्विष्णोर्भक्त्यादीनामनादितः । ब्रह्मादीनां सूपपन्ना ह्यानन्दादेर्विचित्रता’ इति । अतो ब्रह्मादिगुणबिम्बालौकिकगुणे हरौ युक्तैव भक्तिरिति सिद्धम् ।
वाक्यार्थमुक्तावली
तदभावे प्रागुक्तलौकिकत्वेति । ब्रह्मानन्दादीनां प्रतिबिम्बत्वाभावे परमत इत्यत्र सम्बन्धेत्युक्त-हेतुस्वरूपासिद्ध्या प्रागुक्तलौकिकत्वासम्भव इति शङ्कायां हेतुसाधकत्वेन तत्सूत्रोक्तालौकिकत्वा-क्षेपपरिहारकत्वेन च द्वेधानन्तरसङ्गतिरिति भावः ॥ भगवदानन्दादीति ॥ अत्र ब्रह्माद्यानन्दादि भगवदानन्दादिप्रतिबिम्बं न भवत्युत भवतीति चिन्ता । तदर्थं प्रतिबिम्बभूतब्रह्माद्यानन्दवैचित्र्यं बिम्बभूतभगवदानन्दादिवैचित्र्यापादकमुत नेति । तदर्थं प्रतिबिम्बवैचित्र्ये बिम्बवैचित्र्यव्यतिरिक्तं कारणं नास्त्युतास्तीति । अत्र नानाभाव इत्युक्तन्यायप्रदर्शकं पूर्वपक्षभाष्यमवतार्य व्याचष्टे ॥ पूर्वपक्षयतीति ॥ भाष्यं योजयितुं प्रागुक्तहेतोरसिद्धिमाह ॥ नान्यानन्दादय इति ॥ कुतो नेत्यतः परानन्दमात्रत्वाद् भगवदानन्दप्रतिबिम्बत्वात्प्रतिबिम्बत्वाङ्गीकार इति यावत् । ब्रह्माद्यानन्दादीनां विशेषो वैचित्र्यं कथमिति भाष्यं योजयति ॥ तथात्व इति ॥ प्रतिबिम्बत्व इत्यर्थः । भवतु भगवदानन्दप्रतिबिम्बत्वं वैचित्र्यं च को दोष इत्यत आह ॥ मिथो विचित्राणामिति ॥ एतेन विचित्राणामपि ब्रह्माद्यानन्दादीनां परानन्दमात्रत्वात् परानन्दप्रतिबिम्बत्वाङ्गीकाराद् अङ्गीकार इति यावत् । कथं बिम्बप्रतिबिम्बयोर्मिथो विशेषः । प्रतिबिम्बवैचित्र्ये तद्बिम्बेऽपि वैचित्र्यं स्यादिति भाष्यार्थ उक्तो भवति । उक्तं च न्यायविवरणे । न च ब्रह्माद्यानन्दवैचित्र्येऽपि बिम्बभूत-विष्ण्वानन्दवैचित्र्यमिति । ननु विचित्रस्वभावानामपि जीवानामविचित्रभगवत्प्रतिबिम्बत्वस्यादृष्टा-नियमेनेत्यत्र समर्थितत्वेन तन्न्यायेनेदमपि किं न स्यादित्याशङ्कां परिहरति ॥ न चेति ॥
ननु जीवस्वभाववैचित्र्यमपि स्वाभाविकमिति कथं तेषां तस्यादिमद्विद्याकर्मवैचित्र्यकारण-कत्वम् ? कथं च विद्याकर्मणोरादिमत्त्वम् ? अनादिविद्याकर्मवैचित्र्यादिति तद्भाष्येऽनादित्व-स्योक्तत्वादिति चेत्तत्र सुरासुरनरत्वादिरूपं संसारे दृश्यमानं प्रतिबिम्बवैचित्र्यं कथमिति शङ्कायां यथाप्राज्ञं हि सम्भवा यत्कर्म कुरुते तदभिसम्पद्यते इत्याद्यनुसृत्य प्रवाहतोऽनादिविद्याकर्मवैचित्र्यात् तद्वैचित्र्यमिति समाहितत्वेन शुद्धस्वभाववैचित्र्यस्याविचारितत्वात् । अत्र स्वाभाविकानन्दादि-विचारात् । तस्य च प्रवाह्यपेक्षया आदिमद्विद्याकर्मकारणकत्वानुपपत्तेरित्युक्तिसम्भवात् । विस्तरस्त्वन्यत्र कृतोऽनुसन्धेयः ।
सूत्रे विशेषादिति पदं विशेष इति प्रथमान्ततया विपरिणम्यते ॥ प्रकाशादिवदिति ॥ प्रकाशादेरिवेत्यर्थः । प्रकाशपदेन सूर्य उच्यते । आदिपदेन चन्द्रादिर्गृह्यते । आनन्दादेरिति शेषः । तथा च प्रकाशादिवत् प्रकाशादेरिव यथा सूर्यादिरूपबिम्बस्य स्थानविशेषात्सूर्यकान्तमय-दर्पणादिस्थानगुणवैचित्र्याद् विशेषः प्रतिबिम्बेऽग्निजनकत्वादिविशेषः, तथा भगवदानन्दादेरपि स्थानविशेषाद् ब्रह्मादिस्वरूपान्तःकरणाख्यस्थानगुणभक्त्यादिविशेषाद् ब्रह्माद्यानन्दादिलक्षण-प्रतिबिम्बे विशेषो भवतीति सूत्रार्थपरं यथादित्यस्येति भाष्यं व्याचष्टे ॥ यथा खल्वित्यादिना ॥ ननु भगवदानन्दादेर्बिम्बत्वात् प्रतिबिम्बत्वमायातीत्येतत्कथमित्यत आह ॥ प्रतिफलित इति ॥ मुखं बिम्बं यथा दर्पणे प्रतिफलनयुक्तं भवति तथेति भावः ।
तत्त्वसुबोधिनी
तदभाव इति ॥ प्रतिबिम्बत्वाभाव इत्यर्थः । अनेन परमत इति सूत्रस्थसम्बन्धपदेनोपक्षिप्त-प्रतिबिम्बत्वविषयत्वेन तत्सूत्रोक्तालौकिकत्वाक्षेपेण वा द्वेधानन्तरसङ्गतिरुक्ता भवति ॥ ब्रह्मानन्दादिप्रतिबिम्बत्वमिति ॥ परमत इति सूत्रे सम्बन्धपदेनेत्यर्थः । मिथो वैचित्र्येऽपि कुतो न भगवत्प्रतिबिम्बत्वमित्यत आह ॥ मिथ इति ॥ अस्तु ततः किमित्यत आह ॥ तथा चेति ॥ ननु विचित्रस्वभावानामपि जीवानामविचित्रभगवत्प्रतिबिम्बत्वस्य अदृष्टानियमादित्यत्र समर्थितत्वेन तन्न्यायेनेदमपि किन्न स्यादित्याशङ्क्य परिहरति ॥ न चेति ॥ प्रतिबिम्बत्वमायातीत्यस्येममेव प्रतिबिम्बत्वमायातीति तयोरैक्यप्रतिपादकत्वभ्रमनिरासायाह ॥ प्रतिफलित इति ॥ तदधीनत्वे सति तत्सदृशो भवतीत्यर्थः ।
वाक्यार्थविवरणम्
प्रागुक्तेति ॥ परमत इत्यलौकिकत्वे बिम्बप्रतिबिम्बभावसम्बन्धस्य हेतुत्वेनोक्तिरिति भावः ॥ उक्तेरिति ॥ काचनोक्तिर्युक्ताऽस्ति । काचनाऽयुक्ताऽस्ति । अतः प्रतिबिम्बत्वोक्तिरपि ब्रह्माद्यानन्दादीनां प्रतिबिम्बत्वभावेन युक्ता वा तदभावेनायुक्ता वेति सन्देह इति ज्ञातव्यम् । तथात्व इत्युक्त्या परानन्दमात्रत्व इत्येतद् भगवदानन्दप्रतिबिम्बत्व इति व्याख्यातं भवति । वैचित्र्येति विशेषशब्दार्थः । ब्रह्माद्यानन्दादीनामिति शेषः ॥ तदिति ॥ भगवदानन्दादीत्यर्थः । भगवदानन्दादौ बिम्बभूत इति शेषः ॥ आदिमदिति ॥ अदृष्टादेश्च सादित्वादिति भावः । ब्रह्मादिस्थानगुणो भक्त्यादिरूपः । सूर्यकान्तादीत्यादिपदेन जलादिग्रहणम् । सूर्यकं सूर्यप्रतिबिम्बः । वैचित्र्यम् अग्निजनकत्वादिरूपम् ।
वाक्यार्थमञ्जरी
तदभाव इति ॥ भगवदानन्दस्य ब्रह्माद्यानन्दप्रतिबिम्बत्वेनैव वैलक्षण्यस्य वक्तव्यत्वादिति भावः ॥ द्वैविध्येति ॥ युक्तायुक्तत्वेत्यर्थः ॥ वैचित्र्यं स्यादिति ॥ अन्यथा निर्निर्बन्धनत्वापत्तेरिति भावः ॥ अदृष्टानियमेनेति ॥ अदृष्टादिवैचित्र्येणेत्यर्थः । अदृष्टानियमादित्यत्र विचित्रस्वभावा-नामपि जीवानामविचित्रभगवत्प्रतिबिम्बत्वसमर्थनादिति भावः ॥ ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ॥ यथा सूर्यप्रतिबिम्बे स्थानविशेषात्सूर्यकान्तादिस्थानगुणवैचित्र्यादग्निजनकत्वादिवैचित्र्यं तथा ब्रह्मादिस्थानगुणवैचित्र्यादानन्दवैचित्र्यमित्यर्थः ॥ प्रतिफलित इति ॥ तदधीनत्वे सति तत्सदृश इत्यर्थः ।