ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ
१६. परानन्दा (परमता)धिकरणम्
सूत्रभाष्यम्
॥ ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ ॥ ३२ ॥
न चाऽऽनन्दादित्वाल्लोकानन्दादिवत् । ‘एष सेतुर्विधृतिः’ (छां.उ.८-४-१) ‘य एष आनन्दः परस्य’ ‘एष नित्यो महिमा ब्राह्मणस्य’ (बृ.उ.६-४-२३) इति सेतुत्वं ह्युच्यते । ‘यतो वाचो निवर्तन्ते’ (तै.उ. २-४) इत्युन्मानत्वम् । ‘एतस्यैवाऽऽनन्दस्याऽन्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ६-३-३२) इति सम्बन्धः ।
‘अन्यज्ज्ञानं तु जीवानामन्यज्ज्ञानं परस्य च ।
नित्यानन्दाव्ययं पूर्णं परज्ञानं विधीयते’ इति भेदः ॥
अतोऽलौकिकत्वात्परमेव ब्रह्मानन्दादिकम् ।
तत्त्वप्रदीपिका
अत्र ‘एतस्यैवाऽनन्दस्ये’त्यादिना एतदंशप्रतिबिम्बत्वेनैतदधीनत्वादुपजीव्योपजीवकसम्बन्ध उच्यते नियम्यनियामकलक्षणश्च ।
‘प्रतिबिम्बरूपविप्लुट्कांस्तदानन्दस्य चाखिलाः ।
मुक्ता ब्रह्मादयोऽश्नन्ति तारतम्येन नित्यदा’ इति महासंहितायाम् ॥
आधारत्वामितत्वोपजीव्यत्वनियामकत्वानां व्यपदेशात् ‘नित्यानन्दाव्ययं पूर्णं परज्ञानं विधीयते’ इत्याधिक्येन वैलक्षण्यव्यपदेशाच्च सर्वस्मादुत्तममेव ब्रह्मानन्दादिकम् ।
तत्त्वप्रकाशिका
अत्रेश्वरप्राप्तिसाधनभक्त्यर्थं तद्गुणानां लोकविलक्षणत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । लौकिकत्वे न तत्र निरतिशया भक्तिः स्यात् । अतस्तत्समर्थनीयम् । प्रकृतं भगवद्गुणजातं विषयः । लौकिकमलौकिकं वेति सन्देहः । उभयथापि सम्भावना सन्देहबीजम् । लोकसदृशमिति पूर्वः पक्षः । आनन्दादिशब्दवाच्यत्वात् । अन्यथा ‘आनन्दं ब्रह्मणो विद्वान्’ इत्यादिप्रयोगस्तत्र न स्यात् । न हि घटविलक्षणार्थे घटपदं युज्यते । अस्ति च प्रयोगः । अतो लोकानन्दादिवदीश्वरानन्दादीति न तत्रातिशयेन भक्तिर्युक्तेति ।
सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ परमिति ॥ न ब्रह्मानन्दादिकं तच्छब्दवाच्यत्वाल्लौकिकं किं त्वतो लौकिकानन्दादेः परं विलक्षणमेव । कस्माल्लोकानन्दादाव सम्भावितसेतून्मानत्वादे-र्वैलक्षण्यस्य व्यपदेशादिति भावः । उन्मानत्वं पूर्णत्वम् । मात्रां तत्प्रतिबिम्बांशम् । सम्बन्धो बिम्बप्रतिबिम्बभावः । अन्यद्विलक्षणम् । अलौकिकत्वात्परमिति प्रकारिप्रकारदर्शनेन व्याख्यानमेव । अलौकिकत्वावगमादिति वा । अथवा न चेति पूर्वपक्षं प्रतिषिध्य एष इति सौत्रहेतून्व्याख्यायातः परमिति प्रतिज्ञा व्याख्यायते । तत्रात इत्यनुवादेन लौकिकत्वादिति व्याख्यानम् । लौकिकत्वा-त्परमिति अलौकिकमित्यर्थः ।
गुर्वर्थदीपिका
आनन्दादिशब्दवाच्यत्वादित्यत्र लौकिकानन्दगृहीतसङ्गतिकानन्दपदस्य तद्विसदृशे प्रयोक्तु-मशक्यत्वादिति भावः । अतो लौकिकानन्दादेरिति वदता भावभवित्रोरभेदाल्लौकिकत्वपदं लौकिकपरमिति सूचितम् । सेतून्मानसम्बन्धभेदव्यपदेशेभ्य इति हेतोस्सूत्र एवोक्तत्वात्पुनरतःपदस्य वैयर्थ्यमाशङ्क्य परिहृतं भाष्ये । अतो लौकिकत्वात्परम् । एवं च एतेभ्यः प्रकारिभ्यः सिद्धेना-लौकिकत्वाख्यप्रकारेण परं लौकिकानन्दाद्विलक्षणमिति फलितार्थः । अलौकिको भगवदानन्दः । अस्मदाद्यानन्दस्तु लौकिक इत्यनयोर्महदन्तरमिति भावः । वस्तुतस्त्वेतेभ्यश्चतुर्भ्यो हेतुभ्यः सिद्धादतोऽलौकिकत्वाख्यहेतोः परं लौकिकानन्दाद्विलक्षणमिति पारम्पर्येण द्वयोरपि हेतुतामभिप्रैति भगवान्भाष्यकारः । इदं च सेतुत्वादिकमपि लौकिकानन्देऽप्यस्तीति मन्दाशङ्कापरिहाराया-लौकिकत्वस्यैव साधका ये ते न तु लौकिके सम्भाविता इति सूचनार्थमिति ज्ञेयम् । व्युत्पत्तिस्तु आकारमात्रेणेषत्सदृशे मृत्त्वसुवर्णत्वाभ्यामत्यन्तविलक्षणे सुवर्णघटे घटशब्दस्येव निरुपाधि-प्रेमास्पदत्वमात्रेणेति वक्ष्यति स्वयमेव टीकाकारः ।
भावबोधः
प्रकृतमिति ॥ पूर्वाधिकरण इत्यर्थः । अनेनानन्तरसङ्गतिरप्युक्ता भवति ॥ लौकिकमिति ॥ अत्र ब्रह्मण आनन्दादिगुणजातं लौकिकमलौकिकं वेति चिन्ता । तदर्थं ब्रह्मानन्दादेरलौकिकत्वे व्युत्पत्त्यसम्भवरूपबाधकमस्त्युत नेति । आनन्दादित्वाल्लोकानन्दादिवदिति भाष्यानुसारेण पूर्वपक्षमाह– लोकसदृशमिति ॥ अनेन लोकानन्दादिवदिति साध्यप्रतिपादकांशो व्याख्यातः । हेतोरप्रयोजकत्वशङ्कापरिहाराय विपक्षबाधकतर्कप्रदर्शनपरतया ब्रह्मानन्दादीनामन्यथात्वाद-तच्छब्दत्वमिति न्यायविवरणांशं व्याचष्टे– अन्यथेति ॥ अन्यथा लोकविलक्षणत्वे । अनेनान्यथात्वादलौकिकत्वादतच्छब्दत्वं स्यादिति न्यायविवरणं व्याख्यातम् । तच्चब्दत्वे लोकोप-मत्वमिति न्यायविवरणांशं विपर्ययपर्यवसानपरतया व्याचष्टे– अस्ति चेति ॥ उद्गतं मानं वेदादिरूपप्रमाणं मर्यादा च यस्मादित्यभिप्रेत्याह– उन्मानत्वमिति ॥ ब्रह्मानन्दांशस्यान्यैर-भोज्यत्वादाह– मात्रामिति ॥ परज्ञानस्य देवज्ञानभिन्नत्वेऽप्यलौकिकत्वालाभादाह– अन्य-द्विलक्षणमिति ॥ अलौकिकत्वावगमादिति ॥ अतो व्यपदेशेभ्य इत्यर्थः । अत्राप्यतः परमित्यन्वयः । लौकिकत्वादिति पदच्छेदं तस्य च भवितृप्रधानत्वं चाभिप्रेत्याह– अथ वेति ॥ न चेत्यादिना पूर्वपक्षं प्रतिषिध्येति ॥ अनेन प्राचीनव्याख्याने इदमेव भाष्यं प्रतिज्ञाव्याख्यानमिति सूचितम् । अत एव किं त्वतो लोकानन्दादेरित्याद्युक्तम् । तत्र चानन्दित्वादिति हेत्वंशोक्तिर्व्यर्था । अत्र तु तत्सार्थकमिति ज्ञातव्यम् ।
भावदीपः
तद्गुणानामिति ॥ गुणानामीश्वरतादात्म्येऽपि विशेषबलेनेश्वरगुणत्वस्य पूर्वत्रोक्त्या तेषु गुणेषु लौकिकत्वादिचिन्ता अवसरप्राप्तेति भावः । अन्यथान्यतरमात्रावशेषेण गुणेषु चिन्तानुपपन्ना स्यात् ॥ लोकेति ॥ लौकिकानन्दादिविलक्षणत्वेत्यर्थः । सूत्रे परमित्युक्त्यनुरोधादाह ॥ गुणजातमिति ॥ उभयथेति ॥ भगवदीयत्वादलौकिकत्वसम्भावना ज्ञानानन्दादिपदप्रयो गाल्लौकिकत्वसम्भाव-नेत्यर्थः । लोकानन्दादिवदिति भाष्यार्थमाह ॥ लोकसदृशमितीति ॥ आनन्दादित्वादिति हेत्वंशं व्याचष्टे ॥ आनन्देति ॥ सामान्यव्याप्त्या घटादिर्दृष्टान्त इति भावः । हेतोरप्रयोजकतां निराह ॥ अन्यथेति ॥ लोकानन्दादिवैसादृश्ये ब्रह्मानन्दादीनामन्यथात्वादतच्छब्दत्वमित्यन्यत्रोक्तेरिति भावः । कुत इत्यतस्तद्व्यनक्ति ॥ न हीति ॥ हेतोरसिद्धिं निराह ॥ अस्ति चेति ॥ आनन्दं ब्रह्मणो विद्वानित्यादाविति भावः ॥ अत इति ॥ आनन्दादिपदवाच्यत्वादित्यर्थः ।
अतोऽलौकिकत्वात्परमेव ब्रह्मानन्दादिकमिति वाक्यं न चानन्दादित्वाल्लौकिकानन्दादिवदिति प्रथमवाक्यशेषतया व्याचष्टे ॥ न ब्रह्मेति ॥ आनन्दादित्वादित्यादेरर्थस् तच्छब्दवाच्यत्वा-ल्लौकिकमिति ॥ अत इत्यनुवादः । लौकिकानन्दादेरिति व्याख्या । भाष्ये अलौकिकत्वादित्ये-तत्परमित्यस्य व्याख्येत्युपेत्य परमित्यस्यार्थमाह ॥ परं विलक्षणमेवेति ॥ एष इत्यादिभाष्य-भावमाह ॥ लोकेति ॥ उन्मानत्वं मानागोचरत्वमिति भ्रमं निराह ॥ पूर्णत्वमिति ॥ वैश्वानरनये अभिविमानमित्यत्रोक्तदिशा व्याख्यातप्रायमेतदिति भावः । तदानन्दांशत्वभ्रान्तिं निराह ॥ मात्रामिति ॥ तस्य तन्मात्रोपभोग्यत्वात् । प्रतिबिम्बरूपविप्लुट्कांस्तदानन्दस्य चाखिलाः । मुक्ता ब्रह्मादयोऽश्नंति तारतम्येन नित्यदेति स्मृतेरिति भावः । भेदव्यपदेशमात्रेण वैलक्षण्यासिद्धेराह ॥ अन्यद्विलक्षणमिति ॥ दुर्गमत्वाद्व्यनक्ति ॥ अलौकिकत्वादिति ॥ व्याख्यानमेवेति ॥ परमित्यस्येत्यर्थः । परमलौकिकत्वप्रकारयुक्तमिति व्याख्यैव न तु हेतुरित्यर्थः । अलौकिकत्वाव-गमादित्यन्यत्रोक्त्यनुरोधेन व्याख्यानान्तरमाह ॥ अलौकिकत्वेति ॥ अत इत्यस्य सेतून्मानादि-व्यपदेशादित्यर्थ इति भावः । इदानीं न चेत्यादिवाक्यम् अत इत्यादिवाक्यं च भिन्नवाक्यतया योजयति ॥ अथवेति ॥ स्वार्थे त्वप्रत्यय इति भावः ।
अभिनवचन्द्रिका
लौकिकमलौकिकं वेति ॥ लोकसदृशं न वेत्यर्थः । लोकसदृशमिति ॥ ननु किं लोक-सादृश्यं साध्यते उत वैलक्षण्याभावः । नाद्यः वैलक्षण्यमङ्गीकुर्वता सिद्धान्तिना सालक्षण्यस्यापि अङ्गीकृतत्वेन सिद्धसाधनत्वात् । न द्वितीयः कदीफलजन्यानन्दस्य आनन्दशब्दवाच्यत्वेऽपि, बदरीफलजन्यानन्दवैलक्षण्यवत्, ईश्वरानन्दस्यापि आनन्दशब्दवाच्यत्वेऽपि लौकिकानन्दवैलक्षण्य-सम्भवेनाऽप्रयोजकत्वादिति चेत्, न आनन्दस्य ज्ञानाद्यात्मकत्वं, ज्ञानादेश्च आनन्दात्मकत्वं नास्तीत्यर्थस्य साध्यतयेह विवक्षितत्वात् । न च एवं सति सिद्धसाधनता नाऽप्यप्रयोजकता । आनन्दज्ञानयोरत्यन्ताभेदे तच्छब्दयोः पर्यायताप्रसङ्गेन अपर्यायानन्दादिशब्दवाच्यत्वरूप-हेतूच्छित्तिप्रसङ्गात् । इममेवार्थं मनसि निधाय बाधकान्तरमाह– अन्यथेति ॥ लौकिकानन्दवज् ज्ञानादिभेदानङ्गीकार इत्यर्थः ।
ननु ज्ञानाद्यात्मकत्वेऽपि आनन्दत्वस्यापि भावाद् आनन्दशब्दप्रयोग इत्यत आह– न हीति ॥ न हि घटविलक्षणार्थे घटत्वमङ्गीकृत्य घटशब्दः प्रामाणिकैः प्रयुज्यते । येन ज्ञानाद्यात्मके वस्तुनि आनन्दत्वमङ्गीकृत्य आनन्दशब्दः प्रयुज्येतेति भावः । एतेन घटविलक्षणे घटशब्दप्रयोगा-भावेऽपि भगवदानन्दे आनन्दशब्दो युज्यते । तस्य लौकिकानन्दविलक्षणत्वेऽपि आनन्द-विलक्षणत्वाभावात् । न हि सुर्वणघटो मृद्घटविलक्षण इत्येतावता न घटशब्दवाच्यो भवतीति निरस्तम् ॥ लोकानन्दादिवदिति ॥ मनोवृत्त्यानन्दवज् ज्ञानादिभिन्न एवेश्वरानन्द इत्यर्थः । विलक्षणमेवेति ॥ ज्ञानाद्यात्मकतयेवेत्यर्थः ॥ कस्मादिति ॥ लौकिकत्वसाधकानन्दशब्द-वाच्यत्वादिहेतोः किं तद्बाधकं प्रमाणं यद्बलादलौकिकत्वं प्रतिपत्तव्यमित्यर्थः ।
ननु ‘अतो लौकिकत्वात् परमेव ब्रह्मानन्दादिकम्’ इति भाष्ये ‘अतो लौकिकम्’ इत्येताव-दुपपन्नम्, ‘अलौकिकत्वात्परम्’ इति तु साध्यावैशिष्ट्यादनुपपन्नमित्यत आह– अलौकिकत्वा-त्परमिति ॥ नन्वेवमानन्दादेरिति ॥ आनन्दशब्दस्य तावज् ज्ञानादिभिन्ने आनन्दे शक्तिर्गृह्यते । शक्तिग्रहवशाच्च तमेवार्थं शब्दो बोधयेत् । न तु ज्ञानाद्यात्मकम् । ततश्च श्रुतिस्मृत्यादिषु भगवदानन्दादिबोधनाय आनन्दादिशब्दप्रयोगो व्यर्थः स्यादित्यर्थः । भाष्ये ‘अप्रसिद्धस्य’ इत्यनन्तरं ‘बोधनाय’ इति शेषः ॥ यथा खल्विति ॥ पादशब्दस्य शरीरावयवे, स्वरूपांशे च, सैन्धवशब्दवत् पृथक्पृथक्शक्तिग्रहमात्रेण भिन्नांशे शक्तिग्रहाभावेऽपि जीवेश्वरयोरंशांशिभावरूप-सम्बन्धज्ञापनार्थं ‘पादोऽस्य विश्वा भूतानि’ इति पादशब्दः प्रयुज्यत इत्यर्थः । ननु जीवोऽपि स्वरूपांशत्वाच्छक्तिग्रहविषयो अभ्युपगन्तव्यः । अन्यथा मिथ्याज्ञानोत्पादेनाऽनर्थप्रसङ्ग इत्यत आह– ज्ञातांशभावस्त्विति ॥ भेदश्रुतिपर्यालोचनया भिन्नांशत्वं प्रत्येति । तस्य शब्दस्य तत्र शक्तिं च पश्चात्प्रत्येतीत्यर्थः ॥ अलौकिकत्वबुद्धिश्चेति ॥ तस्य शब्दस्य तत्र शक्तिग्रहश्च भवतीत्यपि द्रष्टव्यम् ।
इदमत्राकूतम् भवत्येव भगवदानन्दादिर्लोकविलक्षणः । आनन्दादिशब्दास्तु लौकिकानन्द-भगवदानन्दाभ्यां सैन्धवशब्दवन्नानार्थाः । प्रथमं व्युत्पत्तिस्तु लौकिकानन्द एव वाच्यार्थस्य प्रत्यक्षसिद्धत्वेन शक्तिग्रहोपायसद्भावात् । न भगवदानन्दे उपायाभावात्, श्रौतव्यवहारानुसारेण भगवदानन्दस्यापि अनुकूलवेद्यत्वेऽवगते प्रमाणान्तरवशाच्च तस्य ज्ञाना द्यात्मकत्वे चाऽवगते लौकिकानन्दवैलक्षण्यं प्रतिपद्य, तत्र शब्दस्य परममुख्यवृत्तिं च प्रतिपद्यते । अनन्तरं तु शब्द-श्रवणमात्रादेव झटिति परममुख्यार्थं प्रतिपद्यते । तद्बाधे तु मुख्यार्थं लौकिकानन्दम् । तस्यापि बाधे गौणाद्यर्थं, विशेषसद्भावादपर्यायत्वं चेति । एतेन लौकिकानन्दस्य आनन्दशब्दवाच्यत्वाद् ईश्वरानन्दस्य तदभावेनानानन्दत्वाद् ईश्वरस्याऽऽनन्दित्वगुणाभाव इति परास्तम् । भाष्ये अलौकिकोऽपीति ॥ लौकिकज्ञानादिविलक्षणत्वाद् लोकव्युत्पत्यविषयोऽपि ज्ञानादिर् लोकस्य सामान्यव्युत्पत्तिद्वारा विशेषतच्छब्दवाच्यत्वज्ञापनाय ज्ञानादिशब्दैरेव भण्यते यथा देवराट् राजशब्दमुख्यवाच्यत्वज्ञापनाय आदौ राजवदेव राजशब्देन भण्यते तथेत्यर्थः । टीकायाम् आनन्दो नेदृशानन्द इति ॥ श्रुत्यैवेश्वरधर्मस्य क्कचिदानन्द इति क्कचिच्च नेदृशानन्द इत्युक्ते महतामबाधितप्रत्ययानुसारेण लोकतः परं लौकिकानन्दाद् अतिशयवदित्येव ईश्वरानन्दजातं प्रतिभाति, न पुर्नयथावद्दर्शनं विना महतां प्रत्यक्षमतिक्रम्याऽनुकूलवेद्यादन्य एव आनन्दादिशब्द-वाच्य इति भातीत्यर्थः । प्रमाणविरोधाभावाद्धि ‘सैन्धवोऽयं नेदृशसैन्धव’ इत्युक्ते लवण-विजातीयोऽश्वः प्रतीयते । प्रकृते तु ईश्वरानन्दस्यानुकूलवेद्यताग्राहकमहदनुभवस्य विद्यमानत्वात् ‘आनन्दो नेदृशानन्द’ इत्युक्त्या अतिशय एव गम्यते न वैजात्यमिति भावः ।
पूर्वपक्षस्तु ईश्वरानन्दादिर् लौकिकानन्दादिवद् आनन्दादिरेव, न पुनर्ज्ञानादिरपि, आनन्द-शब्दवाच्यत्वात् । न हि ज्ञानात्मके आनन्दशब्दो युज्यते । पटेऽपि घटशब्दप्रयोगप्रसङ्गात् । ततश्च ईश्वरानन्दस्य लोकविलक्षणत्वाभावान् न तत्र निरतिशया भक्तिरिति ।
सिद्धान्तस्तु विलक्षणमेव लौकिकानन्दाद् ब्रह्मानन्दादि । सेतुत्वपूर्णत्वबिम्बत्वानां वैलक्षण्यस्य च ‘एष सेतुः’ इत्यादिनोक्तत्वात् । किं च लौकिकानन्दादिकं हि दर्शनयोग्यम् ईश्वरानन्दादि तु ‘अदृष्टमव्यवहार्यम्’ इत्यादिना दर्शनायोग्यमुच्यते । ततश्च तद् लोकविलक्षणमेव मन्तव्यम् । ननु यदि ईश्चरानन्दादिर्लोकानन्दविलक्षणः, कथं तर्हि लोकानन्दादौ गृहीतसङ्गतिकस्य आनन्दादि-शब्दस्य तत्र प्रयोगः । न हि लवणे गृहीतसङ्गतिकः सैन्धवशब्दोऽश्वे पृथक्सङ्गतिग्रहं विना प्रयुज्यते । येनेहापि तत्र सङ्गतिग्रहाभावेऽपि लौकिकेषु सङ्गतिग्रहणमात्रेण तत्र प्रयुज्येत इति चेत्, न लौकिकपादस्वरूपांशाभ्यां विलक्षणेषु भिन्नांशेषु जीवेषु ‘पादोऽस्य विश्वाभूतानि’ इति पाद-शब्दप्रयोगवद् लौकिकानां बुध्द्यर्थमेव लोके गृहीतसङ्गतिकस्याऽऽनन्दादिशब्दस्य किञ्चित्सादृश्य-मात्रेण भगा वदानन्दादौ प्रयोगोपपत्तेः । ज्ञाततावन्मात्रस्य प्रमाणान्तरवशाद् वैलक्षण्ये ज्ञाते शब्दानां तत्र परममुख्यवृत्तिग्रहोऽपि भवति । अतोऽलौकिकगुणे हरौ भक्तिः कर्तव्येति सिद्धम् ।
वाक्यार्थमुक्तावली
अनन्तरसङ्गतिं सूचयति ॥ प्रकृतमिति ॥ अत्र ब्रह्मण आनन्दादिकं लौकिकमलौकिकं वेति चिन्ता । तदर्थं ब्रह्मानन्दादेरलौकिकत्वव्युत्पत्त्यसम्भवरूपबाधकमस्त्युत नेति । आनन्दादित्वा-ल्लोकानन्दादिवदिति भाष्यानुसारेण पूर्वपक्षमाह ॥ लोकसदृशमिति ॥ अनेन लौकिकानन्दादीति साध्यप्रतिपादकांशो व्याख्यातः । आनन्दादिशब्दवाच्यत्वादित्यनेन आनन्दादित्वादिति हेत्वंशो व्याख्यातः । हेतोरप्रयोजकत्वं परिहरति ॥ अन्यथेति ॥ अन्यथा लौकिकविलक्षणत्वे । यदि लोकविलक्षणता स्यात्तर्हि आनन्दं ब्रह्मण इति श्रुतावनन्दशब्दप्रयोगो न स्यादिति तर्कस्य व्याप्त्यभावाद् यस्य यद्विलक्षणत्वं तस्य तच्छब्दप्रयोगाविषयत्वमिति सामान्यव्याप्तिमाह ॥ न हीति ॥ विपर्यये पर्यवसानमाह ॥ अस्ति चेति ॥ एतेनानन्दादिशब्दवाच्यत्वे लोकोपमत्वमनुपमत्वे शब्दवाच्यत्वाभाव इति वैलोम्येत्युक्तन्यायोऽपि दर्शितो भवति ।
सूत्रे प्रकृतत्वाद्गुणजातमित्यन्वेति । प्रकाशाश्रयवदिति लौकिकगुणस्य प्रकृतत्वादत इति लौकिकगुणपरामर्शः । सेतून्मानेति भावप्रधानम् । भेदपदमावर्तते । सेतून्मानत्वसम्बन्धाख्यभेदानां वैलक्षण्यानां भेदस्य नित्यानन्दाव्ययं पूर्णं परज्ञानमित्याधिक्येन भेदस्य वैलक्षण्यस्य च व्यपदेशेभ्य इत्यर्थमभिप्रेत्य व्याचष्टे ॥ किन्त्वत इत्यादिना ॥ सेतून्मानत्वादिवैलक्षण्यस्येति ॥ सेतुत्वो-न्मानत्वादिवैलक्षण्यस्येत्यर्थः । आदिपदेन सम्बन्धपदोक्तोपजीव्यत्वनियामकत्वरूपवैलक्षण्यस्य नित्यानन्दाव्ययं पूर्णमित्यानन्दात्मकत्वरूपज्ञाननिष्ठवैलक्षण्यस्य च ग्रहणम् । उद्गतं मानं वेदादिरूपं प्रमाणं मर्यादा च यस्मादित्यभिप्रेत्याह ॥ उन्मानत्वमिति ॥ ब्रह्मानन्दांशस्यान्यैरभोज्यत्वादाह ॥ मात्रामिति ॥ बिम्बप्रतिबिम्बभाव इति ॥ बिम्बप्रतिबिम्बभावेन बिम्बनिष्ठोपजीव्यत्व-नियामकत्वरूपसम्बन्ध इति यावत् । भेदस्य लोकेऽपि सत्त्वाद्भेदमात्रं नालौकिकत्वसाधकमित्यत आह ॥ अन्यद्विलक्षणमिति ॥ ननु भाष्ये ब्रह्मानन्दादिकमिति पक्षस्याध्याहारः । अतःपरमिति सौत्रसाध्यानुवादः । अलौकिकत्वादित्युत्सूत्रमित्यत आह ॥ अलौकिकत्वात्परमितीति ॥ वैलक्षण्यप्रकारप्रदर्शनेनेत्यर्थः । इत्यादिश्रुतिभ्योऽलौकिकत्वावगमादिति न्यायविवरणानुसारेण विषयेण विषयिणो ज्ञानस्योपलक्षणमित्यलौकिकत्वमित्युक्तन्यायप्रदर्शकत्वेन व्याचष्टे ॥ अलौकिकत्वावगमादिति ॥ अस्मिन्पक्षे अत इत्यस्यातो व्यपदेशेभ्योऽलौकिकत्वावगमादत आनन्दादेः परमित्यादावन्या योजनेति भावः । लौकिकत्वादिति पदच्छेदं तस्य भवितृप्रधानत्वं चाभिप्रेत्याह ॥ अथवेति ॥ प्रतिज्ञा व्याख्यायत इति । नन्विदं पूर्वोक्तपक्षेऽपि सममित्यतो व्याख्याने विशेषमाह ॥ तत्रात इत्यनुवादेनेति ॥ पूर्वत्रानुवादमात्रमिति भावः । भाष्ये एष नित्यो महिमा ब्राह्मणस्येत्यस्य य एषः ब्राह्मणस्य नित्यो महिमा सोऽपि सेतुरित्यन्वयः ।
तत्त्वसुबोधिनी
प्रकृत इति ॥ पूर्वाधिकरण इत्यर्थः । अनेनानन्तरसङ्गतिरुक्ता भवति ॥ अन्यथेति ॥ लोकविलक्षणत्वेत्यर्थः । ननु लौकिकानन्दत्वविलक्षणत्वेऽप्यानन्दपदप्रयोगः किन्न स्यादित्यत आह ॥ न हीति ॥ तर्कस्य विपर्ययपर्यवसानमाह ॥ अस्ति चेति ॥ उद्गतं मानं वेदादिरूपं प्रमाणं मर्यादा च यस्मादित्यभिप्रेत्याह ॥ उन्मानत्वमिति ॥ ब्रह्मानन्दांशस्यान्यैरस्तेयत्वादाह ॥ मात्रामिति ॥ परज्ञानस्य जीवज्ञानसदृशत्वेऽलौकिकत्वालाभादाह । अन्यद्विलक्षणमिति । ननु सूत्रव्याख्यानस्य जातत्वादतोऽलौकिकत्वादिति भाष्यं किमर्थमित्यत आह ॥ अलौकिक-त्वादिति ॥ तथा च भाष्ये अलौकिकत्वादिति पञ्चमी तृतीयार्थे । अतः परमिति सम्बन्धः । तथा चालौकिकत्वेन प्रकारेण अतो लोकानन्दादेः परं विलक्षणमिति व्याख्यानमित्यर्थः । यद्वा विषयेण विषयिणो ज्ञानस्योपलक्षणमित्यभिप्रेत्याह । अलौकिकत्वावगमादिति । अतो व्यपदेशेभ्य इत्यर्थः । अत्रापि अतःपरमित्यन्वयः । लौकिकत्वादिति पदच्छेदं तस्य च भवितृप्रधानत्वं चाभि-प्रेत्याह ॥ अथवेति ॥ न चेत्यादिनेति ॥ अनेन प्राचीनव्याख्याने इदमेव भाष्यं प्रतिज्ञा-व्याख्यानपरमिति सूचितम् ।
वाक्यार्थविवरणं
न स्यादिति ॥ व्युत्पत्त्यभावादतीन्द्रियत्वेन तत्रोपदेशासम्भवेन सादृश्यलिङ्गकानुमानस्यानु-सरणीयत्वात् तस्य च सादृश्यस्य लोकविसदृशत्वाङ्गीकारेणासिद्धत्वादिति भावः ॥ व्याख्यान-मेवेति ॥ अतःपरमित्युक्ते कथं परत्वमित्यतोऽलौकिकत्वादित्युक्तालौकिकत्वेन प्रकारेणेति परत्वप्रकारप्रदर्शकतयाऽलौकिकत्वमेव परत्वमित्यलौकिकत्वादित्येतत्परत्वव्याख्यानमेवेत्यर्थः ॥ इति वेति ॥ अतो लौकिकानन्दादेः परमित्युक्ते तत्कुत इत्याशङ्कायाम् अलौकिकत्वादित्युक्तम् ॥ सेतुत्वादिनाऽलौकिकत्वावगमादित्यर्थः । अस्मिन् पक्षे परत्वे प्रमाणप्रदर्शनमिदं न व्याख्यानमिति ध्येयम् ।
वार्थमञ्जरी
प्रकृतं पूर्वाधिकरणे । अन्यथा लौकिकानन्दविलक्षणत्वे व्युत्पत्त्यभावादिति भावः ॥ ॐ परमतःसेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ ॥ ब्रह्मानन्दादिकम् अतः लौकिकानन्दादेः परं विलक्षणम् । कुतः ? सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः । एष सेतुरिति सेतुत्वस्य यतो वाच इत्युन्मानत्वस्य पूर्णत्वस्य तस्यैवानन्दस्येति बिंबप्रतिबिम्बरूपसम्बन्धस्य अन्यज्ज्ञानमिति भेदस्य चाभिधानादित्यर्थः । उद्गतं मानं वेदादिप्रमाणं मर्यादा च यस्मादित्यभिप्रेत्याह ॥ पूर्णत्वमिति ॥ ब्रह्मानन्दस्यान्यैरभोज्यत्वादाह । मात्रं तत्प्रतिबिम्बांशत्वमिति अलौकिकत्वलाभायाह ॥ अन्यद्विलक्षणमिति ॥ साध्यावैशिष्ट्यनिरासायाह ॥ अलौकिकत्वादिति ॥ तथा च भाष्ये अलौकिकत्वादिति पञ्चमी तृतीयार्थे । अतः परमिति सम्बन्धः । ततश्चालौकिकत्वेन प्रकारेणातो लोकानंदादेः सकाशात् परं विलक्षणमिति व्याख्यानमित्यर्थः ॥ अलौकिकत्वावगमादिति ॥ अत्रातो व्यपदेशेभ्य इत्यर्थः । न चेत्यादिभाष्यस्य प्रतिज्ञाव्याख्यानपरत्वे आनन्दित्वादिति हेत्वंशोक्तिर्व्यर्थेत्यस्वरसात् प्रकारान्तरेण व्याकुर्वन् साध्यावैशिष्ट्यं प्रकारान्तरेण परिहरति ॥ अथवेति ॥ लौकिकत्वादिति ॥ तथा च नात्राकारप्रश्लेष इति भावः ।
ॐ दर्शनात् ॐ
सूत्रभाष्यम्
॥ ॐ दर्शनात् ॐ ॥ ३३ ॥
दर्शनादेव चाऽन्याऽऽनन्दादीनाम् । ‘अदृष्टमव्यवहार्यमव्यपदेश्यं सुखं ज्ञानमोजो बलमिति ब्रह्मणस्तस्माद् ब्रह्मेत्याचक्षते तस्माद् ब्रह्मेत्याचक्षते’ इति कौण्डिन्यश्रुतिः ।
तत्त्वप्रदीपिका
अदृष्टत्वं परस्मादन्यैः । सर्वात्मनाऽस्पष्टत्वेन चाव्यवहार्यम् । ओयोपादेयम् ।
‘ब्रह्माद्या यन्न जानन्ति कारणाद्यभिमानिनः ।
जानन्त्यनुग्रहाच्चास्य प्रधानाग्निं यथार्चिषः ॥
अग्निपुत्रा नमस्तस्मै यमाह श्रीश्च न स्फुटम् ।
वेदरूपा परानन्दं वैलक्षण्यात्समस्ततः ॥
आनन्दो नेदृशानन्द इत्युक्ते लोकतः परम् ।
प्रतिभाति न चाऽभाति यथावद्दर्शनं विना’ इति ब्रह्मतर्के ॥
तत्त्वप्रकाशिका
हेत्वन्तरेणानन्दादेरलौकिकत्वं समर्थयत्सूत्रमुपन्यस्य व्याचष्टे ॥ दर्शनादिति ॥ मनोवाग्गोचर-त्वादित्यर्थः । तथापि कथमलौकिकत्वं ब्रह्मानन्दादेरित्यत आह ॥ अदृष्टमिति ॥ व्यवहारो वाचा व्यपदेशो विविक्ततया निरूपणम् ।
गुर्वर्थदीपिका
सावधिकत्वेन दर्शनादिति सूत्रार्थं मनसि निधाय तत्तात्पर्यमाह– मनोवाग्गोचरत्वादिति ॥
भावबोधः
‘अदृष्टमव्यवहार्यम्’ इति श्रुत्यनुसारेण सूत्रभाष्ययोर्दर्शनपदमन्योपलक्षकमित्यभिप्रेत्याह– मनोवाग्गोचरत्वादिति ॥
भावदीपः
भाष्ये चशब्दोक्तेराह ॥ हेत्वन्तरेणेति ॥ आनन्दादेरचाक्षुषत्वाद्दर्शनानुपपत्तिं मत्वाह ॥ मनोवागिति ॥ अदृष्टं साकल्येनामनोगोचरमिति स्फुटम् । अव्यवहार्यमित्ययुक्तम् । ‘आनन्दं ब्रह्मणो विद्वान्’ इति व्यवहारादित्यत आह ॥ व्यवहार इति ॥ विविक्ततया स्पष्टतया । ‘ब्रह्माद्या यन्न जानन्ति करणाद्यभिमानिनः । जानन्त्यनुग्रहाच्चास्य प्रधानाग्निं यथार्चिषः । अग्निपुत्रा नमस्तस्मै यमाह श्रीश्च न स्फुटम् । वेदरूपा परानन्दं वैलक्षण्यात्समस्ततः । आनन्दो नेदृशानन्द इत्युक्तेर्लोकतः परम् । प्रतिभाति न चाभाति यथावद्दर्शनं विना’ इत्येकादशस्कन्धतात्पर्योक्त-स्मृतेरिति भावः ।
वाक्यार्थमुक्तावली
तुरवधारणे । अत इति प्रकृतानामन्यानन्दादीनामेषामिति विपरिणामेनान्वयः । अतः परमित्यस्ति । तथा चान्यानन्दादीनामेव दर्शनाज् ज्ञानान्मनोवाग्गोचरत्वादीश्वरानन्दादीनां तद-भावादतः परमेव आनन्दादिकम् । न चात्र प्रमाणाभावः । दर्शनाद् अदृष्टमव्यवहार्यमिति श्रुतेरिति सूत्रार्थः । न चोन्मानत्वमिति प्रत्यक्षादिप्रमाणागोचरत्वस्योक्तत्वाद्गतार्थता । तत्र पूर्णत्वे तात्पर्यात् ।
तत्त्वसुबोधिनी
अदृष्टमव्यवहार्यमिति श्रुत्यनुसारेण सूत्रभाष्ययोर्दर्शनपदमन्योपलक्षकमित्यभिप्रेत्याह ॥ मनो-वाग्गोचरत्वादिति ॥
वाक्यार्थविवरणं
श्रुतेरित्यन्यथाप्रतीतिनिरासाय व्याचष्टे ॥ मनोवागिति ॥ तथापीति ॥ अन्यानन्दादि-वद्ब्रह्मानन्दादेरपि मनोवाग्गोचरत्व इत्यर्थः । भाष्ये इतिशब्दः प्रभृत्यर्थः । सुखं ज्ञानमोजो बलमित्येतत्प्रभृतिगुणजातम् ॥ अदृष्टम् ॥ मनसोऽविषयीभूतम् ॥ अव्यवहार्यम् ॥ वाचा व्यवहर्तुमशक्यम् ॥ अव्यपदेश्यम् ॥ इदमेतादृशमिति विविक्ततया निरूपयितुमशक्यम् । तद्ब्रह्म पूर्णमित्याचक्षत इति योज्यम् ।
वाक्यार्थमञ्जरी
अन्यानन्दादीनां मनोवाग्गोचरत्वात् तदगोचरब्रह्मानन्दस्य तद्वैलक्षण्यमित्यर्थः । वक्ष्यमाण-श्रुत्यनुसारेण दर्शनपदमन्यथोपलक्षणमिति भावेनाह ॥ मनोवागिति ॥