ॐ तदव्यक्तमाह हि ॐ
१४. अव्यक्ताधिकरणम्
सूत्रभाष्यम्
परमात्मापरोक्ष्यं च तत्प्रसादादेव न जीवशक्त्येति वक्तुमुच्यते—
॥ ॐ तदव्यक्तमाह हि ॐ ॥ २३ ॥
अव्यक्तमेव तद्ब्रह्म स्वतः ।
‘अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्कलम् ।
यज्ज्ञात्वा मुच्यते जन्तुरानन्दश्चाव्य(क्ष)यो भवेत्’ इति
हि कौण्ठरव्यश्रुतिः ।
तत्त्वप्रदीपिका
अथ जीवो ज्ञानयोग्योऽपि श्रवणादिमानपि न स्वशक्त्या भगवन्तं पश्यति । किन्तु तत्प्रसादा-देवेति वक्तुं तस्य स्वभावविशेषमाह । ॐ तदव्यक्तमाह हि ॐ ॥ यथा प्रकाशदेशादिसामर्थ्या-त्पदार्थानामभिव्यक्तिर्न तथा ब्रह्मणोऽभिव्यक्तिः प्रकाशरूपस्यापि स्वतः ॥
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनभक्त्यर्थं तस्योपलब्धियोग्यत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । उपलब्धि-योग्यत्वे भक्तिवैयर्थ्यप्रसङ्गात्तदभावः समर्थनीयः । प्रकृता भक्तिरेव विषयः । कर्तव्या न वेति सन्देहः । कर्तव्याऽकर्तव्यव्यापारदर्शनं सन्देहबीजम् । न कार्येति पूर्वः पक्षः । प्रयोजनाभावात् । भगवदाऽऽपरोक्ष्यं प्रयोजनमिति चेन्न तद्भक्तिप्रयोजनम् । स्तम्भादिवत्पुरुषप्रयत्नेनैव तदापरोक्ष्य सम्भवात् । तस्याऽव्यक्तत्वं चेद्व्यर्थैव तद्भक्तिः । अव्यक्तस्वभावस्य साधनशतेनाऽपि दर्शनाऽ-योगात् । तदभ्युपगमे चेश्वरो न प्रतीयतेऽव्यक्तस्वभावत्वाददृष्टादिवदिति युक्तिविरोधः । अतो भक्तेर्व्यर्थत्वादयुक्तं तदर्थं महामाहात्म्यवर्णनमिति ।
सिद्धान्तयत्सूत्रमवतारयति ॥ परमात्मेति ॥ तत्प्रसादाद्भक्तिसाध्यादिति शेषः । वक्तुमतोऽ-नन्तेनेत्यादौ । उच्यतेऽव्यक्तत्वमिति शेषः । सूत्रं व्याचष्टे ॥ अव्यक्तमिति ॥ कर्तव्यैव भगवद्भक्तिः । तस्याऽव्यक्तस्वभावत्वेन पुरुषप्रयत्नेन द्रष्टुमशक्यत्वात् । अव्यक्तत्वं च तस्य श्रुतिराहेति भावः ।
गुर्वर्थदीपिका
तदभ्युपगम इत्यस्याव्यक्तस्वभावस्यापि बहुप्रयत्नेन दर्शनाभ्युपगमे इत्यर्थः ।
भावबोधः
उपलब्धियोग्यत्वे भक्तिवैयर्थ्यप्रसङ्गादिति । अतीताधिकरणैर्महिमनिरूपणादिना भक्तेः कर्तव्यत्वसप्रयोजनत्वयोरुक्तयोरेव भक्तिप्रयोजनत्वेनाभिमतज्ञानादेः पुरुषप्रयत्नप्रयोजनत्वेनैव सिद्धेर्व्यर्था भक्तिर्न कार्येति शङ्कोदये तत्परिहारादनन्तरसङ्गतिरिति भावः ॥ कर्तव्येति ॥ अत्र भक्तिः किं न कर्तव्योत कर्तव्येति चिन्ता । तदर्थं तत्प्रयोजनत्वेनाभिमतं ब्रह्मापरोक्षज्ञानं पुरुष-प्रयत्नसाध्यं भवत्युत नेति । तदर्थं ब्रह्म पिशाचादिवत् समाराधनभावाभावाभ्यां वा अग्न्यादिस्थूल-सूक्ष्मरूपाभ्यां वा व्यक्तत्वाव्यक्तत्वोपेतमुताव्यक्तैकस्वभावं वेति । तदर्थमव्यक्तैकस्वभावस्यापि ब्रह्मण उपासनादिसाध्यप्रसादजन्यापरोक्षज्ञानविषयत्वं न सम्भवत्युत सम्भवतीति । तदर्थ-मव्यक्तत्वापरोक्षत्वयोर्विरोधशामकं नास्त्युतास्तीति । एवं चाव्यक्तत्वापरोक्षत्वयोर्विरोधशामकाभावे उपासनादिसाध्यप्रसादेनाप्यपरोक्षज्ञानासम्भवेनाव्यक्तैकस्वभावत्वानुपपत्तेरपरोक्षज्ञानसिध्यर्थं च पिशाचादिवद्वाग्न्यादिवद्वा, व्यक्तत्वाव्यक्तत्वयोरङ्गीकार्यत्वे परोक्षज्ञानस्य पुरुषप्रयत्नेनैवान्यथासिद्धेर्न तदर्थं भक्तिः कर्तव्येति पूर्वपक्षे विरोधशामकाचिन्त्यशक्तिसद्भावे उपासनादिजन्यप्रसाद-साध्यापरोक्षज्ञानविषयत्वेऽप्यव्यक्तस्वभावत्वोपपत्तौ तदपरोक्षज्ञानस्य पुरुषप्रयत्नसाध्यत्वासम्भवात्, तदर्थं भक्तिरवश्यं कर्तव्येति सिद्धान्ते च फलफलिभावः ।
नन्वपरोक्षज्ञानं भक्तिप्रयोजनमभिलषता किं व्यक्तत्वं ब्रह्मणोऽङ्गीक्रियते, उताव्यक्तत्वमिति विकल्पं हृदि कृत्वाद्यं दूषयति– स्तम्भादिवदिति ॥ अनेन ‘तदव्यक्तत्वमाह हि’ इत्यादिसूत्रत्रय-निरसनीयपूर्वपक्ष उक्तो भवति । द्वितीयमाशङ्क्य दूषयति– तस्याव्यक्तत्वं चेदिति ॥ अनेन ‘अतोऽनन्तेन’ इति सूत्रनिरसनीयपूर्वपक्षांशः प्रदर्शितः ॥ तदभ्युपगमे चेति ॥ अव्यक्त-स्वभावस्यापि दर्शनाभ्युपगम इत्यर्थः । न प्रतीयते प्रत्यक्षेणेति शेषः । अनेनाव्यक्तस्वभावस्य दर्शने तर्कबाध इति न्यायविवरणं व्याख्यातं भवति । भक्तेः कर्तव्यत्वप्रतिपादनार्थं प्रवृत्तत्वात् परमात्मापरोक्ष्यं प्रसादादेवेत्युक्ते कथं भक्तेः कर्तव्यत्वसिद्धिरित्यत आह– भक्तिसाध्यादिति ॥ शेष इति ॥ इत्यादाविति ॥ आदिशब्देन ‘प्रकाशश्च कर्मणि’ इत्येतद् ग्राह्यम् । यद्वा ‘आदौ’ प्रथमत उच्यते । व्यक्तत्वमित्युत्तरत्रान्वयः ।
भावदीपः
अतोऽनन्तेनेति सूत्रानुरोधादधिकरणार्थमाह ॥ तस्योपलब्धियोग्यत्वेति ॥ स्वतोऽव्यक्तस्यापि प्रसादद्वारेति भावः । यद्यपि तदयोग्यत्वमेव महिमा देवादौ दर्शनात् । तथापि महिमोक्तेर्भक्त्यर्थ-त्वाद्भक्तेश्चोपलब्ध्यर्थत्वात्तस्य च तदयोग्यत्वे भक्तेरेव व्यर्थतापत्तेरव्यक्तैकस्वभावस्यापि तस्य भक्त्यादिना प्रसन्नस्य स्वशक्त्योपलब्धियोग्यत्वस्य च महिमरूपत्वाच्च । अत एव सूत्रकृता तस्याव्यक्तैकस्वभावत्वमुक्त्वा पश्चादेव तद्योग्यत्वमुक्तम् । तदुक्तमनुव्याख्याने । अव्यक्तोऽपि स्वशक्त्यैव भक्तानां दृश्यते हरिरितीति भावः । एतेन पूर्वसूत्रे जीवानामैहिकसौख्यकारणमन्नादिना पोषणादिकमीश्वरायत्तमित्युक्तम् । अत्र तु पारत्रिकसौख्यहेतुस्वापरोक्षज्ञानमपीश्वरायत्तमुच्यत इति सङ्गतिरपि सूचिता ॥ भक्तिवैयर्थ्येति ॥ भक्तेरनुबन्धादिभ्य इति वक्ष्यमाणदिशोपलब्ध्यंगत्वादिति भावः । क्वचिदुपलब्ध्ययोग्यत्वसमर्थनादित्यादिपाठः । तदा तूपोद्घातप्रमेयं हृदि कृत्वा आहे-त्यवतारिका ध्येया ॥ कर्तव्याकर्तव्येति ॥ भोजनादेः सफलव्यापारस्य निष्फलस्य शिरोवेष्टनया नासिकाग्रहणादिव्यापारस्य च दर्शनमित्यर्थः । सूत्रेषु व्यक्तत्वाव्यक्तत्वयोरुक्तत्वादुभयत्र पूर्ववादी दोषमाह ॥ स्तम्भादिवदित्यादिना ॥ अव्यक्तस्वभावस्य दर्शने तर्कबाध इत्यन्यत्रोक्तमत्र संयोजयति ॥ तदभ्युपगम इति ॥ अव्यक्तस्वभावस्यापि दर्शनाभ्युपगम इत्यर्थः ॥ अत इति ॥ व्यक्तत्वाव्यक्तत्वरूपपक्षद्वयेऽपि दोषसद्भावादित्यर्थः ।
भक्तिसाफल्यायाह ॥ भक्तिसाध्यादिति ॥ फलोक्तिपूर्वं व्यक्तत्वपक्षोक्तदोषनिरासकतया सूत्रभाष्ये व्याचष्टे ॥ कर्तव्यैवेति ॥ स्वत इत्यस्यार्थः स्वभावत्वेनेति ॥ अव्यक्तत्वं श्रुतिराहेतीति भाष्ये श्रुतिशेषोक्तिस्तस्याव्यक्तत्वे भक्त्यादिवैयर्थ्यम् । अविषयस्य ज्ञानायोगेन फलाभावादिति शङ्काव्यावृत्त्यर्थं कर्मणीति वक्ष्यमाणस्योपोद्बलकतयेति भावः ।
अभिनवचन्द्रिका
भक्त्यर्थमिति ॥ भक्तेरावश्यकत्वसिद्ध्यर्थं पुरुषप्रयत्नाधीनोपलब्ध्ययोग्यत्वसमर्थनादित्यर्थः । उपलब्धियोग्यत्व इति ॥ भक्त्यभावेऽपि उपलब्धियोग्यत्वे भक्तेरनावश्यकत्वप्रसङ्गात् समर्थनीय-मित्यर्थः । एतेन भक्तेरुपलब्ध्यर्थत्वाद् उपलब्धियोग्यत्व एव भक्तेः सार्थक्याद् उपलब्धियोग्यत्वमेव समर्थनीयं न त्वयोग्यत्वं भक्तिवैयर्थ्यप्रसङ्गादिति निरस्तम् । ननु अव्यक्तमेव ब्रह्म सहकारिसमवधानात्प्रत्यक्षं भवति । समाराधनमेव च सहकारि न भक्तिः । अव्यक्तयक्षसाक्षात्कारे तस्य सहकारित्वदर्शनात् । क्लृप्तसहकारिभावेन समाराधनेनैव तत्साक्षाकारो पपत्तौ भक्तिकल्पन-स्याऽनुपपन्नत्वादिति शङ्कते अस्त्विति ॥ आराधनेऽप्यव्यक्तत्वस्येति ॥ आराधनसह-कृतेन्द्रियायोग्यत्वस्य ज्ञानिप्रत्यक्षसिद्धत्वादित्यर्थः ॥ अव्यक्तत्वं प्रत्यक्षसिद्धमिति ॥ अव्यक्त-शब्दस्य प्रत्यक्षाऽयोग्यत्वार्थकत्वात् ‘अव्यक्तत्वं प्रत्यक्षसिद्धम्’ इति व्याहतम् । धर्मिणोऽ-योग्यत्वेऽव्यक्तत्वरूपधर्मस्य तत्र प्रत्यक्षेण सिध्ययोगादित्याशङ्का ‘प्रकाशश्च कर्मण्यभ्यासात्’ इत्यत्र श्रवणाद्यभावदशायाम् अयोग्यस्यापि श्रवणाद्यभ्यासे योग्यत्वाभिधानेन गर्भःस्त्रावेणेव नङ्क्ष्यती-त्यर्थः । न हि स्वगतविशेषशून्य इति ॥
ननु स्वगतविशेषशून्यत्वाभिधानमयुक्तं, प्राक् स्वेनैवोत्पत्त्यनुत्पत्योर्व्यक्तत्वा व्यक्तत्वयोश्चाभि-धानादिति चेत्, सत्यम् । अस्त्येव व्यक्तरूपे जननं तत एव व्यक्तत्वं च । न च तावता मूलरूपाद्विशेषः । जननस्य स्वेच्छागृहीतत्वात् । न हि स्वेच्छया दण्डमवष्टभ्य गच्छन् राजा शुद्धात्, क्षीणशक्तिर्भवति । किंनाम स्वगतविशेषशून्य एवोच्यते । दण्डस्य स्वेच्छागृहीतत्वात् । एवमीश्वरोऽपि स्वेच्छागृहीतजन्मादिरपि पूरुषार्थप्रदानादिविषये स्वगतविशेषशून्य एवेति भावः ॥ न चैवं ब्रह्मणीति ॥ ननु कथं ब्रह्मणि स्थूलत्वं नास्ति । रामकृष्णादिरूपाणां स्थूलत्वात् । न हि घटादिदर्शनाद् अधिकसाधनसाध्यत्वं तत्कालभवानां रामकृष्णादिदर्शनस्य, येन तस्य स्थूलत्वं नेति प्रतीम इति चेत्, न वयं ब्रह्मणः सर्वथा प्रत्यक्षविषयत्वं व्यासेधामः, किंनाम भक्त्यभावे स्वस्वरूपभूतेन ज्ञानानन्दाद्यात्मना इन्द्रियग्राह्यत्वं व्यासेधामः । अस्ति च तेन रूपेण रामकृष्णादीनामपि इन्द्रियाग्रह्यत्वम् । अत एव तद्दर्शिनां मुक्त्यभावोऽपि । श्रुत्यैव स्थौल्यस्येव सूक्ष्मत्वस्यापि निषिद्धत्वात् सूक्ष्मत्वाङ्गीकारोऽयुक्त इत्यतः श्रुत्यर्थमाह – केनचिद्रूपेणेति ॥ श्रुत्या सूक्ष्मत्वं रूपान्तराद् विशेषो नेत्येव निषिद्धम्, न तु सर्वात्मना निषिद्धमिति भावः ।
ननु कथं नित्याव्यक्तस्येति ॥ सर्वात्मना साधनशक्त्यविषयस्येत्यर्थः ॥ न हि साधनशते-नेति ॥ इन्द्रियस्य ग्रहणशक्त्यभावे उपनेत्रादिसहस्रसामग्रीसमवधानेऽपि ज्ञानादर्शनादिति भावः । अन्यथा परमाण्वादीनां दर्शनप्रसङ्गः ।
पूर्वपक्षस्तु व्यक्त एवायमीश्वरः । महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वात् । ‘यदा पश्यः पश्यत’ इति श्रुतेश्च । न हि अव्यक्तस्वभावत्वे साधनशतेनापि दर्शनमुपपद्यते । स्वभावस्याऽनपायात् । ततश्च स्तम्भादिवत् पुरुषप्रयत्नेनैव प्रत्यक्षसम्भवाद् व्यर्थैव तद्भक्तिरिति तन्महिमवर्णनमपि व्यर्थमेवेति ।
सिद्धान्तस्तु अव्यक्त एवायमीश्वरः । ‘अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्कलम्, इति श्रुतेः । अत एव प्रत्यक्षताप्रयोजकप्राकृतरूपवत्त्वमसिद्धम् । ननु अस्तु स्वतोऽव्यक्तं ब्रह्म तथापि समाराधनेन यक्षादिवव्द्यक्तं भविष्यतीति चेत्, न भक्त्यभावे सत्यपि समाराधने ब्रह्माऽप्रत्यक्षत्वस्य ज्ञानिप्रत्यक्षसिद्धत्वेन समाराधनस्य ब्रह्मप्रत्यक्षहेतुत्वाऽभावात्, यक्षस्यातिसूक्ष्मत्वाभावेन समाराधनसहकृतेन्द्रियग्राह्यत्वेऽपि अतिसूक्ष्मत्वेन ब्रह्मणस्तदयोगाच्च । ननु अस्तु मूलरूपेणाऽव्यक्तं ब्रह्म, अनुत्पन्नत्वात् । अवताररूपेण तु व्यक्तीभविष्यति उत्पन्नत्वात् । मूलरूपेणाऽव्यक्तानामपि अनलजलभुवामुत्पन्नरूपेण व्यक्तत्वदर्शनात् । न च मूलरूपमेव दृष्टं मोक्षसाधनं नाऽवताररूपमिति शक्यते वक्तुम् । लीलया विग्रहस्य गृहीतत्वेन उत्पत्त्यादेर्दोषत्वाभावान् मूलरूपेण समशक्तित्वात्, ‘पूर्णमदः पूर्णमिदम्’ इति वचनाच्च । ततो व्यर्था भक्तिरिति चेत्, न मूलरूपावताररूपयोरपि अव्यक्तत्वेन व्यक्ताव्यक्तत्वविशेषाभावात् । ‘स्थूलसूक्ष्मविशेषोऽत्र न क्वचित्परमेश्वरे । सर्वत्रैक-प्रकारोऽसौ सर्वरूपेष्वजो यत’ इति वचनात् ।
ननु यदि नित्याव्यक्तं तद्ब्रह्म व्यर्थैव तद्भक्तिः । अव्यक्तस्वभावस्य साधनशतेनापि व्यक्तं कर्तुमशक्यत्वादिति चेत्, न भक्तिपूर्वकं श्रवणाद्यभ्यासेन तत्प्रसादे जाते तदापरोक्ष्याङ्गीकारात् । ननु अव्यक्तस्वभावत्वरूपयुक्तिविरोधापरिहारादिति चेत्, न अव्यक्तस्वभावस्य साधनसामर्थ्येन ग्रहणाऽसम्भवेऽपि तत्प्रसादेनाऽऽपरोक्ष्याङ्गीकारे बाधकाभावात् । ईशस्याऽघटितघटकत्वेन सिद्धत्वात् । तदुक्तं यद्धि युक्त्या विरुध्द्येत तदीशकृतमेव हीति । ‘भगवत्प्रसादस् तदपरोक्षसाधनं, मोक्षहेतुत्वात्’ इत्यनुमानसिद्धत्वाच्च । अतो भक्तेः सफलत्वात् तदर्थं तन्महिमवर्णनं सार्थकमिति सिद्धिम् ।
वाक्यार्थमुक्तावली
अस्येदेषा सुमतिः प्रप्रथानेति पूर्वाधिकरणोपात्तश्रुतौ अस्य इद् अस्यैव प्रसादाद् एषा ब्रह्मादीनां सुमतिर् अपरोक्षज्ञानरूपा प्र अतिशयेन प्रथाना अभवदिति स्वप्रसादेनैवेश्वरस्योप-लभ्यत्वमहिमा निरूपितः । स न युक्तः । स्तम्भादिवत्प्रयत्नेनोपलब्धुं शक्यत्वात् प्रसादवैय्यर्थ्य-मित्याक्षेपे तस्य जीवप्रयत्नेनोपलब्ध्ययोग्यत्वमहिम्नो वर्णनादनन्तरसङ्गतिरिति भावः ॥ कर्तव्येति ॥ अत्र भक्तिः किं न कर्तव्योत कर्तव्येति चिन्ता । तदर्थं तत्प्रयोजनत्वेनाभिमतं ब्रह्मापरोक्षज्ञानं पुरुषप्रयत्नसाध्यं भवत्युत नेति । तदर्थं ब्रह्म पिशाचादिवत्समाराधनभावाभावाभ्यां वाग्न्यादिवत्स्थूल-सूक्ष्मरूपाभ्यां वा व्यक्तत्वोपेतमुताव्यक्तैकस्वभावं वेति । तदर्थमव्यक्तैकस्वभावस्याप्यपरोक्ष-ज्ञानविषयत्वं न सम्भवत्युत सम्भवतीति । अकर्तव्यव्यापारदर्शनमिति ॥ प्रयोजनराहित्येना-कर्तव्यकाकदन्तपरीक्षादिव्यापारदर्शनमित्यर्थः । न तु कलञ्जभक्षणादिनिषिद्धव्यापारदर्शनमित्यर्थः । नन्वपरोक्षज्ञानं भक्तिप्रयोजनमभिलषता किं व्यक्तत्वं ब्रह्मणोऽङ्गीक्रियते उताव्यक्तत्वमिति विकल्पं मनसि निधायाद्यं दूषयति ॥ स्तम्भादिवदिति ॥ अनेन तदव्यक्तमाह हीत्यादिसूत्रनिरसनीयपूर्वपक्ष उक्तो भवति । द्वितीयमाशङ्क्य दूषयति । तस्याव्यक्तत्वं चेदिति । अनेनातोऽनन्तेनेति सूत्रनिरसनीयपूर्वपक्षांशः प्रदर्शितः । अनन्तेनेत्यचिन्त्यशक्त्युक्त्या निरसनीयं तर्कबाध इत्युक्तपूर्वपक्षन्यायं प्रकटयितुमाह ॥ तदभ्युपगमे चेति ॥ अव्यक्तस्वभावस्यापि दर्शनाभ्युपगम इत्यर्थः ॥ भक्तिसाध्यादिति ॥ विशेष इति ॥ अन्यथा भक्तेः कर्तव्यत्वासिद्धेः प्रकृतानुपयोग इति भावः ॥ इत्यादाविति ॥ आदिपदेनापि संराधन इत्यस्य ग्रहणम् । तत्र न जीवशक्त्येति प्रतीतेर् हि यस्मात्तदव्यक्तम् अतो भक्तिः कर्तव्या । हि यस्मात्तद्ब्रह्माव्यक्तं श्रुतिराह तस्मात्तद-व्यक्तमिति सूत्रार्थं मत्त्वाह ॥ कर्तव्यैवेति ॥
तत्त्वसुबोधिनी
उपलब्धियोग्यत्व इति ॥ अतीताधिकरणैर् महिमनिरूपणादिना भक्तेः कर्तव्यत्व-सप्रयोजनत्वयोर् उक्तयोरेव भक्तिप्रयोजनत्वेनाभिमतज्ञानादेः पुरुषप्रयत्ननैव सिद्धेर् व्यर्था भक्तिर् न कार्या इति शङ्कोदये तत्परिहारादनन्तरसङ्गतिरिति भावः । अपरोक्षज्ञानं भक्तिप्रयोजनमभिलषता किं व्यक्तत्वं ब्रह्मणोऽङ्गीक्रियत उताव्यक्तत्वमिति विकल्पं मनसि कृत्वाद्यं दूषयति ॥ स्तम्भादि-वदिति ॥ अनेन तदव्यक्तमाह हीति सूत्रत्रयनिरसनीयः पूर्वपक्ष उक्तो भवति । द्वितीयमाशङ्क्य दूषयति ॥ तस्याव्यक्तत्वं चेदिति ॥ अनेनातोऽनन्तेनेति सूत्रनिरसनीयः पूर्वपक्षांशः प्रदर्शितः । अव्यक्तत्वेऽपि कुतो भक्तिवैय्यर्थ्यमित्यत आह ॥ अव्यक्तेति ॥ नन्वव्यक्तस्वभावस्यापि दर्शन-मङ्गीक्रियत इत्यत आह ॥ तदभ्युपगमे चेति ॥ न प्रतीयते प्रत्यक्षेणेति शेषः । नन्वस्य भक्तेः कर्तव्यत्वप्रतिपादनार्थं प्रवृत्तत्वात् परमात्मापरोक्ष्यं प्रसादादेवेत्युक्ते कथं भक्तेः कर्तव्यत्वसिद्धिरित्यत आह ॥ भक्तिसाध्यादिति ॥ शेष इति ॥ इत्यादावित्यादिशब्देन प्रकाशश्च कर्मणीत्येतद्ग्राह्यम् ।
वाक्यार्थविवरणं
स्तम्भादिवदित्यतः पूर्वं तस्य व्यक्तत्वं चेदिति शेषः । अत एवोत्तरत्र तस्याव्यक्तत्वं चेदिति पक्षान्तरवचनम् ॥ पुरुषप्रयत्नेनेति ॥ स्तम्भादौ पुरुषप्रयत्न इन्द्रियार्थसन्निकर्षः, भगवति तु श्रवणादिरूप इति ध्येयम् । भाष्ये जीवशक्त्येत्यस्य श्रवणादिरूपजीवप्रयत्नेनेत्यर्थः ।
वाक्यार्थमञ्जरी
अपरोक्षज्ञानं भक्तिप्रयोजनमिति वदता किं ब्रह्मणः व्यक्तत्वमङ्गीक्रियते उताव्यक्तत्वम् आद्ये आह ॥ स्तम्भादिवदिति ॥ द्वितीयमाशङ्क्य दूषयति ॥ तस्येति ॥ तदभ्युपगम इति ॥ अव्यक्तस्वभावस्यापि दर्शनाभ्युपगम इत्यर्थः । न प्रतीयते प्रत्यक्षेण ॥ ॐ तदव्यक्तमाह हि ॐ ॥ तद् ब्रह्माव्यक्तम् । कुतः ? हि यस्मादरूपमिति श्रुतिस्तथाहेत्यर्थः । भक्तेः कर्तव्यत्वसिध्यर्थमाह ॥ भक्तिसाध्यादिति ॥
ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॐ
सूत्रभाष्यम्
॥ ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॐ ॥ २४ ॥
आराधनेऽप्यव्यक्तमेव । ज्ञानि(नां) प्रत्यक्षेणेतरेषामतिसूक्ष्मत्वलिङ्गादनुमानेन ।
‘न तमाराधयित्वाऽपि कश्चिद्व्यक्तीकरिष्यति ।
नित्याव्यक्तो यतो देवः परमात्मा सनातन’ इति ब्रह्मवैवर्ते ॥
तत्त्वप्रदीपिका
स्वतोऽव्यक्तमप्याराधनेन व्यक्तं करिष्यतीत्यत आह– अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ आराधनेऽप्यव्यक्तमेव न व्यक्तं क्रियते । तदाऽपि ज्ञानिनामव्यक्तत्वेन स्थितेर्दृश्यमानत्वात् । न ह्याराधितवन्तोऽपि ज्ञानिनो व्यक्तत्वमापादयन्ति । सूक्ष्मा अपि परमाण्वादयो न स्पष्टा भवन्ति । किं पुनरत्यन्तसूक्ष्मं तद्ब्रह्मेत्यनुमानम् ।
तत्त्वप्रकाशिका
अस्तु ब्रह्म स्वतोऽव्यक्तं तथाप्याराधनेन पुरुषप्रयत्नेन व्यक्तीभविष्यति । समाराधनेनाऽव्यक्त-यक्षादिसाक्षात्कारदर्शनात् । एवं च किं भक्त्येत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे ॥ अपीति ॥ न भक्तिरहिताऽऽराधनेनाऽपि ब्रह्म व्यक्तीकर्तुं शक्यते । आराधनेऽप्यव्यक्तत्वस्य ज्ञानिप्रत्यक्ष-सिद्धत्वादतिसूक्ष्मत्वहेतुकाऽनुमानसिद्धत्वाच्चेत्यर्थः । अव्यक्तत्वं प्रत्यक्षसिद्धमिति व्याहतिरुत्तरत्र गर्भस्रावेणैव नङ्क्ष्यति । प्रत्यक्षसिद्धार्थेऽनुमानापेक्षाऽभावादेवेतरेषामित्युक्तम् । परप्रत्यक्षस्याऽ-सिद्धत्वात्कथमत्र ज्ञानिप्रत्यक्षं प्रमाणीक्रियते । ज्ञानिनां तदुक्त्यन्यथाऽनुपपत्त्या तत्प्रत्यक्षसिद्धिरिति भावेनाह ॥ नेति ॥ नित्याव्यक्त इत्यनेन यक्षादिप्रतिबन्दी परिहृता भवति ।
गुर्वर्थदीपिका
ज्ञानिनां तदुक्त्यन्यथानुपपत्त्येत्यत्र तदुक्तिराराधने कृतेऽप्यव्यक्त एव सन् तिष्ठतीत्यस्यार्थ-स्योक्तिः । तत्प्रत्यक्षसिद्धिरित्यत्र तैर्ज्ञानिभिरित्याहुरित्यनुक्तेरिति मन्यामह इत्यनुक्तेश्च नदीतीरे पञ्चफलानि सन्तीत्याप्तवाक्यस्येव तत्प्रत्यक्षमेव मूलमिति भावः । यक्षादिप्रतिबन्दी परिहृता भवतीत्यत्र यक्षादीनां त्वस्मदादिवद्दर्शनयोग्यस्थूलदेहानामेवान्तर्धानशक्त्या दर्शनम् । भगवांस्तु कालाकाशवद्दर्शनायोग्यसूक्ष्मदेह इति प्रसङ्गस्य तस्याघटितशक्त्यैव दर्शनमिति तत्प्रसादस्सम्पाद-नीयः । प्रसादश्च भक्त्यैकसाध्यो न तु क्षुधितयक्षादिवदन्नपानादिदानरूपसमाराधनेन साध्यः । अत एव भक्तिहीनदुर्योधनकृतं महदपि समाराधनमुपेक्षितं भगवतेति भारते प्रसिद्धिः । अतो भक्तिरावश्यकीति भावः ।
भावबोधः
व्याहतिरिति ॥ प्रत्यक्षायोग्यत्वरूपमव्यक्तत्वं प्रत्यक्षसिद्धमित्यङ्गीकारे व्याहतिरित्यर्थः । उत्तरत्रेति ॥ अतोऽनन्तेनेत्यर्थः ॥ गर्भस्रावेणैवेति ॥ अव्यक्तैकस्वभावस्यापि ब्रह्मणोऽ-चिन्त्यशक्त्या प्रत्यक्षत्वे तद्गताव्यक्तत्वस्यापि प्रत्यक्षत्वलाभादित्यर्थः । अनुमानापेक्षाभावादिति ॥ सिद्धसाधनत्वप्रसङ्गादित्यर्थः ।
भावदीपः
भगवत्प्रसादाय तदाराधनविधिपरैः ‘नास्ति श्रेयस्तमं नॄणां विष्णोराराधनान्मुने’ इति अनाराधितगोविन्दा ये तैः स्थानं नृपात्मज । न हि सम्प्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम्’ इत्याद्यैः कृष्णामृतमहार्णवोक्तैरनेकवचनैर्विरोधनिरासाय भाष्यं व्याचष्टे ॥ न भक्तीति ॥ लिङ्गादनुमानेनेति भाष्यार्थमाह ॥ अतिसूक्ष्मत्वेति ॥ परमाण्वाकाशादिदृष्टान्तसम्भवादिति तात्पर्यम् । चैत्ररथेन लिङ्गादित्यादाविव तृतीयापञ्चम्योर्हेतुरूपैकार्थत्वात् सामानाधिकरण्येन वा लिङ्गाल्लिङ्गस्य भावा-दनुमानेन सिद्धत्वादिति वैयधिकरण्येन वा योजना सूचिता ॥ उत्तरत्रेति ॥ अतोऽनन्तेनेत्यत्रेत्यर्थः । नंक्ष्यति नाशं यास्यति । ईश्वरानुग्रहहीनान् प्रत्यव्यक्तं योगिनां प्रत्यक्षमित्युक्तौ दोषाभावादिति भावः । यद्वा स्वतोऽव्यक्तम् ईश्वरप्रसादोपचितप्रत्यक्षग्राह्यमित्युक्तौ व्याहत्यभावादिति भावः । स्मृतावुत्तरार्धोक्तेरुपयोगमाह ॥ नित्याव्यक्त इतीति ॥
वाक्यार्थमुक्तावली
प्रकाशश्च कर्मण्यभ्यासादिति आराधनादिप्रयत्नेन व्यक्तत्वोक्तेर् विरोधपरिहारायाह ॥ न भक्तिरहितेति ॥ लिङ्गादनुमानेति भाष्यस्य तद्धेतुकानुमित्येत्यर्थमाह ॥ अतिसूक्ष्मत्वहेतुकेति ॥ अव्यक्तत्वं प्रत्यक्षसिद्धमिति व्याहतिरिति । अव्यक्तशब्दस्य प्रत्यक्षायोग्यार्थत्वाद् अव्यक्तत्वं प्रत्यक्षसिद्धमिति व्याहतम् । धर्मिणो योग्यत्वेऽव्यक्तत्वरूपधर्मस्य तत्र प्रत्यक्षेण सिध्ययोगादिति भावः ॥ गर्भस्रावेणैवेति ॥ अव्यक्तैकस्वभावस्याप्यचिन्त्यशक्त्या अतोऽनन्तेनेत्युत्तरत्र प्रत्यक्षत्वे निरूपिते तद्गताव्यक्तत्वस्यापि प्रत्यक्षत्वलाभादिति भावः ।
तत्त्वसुबोधिनी
नन्वव्यक्तस्य समाराधनेन व्यक्तत्वं क्वोपलब्धमित्यत आह ॥ समाराधनेनेति ॥ व्याहति-रिति ॥ प्रत्यक्षायोग्यत्वरूपमव्यक्तत्वं प्रत्यक्षसिद्धमित्यङ्गीकारे व्याहतिरित्यर्थः ॥ उत्तरत्रेति ॥ अतोऽनन्तेनेत्यत्रेत्यर्थः ॥ गर्भस्रावेणेति ॥ अव्यक्तैकस्वभावस्यापि अचिन्त्यशक्त्या प्रत्यक्षत्वे तद्गताव्यक्ततत्वस्यापि प्रत्यक्षत्वलाभादित्यर्थः । भाष्ये इतरेषामिति कथमित्यत आह ॥ प्रत्यक्षेति ॥ अनुमानेति ॥ सिद्धसाधनत्वप्रसङ्गादित्यर्थः । शङ्कते ॥ परप्रत्यक्षस्येति ॥ परिहरति ॥ ज्ञानिनामिति ॥ ननु यक्षादिरव्यक्तोऽपि समाराधनेन व्यक्तीभवति तथा प्रकृतेऽपि किं न स्यादित्यत आह ॥ नित्येति ॥ किञ्चित्कारणवशादेव तस्याव्यक्तत्वेन नित्याव्यक्तत्वाभावादिति भावः ।
वाक्यार्थविवरणम्
आराधनेन ॥ पुरुषप्रयत्नेन । श्रवणादिना सम्यगाराधनरूपेण पुरुषप्रयत्नेनेत्यर्थः ॥ इतरेषामिति ॥ अज्ञानिनामित्यर्थः । शङ्कते ॥ परेति ॥ असिद्धत्वादस्माकमिति शेषः । उत्तरमाह ॥ ज्ञानिनामिति ॥ तदुक्तीति ॥ अव्यक्तत्वोक्तीत्यर्थः । भगवतो व्यक्तत्वं ज्ञानिनः स्वप्रत्यक्षेण ज्ञात्वा तथा ग्रन्थे उपनिबध्नन्ति । अतस्तदुक्तेस्तद्वचनस्य अन्यथा तेषामव्यक्तत्व-विषयकप्रत्यक्षाभावेऽनुपपत्तेस्तत्प्रत्यक्षं सिद्ध्यतीत्यर्थः । नन्वेवं भगवत आराधनेऽप्यव्यक्तत्वोक्तौ समाराधनेनाव्यक्तयक्षसाक्षात्कारदर्शनात्तदभावोऽपि स्यादित्युक्तप्रतिबन्द्याः का गतिरित्यत आह ॥ नित्याव्यक्त इत्यनेनेति ॥ यक्षादीनां नित्याव्यक्तत्वाभावात्समाराधने व्यक्तत्वम् । भगवतस्तु नित्याव्यक्तत्वात्समाराधनेऽप्यव्यक्तत्वमुपपद्यत इति परिहृता भवतीत्यर्थः ।
वाक्यार्थमञ्जरी
संराधनेऽपि भक्तिहीनपूजादिकरणेऽपि ब्रह्माव्यक्तमेव । कुतः ? ज्ञानिप्रत्यक्षेण ब्रह्म न व्यक्तमतिसूक्ष्मत्वादित्यनुमानेन च तथा सिद्धत्वादित्यर्थः ॥ व्याहतिरिति ॥ प्रत्यक्षायोग्यत्व-रूपमव्यक्तत्वं प्रत्यक्षसिद्धमित्यङ्गीकारे व्याहतिरित्यर्थः । उत्तरत्र अतोऽनन्तेनेत्यत्र ॥ गर्भस्रा-वेणेति ॥ अव्यक्तस्वभावस्यापि ब्रह्मणोऽचिन्त्यशक्त्या प्रत्यक्षत्वात्तद्गताव्यक्तत्वस्यापि प्रत्यक्षत्व-लाभादिति भावः ॥ नंक्ष्यति नष्टीभविष्यति ॥ अनुमानस्य ज्ञानिनः प्रत्यक्षविशेषादितरेषा-मित्युक्तिरनुपपन्नेत्यत आह ॥ प्रत्यक्षसिद्धार्थ इति ॥ सिद्धसाधनत्वप्रसङ्गादिति भावः । उत्तरमाह ॥ ज्ञानिनामिति ॥
ॐ प्रकाशवच्चावैशेष्यम् ॐ
सूत्रभाष्यम्
नित्याव्यक्तेन रूपेण तथैव तिष्ठति । व्यक्तं किञ्चिद्रूपं गृहीत्वा दृश्यते । यथाऽग्न्या-दयस्तन्मात्रारूपेणाऽदृश्या अपि स्थूलरूपेण दृश्यन्त एवमिति चेन्न ।
॥ ॐ प्रकाशवच्चावैशेष्यम् ॐ ॥ २५ ॥
अग्न्यादिवत् स्थूलसूक्ष्मत्वविशेषाभावात् ।
‘नासौ सूक्ष्मो न स्थूलः पर एव स भवति तस्मादाहुः परम इति’ इति माण्डव्यश्रुतेः ।
‘स्थूलसूक्ष्मविशेषोऽत्र न क्वचित्परमेश्वरे ।
सर्वत्रैकप्रकारोऽसौ सर्वरूपेष्वजो यत’ इति च गारुडे ॥
‘अव्यक्तव्यक्तभावौ च न क्वचित्परमेश्वरे ।
सर्वत्राव्यक्तरूपोऽयं यत एव जनार्दन’ इति कौर्मे ॥
तत्त्वप्रदीपिका
अग्न्यादीनां भिन्नावयवोपचयापचयकृत एव स्थूलसूक्ष्मादिव्यवहारः । अग्न्यादिष्वपि सूक्ष्मं रूपं केषाञ्चिन्महतामेव स्पष्टं प्रकाशते । अत्यन्तसूक्ष्मत्वाद् ब्रह्म परममित्युच्यते । ‘सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमेश्वर’ इति श्रुतेः । प्रकृतिवच्च नास्य सूक्ष्मत्वं नैव चाग्न्यादिवदिति चकारार्थः । जनिमतां तु जननात्पूर्वं सूक्ष्मं रूपमूर्ध्वं स्थूलमिति विभागो युक्तः । स नैवास्मिन्निति ‘सर्वरूपेष्वजो यतः’ इत्युक्तम् ।
तत्त्वप्रकाशिका
आक्षिपति ॥ नित्येति ॥ अस्तु ब्रह्म मूलरूपेणाऽव्यक्तं तस्योत्पत्त्यादिरहितत्वात् । तथापि गृहीतरूपैर्व्यक्तीभवत्येव तेषामुत्पत्तिमत्त्वात् । दृष्टं ह्यनलजलभुवां भूतानां तन्मात्रालक्षणानुत्पन्न मूलरूपेणाऽव्यक्तानामप्युत्पन्नरूपेण व्यक्तत्वम् । अतो भक्तिमन्तरेणाऽपि ज्ञानलाभाद्व्यर्था भक्तिः । न हि स्वगतविशेषशून्ये ब्रह्मणि नियमोऽस्ति मूलरूपापरोक्ष्यमेव पुरुषार्थहेतुरितीति भावः । एतत्प्रतिषेधति ॥ नेति ॥ एतेन सूत्रगतश्चशब्दः शङ्काव्यावृत्त्यर्थ इत्युक्तं भवति । हेत्वाकाङ्क्षायां सूत्रमुपन्यस्य व्याचष्टे ॥ प्रकाशवदिति ॥ भवेदग्न्यादीनां केनचिद्रूपेण व्यक्तत्वं केनचिदव्यक्तत्वं स्थूलसूक्ष्मविशेषवत्त्वात् । स्थौल्यादिनिमित्तो हि व्यक्त्यादिभावः । न चैवं ब्रह्मणि केनचिद्रूपेण स्थूलत्वं केनचित्सूक्ष्मत्वमिति विशेषोऽस्ति येन व्यक्तत्वमव्यक्तत्वं च स्यादिति भावः । ब्रह्मणि स्थूलसूक्ष्मविशेषो नास्तीत्येतत्कुतः येन व्यक्ताव्यक्तताभाव इत्यत आह ॥ नासाविति ॥ केनचिद्रूपेण सूक्ष्मः केनचिद्रूपेण स्थूल इति न किं तु सर्वत्र परमसूक्ष्म एवेत्यर्थः । उत्पन्नानुत्पन्नमूल-रूपाऽवतार रूपाणां कथं स्थूलसूक्ष्मविशेषाऽभाव इत्यत आह ॥ स्थूलेति ॥ एवं व्यापकानुपलब्ध्या व्यक्ताऽव्यक्तत्वाभावो ब्रह्मणीत्युक्तम् । स्मृत्याऽपि तदभावं साधयति ॥ अव्यक्तेति ॥ जननमर्दयतीति जनार्दनः ।
गुर्वर्थदीपिका
सर्वत्र ‘इत्यत आह, इत्यतो ब्रवीति’ इत्यादिसूत्रमवतार्य सूत्रमुखेनैव पूर्वपक्षं निराकुर्वतो भाष्यकारस्यास्मिन्सूत्रे सूत्रमनपेक्ष्य इति चेन्नेति स्वमुखेनैव पूर्वपक्षप्रतिषेधनं तस्यातिदुर्बलार्थत्व-सूचनार्थम् । अग्न्यादिवत्स्थूलरूपवत्त्वे सर्वैरपि भगवतो दृश्यत्वप्रसङ्गादतिदुर्बलेयं शङ्केति भावः । अत एव सूत्रकारः ‘प्रकाशवच्चेन्न वैशेष्यात्’ इत्यनुक्त्वा ‘प्रकाशवच्चावैशेष्यम्’ इति वस्तुस्थिति-मेवाह । न तु शिखण्डिनं भीष्म इव साक्षात्स्वयं न्यषेधदिति ज्ञेयम् ।
भावबोधः
‘च’शब्दः शङ्काव्यावृत्त्यर्थ इति । दृष्टान्तान्तरस्यानुक्तत्वात् समुच्चयार्थत्वासम्भवादित्यर्थः । पर एव भवतीत्यस्यार्थः ॥ किं तु परमसूक्ष्म एवेति ॥ अवताररूपाणामुत्पन्नत्वस्य शङ्कितत्वेन तदभावप्रतिपादनस्य प्रकृतत्वाज् जननमर्दयतीति व्याख्यातम् ।
भावदीपः
स्वभावोक्तिभ्रान्तिं निराह ॥ आक्षिपतीति ॥ अग्न्यादय इत्येतदादिपदार्थोक्त्या व्यनक्ति ॥ अनलजलभुवामिति ॥ अग्नेरापो ऽद्भ्यः पृथिवी इति श्रुतेरिति भावः । एतेनाकाशवाय्वोर्द्वयोरपि स्थूलरूपेणाप्यदृश्यत्वमेवेति सूचितम् । अन्यथा सौत्रप्रकाशपदस्योपलक्षणत्वेनाग्न्यादय इत्यग्न्यादि-त्रयोक्तिर्न स्यादित्याहुः । यत्तु न्यायामृते प्रत्यक्षस्यानुमानबाध्यत्वबाधकोद्धारे भूताकाशस्य प्रत्यक्षत्वप्रतिपादनं तत्प्रौढिवादेन । अत एव वियत्पादीयानुभाष्ये भूतमप्यसितं दिव्यदृष्टिगोचरमेव चेति दिव्यपदोक्तिः । इति चेन्नेति भाष्यस्योत्सूत्रत्वभ्रमं निराह ॥ सूत्रगतश्चशब्द इति ॥ भाष्यं व्याचष्टे ॥ भवेदित्यादिना ॥ स्थूलसूक्ष्मेति ॥ अवयवोपचयतद्राहित्यरूपेत्यर्थः । सौक्ष्म्यस्यापि निषेधपरत्वभ्रमनिरासाय श्रुत्यर्थमाह ॥ केनचिदिति ॥ स्थूल इतीति ॥ अवयवोपचयवानित्यर्थः । सर्वत्र सर्वरूपेष्वित्यर्थः । स्मृतिगताजपदव्यावर्त्योक्तिरुत्पन्नेति ॥ इत्यत आहेति ॥ सर्वरूपेष्वज-त्वोक्त्योत्पत्तेः प्रादुर्भावरूपत्वेन भूताग्न्यादिवदुत्पत्त्यभावादिति शङ्कानिरास इति भावः ॥ व्यापकेति ॥ स्थौल्यादिरूपव्यापकेत्यर्थः । तदभावं व्यक्तत्वाभावम् । जनार्दन इत्यस्य हेतुत्वं व्यनक्ति ॥ जननमिति ॥ स भूतः स जनार्दन इति सो ह्यासीत्स नासीत्सादयतीति गीता-भाष्योक्तश्रुतेरिति भावः । एवं च सर्वजनसम्बन्धिजननस्यापि अर्दकत्वप्रसङ्गात्तादृशस्य सर्वरूपेष्वप्यव्यक्तैकस्वभावत्वं युक्तमिति भावः ।
वाक्यार्थमुक्तावली
तस्योत्पत्यादिरहितत्वादिति ॥ आदिपदेन वृद्ध्यादि गृह्यते । उत्पत्त्यादिमतो ह्यवयवोपचय-कृतस्थौल्येन प्रत्यक्षत्वमिति भावः ॥ तन्मात्रालक्षणेति ॥ तन्मात्रालक्षणं च तदनुत्पन्नमूलरूपं चेति विग्रहः । तन्मात्रेति तत्सूक्ष्माण्युच्यन्ते । ननु मूलरूपापरोक्षस्यैव पुरुषार्थहेतुत्वात् तस्य चाव्यक्तत्वाद् भक्तिस्तदपरोक्षायावश्यकीत्यत आह ॥ न हि स्वगतेति ॥ ननु स्वगतविशेषशून्यत्वे कथमुत्पत्त्यनुत्पत्तिः । स्थूलसूक्ष्मत्वादिविशेषाङ्गीकार इति चेच् चैतन्यानुबन्धिपुरुषार्थप्रदानविषये निर्विशेषस्यापि लीलाकृतोत्पत्तिव्यक्त्यादिविशेषाङ्गीकाराविरोधात् । चशब्दः शङ्काव्यावर्तक इति । शङ्काव्यवृत्त्यर्थकोऽपीति भावः । जलभूसमुच्चयार्थत्वस्य हेत्वर्थत्वस्य श्रुत्यादिसमुच्चयार्थत्वस्य च स्वीकार्यत्वाद् अन्यथा अग्न्यादिवदिति भाष्ये आदिशब्दस्य स्थूलसूक्ष्मताविशेषाभावादिति पञ्चम्यन्तप्रयोगस्य श्रुत्याद्युदाहरणस्य चोत्सूत्रत्वप्रसङ्गात् ।
ततश्चायं सूत्रार्थः । तद्ब्रह्म प्रकाशवच्चाग्न्यादिवदव्यक्तं न केनचिद्रूपेणाव्यक्तं नेति यावत् । कुतः । यतःप्रकाशादिवदवैशेष्यम् । यथा प्रकाशादेः स्थूलसूक्ष्मत्वविशेषस् तथा स्थूलसूक्ष्मत्व-विशेषाभाव इति । पर एवेत्यस्यार्थः परमसूक्ष्म एवेति । प्रकाशवत्वे स्थूलसूक्ष्मत्ववैशेष्यं नास्ति कुतः? यतोऽवैशेष्यम् उत्पत्त्यनुत्पत्तिवैशेष्याभाव इत्यर्थान्तरं व्याकुर्वत्स्मृतिमवतारयति ॥ उत्पन्नेति ॥ न च रूपवदेवेति प्राकृतादिरूपाभावस्यास्थूलमनण्विति स्वेच्छादिनिमित्तस्थौल्याद्य-भावस्य न स्थानत इति सर्वरूपेषु निर्विशेषत्वस्य असम्भवस्तु सत इत्युत्पत्त्यभावस्य चोक्तत्वा-न्नित्याव्यक्तस्वरूपेणेत्यादिशङ्कानुदयात्सूत्रं व्यर्थमिति चेन्न । सदाव्यक्तं च निष्कलमित्यादि-श्रुत्यातिसूक्ष्मत्वादियुक्त्याव्यक्तस्वाभावत्वमुक्तम् । द्रष्टव्य इत्यादिश्रुत्या प्रयत्नावैय्यर्थ्ययुक्त्या च व्यक्तत्वं च । विरोधस्तु परिहरणीयः । सिद्धान्तिनाऽचिन्त्याद्भुतशक्त्या विरोधोऽपाक्रियते । केनापि प्रकारेण विरोधाशान्तौ हि शक्त्या परिहरणीयः । यद्धि युक्त्या विरुध्येत तदीशकृतमेव हीत्युक्तेः । तत्र द्वितीयसूत्रे साधनं विनाव्यक्तस्य यक्षस्य साधनेन व्यक्तिवत् साधनभावा-भावव्यवस्थया विरोधपरिहारशङ्का निरस्ता । ततो विरोधसम्भ्रान्तचित्तेन गत्यन्तरमपश्यमानेन स्थूलसूक्ष्मत्वव्यवस्थया विरोधपरिहारे शङ्किते पूर्वोक्तस्मारणेन प्रमाणविशेषोपन्यासेन च तां शङ्कां परिहृत्यानन्यशरणतयाचिन्त्यशक्त्यैवात्र विरोधशान्तिरिति प्रमेयविशेषोपन्यासाय परिशेषयितुं पुनराशङ्कोपपत्तेरिति ज्ञेयम् । सर्वत्राव्यक्तस्वरूपत्वे जनार्दनपदोक्तं दुष्टजनमर्दकत्वं कथं हेतुरित्यत आह ॥ जननमर्दयतीति ॥ यतस्सर्वत्र जनार्दन उत्पत्तिरहितोऽतः सर्वत्रातिसूक्ष्म एवातः सर्वत्राव्यक्तरूप इति हेतुहेतुमद्भावः । सर्वरूपेष्वजो यत इत्युक्तत्वादिति भावः ।
तत्त्वसुबोधिनी
गृहीतरूपेण व्यक्तत्वं कुत इत्यत आह ॥ तेषामिति ॥ ननु मूलरूपेणाव्यक्तत्वं गृहीतरूपेण व्यक्तत्वं क्वोपलब्धमित्यत आह ॥ दृष्टं हीति ॥ ननु तथापि मूलरूपापरोक्षस्यैव पुरुषार्थहेतुत्वाद् गृहीतरूपापरोक्षस्य च पुरुषार्थहेतुत्वाभावात् तस्मिन् सत्यपि मूलरूपापरोक्ष्याभावात्तदर्थं भक्ति-रावश्यकीत्यत आह ॥ न हीति ॥ एतेनेति ॥ शङ्काप्रदर्शनेनेत्यर्थः ॥ चशब्द इति ॥ दृष्टान्तान्तरस्यानुक्तत्वात् समुच्चयार्थत्वासम्भवादित्यर्थः । पर एव स भवतीत्यस्यार्थः । परमसूक्ष्म एवेति ॥ व्यापकानुपलब्ध्येति ॥ व्यक्ताव्यक्तत्वव्यापकस्थूलसूक्ष्मत्वादिरूपविशेषानुपलब्ध्येत्यर्थः । अवताररूपाणामुत्पन्नत्वस्याशङ्कितत्वेन तदभावप्रतिपादनस्य प्रकृतत्वाज् जननमर्दयतीति व्याख्यातम् ।
वाक्यार्थविवरणम्
उपादानभूतसूक्ष्मरूपाणां तन्मात्रेति संज्ञा ॥ अनुत्पन्नेति ॥ ‘भूतेन्द्रियप्राणगुणसूक्ष्मरूपं च नित्यकम्’ इत्युक्तत्वादिति भावः ॥ ज्ञानलाभादिति ॥ पुरुषप्रयत्नेनैवेति शेषः । ननु भक्तेर्न वैय्यर्थ्यम् । मूलरूपापरोक्ष्यमेव हि पुरुषार्थहेतुर्न गृहीतरूपापरोक्ष्यमिति नियमाङ्गीकारात् । तच्च मूलरूपमव्यक्तमेव । अतस्तद्व्यक्त्यर्थं भक्तिः सार्थकेत्यत आह ॥ न हीति ॥ ननु स्थूलसूक्ष्मविशेषस्य कथं व्यक्तत्वाव्यक्तत्वयोः प्रयोजकत्वमित्यतस्तदुपपादयति ॥ स्थौल्यादीति ॥ प्रथमादिपदेन सूक्ष्मत्वं द्वितीयेनाव्यक्तत्वं ग्राह्यम् । मूलरूपावान्तररूपाणामिति पाठे अवान्तर-मूलरूपाणामिति व्यत्यासेनान्वयो द्रष्टव्यः ॥ व्यापकेति ॥ व्यक्ताव्यक्तत्वव्यापकस्य स्थूलसूक्ष्म-विशेषस्यानुपलब्ध्येत्यर्थः ।
वाक्यार्थमञ्जरी
उत्पत्त्यादिरहितत्वादिति ॥ तथा च व्यक्तत्वोपयोगिस्थूलत्वालाभ इति भावः । गृहीतरूपैर् अवताररूपैः ॥ तन्मात्रेति ॥ भूतसूक्ष्मरूपरसगंधस्पर्शाख्यतन्मात्रालक्षणेत्यर्थः । अवताररूपा-परोक्षज्ञानस्य मोक्षाहेतुत्वान्मूलरूपापरोक्षज्ञानाय भक्तिरपेक्षितेत्यत आह ॥ न हीति ॥ इति नियमो न ह्यस्तीत्यन्वयः ॥ शङ्काव्यावृत्त्यर्थ इति ॥ दृष्टान्तान्तरानुक्त्या समुच्चयार्थत्वासम्भवादिति भावः ॥ ॐ प्रकाशवच्चावैशेष्यं ॐ ॥ ब्रह्म प्रकाशवच्च अग्निवद्व्यक्त्यव्यक्तिमन्न भवति । कुतः ? अवैशेष्यं तद्वद्विशेषरहितत्वं यत इत्यर्थः । पर एव सम्भवतीस्यार्थः । परमसूक्ष्म एव सम्भवतीति । अवताररूपाणामुत्पन्नत्वस्य शङ्कितत्वेन तदभावप्रतिपादनायाह ॥ जननमर्दयतीति ॥
ॐ प्रकाशश्च कर्मण्यभ्यासात् ॐ
सूत्रभाष्यम्
तर्हि किं यत्नेनेत्यत आह—
॥ ॐ प्रकाशश्च कर्मण्यभ्यासात् ॐ ॥ २६ ॥
विषयभूते तस्मिन्नेव श्रवणाद्यभ्यासात्प्रकाशश्च भवति । ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ (बृ.उ.४-४-५) इति श्रुतेः ॥
तत्त्वप्रदीपिका
यद्येवं स्वतोऽव्यक्तं परतोऽप्यव्यक्तं रूपान्तरेऽप्यव्यक्तमेव । तर्हि तद्दर्शनार्थं श्रवणादिना यत्नेन किं स्यादित्यत आह– प्रकाशश्च कर्मण्यभ्यासात् ॥ निराकृतेऽप्यशब्दत्वे तदव्यक्तमित्युक्त्या कस्यचिदविषयत्वाशङ्का स्यादिति विषयभूते तस्मिन्नेवेत्युक्तम् । तद्विषयाण्येव श्रवणादी-न्यभ्यसनीयानीत्यभिप्रायः । न ह्यत्रावाच्यत्वमज्ञेयत्वं चाभिमतम् । अत एव श्रुतिरव्यक्तमित्युक्त्वा ‘यज्ज्ञात्वा मुच्यते जन्तुः’ इत्याह ।
तत्त्वप्रकाशिका
नन्वेवं ब्रह्मणः सर्वथाऽव्यक्तत्वे किं भक्त्यादिना प्रयोजनमित्याशङ्कापरिहाराय सूत्रमवतार्य व्याचष्टे ॥ तर्हीति ॥ अव्यक्तत्वेऽपि ब्रह्मणो न ज्ञानार्थं प्रयत्नवैयर्थ्यम् । तद्विषये श्रवणाद्यभ्यासेन भक्तिपूर्वकेण तदापरोक्ष्यभावात् । अवाच्यस्य शास्त्रविषयत्वाऽभावान्न श्रवणादीति न वाच्यम् । विषयत्वस्येक्षत्यधिकरणे साधितत्वादिति भावः । श्रवणाद्यभ्यासेन ब्रह्मदर्शनं भवतीत्येतत्कुत इत्यत आह ॥ आत्मेति ॥
गुर्वर्थदीपिका
‘कर्मण्यभ्यासात्’ इति साक्षाद् ब्रह्मण एव श्रवणादिरूपशास्त्राभ्यासविषयतां वदतः सूत्रकृतो विरुद्धभाषिणो दुर्भाष्यकारस्य शङ्कामुत्थाप्य दूषयति अवाच्यस्येति ॥
भावबोधः
विषयत्वस्येक्षत्यधिकरण इति ॥ अनेन सूत्रे कर्मणीत्यस्य तद्व्याख्यानपरस्य विषयभूते तस्मिन्नेवेति भाष्यस्य च प्रयोजनमुक्तं भवति ।
भावदीपः
सर्वथेति ॥ एवं सूत्रत्रयोक्तदिशा क्रमात्स्वतो वा परतो वा रूपान्तरेण वा अव्यक्तत्व इत्यर्थः । शङ्कानिरासकतया सूत्रभाष्ये हेतुत्वेन व्याचष्टे ॥ अव्यक्तत्वेऽपीति ॥ भाष्ये वक्ष्यमाण-श्रुत्यनुरोधात् श्रवणपदमुपलक्षणं मत्वोक्तम् ॥ श्रवणादीति ॥ सूत्रे कर्मणीति भाष्ये च विषयभूत इति कस्मादुक्तमित्यतस्तत्साफल्यमाह ॥ अवाच्यस्येति ॥ लक्षणया शास्त्रविषयत्व-मस्त्वित्यनवस्थापराहतमिति प्रागेवोक्तमिति भावः । कथं विषयभूत इत्युक्तिमात्रेण शङ्कानिरास इत्यत आह ॥ ईक्षतीति ॥ ईक्षतेर्नाशब्दमित्यत्रेत्यर्थः । कर्मणीत्यनेन तत्रत्यन्यायस्मारणमात्रं कृतमिति भावः । स्मारणं चात्र निराकृतेऽप्यशब्दत्वे तदव्यक्तमित्युक्त्या कस्यचिदविषयत्वशङ्का स्यादिति तन्निवृत्त्यर्थमित्युक्तं तत्वप्रदीपे । नन्वथापि कथं श्रवणादित्रितयस्य तद्विषयत्वम् । श्रवणमननयोरौपदेशिकवाक्यार्थज्ञानयुक्तिपरामर्शजन्यानु मितिरूपयोर्ब्रह्मविषयकत्वेऽपि न निदिध्यासनस्य तद्युक्तम् । तस्य श्रवणमननजन्यवासनामयविषयकत्वात् । तस्य च ब्रह्मतायास् तथान्यत्प्रतिषेधादित्यत्र निरसिष्यमाणत्वादिति चेत्सत्यम् । तदधिष्ठानप्रतिमाविषयकनिदिध्यासन-स्याऽपि तद्विषयत्वात् । वक्ष्यति च भाष्यकारः । तदुपासनं च भवति प्रतिमोपासनं यथेति ॥ इत्यत आहेति ॥ श्रुतौ श्रवणादिविधिमात्रप्रतीतावपि तदभ्यासेनैव तद्विधिपर्यवसानस्यावृत्ति-रसकृदुपदेशादित्यत्र वक्ष्यमाणत्वादिति भावः ।
वाक्यार्थमुक्तावली
तदव्यक्तमित्यनुवर्तते । चोऽप्यर्थे । तेनान्वेति । शङ्काव्यावृत्त्यर्थश्च । तस्मिन्नेवेत्यवधारणार्थश्च । विरोधसमुच्चयाय प्रकाशश्चेति यथाश्रुतान्वयश्च । ततश्च तदव्यक्तमपि न ज्ञानार्थं प्रयत्नवैय्यर्थ्यम् । यतः कर्मणि विषयभूते तस्मिन्नेव श्रवणाद्यभ्यासात्प्रकाशोऽपि भवतीति सूत्रार्थमाह ॥ अव्यक्तत्वेऽपीत्यादिना ॥ विषयभूते तस्मिन्नेवेति विषयत्वस्य पूर्वं प्रकृतत्वमुक्तम् । कुत्र तस्य प्रकृतत्वं किं च तत्स्मरणेनेत्यत आह ॥ अवाच्यस्येति । तदुक्तं तत्त्वप्रदीपे । निराकृतेऽप्य-शब्देऽव्यक्तमित्युक्त्या विषयत्वशङ्का स्यादिति ॥ विषयभूते तस्मिन्नेवेत्युक्तमिति ॥
तत्त्वसुबोधिनी
तद्विषय इति ॥ ब्रह्मविषय इत्यर्थः ।
वाक्यार्थविवरणम्
ब्रह्मणः सर्वथाऽव्यक्तत्व इत्यनेन भाष्यस्थं तर्हीति पदं व्याख्यातम् ॥ किं भक्त्यादिनेति ॥ तथा च भाष्ये किं यत्नेनेत्येतद्भक्त्यादिरूपजीवप्रयत्नेन किं प्रयोजनमिति व्याख्यातमिति ध्येयम् ॥ प्रयत्नेति ॥ भक्तिश्रवणादिरूपेत्यर्थः । तस्मिन्नेव श्रवणादित्यत्र विषयत्वं सप्तम्यर्थ इत्याशयेनोक्तम् ॥ तद्विषयेति ॥ भाष्ये आत्मा द्रष्टव्यः दर्शनार्थं श्रोतव्य इत्यादियोजना द्रष्टव्या ।
वाक्यार्थमञ्जरी
कर्मणि ब्रह्मविषये कृतादभ्यासात् पुनः पुनः कृतश्रवणादेः सकाशात्प्रकाशश्चापरोक्षज्ञानं भवतीत्यर्थः ।