ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ
१५. उभयव्यपदेशाधिकरणम्
सूत्रभाष्यं
स्वरूपेणाऽऽनन्दादिना कथमानन्दित्वादिरित्यत्रोच्यते —
॥ ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ ॥ २८ ॥
‘आनन्दं ब्रह्मणो विद्वान्’ (तै.उ.२-४) । ‘अथैष एव परम आनन्द’ (बृ. उ. ६-३-३३) इत्युभयव्यपदेशादहिकुण्डलवदेव युज्यते । यथाऽहिः कुण्डली कुण्डलं च । तुशब्दात्केवलश्रुतिगम्यत्वं दर्शयति ।
तत्त्वप्रदीपिका
ज्ञानानन्दरूपं ब्रह्मेत्युक्तम् । अतो न भिन्ना ज्ञानानन्दादिगुणाः । न चेत्सम्बन्धो वाच्यः । न चासौ समस्तीष्यते वा । यद्यभिन्नास्तदा कथमानन्दित्वादिसम्बन्धव्यपदेशो दण्डीत्यादि-वदित्यत्रोच्यते ॥ उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ स्वरूपत्वव्यपदेशात्तद्वत्त्वव्यपदेशाच्चाऽनन्दत्व-मानन्दित्वं च । युज्यते च । लोके तथा दृष्टत्वात् । यथाऽहिः कुण्डली कुण्डलात्मकश्चेति ।
तत्त्वप्रकाशिका
अत्र ब्रह्मप्राप्तिसाधनभक्त्यर्थं तस्य गुणित्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । गुणित्वाभावे तत्र भक्त्यनुदयात्तत् समर्थनीयम् । प्रकृता भक्तिरेव विषयः । कर्तव्या न वेति सन्देहः । पूर्वोक्तमेव सन्देहबीजम् । पूर्वपक्षयति ॥ स्वरूपेणेति ॥ न भगवद्भक्तिः कर्तव्या । तस्याऽऽनन्दित्वाद्य-भावात् । न ह्यगुणिनि भक्तिरुपपन्ना । न चाऽऽनन्दित्वादिकमङ्गीकर्तुं शक्यं ब्रह्मणः । आनन्दादीनां तत्स्वरूपत्वाभ्युपगमात् । अन्यथा समवायनिराकरणाऽनुपपत्तेः । स्वरूपेण चाऽऽनन्दादिना आनन्दित्वादेर्युक्तिविरुद्धत्वात् । अथाऽपि गुणित्वाऽङ्गीकारे गुणानां तत्स्वरूपत्वं त्याज्यम् । गुणानां गुणिस्वरूपत्वस्य युक्तिविरुद्धत्वात् । न चाऽऽनन्दादिभोक्तृतां विना तत्स्वरूपत्वं महिमा । द्रविणवत्त्वे हि पारिवृढ््यं न तु द्रविणत्वे । अतो गुणित्वाभावेन भक्त्ययोगाद्व्यर्थं माहात्म्यवर्णनमिति भावः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ कर्तव्यैव भगवद्भक्तिः । श्रुतिषु गुणात्मकत्वेन गुणित्वेन च व्यपदेशात् । गुणस्वरूपस्याऽप्यानन्दित्वाद्युपपत्तेरिति भावः । ननु श्रौतमपि गुणात्मकस्य गुणित्वं कथं युज्यते अदर्शनादित्यत आह ॥ अहीति ॥ तदेव विवृणोति ॥ यथेति ॥ यथा कुण्डलात्मकस्याप्यहेर्विशेषादेव कुण्डलित्वमेवमानन्दाद्यात्मकस्याऽपि ब्रह्मणो विशेषादेवाऽऽनन्दित्वादिकं युज्यत इति भावः । नेश्वरो गुणवान् गुणात्मकत्वाद्यथा न स्वः स्ववान् दण्डो दण्डवान्वा । आनन्दाऽऽद्या न ब्रह्मणो गुणास्तत्स्वरूपत्वाद् ब्रह्मवदित्यत आह ॥ तुशब्दादिति ॥ भवेदत्र युक्तिविरोधो यदि ब्रह्मस्वरूपादियुक्तिगम्यं स्यान् नैतदस्ति केवलश्रुतिगम्यत्वादिति भावः ।
भावबोधः
गुणित्वसमर्थनादिति ॥ ‘अतोऽनन्तेन’ इति पूर्वसूत्रगता‘तः’शब्दोक्तप्रमाणद्वयान्यथानु-पपत्त्या व्यक्तस्वभावस्याप्यपरोक्षसाधनवदिहाप्यानन्दित्वानन्दत्वरूपोभयव्यपदेशादानन्दादिगुण-रूपस्यापि ब्रह्मण आनन्दित्वादिगुणित्वसमर्थनादनयोरेकरूपसिद्धान्तयुक्त्युपेतत्वेनानन्तरसङ्गतिरिति भावः ॥ कर्तव्येति ॥ अत्र भक्तिर्न कर्तन्योत कर्तव्येति चिन्ता । तदर्थं ब्रह्मणो गुणित्वं नास्त्युतास्तीति । गुणस्वरूपस्यापि ब्रह्मणो गुणित्वे युक्त्यभावतद्विरोधौ भवत उत नेति । तदर्थं ब्रह्म शुष्कतर्कगम्यं भवत्युत नेति ॥ अन्यथेति ॥ आनन्दादीनां भेदे गुणगुणिनोर्युतसिद्ध्यभावेन घटपटयोरिव संयोगासम्भवाद्गुणगुणिभावोपपत्त्यर्थं समवायस्यावश्यमङ्गीकार्यत्वेन तन्निराकरणानु-पपत्तेरित्यर्थः । आनन्दादीनां स्वरूपत्वाभ्युपगमेऽपि कुतो ब्रह्मण आनन्दित्वादिकमङ्गीकर्तु-मशक्यमित्यतः स्वरूपेणेत्यादिभाष्यं योजयति– स्वरूपेणेति ॥ युक्तिश्च नेश्वरो गुणवानिति वक्ष्यमाणा । गुणानां गुणिस्वरूपत्वं विरुद्धमिति न्यायविवरणं योजयितुमाह– अथापीति ॥ तद्योजयति– गुणानामिति ॥ युक्तिस्त्वानन्दाद्या न ब्रह्मगुणा इत्यादिवक्ष्यमाणा ।
ननु गुणित्वरूपमहिमाभावेऽपि आनन्दादिगुणस्वरूपत्वरूपमहिमवत्त्वेन ब्रह्मणो भक्तिविषयत्वं स्यादित्यत आह– न चेति ॥ यो यदात्मकः स तद्वान्न भवतीति सामान्यव्याप्त्यपेक्षयाह– न स्व इति ॥ यो यद्धर्मात्मकः स तद्धर्मवान्न भवतीति, विशेषव्याप्त्यपेक्षयाह– दण्ड इति ॥ यद्वा विशेष्यापेक्षयाद्यः, विशेषणापेक्षया द्वितीय इति ॥ केवलश्रुतिगम्यत्वादिति ॥ केवलशब्देन ‘नेश्वर’ इत्यादि शुष्कनिरासः । तेन ‘उभयव्यपदेशात्तु’ इति युक्तिकथनं न विरुद्धमिति ज्ञातव्यम् । यथा कुण्डलात्मकस्याप्यहेः कुण्डलित्वं यथा प्रकाशात्मकस्यादित्यस्य प्रकाशित्वं यथा कालस्य चेति वाक्यत्रयेण कालादिदृष्टान्तादिति न्यायविवरणमप्युक्ततात्पर्यं भवति ।
भावदीपः
गुणित्वेति ॥ भाष्ये आनन्दित्वादीत्यनेन ज्ञानेच्छाशक्त्यादिगुणवत्त्वमात्रग्रह इति भावः । यद्यपि गुणात्मकत्वसमर्थनमपि प्रतीयते । तथापि समवायनिरासेन आह च तन्मात्रमित्यादिना गुणगुणिनोरभेदे विवादाभावाद् गुणित्वे गुणरूपत्वं विरुद्धमिति प्रसक्तचोद्यनिरासाय गुणात्मक-त्वस्योक्तावपि भक्त्यर्थं गुणित्वसमर्थन एव तात्पर्याद् गुणित्वेत्युक्तम् । यद्वा गुणात्मकत्वस्यापि समर्थनेऽपि तस्य भक्तावनुपयोगाद्गुणित्वेत्येकदेशानुवादः । एतेन पूर्वत्र स्वतोऽव्यक्तस्यापि निजशक्त्या व्यक्तत्वोक्तिवदत्रापि गुणात्मनोऽपि विशेषशक्त्या गुणित्वं चोच्यत इति वा तस्याभिध्यानादिति प्रागुक्तमयुक्तम् इच्छादिरूपस्य तस्याभिध्यानादिति तस्यानन्तशक्तित्वादिति च निर्देशायोगादित्याक्षेपाद्वा पूर्वसङ्गतिः सूचिता । कथंशब्दस्य प्रश्नार्थत्वं निरसितुमाह ॥ पूर्वपक्ष-यतीति ॥ फलोक्तिपूर्वं भाष्यं व्याचष्टे ॥ नेत्यादिना ॥ कथंशब्दस्याऽक्षेपार्थत्वलब्धं हेतुमाह ॥ तस्येति ॥ हेतोरप्रयोजकत्वनिरासाय गुणानां गुणिस्वरूपत्वं विरुद्धमित्यन्यत्रोक्त्यनुरोधेन गुणित्वाभावे तात्पर्यमिति भावेन तस्य हेतुत्वं व्यनक्ति ॥ न हीति ॥ पूर्वभाष्यांशस्य तत्र हेतुत्वं व्यनक्ति ॥ न चेत्यादिना ॥ अन्यथा गुणगुणिनोर्भेदे । यद्यपि ज्ञानज्ञेयादेरिव गुणगुणिनोर्भेदेऽपि स्वरूपसम्बन्धेनैव विशिष्टप्रतीत्युपपत्या समवायनिराससम्भवेन न तन्निरासो गुणगुणिनोरभेदं गमयति । तथापि स्वरूपसम्बन्धे तेषां नानात्वे गौरवादेकः समवाय एव युक्तः । स चेन्निरस्यते तदैक्यमेवोपेतं भवतीति भावः । हेतोरप्रयोजकत्वं निराह ॥ स्वरूपेण चेति ॥ युक्तीति ॥ नेश्वर आनन्दादिमान् तदात्मकत्वाद् यथा स्वयं न स्ववानिति । आनन्दाद्या न ब्रह्मगुणास्तदात्मकत्वाद् ब्रह्मवदित्यादियुक्तिविरुद्धत्वादित्यर्थः । गुणानां गुणिस्वरूपत्वं विरुद्धमित्यन्यत्रोक्त्युपलक्षितं गुणानामित्यादिवाक्यं योजयति ॥ गुणानामिति ॥ युक्तीति ॥ न गुणा गुणिस्वरूपं तद्धर्म-त्वाद्भूतलधर्मिकघटवदित्यादियुक्तीत्यर्थः । मास्तु गुणित्वं गुणात्मकत्वेनैव भक्तिरुत्पद्यतामित्यत आह ॥ न चेति ॥ भोक्तृतामिति ॥ सा चानन्दित्व एव युक्ता अहं सुखीत्यनुभवस्यैव भोगरूपत्वादिति भावः ॥ अत इति ॥ गुणात्मनो गुणित्वायोगाद्ब्रह्मणश्च गुणात्मकत्वाद् गुणात्मकताया अमहिमरूपत्वादित्यर्थः ।
फलोक्तिपूर्वं भाष्यं हेतुत्वेन योजयति ॥ कर्तव्यैवेति ॥ एतेन भाष्ये इत्युभयव्यपदेशाद् युज्यते गुणस्वरूपस्याप्यानन्दादिगुणित्वमिति योजना सूचिता । तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः । गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिता इत्यनुभाष्यदिशा हेतुं वदन् यथेत्यादिभाष्यं व्याचष्टे ॥ कुण्डलात्मकस्यापीति ॥ भूतलघटयोरिव भेदव्याप्तमुख्याधाराधेयभावस्याऽपि अभावमुपेत्याह ॥ यथा न स्ववानिति ॥ यो यदात्मकः स तद्वान्न भवति यथेश्वरो न स्ववानित्यर्थः । यदि न सङ्ख्योपसङ्ग्रहादिति सूत्रे ‘यस्मिन्पञ्च पञ्चजनाः’ इत्यादिश्रुतौ चैकस्यापि विशेषकृतमाधाराधेयभावं सिद्धं मन्यसे तदा देवदत्तो न स्ववानिति यथेत्यर्थो ध्येयः । यद्वा येन रूपेणाधारत्वं तेन रूपेणैव तत्प्रत्याधेयत्वं नेति भावेनोक्तम् ॥ यथा न स्ववानिति ॥ व्यतिरेकव्याप्तेरनुमित्यनङ्गत्वेऽपि व्यभिचारशङ्कानिवर्तनेन कथञ्चिदुपयुक्ततायाः प्रमाणपद्धत्यादावुक्तत्वाद् यो यद्वान् स तदात्मको नेति व्यतिरेकव्याप्तिं मत्वा तत्र दृष्टान्तमाह ॥ दण्डवान्वेति ॥ यथेत्यनुषङ्गः । यथा दण्डवान् दण्डात्मको न भवति तथेत्यर्थः । क्वचित्तु यथा न स्वः स्ववान् दण्डो दण्डवान्वेति पाठः । तदा तु स्वोऽर्थः स्ववान्न दण्डो दण्डवान्नेत्यर्थः । विशिष्याप्याह ॥ आनन्दाद्या इति ॥ यद्वा तस्य गुणवत्त्वं निरस्य तेषां तद्गुणत्वं निराह ॥ आनन्दाद्या इति ॥ नैतदस्तीति ॥ तच्च प्रतिपादितं शास्त्रयोनिसूत्र इति भावः ।
अभिनवचन्द्रिका
अथापीति ॥ समवायनिराकरणानुपपत्तिरूपदूषणसद्भावेऽपि गुणित्वाङ्गीकारे गुणानां तत्स्वरूपत्वं त्याज्यं स्यात् । न च तदिष्टं तत्प्रतिपादकवेदाप्रामाण्यप्रसङ्गात् । ततश्च वेदविहिताया अपि भक्तेरकर्तव्यत्वप्रसङ्ग इति भावः । भाष्येऽहिकुण्डलवदेवेति ॥ तावदिति शेषः । अहि-कुण्डलवदेव तावद्युज्यते । अहिकुण्डलदृष्टान्तमात्रेणैव अभिन्नयोर्धर्मधर्मि भावानुपपत्तिशङ्का-परिहाराय अहिकुण्डलदृष्टान्त उपात्तः, तावतैव च स्थूलमतीनां शङ्का निवर्तते । अत्यन्ताभिन्नयो-र्धर्मधर्मिभावोऽसम्भावित इति शङ्कोदये च दृष्टान्तान्तरं वक्ष्यतीति । एतेन दृष्टान्तान्तरस्य वक्ष्य-माणत्वाद् अहिकुण्डलवदेवेत्यवधारणमनुपपन्नमिति परास्तम् । स्थूलमतीनां तावन्मात्रेणैव शङ्का निवर्तत इत्याशयेन तदुपादानमित्यङ्गीकारात् ॥ यथाकुण्डलात्मकस्यापीति ॥ अत्र विशेषशब्दो भेदपरः । ततश्च यथा कुण्डलस्य सत्यप्यभेदे भेदमात्रेण धर्मधर्मिभावः, तथा ब्रह्मधर्माणां सत्यप्यभेदे भेदप्रतिनिधिना विशेषेणैव धर्मधर्मिभाव इत्यर्थः । एतेन कुण्डलस्याऽयावद्द्रव्यभावित्वेन भेदाभेद-सद्भावाद् विशेषेण धर्मधर्मिभाववर्णनमयुक्तमिति परास्तम् ॥ दृष्टान्तान्तरेणेति ॥ अहिकुण्डल-दृष्टान्तस्याऽत्यन्ताभिन्ने धर्मधर्मिभावानुपपादकत्वाद् दृष्टान्तान्तरेण श्रौतस्य धर्मधर्मिभावस्याऽ-सम्भावनापरिहारेण उक्तमर्थमुपपादयत्सूत्रमित्यर्थः । भाष्ये एवं वा दृष्टान्त इति ॥ यथा प्रकाशाश्रयस्य प्रकाशाभेदेऽपि प्रकाशित्वम्, एवं ब्रह्मणोऽपि प्रकाशाभेदेऽपि प्रकाशित्वमित्य-स्मिन्नर्थेऽयं दृष्टान्त इत्यर्थः । सूर्यादिदृष्टान्तेन प्रकाशगुणाभेदेऽपि तद्गणित्वे सिद्धे तन्न्यायेन आनन्दाद्यात्मकत्वेऽपि आनन्दित्वादिकं सिध्यतीति भावः । इममेवाभिप्रायं मनसि निधायाह टीकायाम् एवं ब्रह्मणो गुणात्म कस्यापीति ॥ एतेन भाष्ये’ एवं वा दृष्टान्त’ इत्यभिधानं व्यर्थम् । दृष्टान्तत्वस्य स्फुटं प्रति भासत्वादिति परास्तम् । प्रकाशगुणाभेदेऽपि प्रकाशित्व-मित्यर्थविशेष एवाऽयं दृष्टान्त इति द्योतनार्थत्वात् ।
ननु यो यदात्मको नासौ तद्गुण इति परकीयसामान्यव्याप्तिखण्डनस्य आदित्यदृष्टान्तेनेव घटादिदृष्टान्तेनापि सम्भवात् किं विशिष्य आदित्यग्रहणेनेति भावेन सिद्धान्त्याशयमविद्वान् शङ्कते टीकायां ननु घटादीनामिति ॥ भाष्ये तेजोरूपत्वाद्ब्रह्मण इति ॥ ब्रह्मणः प्रकाशरूपत्वा-त्तद्गुणित्वसाधनाय यः प्रकाशात्मकः नासौ प्रकाशगुण इति विशेषव्याप्तिनिरासायैवाऽयं दृष्टान्त उपात्तः । न तु सामान्यव्याप्तिनिरासायेति भावः । एतेन विवक्षितसाध्यसाधनभावसाम्यस्यैव दृष्टान्तदार्ष्टान्तिकयोरपेक्षितत्वेन तेजस्त्वाभिधानमयुक्तमिति परास्तम् । सूत्रयोजना तु ब्रह्मण-स्तेजोरूपत्वस्य प्रामाणिकत्वात् प्रकाशाश्रयवत् = सूर्यादिवद् विशेषबलेनैव तद्गुणित्वं न तु भेदेनेति । एतेन ‘पूर्ववद्वा’ इत्युत्तर सूत्रवत्प्रकाशाश्रयवद्वे’त्येतावतैव पूर्णत्वात्तेजस्त्वात्’ इति व्यर्थम्’ इति परास्तम् । प्रकाशरूपत्वस्य प्रामाणिकत्वाद् विशेषबलेनैव प्रकाशित्वं निर्वाह्यं न तु भेदेनेति ज्ञापनाय तद्ग्रहणस्याऽऽवश्यकत्वात् ॥ एतत्समर्थयदिति ॥ अत्यन्ताभेदेऽपि गुणगुणिभावं समर्थयत्सूत्रमित्यर्थः ॥ व्यर्थोक्तेरिति ॥ समर्थनीयस्यात्यन्ताभिन्नयोर्गुणगुणिभावस्य प्रकाशाश्रय-दृष्टान्तेनैव समर्थितत्वात् ‘पूर्ववत्’ इति दृष्टान्तस्य नेदं प्रयोजनं वृथोक्तेरपर्यवसानेनायोगात् प्रयोजनान्तरमस्तीति तावद्गम्यते । किं तत्प्रयोजनं यदर्थं सूत्रकारो दृष्टन्तान्तरं वक्ति तद्वक्तव्यमित्यत आहेत्यर्थः । एतेन पूर्ववद्वेति दृष्टान्तस्य व्यर्थत्वनिश्चये ‘किमर्थोऽयं दृष्टान्त’ इति प्रश्नायोगः । नेति पक्षे ‘व्यर्थो क्तेरपर्यवसानात्’ इति व्यर्थमिति परास्तम् । भाष्येऽति-सूक्ष्मत्वापेक्षयेति ॥ ब्रह्मणोऽतिगहनत्वेन दुर्ज्ञेयत्वान् नैकेन दृष्टान्तेन तद्बोधनं शक्यमिति दृष्टान्तान्तरोपादानमित्यर्थः । टीकायाम् अलमनेनेति ॥ अनेन दृष्टान्तद्वयेन अलम् । अत्यन्ता-भिन्नयोर्गुणगुणिभावसाधकत्वात् । तदसाधकेन किमाद्येन दृष्टान्तेनेत्यर्थः । एतेन प्रथमतृतीय-दृष्टान्तयोः प्रयोजनमुक्त्वा द्वितीयदृष्टान्तस्य तदनभिधानात् स व्यर्थ इति प्राप्तमिति परास्तम् । शयनशब्दस्य निद्रापरत्वस्य प्रकृतेऽनुपयोगाद् अयोगाच्च आह– शयनमिति ॥ अत्रापि स्मृतौ ‘यथाङ्गे शयनादिकम्’ इति दृष्टान्तद्वयं सूत्रेऽहि कुण्डलदृष्टान्तवत् स्थूलबुध्द्यपेक्षयेति बोध्यम् । एतेन अवस्थाविशेषादेरयावद्द्रव्यभावित्वेन भिन्नाऽभिन्नत्वाद् अत्यन्ताभिन्नयोर्धर्मधर्मिभावोपपादनाय तदुदाहरणमयुक्तमिति परास्तम् । आदिपदेनेति ॥ ‘शयनादिक’मित्यादिपदेन ‘अङ्गं शेत इत्यत्र’ योऽङ्गस्य शयनरूपक्रियया सह क्रियाकर्तृभावः स ग्राह्यः । तथा च यथा अवस्थाविशेषस्याङ्गाऽ-भिन्नस्याऽङ्गक्रियात्वं भवति, तथा ब्रह्माभिन्नोऽ प्यानन्दः ब्रह्मविशेषणं भवतीत्यर्थः । पूर्वं शयनस्याङ्गाऽभिन्नस्य सामान्येनाङ्गविशेषणत्वमात्रमुक्तम्, इह तु अङ्गक्रियात्वमुक्तमिति भेदः । घटादिवदिति ॥ यथा घटस्य स्वावयवैरभेदमात्रं नात्यन्ताभेदः, तथा ब्रह्मणोऽपीति प्रतीति-निरासाय ‘एकमेव’ इति सावधारणमेकत्वमुक्तमिति भावः ।
पूर्वपक्षस्तु न भगवद्भक्तिर्युक्ता । तस्यानन्दाद्यात्मकत्वेनानन्दित्वादिशून्यत्वात् । न च आनन्दादिभोक्तृत्वं विना तत्स्वरूपत्वं महिमा । अतो गुणित्वाभावेन तत्र भक्त्ययोगाव्द्यर्थं तन्माहात्म्यवर्णनमिति ।
सिद्धान्तस्तु युक्तैव भगवद्भक्तिः । उभयव्यपदेशबलेन गुणात्मकस्यापि अहिकुण्डलवत्, प्रकाशवत्, पूर्वकालवच्च विशेषणविशेष्यभावाङ्गीकारेण गुणित्वसम्भवात् किमनेन गुणगुणिनोर-भेदमङ्गीकृत्य गुणगुणिभावाङ्गीकारेण भेद एव किं न स्यादिति चेत्, न ‘एकमेवाद्वितीयं ब्रह्म, नेह नानास्ति किञ्चन’ इत्यादिना भेदस्य निषिद्धत्वात् । अतो गुणिनि हरौ भक्तिसम्भवाद्युक्तं माहात्म्यवर्णनमिति सिद्धम् ।
वाक्यार्थमुक्तावली
गुणित्वसमर्थनादिति ॥ पूर्वमचिन्त्यशक्तिमत्त्वादव्यक्तस्यापि व्यक्तत्वमुक्तम् । स्वरूपभूतया शक्त्या कथं शक्तिमत्वमित्यतः शक्तिमत्त्वसमर्थनादनन्तरसङ्गतिरिति भावः । यद्वा तर्कबाधो हि सूत्रपूर्वपक्षन्यायः । स एवात्रेत्यनन्तरसङ्गतिरिति भावः ॥ कर्तव्येति ॥ अत्र भक्तिर्न कर्तव्योत कर्तव्येति चिन्ता । तदर्थं स्वरूपेणानन्दादिना तस्यानन्दित्वादि न सम्भवत्युत सम्भवतीति ॥ अन्यथेति ॥ तत्स्वरूपत्वानभ्युपगमे गुणगुणिनोर्युतसिद्ध्यभावेन दण्डपुरुषयोरिवासंयोगाद् गुणगुणिभावोपपत्त्यर्थं समवायस्याङ्गीकार्यत्वेन समवायनिराकरणानुपपत्तेरित्यर्थः । भाष्ये कथमित्याक्षेपे । तन्मूलश्च तर्कबाध इत्युक्तन्याय एवेति भावेनाह स्वरूपेण चेति ॥ नेश्वरो गुणवानिति वक्ष्यमाणयुक्तिविरुद्धत्वादित्यर्थः । एवमानन्दो ब्रह्मेत्यादिश्रुत्यवष्टम्भेनानन्दादेः स्वरूपभूतत्वमङ्गीकृत्य युक्तिविरोधेन आनन्दित्वाक्षेपपरत्वेन भाष्यं योजितम् । इदानीमानन्दं ब्रह्मण इत्यादिश्रुत्यानन्दित्वाद्यङ्गीकृत्य तच्च स्वरूपेणानन्दादिना कथमिति स्वरूपत्वाक्षेपपरत्वेन भाष्यं व्याचष्टे ॥ तथापीति ॥ युक्तिविरोधेऽपि श्रुत्यवष्टम्भेन गुणित्वाद्यङ्गीकार इत्यर्थः ॥ गुणि-स्वरूपत्वं त्याज्यमिति ॥ समवायश्चाङ्गीकार्य इति भावः ॥ युक्तीति ॥ नेश्वरो गुणात्मकः गुणित्वात् । यो यद्वान् न स तदात्मकः । यथा दण्डवान्न दण्डात्मक इति युक्तिविरुद्धत्वादित्यर्थः । ननु गुणित्वरूपमहिमाभावेऽपि गुणात्मकत्वरूपमहिमावत्वादगुणिन्यपि भक्तिरुपपन्नेत्यत आह ॥ न चेति ॥
सूत्रे तदित्यस्ति । गुणात्मकं विशेषादगुणि चेति साध्यमध्याहार्यम् । उभयव्यपदेशादिति तत्र हेतुः । गुणित्वस्य गुणात्मकत्वस्य चेत्युभयव्यपदेशादित्यर्थः । यत्र तदात्मकत्वतद्वत्व-व्यपदेशविषयत्वं तत्र तदात्मकत्वं तद्वत्वं चेति तत्र दृष्टान्तोऽहिकुण्डलवदिति । अहिरूपकुण्डलवत् कुण्डलाकाराहिवदिति यावदिति सूत्रार्थमभिप्रेत्याध्याहृतसाध्यमेव हेतुत्वेनोपादाय भक्तिः कर्तव्येति परमसाध्यमप्याह ॥ कर्तव्यैवेत्यादिना ॥ अदर्शनादित्यत आहेति ॥ अदर्शनादित्यतो निदर्शन-मित्युक्तन्यायप्रदर्शकं सूत्रखण्डं व्याख्याति ॥ यथा न स्व इति ॥ अत्र स्वशब्देन सत्त्वादिगुणा उच्यन्ते । यो यदात्मकः स तद्वान्न भवतीति सामान्यव्याप्त्यपेक्षयाह ॥ दण्ड इति ॥ अहिकुण्डल-वदेवेति भाष्यस्य नात्र निदर्शनं मृग्यम् । स्पष्टप्रतिभासाद् अहिकुण्डलवदेव युज्यत इत्यर्थः ।
तत्त्वसुबोधिनी
गुणित्वसमर्थनादिति ॥ अतोऽनन्तेनेति पूर्वसूत्रातश्शब्दोक्तप्रमाणं रूपद्वयान्यथानुपपत्त्या आनन्दित्वादिव्यक्तस्वभावस्याप्यरोक्षसाधनवद् इहाप्यानन्दित्वानन्दत्वरूपोभयव्यपदेशादानन्दादि-गुणरूपस्यापि ब्रह्मणो आनन्दित्वादिगुणित्वसमर्थनादनयोरेकरूपसिद्धान्तयुक्त्युपेतत्वेनानन्तर-सङ्गतिरिति भावः । आनन्दित्वाभावेऽपि भक्तेरकर्तव्यत्वं कुत इत्यत आह ॥ न हीति ॥ ननु ब्रह्मण आनन्दित्वाङ्गीकारान्न तस्यागुणित्वमित्याशङ्क्य निषेधति ॥ न चेति ॥ अन्यथेति ॥ आनन्दादीनां भेदे गुणगुणिनोर् युतसिद्ध्यभावेन घटपटयोरिवासंयोगात् । गुणगुणिभावोपपत्त्यर्थं समवायस्यावश्यमङ्गीकार्यत्वेन निराकरणानुपपत्तेरित्यर्थः । आनन्दादीनां स्वरूपत्वाभ्युपगमेऽपि कुतो ब्रह्मण आनन्दित्वमङ्गीकर्तुमशक्यमित्यत आह ॥ स्वरूपेणेति ॥ युक्तिश्च नेश्वरो गुणवानिति वक्ष्यमाणा । एतावत्पर्यन्तं गुणरूपत्वमङ्गीकृत्य गुणित्वं दूषितम् । अधुना गुणित्व-मङ्गीकृत्य गुणरूपत्वं दूषयति ॥ तथापीति ॥ गुणानामिति ॥ युक्तिस्तु आनन्दाद्या न ब्रह्मगुणा इत्यादिवक्ष्यमाणा । ननु गुणित्वरूपमहिमाभावेऽप्यानन्दादिगुणस्वरूपत्वरूप-महिमावत्वेन ब्रह्मणो भक्तिविषयत्वं स्यादित्यत आह ॥ न चेति ॥ अत्र दृष्टान्तमाह ॥ द्रविणवत्त्व इति ॥ यो यदात्मकः स तद्वान्न भवति इति सामान्यव्याप्त्यपेक्षयाह ॥ न स्व इति ॥ यो यद्धर्मात्मकः स तद्धर्मवान्न भवतीति विशेषव्याप्त्यपेक्षयाह ॥ दण्ड इति ॥ यद्वा विशेष्यापेक्षयाद्यः । विशेषणापेक्षया द्वितीय इति ॥ केवलश्रुतिगम्यत्वादिति ॥ केवल इत्यनेन नेश्वर इत्यादिशुष्कतर्कनिरासः । तेनोभयव्यपदेशात्त्विति युक्तिकथनं न विरुद्धमिति ज्ञातव्यम् ।
वाक्यार्थविवरणं
गुणित्वेति ॥ गुणवत्त्वेत्यर्थः ॥ अन्यथेति ॥ आनन्दादीनां तत्स्वरूपत्वानभ्युपगमे ब्रह्मभिन्नत्वप्राप्त्या ब्रह्मभिन्नैरानन्दादिभिर्गुणैर्ब्रह्मणा सम्बन्धस्यावश्यं वाच्यत्वात्संयोगस्य चासम्भवा-त्समवायोऽवश्यमङ्गीकार्यः प्रसज्यते । तथा च समवायाभ्युपगमादिति समवायनिराकरणमयुक्तं स्यादतस्तदन्यथानुपपत्त्या स्वरूपत्वमङ्गीकार्यमिति भावः । ततः किमित्यत आह– स्वरूपेण चेति ॥ युक्तीति ॥ नेश्वरो गुणवान् गुणात्मकत्वाद् यथा स्वः न स्ववान् इति वक्ष्यमाण-युक्तीत्यर्थः ॥ न चेति ॥ किन्त्वानन्दादिभोक्तृत्वमेव महिमा तच्च स्वरूपत्वाङ्गीकारे न सम्भव-तीति शेषः । स्वरूपत्वं कुतो न महिमेत्यत आह ॥ द्रविणवत्त्वे हीति ॥ पारिवृढ्यम् प्रभुत्वम् । ‘प्रभुः परिवृढः पतिरित्यमरः ॥ विशेषात् ॥ अभेदे भेदकार्यकारित्वरूपात् ॥ कुण्डलित्वं वर्तुलत्वम् ॥ यथा न स्व इत्यादि । यद्यदात्मकं न तत्तद्वदिति सामान्यव्याप्तिरिति ध्येयम् ।
वाक्यार्थमञ्जरी
अन्यथेति ॥ आनन्दादीनां भेदेन गुणगुणिनोर्युतसिद्धत्वाभावेन घटपटयोरिव संयोगा-भावाद्गुणगुणिभावोपपत्त्यर्थं समवायस्यावश्यमङ्गीकार्यत्वेन तन्निराकरणानुपपत्तेरित्यर्थः ॥ स्वरूपेण चेति ॥ नेश्वरो गुणवान् गुणात्मकत्वाद् यथा न स्वःस्ववानिति वक्ष्यमाणयुक्तीत्यर्थः ॥ गुणानामिति ॥ आनन्दाद्या न ब्रह्मगुणास् तत्स्वरूपत्वाद् ब्रह्मवदिति वक्ष्यमाणयुक्तीत्यर्थः । ननु गुणित्वरूपमहिमाभावेऽपि आनन्दादिगुणस्वरूपत्वरूपमहिमावत्त्वेन ब्रह्मणो भक्तिविषयत्वं स्यादित्यत आह ॥ न चेति ॥ पारिवृढ्यम् आढ्यत्वम् ॥ ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ ॥ ब्रह्मणो गुणात्मकत्वं गुणित्वं चेत्युभयमप्यस्ति । कुतः ? एष परमानन्द इत्यानन्दात्मत्वम् आनन्दं ब्रह्मण इत्यानन्दित्वमित्युभयोरपि व्यपदेशात्कथमेकस्योभयत्वम् अहिकुण्डलवद् एकस्यैव सर्पस्य कुण्डलित्वं कुण्डलत्वं च यथेत्यर्थः ॥ विशेषादेव कुण्डलित्वमिति ॥ ननु यत्रात्यन्ता-भेदस्तत्रैव विशेष इति सिद्धान्तः । अहिकुण्डलयोश्च भेदाभेदौ । यद्वक्ष्यति भेदाभेदविषयेण किमाद्येन दृष्टान्तेनेति । सुधायां चाहेरवयवानामन्योन्यसंयोगविशेषो ह्यहिकुण्डलं स तावदहि-नात्यन्ताभिन्न इति शङ्काग्रन्थे यद्यप्यहिकुण्डलं भेदाभेदवदिति सिद्धान्तग्रन्थे चोक्तम् । तत्कथ-मेतदिति चेत् सत्यम् । नात्र विशेषशब्दो भेदकार्यकारिवस्तुसामर्थ्यपरः किन्तु भेदपर एव । भेदान्तरं विशेषश्च सूक्ष्मं चेत्यभिधीयत इति चतुर्थतात्पर्योक्तेः । न चैवं कथमत्यन्ताभेदे दृष्टान्त इति वाच्यम् । ओःकुण्डलस्य भेदाभेदवत्त्वेऽपि मन्दानामभेदबुद्धिमवतारयितुमिदं यथा पृथिव्यामौषधयः सम्भवन्तीतिवदिति सुधोक्तरीत्याऽभेदमात्रे दृष्टान्तत्वोपपत्तेरिति । विशेष्यापेक्षयाह ॥ यथा न स्व इति ॥ विशेषणापेक्षयाह ॥ दण्ड इति ॥
ॐ प्रकाशाश्रयवद्वा तेजस्त्वात् ॐ
सूत्रभाष्यम्
॥ ॐ प्रकाशाश्रयवद्वा तेजस्त्वात् ॐ ॥ २९ ॥
यथाऽऽदित्यस्य प्रकाशत्वं प्रकाशित्वं च, एवं वा दृष्टान्तः । तेजोरूपत्वाद् ब्रह्मणः ।
तत्त्वप्रकाशिका
दृष्टान्ताऽन्तरेणैतदेव समर्थयत्सूत्रमुपन्यस्य व्याचष्टे ॥ प्रकाशेति ॥ यथा प्रकाशात्मकस्याप्या-दित्यस्य प्रकाशित्वं विशेषबलादेवं गुणात्मकस्यापि ब्रह्मणो गुणित्वं विशेषबलाद्युज्यत इति भावः । नन्वत्र घटादीनामपि दृष्टान्तयितुं युक्तत्वाद्विशिष्यादित्यग्रहणे का विवक्षेत्यत आह ॥ तेजोरूपत्वादिति ॥
गुर्वर्थदीपिका
घटादौ नीलो घटः नीलवान्घट इत्यादिव्यवहारदर्शनात्सोऽपि दृष्टान्तोऽस्त्विति शङ्कते नन्विति ॥ तेजोरूपत्वादिति वदता भाष्यकारेणाऽऽदित्यस्य प्रकाशस्य च सविशेषाभिन्नत्वा-दन्तरङ्गोऽयं दृष्टान्त इति सूचितम् । एवं च मन्दमतीनां बोधायाऽऽद्यः, अन्तरङ्गत्वाद्द्वितीयः, अतिसूक्ष्मत्वबोधनाय तृतीयो दृष्टान्त इति सूत्रत्रयस्यापि सार्थक्यमिति ज्ञातव्यम् ।
भावदीपः
समर्थयदिति ॥ एतच्चोक्तनिर्वाहम् । दृष्टान्तस्य सम्भावनामात्रहेतुत्वेऽपि प्रागुक्तोभयव्यपदेश-रूपमानसहितस्य तु साधकत्वमस्तीति समर्थयदित्युक्तम् । गुणित्वसाधनपरतया भाष्यं व्यनक्ति ॥ यथेत्यादिना ॥
वाक्यार्थमुक्तावली
प्रकाशपदेन भास्वरं रूपमुच्यते ॥ तेजोरूपत्वादिति ॥ ब्रह्मणस्तेजोरूपस्यापि भावात् । प्रकाशरूपस्यापि प्रकाशित्वं विशेषबलादित्यत्र साक्षाद्दृष्टत्वेनादित्यदृष्टान्तस्यान्तरङ्गत्वादित्यर्थः । आदित्यवदिति वाच्ये प्रकाशवदित्युक्तिर् विशेषेण गुणगुणिभाव इति द्योतयितुम् ।
तत्त्वसुबोधिनी
नन्वत्र घटादीनामपीति ॥ घटादीनां रूपित्वरूपवत्वयोः सत्वादित्यर्थः ।
वाक्यार्थविवरणम्
एवमुत्तरानुमानेऽपि यद्यत्स्वरूपं न तत्तद्गुणः यथा ब्रह्मेति द्रष्टव्यम् । आदिपदेन ब्रह्मणो गुणात्मकत्वगुणवत्त्वयोर्ग्रहणम् ॥ एतत् ॥ गुणात्मकस्य गुणित्वम् ॥ प्रकाशित्वमिति ॥ प्रकाशाश्रयत्वमित्यर्थः । तथा च सूत्रे भावप्रधानो निर्देशः । तथा च प्रकाशत्ववत् प्रकाशाश्रयत्ववच्च । प्रकाशाश्रयत्वं नाम प्रकाशित्वं तद्वच्चेत्यर्थो द्रष्टव्यः ॥ घटादीनामिति ॥ तथा घटादीनां पृथुबुध्नोदराकारत्वं चास्ति तद्वदित्येवं दृष्टान्तयितुमित्यर्थः ।
वाक्यार्थमञ्जरी
यथा प्रकाशाश्रयस्यादित्यस्य प्रकाशत्वं प्रकाशित्वं च तद्वद्गुणात्मकस्येशस्य गुणित्वं सम्भवति । अन्यद्विहायादित्यग्रहणे को हेतुरित्यत आह ॥ तेजोरूपत्वादिति ॥ ब्रह्मणस्तेजो-रूपत्वेनान्तरङ्गत्वादित्यर्थः ।