१३ पालकत्वाधिकरणम्

ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ

१३. पालकत्वाधिकरणम्

सूत्रभाष्यं

सृष्टिसंहारकर्तृत्वमेवास्य न पालकत्वं स्वतः सिद्धेरित्यत आह —

॥ ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ॥ २२ ॥

उक्तं सृष्टिसंहारकर्तृत्वमात्रं प्रतिषिध्य ततोऽधिकं ब्रवीति ।

‘नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति’ (ऋ.सं. १०-३१-८) इति । चशब्दात्स्मृतिश्च ।

‘सृष्टिं च पालनं चैव संहारं नियमं तथा ।

एक एव करोतीशः सर्वस्य जगतो हरिः’ इति ब्रह्माण्डे ॥

तत्त्वप्रदीपिका

ननु नास्य सृष्टिसंहारकर्तुः पालकत्वमहिमा विशेषतो वर्णनीयः । सृष्टानां यावन्न संहारस्ताव-त्स्थितेः स्वतः सिद्धत्वात् । अतो मुक्तौ संहाराभावादेव स्थितिसिद्धेर्न पालकत्वमित्यत आह ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ ‘अस्येदेषा सुमतिः पप्रथाने’त्यादिनोक्तं सृष्टिसंहारकर्तृत्वम् । ‘अस्य’ विष्णोः सकाशादेव ‘एषा’ ब्रह्मादीनां ‘सुमति’ रतिशयेन प्रथमानाऽ-भवत् । अनेन भूम्ना पूर्वतना ‘गौरभवत्’ । ‘गौरिः’ इति द्यौः पृथिवी चोच्यते । ‘यतो द्यावापृथिवी’ इति ह्युपरि च, ‘अस्य’ विष्णोर्महिम्नैव सुमतिर्गौश्चाभवदिति वा । ‘असुरस्य’ वायो ‘र्योनौ’ भार्यायाम् आभरणे ‘आ’ समन्ताद्भरणस्थाने ध्रियमाणा देवा ‘अस्य’ सकाशादेव ‘सनीाः’ । अस्मादेव निलीयन्त इत्यर्थः । ‘असुरो’ वायुः । असुत्वेन रमणादसुषु रमणाच्च । ‘महद्देवानाम-सुरत्वमेकम्’ इति श्रुतिः ।

‘या मारुताद्गर्भमधत्त पूर्वं शेषं सुपर्णं गिरिशं सुरेन्द्रम् ।

चतुर्मुखाभांश्चतुरः कुमारान् सा द्रौपदी नाम बभूव भूमौ’ इति च ब्रह्माण्डे ॥

भगवन्महिम्नैव द्युभ्वाद्युत्पत्तिरित्यनङ्गीकारे तन्निर्माणेऽधिष्ठानादि किं स्यादित्याक्षेपः । ‘किं स्विद्वनम्’ इत्यादिरिति ह्यवोचत् । सम्यक्स्थायिन्यौ द्यावाभूमी ‘इतः’ समुद्भूतज्ञानादिके ‘अहान्युषस’श्चेत एव जीर्णा अभूवन् । अनेन भूम्ना विष्णुनैतावदेव न, सर्वोत्तमादस्मादन्यदप्यस्ति । जगतो जलामृतादिभिरुक्षणशीलो द्यावापृथिवी बिभर्ति च । इत्थम्भूतस्य पूर्णानन्दस्य परमस्य स्मृत्या तद्वन्तो भूत्वा शरीरं ‘पवित्रं कृणुत’ । येन पवित्रीकरणेन ‘हरितस्सूर्यम्’ इव सदा भगवन्तमक्लेशेन ‘प्रजा वहन्ति’ति । स आनन्दी शरीरं पवित्रं करोति ध्यातश्चेदिति वाऽर्थः ॥

तत्त्वप्रकाशिका

अत्र ब्रह्मप्राप्तिसाधनभक्त्यर्थं तस्य विश्वपालकत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । पालकत्व-गुणाभावे तत्र निरतिशयभक्त्यनुदयात्तत्समर्थनीयमेव । सृष्ट्यादिकं जगतो हरिः करोतीत्युक्तम् । तत्र जगत्पालनमेव विषयः । विष्णोर्युक्तमयुक्तं वेति सन्देहः । गुणानामपि युक्तायुक्तत्वदर्शनं सन्देहबीजम् । पूर्वपक्षयति ॥ सृष्टीति ॥ न पालकत्वं भगवतोऽस्ति । सृष्टिसंहारकर्तृत्वात् । सत्यां च सृष्टौ यावत्संहारं जगत्स्थितेः स्वत एव सिद्धेः । संहर्तुरसंहाराऽतिरिक्तव्यापारस्य रक्षारूपस्यैवाऽ-योगात् । अन्यस्य तु सृष्ट्यादिकर्तृत्वे सम्भवति निवारणादिव्यापारः । एतेनाऽवान्तरोपद्रवनिवारणं च प्रत्युक्तम् । तत्रापि स्वयं कर्तृत्वात् । अतः पालकत्वाऽभावेन महामहिमत्वाऽभावादयुक्ता तत्र निरतिशया भक्तिरिति भावः ।

सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अस्त्येव हरेः पालकत्वम् । यतो ‘नैतावदेना’ इति श्रुतिः प्रकृतस्य सृष्ट्यादिकर्तृत्वस्य तावन्मात्रत्वं निषिध्य ततोऽधिकं पालनमपि ब्रवीति । तेन ज्ञायते सृष्टिसंहारकर्तुरपि पालकत्वमिति भावः । अनेनेश्वरेण भवत्कार्यमेतावत्प्रागुक्तं सृष्टिसंहारमात्रं न भवति । किं त्वन्यदस्ति । किं तत् । स परो भक्ताऽभिलषितसेचको द्यावापृथिवी धत्ते पुष्णाति चेत्यर्थः । सृष्टिसंहारकर्तुरपि पालकत्वे स्पष्टस्मृतिं चाह ॥ चशब्दादिति ॥ समुच्चितेति शेषः । अनेन स्थितेः स्वतः सिद्धत्वं च परिहृतम् । धारणपोषणादेरुक्तत्वादिति । अतः पालनादिमहा-महिमि्न हरौ भक्तिर्युक्तेति सिद्धम् ।

गुर्वर्थदीपिका

यद्यपि ‘पराभिध्यानादेव तु तल्लिङ्गात्स’ इति परमात्मनस्संहारकत्वाक्षेपसमाधानयोः पूर्वमेव पालकत्वस्याप्याक्षेपः समाधानं च कर्तव्यम् । अवसरप्राप्तत्वात् । तथापि भक्तिपादेऽस्मिन् जगत्पालकत्ववर्णनेन जगदन्तःपातिनस्स्वस्यापि पालकत्वेन स्वोपकारित्वबुध्या तस्मिन् भक्त्यति-शयो भवति । अतो भक्त्युपयोगित्वात्पालकत्वाख्यमाहात्म्यमत्रैव चर्चितमिति ज्ञेयम् । सम्भवति निवारणादिव्यापार इत्यस्य निवारणं संहर्तुः पुरुषस्य निवारणम् । आदिपदेन स्रष्टारं प्रति सृजेति याचनं गृह्यत इत्यर्थः । एतेनावान्तरोपद्रवनिवारणमित्यस्य संहारं विना पालनसमय एव ये उपद्रवा आन्तरा व्याध्यादयः बाह्याः शत्रुताडनादयस् तन्निवारणमेव पालकस्य व्यापार इत्येतदप्येतेन संहर्तुस्स्वस्यासंहरणमेवालं न पृथक् स्थितौ प्रयत्न इति यथा न्यायस् तथा स्रष्टुस्स्वस्य व्याध्यादीनामसर्जनमेवालं न पृथक् स्थितौ प्रयत्न इति न्यायस्यात्रापि साम्येन प्रत्युक्तमित्यर्थः । तत्रापि स्वयं कर्तृत्वादित्यस्य तत्र व्याध्याद्युत्पत्तौ बाह्यशत्रुताडनाद्युत्पत्तौ च स्रष्टुस्स्वस्यैव कर्तृत्वादित्यर्थः । अत्रापि सृष्टेरकरणमात्रेण चरितार्थत्वान्न पृथक्पालनं नाम व्यापार इति भावः । ‘किंस्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । सन्तस्थाने अजरे इत ऊती रहानि पूर्वी उषसो जरन्त’ इति श्रुतौ ‘सुपां सुलुक्’ इति वचनान् न किंस्वित् कस्माद् आस जातं स वृक्षः वनादन्यत्र विद्यमान एकैकवृक्षश्च कः कस्माज्जात इति प्रश्नः । किंस्विक्तिंकारणकं वनमास । वृक्षोत वृक्षश्च कः किंकारणक आसेति वा । तसेः सार्वविभक्तिकत्वात् । ‘पातालमेतस्य हि पादमूलम्’ इत्यादिस्मृतेर्यतः ये भगवदवयवा द्यावापृथिवी द्यावापृथिव्युपलक्षितचतुर्दशभुवनानि निष्टतक्षुर् नितरां कृतवन्तः । तस्यामेव स्मृतौ ‘लोमानि वृक्षौषधय’ इत्युक्तेस्तेभ्य एव भगवदवय-वेभ्यो वनवृक्षादिकं जातमित्युत्तरम् । इतः भूमेरारभ्याजरे नाशरहिते सन्तस्थाने सम्यक् ते तते वैकुण्ठस्थाने ऊतिर्व्याप्तिर्यस्य परमात्मनस् तस्मात्पूर्वीर् अहानि उषसश्च जरन्त जीर्णा आसन्निति सृष्टिसंहारयोः प्रस्तुतत्वात् प्रागुक्तं सृष्टिसंहारमात्रमित्युक्तम् । धारणपोषणादेरित्यत्र धारणं कूर्मरूपेण विश्वरूपेण धारणं पोषणमन्नपानादिना दिनेदिने अभिवर्धनमित्यर्थः ।

भावबोधः

पालकत्वेति ॥ अत्र पूर्वं यस्याः स्नेहादिरूपाया भक्तेस्तारतम्यं समर्थितं सा भक्तिरेव विष्णोः पालकत्वाभावे न सम्भवति । लोके स्वपालक एव स्नेहोत्पत्तिदर्शनादित्याक्षेपोत्थानात् पूर्वत्र ‘दर्शनाच्च’ इति सूत्रेण भक्तितारतम्यसाधकानन्दतारतम्ये श्रुतिस्मृतिरूपप्रमाणोपन्यासवदत्रापि विष्णोः पालकत्वे ‘ब्रवीति च’ इति श्रुतिस्मृत्योरुपन्यासाद्वाऽनन्तरसङ्गतिरिति भावः ॥ विष्णो-रिति ॥ अत्र जगत्पालनं विष्णोर्न युक्तमुत युक्तमिति चिन्ता । तदर्थं पालनसाध्या स्थितिः सृष्टिसंहारकर्त्रीश्वरव्यापारनिरपेक्षोत तत्सापेक्षेति । तदर्थं पालनमसंहारमात्ररूपमुत तद्व्यतिरिक्त-व्यापाररूपमिति । तदर्थं तत्र प्रमाणं नास्त्युतास्तीति । कर्तृत्वादिति कर्तृत्वाभ्युपगमादित्यर्थः । अन्यथा पूर्वपक्षिणः सृष्टिसंहारकर्तृत्वाभ्युपगमस्य व्यर्थत्वादिति भावः । अत एवोक्तमनुव्याख्याने ‘सृष्टिनाशौ तदधीनौ’ इति । ‘ईरित इति स्वभावत्वात् स्थितेः’ इति अनुव्याख्यानानुसारेण जगत्स्थितेरिति भाष्ये शेषोक्तिः । स्थितेरेव पालनरूपत्वादिति भावः । संहारकर्तुः संहारादन्य-रक्षाया अयोग इति न्यायविवरणं मनसि निधायाह– संहारकर्तुरिति ॥ अयोगमेवोपपादयति– अन्यस्य त्विति ॥ प्रथमादिपदेन संहारः । द्वितीयेन तु सृष्टौ प्रेरणम् । तदुक्तं सुधायाम्– यदि खलु सृष्टिसंहारयोः कर्ताऽन्यः स्यात्तदोदासीनस्य तस्य सृष्टौ प्रेरणाद्यर्थं संहारे प्रवृत्तस्य निवारणार्थं च स्थितावीश्वरापेक्षा सम्भवेदिति ॥ प्रागुक्तमिति ॥ ‘अस्येदेषा सुमतिः पप्रथाना’ इत्यादिश्रुतौ प्रागुक्तमित्यर्थः । एनेत्यर्थोऽनेनेति ‘सत्’ इत्यस्य च भवमिति कार्यमिति चार्थद्वयम् । ‘उक्षे’ इत्यस्यार्थो भक्ताभिलषितसेचक इति । ‘बिभर्ति’ इत्यस्य धत्ते पुष्णाति चेत्यर्थद्वयम् ॥ समुच्चिनोतीति ॥ उपलक्षणमेतत् । स सृजतीत्यादिन्यायविवरणोक्तमपि समुच्चितमिति ज्ञातव्यम् ॥ धारणपोषणादेरिति ॥ अनेनान्नदानाद्युपपत्तेरिति न्यायविवरणमप्युक्तार्थं भवति ।

भावदीपः

विश्वपालकत्वेति ॥ पालनरूपव्यापारान्तरसद्भावोक्त्येति भावः । एतेन पूर्वत्र हीश्वरस्य सौख्यदानं प्रस्तुतं न केवलं साधूनां ब्रह्मादीनामेव केषाञ्चित्सौख्यदानं किन्तु विश्वेषामिति वा न केवलं मुक्तावेव किं त्वन्यदापीति वा साधनादवान्तरसङ्गतिः सूचिता । एतेनैतदपि निरस्तम् । यत्पूर्वत्रेश्वरस्य तारतम्येन सौख्यदानमभिमतं तदयुक्तम् । सृष्टिसंहारान्यपालनस्येवा विद्यानिवृत्त्य-न्यानन्ददानस्याभावात् । ध्वंसरूपाविद्यानिवृत्तौ च न तारतम्यं येन भक्तितारतम्यं सिध्येदिति । अत्रत्यसिद्धान्तन्यायेन सृष्टिसंहारान्यपालनस्येवाविद्यानिवृत्त्यन्यस्यानन्ददानस्य सिद्धेः । अत एव च पूर्वत्र वृद्धिह्रासभाक्त्वं फलवशादित्यनुक्त्वान्तर्भावादुभयसामञ्जस्यादेवमित्युक्तम् । अत एव चास्य तदनन्तरं प्रपञ्चः । विवृतमेतत् ‘आनन्ददत्वमानन्ददश्च मुक्तानामित्यत्र जिज्ञासाधिकरणसुधायाम् । प्रदर्शितं च प्रागस्माभिरानन्दमयनये । अप्रसक्तचिन्तां निराह ॥ सृष्टीति ॥ उक्तमिति ॥ जन्मादिसूत्र इत्यर्थः ॥ गुणानामपीति ॥ ज्ञानबलैश्वर्यादिगुणानां मध्ये चैत्रादौ केषाञ्चिद्युक्तत्व-दर्शनं केषाञ्चिदयुक्तत्वदर्शनमित्यर्थः । भाष्येऽस्य न पालकत्वं स्वतः सिद्धेरित्येव पूर्तौ शेषोक्तिस्तदुपपादिकेति भावेन तदुपयोगमाह ॥ सृष्टिसंहारकर्तृत्वादिति ॥ एतस्य स्वत एव सिद्धेरित्यत्र हेतुतां व्यनक्ति ॥ सत्यां चेति ॥ स्वत एव पुंव्यापारं विनैव स्वतस्सिद्धेरिति भाष्यस्थो हेतुरपि न साक्षान्न पालकत्वमित्यत्र हेतुरपि तु संहारकर्तृरसंहारादन्यरक्षाया अयोग इत्यन्यत्रोक्तार्थे हेतुः । स एव च साक्षाद्धेतुरिति भावेनाह ॥ संहर्तुरिति ॥ असंहारातिरिक्तस्येति ॥ संहारा-भावातिरिक्तस्य संहारनिवारणरूपस्यायोगादसंहाररूपरक्षायाश्च स्वतस्सिद्धेरित्यर्थः । स्वतस्सिद्धिं सृष्टिसंहारकर्तृत्वयोरुपपाद्योपपादकभावं व्यनक्ति ॥ अन्यस्य त्विति ॥ निवारणादीति ॥ संहारनिवारणं सृष्टिप्रेरणं चेत्यर्थः ॥ अत इति ॥ रक्षारूपव्यापारस्यैवायोगादित्यर्थः ॥

साध्यमध्याहृत्य तत्र हेतुत्वेन सूत्रभाष्ये व्याचष्टे ॥ अस्त्येवेति ॥ प्रकृतस्येति ॥ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेनेति गुणेन समासनिषेधेऽपि तदशिष्यं संज्ञाप्रमाण-त्वादित्यादिनिर्देशाज्ज्ञापकात्प्रकृतैतावत्त्वमिति समास इति भावः । अधिकमिति भाष्यानुवादः । पालनमपीति व्याख्या । भाष्योक्तश्रुत्यर्थमाह ॥ अनेनेति ॥ एनेत्यस्यार्थोऽयम् ॥ भवत्कार्यमिति शेषः । यद्वा एना एनदित्यर्थः । तस्य व्याख्याऽनेनेश्वरेण भवत्कार्यमिति ॥ प्रागुक्तमिति ॥ अस्येदेषा सुमतिः प्रप्रथानाभवत्पूर्व्या भूमना गौः । अस्य सनीा असुरस्य योनौ समान आभरणे बिभ्रमाणाः । किंस्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । संतस्थाने अजरे इत ऊती अहानि पूर्वीरुषसो जरन्त । नैतावदेनेति पूर्ववाक्योक्तमित्यर्थः । आ नो देवानामिति पूर्वत्र प्रकृतब्रह्मादिदेवानाम् । एषा पप्रथाना अतिशयेन प्रथमाना । सुमतिः शोभनबुद्धिः । अस्येद् अस्यैव प्रकृतविष्णोरेव सकाशादभवत् । भूमना भूम्ना । अस्येत्यस्य विपरिणामेनान्वयः । अनेन भूम्ना परमेश्वरेण । पूर्व्या पूर्वतनी गौरभवत् । गौरिति द्यौः पृथिवी चोच्यते । यतो द्यावापृथिवी निष्टतक्षुरित्युपरि श्रवणात् । असुरस्य असुषु रममाण इति व्युत्पत्त्या वायोर् योनौ भार्यायाम् । समाने साधारणे । आभरणे आसमन्ताद्भरणस्थाने । बिभ्रमाणा ध्रियमाणा देवाः । अस्य सकाशादेव । सनीा अस्मादेव निलीयन्ते । या मारुताद्गर्भमधत्त पूर्वं शेषं सुपर्णं गिरिशं सुरेन्द्रम् । चतुर्मुखाभांश्चतुरः कुमारान् सा द्रौपदी नाम बभूव भूमाविति ब्रह्माण्डस्मृतेर् वायुभार्यया ध्रियमाणत्वं देवानां प्रसिद्धम् । भगवन्महिम्नैव द्युभ्वाद्युत्पत्तिरित्यनंगीकारे तन्निर्माणे अधिष्ठानादिकं स्यात् । न च तदस्तीति भावेनाधिष्ठानादिकमाक्षिपति । किंस्विद्वनमित्यादिना । सन्तस्थाने सम्यगवस्थायिन्यौ । अजरे द्यावाभूमी । इत ऊती । अस्मादेवोद्भूतज्ञानादिके । अहानि । पूर्वीः पूर्व्यः । उषसश्च यतो हरेः सकाशाद् अजरन्त जीर्णा अभवन्निति पूर्वमन्त्रार्थस्तत्वप्रदीपोक्तो ध्येयः । उक्षा स इत्यत्र स इत्यस्यानुवादेनार्थमाह ॥ स पर इति ॥ उक्षेत्यस्यार्थो भक्तेत्यादि उक्ष सेचन इति धातोेः । बिभर्तीत्यस्यार्थो धत्त इति । अन्यथा सृष्ट्यनन्तरं पुरुषेण धारणाभावे स्वरूपस्रवणप्रसङ्गः । ‘यदा भारं तन्द्रयते स भर्तुं निधाय भारं पुनरस्तमेति’ इति श्रुतेरिति भावः । अन्नदानाद्युपपत्तेश्चेति न्यायविवरणोक्तिमनुरुध्याह ॥ पुष्णाति चेति ॥ त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहंतीत्युत्तरार्धस्य तु इत्थंभूतस्य परस्य स्वधावान् स्वधावन्तो भूत्वा स्मृतिमन्तो भूत्वा त्वचं शरीरं पवित्रं कृणुत कुरुत । यद्वा स्वधावान् सुखवान् स परः परमात्मा त्वचं शरीरं पवित्रं कृणुत करोति । ध्यातश्चेदित्यर्थः । येन पवित्रीकरणेन हरितः दिशः सूर्यमिव सदा भगवन्तमक्लेशेन प्रजा वहन्तीत्यर्थः । स्मृत्युक्तेरुपयोगमाह ॥ स्पष्टेति ॥ अनेनेति ॥ श्रुतिस्मृतिकथनेनेत्यर्थः ॥ पोषणादेरिति ॥ तदीयदुरदृष्टप्राप्तावान्तरक्षुद्रोपद्रवनिवारणादिरादिपदार्थः ॥ अत इति ॥ धारणादिरूपपालनव्यापारवत्त्वे श्रुतिस्मृतिसत्त्वादित्यर्थः ।

अभिनवचन्द्रिका

सृष्टिसंहारकर्तृत्वादिति ॥ ननु किमिदं हेतुद्वयं सृष्टिकर्तृत्वात्, संहारकर्तृत्वादिति, आहोस्वि-त्सृष्टिसंहारकर्तृत्वादिति विशिष्टं हेतुः । नाद्यः सृष्टिकर्तुरपि पालकत्वस्य, तथा वनस्पत्यादि-संहारकस्यापि प्रागुदकदानादिना पालकत्वस्य दर्शनेन व्यभिचारात् । अत एव न द्वितीयः कृषीवलादौ सस्योत्पत्तिविनाशकर्तृत्वेऽपि पालकत्वदर्शनात् । न च नासौ पालक इति शक्यते वक्तुम् । गोगवयादिभ्यस्तद्रक्षणस्याऽनुभवसिद्धत्वादिति चेत्, न ब्रूमो वयं पालकत्वाभावे सृष्टिसंहारकर्तृत्वं हेतुरिति । येनोक्तदोषः स्यात् । किंनाम ‘जगत्स्थितेः स्वत एव सिद्धेः’ इति वक्ष्यमाणहेतोरुपपादकमिति ॥ स्वत एव सिद्धेरिति ॥ उत्पत्त्युत्तर भाविनाशात्प्राग्-भाविकालसम्बन्धस्यैव स्थितित्वेन तस्य कालमहिम्नैव सिद्धेरित्यर्थः ॥ अन्यस्य सृष्ट्यादिकर्तृत्व इति ॥ आदिशब्देन संहारग्रहणम् । अन्यस्य उत्पन्नपदार्थविनाशहेतुभूतार्थान्तरसर्जकत्वे, साक्षा-द्विनाशकत्वे वा, तन्निवारणाय व्यापारोऽन्यस्य सम्भवति । स्वस्यैव तथात्वे तु न निवारणव्यापारः सम्भवतीति भावः । एतेन अन्यस्य संहारकर्तृत्वे, सम्भवति निवारणादिव्यापार इति वक्तव्यम् । संहारनिवारणस्यैव स्थित्युपयोगित्वात्, न तु सृष्टिग्रहणं तन्निवारणस्य स्थित्यनुपयोगादिति परास्तम् । बिभर्तीत्येतव्द्याचष्टे धत्ते पुष्णाति चेति ॥ भृञ्धातोर्डु भृञ् धारणपोषणयोः’ इत्यर्थद्वयश्रवणादिति भावः ॥ अनेनेति ॥ ‘उक्षा स द्यावापृथिवी बिभर्ति’ति श्रुतिग्रहणेनेत्यर्थः ।

पूर्वपक्षस्तु नेश्वरः पालकः जगत्सृष्ट्वा स्थितस्येश्वरस्य विनाशप्रवृत्त्यभावमात्रेण काल-विशेषसम्बन्धरूपस्थितिसम्भवेन पालनरूपतव्द्यापारानपेक्षणात् । न चावान्तरोपद्रवनिरासाय ईश्वरव्यापारोऽपेक्षित इति वाच्यम् । ईश्वरस्यैवावान्तरोपद्रवकर्तृत्वेन तदकरणमात्रेण समीहित-सिद्धेः । अन्यस्य हि उपद्रवादिकर्तृत्वे तन्निवारणादिव्यापारत्त्वरूपं पालकत्वमन्यस्य सम्भवति । न चेश्वरादन्यः संहारकर्ता येन तन्निवारणेनेश्वरस्य पालकत्वं स्यात् । विरोधाभावेन स्वस्य स्वनिवारकत्वायोगात् । ततश्च पालकत्वाभावेन महामहिमत्वाभावान् न तत्र भक्तिरिति ।

सिद्धान्तस्तु भवत्येवेश्वरः पालकः ‘नैतावदेनापरो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति’ इति श्रुत्या सृष्टिसंहारमात्रकर्तृत्वं प्रतिषिध्य पालकत्वस्याप्यभिधानात् । ‘सृष्टिं च पालनं चैव संहारं नियमं तथा । एक एव करोतीशः सर्वस्य जगतो हरिः’ इति स्मृतेश्च । न चोपद्रव-संहारविलम्बमात्रेणैव स्थितिसिद्धेर् न तदर्थमीश्वरापेक्षेति वाच्यम् । सर्वस्य धारणार्थं चेतनानामन्न-पानाद्यर्थमीश्वरव्यापारस्यावश्यकत्वात् । अतः पालनादिमहामहिमि्न हरौ भक्तिर्युक्तेति सिद्धम् ।

वाक्यार्थमुक्तावली

निरतिशयभक्त्यनुदयादिति ॥ ब्रह्मशिवादौ मनसाप्यसम्भाव्यमानगुणातिशयज्ञानाद्धि निरतिशया भक्तिरुदेति । पालकत्वरूपमहामहिमाभावे तद्विशेषज्ञानायत्तभक्त्याधिक्यायोगादिति भावः । एतेन भक्तितारतम्यं पूर्वं निरूपितम् । तच्च माहात्म्यज्ञानतारतम्यायत्तम् । माहात्म्यविशेषाभावे तदयोगादिति तदाक्षेपेणोत्थानादनन्तरसङ्गतिरिति चोक्तं भवति । अतो जगत्पालकत्वं विष्णोरयुक्तमुत युक्तमिति चिन्ता । तदर्थं जगत्स्थितिर् ईश्वरव्यापारमन्तरेण स्वत एव भवति न वेति । तदर्थं संहर्तुरसंहारव्यतिरिक्तो रक्षारूपव्यापारो नास्त्युतास्तीति । ननु सृष्टिसंहारकर्तृत्वमेवास्येति भाष्यमयुक्तम् । सृष्टिसंहारकर्तृत्वाभ्युपगमस्यापि व्यर्थत्वात् । स्वतः सिद्धेरित्यत्रास्येत्यप्रतीतेः स्थितेरित्यध्याहारेऽपि स्वभाववादाश्रयणस्य सृष्टिसंहारयोरपि साम्येन तत्कर्तृत्वाभ्युपगमानुपपत्तेर् इत्यतो योग इति न्यायप्रदर्शकं पूर्वपक्षभाष्यं ‘सृष्टिनाशौ तदधीना-वितीरितौ । स्वभावत्वात्स्थितेर्नैतदपेक्षेति न युज्यते’ इत्यनुव्याख्यानं मनसि निधाय व्याचष्टे ॥ न पालकत्वमिति ॥ कुतः स्वतःसिद्धेरित्यंशमध्याहारेण योजयति ॥ तत्स्थितेरिति ॥ कथं स्थितेः स्वतः सिद्धिरित्यतस्तदुपपादनाय सृष्टिसंहारकर्तृत्वाभ्युपगम इति भावेनाह ॥ सृष्टिसंहार-कर्तृत्वादिति ॥ सृष्टिसंहारकर्तृत्वमात्रेण जगत्स्थितेः कथं स्वत एव सिद्धिरित्यत आह ॥ सत्यां सृष्टौ यावत्संहारमिति । अयमाशयः । ईश्वर एव हि विश्वस्य सृष्टिसंहारयोः कर्ता नान्य इत्यभ्युपगतम् । तथा च सृष्ट्वा यावन्न संहरेत्तावत्संस्थितिः स्वभावसिद्धैव न परव्यापारमपेक्षत इति । ननु सृष्ट्वा संहारपर्यन्तमीश्वरो न रक्षतीति परव्यापारोऽपेक्षत इत्यतोऽयोग इत्युक्तन्यायं विवृणोति ॥ संहर्तुरिति ॥ अयोगमेवोपपादयति ॥ अन्यस्य त्विति ॥ प्रथमादिपदेन संहारः । द्वितीयेन सृष्टौ प्रेरणम् । तदुक्तं सुधायाम् । यदि खलु सृष्टिसंहारयोः कर्ताऽन्यः स्यात्तदोदासीनस्य तस्य सृष्टौ प्रेरणार्थं संहारे प्रवृत्तस्य निवारणार्थं स्थितावीश्वरापेक्षासम्भवो न चैतदस्तीति ॥ एतेनेति ॥ ईश्वरस्यैवावान्तरोपद्रवकर्तृत्वे न तदकरणमात्रेण समीहितसिद्धेः । अन्यस्यैव ह्युपद्रवकर्तृत्वे तन्निवारणादिव्यापारो युज्येतेति भावः ।

सूत्रे परस्येत्यनुवर्तते । अस्त्येव पालकत्वमिति ततो भूय इत्युक्तिमहिम्ना लभ्यते । हिशब्दो यस्मादित्यर्थे इत्यभिप्रेत्य व्याचष्टे ॥ अस्त्येवेति ॥ प्रकृतस्येति ॥ श्रुतौ पूर्वं प्रकृतस्येत्यर्थः । तावन्मात्रत्वमिति ॥ पालनरूपगुणान्तरासाहित्यमित्यर्थः ॥ न ज्ञायत इति ॥ विशेषवाक्ये-नेत्यर्थः । अनेन विशेषवाक्यमित्युक्तन्यायः सूत्रारूढो दर्शितः । येनेत्यस्यार्थोऽनेनेश्वरेणेति । कर्तरि तृतीयाबलादध्याहरति भवत्कार्यमिति ॥ प्रागुक्तमिति ॥ अस्येदेषा सुमतिः प्रप्रथानेति श्रुतौ प्रागुक्तमित्यर्थः । श्रुत्यर्थस्तु तत्त्वप्रदीपवाक्योदाहरणपूर्वमन्यत्रो ज्ञेयः । उक्षा स द्यावापृथिवी बिभर्तीत्यत्र स इति तच्छब्दस्य स पर उक्षेत्यन्वयं प्रदर्शयन्नुक्षेति व्याचष्टे ॥ स पर इति ॥ भावबोधे तु । उक्षासदिति पदमभिप्रेत्य व्याख्यातम् । सदित्यस्य भवत्कार्यमिति चार्थद्वयमिति । बिभर्तीत्यस्य धत्ते पुष्णाति चेत्यर्थद्वयम् ॥ धारणपोषणादेरिति ॥ द्यावापृथिवी बिभर्तीति धारणम् । उक्षेत्यन्नपानादिना पोषणम् । अभिमतैश्वर्यादिदानं चोक्तमिति भावः ।

तत्त्वसुबोधिनी

पालकत्वेति ॥ अत्र पूर्वं यस्याः स्नेहादिरूपाया भक्तेस् तारतम्यं समर्थितं सा भक्तिर् विष्णोः पालकत्वाभावे न सम्भवति । लोके स्वपालक एव स्नेहोत्पत्तिदर्शनादित्याक्षेपोत्थानात् पूर्वसूत्रे दर्शनाच्चेति सूत्रेण भक्तितारतम्यसाधकानन्दादितारतम्ये श्रुतिस्मृतिरूपप्रमाणोपन्यासवदत्रापि विष्णोः पालकत्वे ब्रवीति चेति श्रुतिस्मृत्योरुपन्यासाद्वानन्तरसङ्गतिरिति भावः । सृष्टिसंहार-कर्तृत्वादिति ॥ कर्तृत्वाभ्युपगमादित्यर्थः । पूर्वपक्षिणः सृष्टिसंहारकर्तृत्वाभ्युपगमस्य व्यर्थत्वा-दित्यवधेयम् । अस्तु सृष्टिसंहारकर्तृत्वं तथापि पालकत्वं कुतो नेत्यत आह ॥ सत्यां चेति ॥ जगत्स्थितेरिति भाष्ये शेषोक्तिः । स्थितेरेव पालनफलत्वादिति भावः ॥ अयोगमेवोपपादयति ॥ अन्यस्य त्विति ॥ प्रथमादिपदेन संहारः द्वितीयेन तु सृष्टौ प्रेरणम् । एवं च यदि सृष्टि-संहारकर्तृत्वमन्यस्य स्यात् तर्ह्युदासीनस्य तस्य सृष्टौ प्रेरणार्थं संहारे प्रवृत्तस्य निवारणार्थं च स्थितावीश्वरापेक्षा सम्भवेत् । न चैवमिति भावः । ननु तथापि ईश्वरस्यावान्तरोपद्रवनिवारकत्वा-द्रक्षकत्वमित्येदप्यतिदेशेन दूषयति ॥ एतेनेति ॥ तत्रापीति ॥ अवान्तरोपद्रवकरणेऽपीत्यर्थः । तथा च न पालकत्वमिति भावः । तावन्मात्रत्वं सृष्टिसंहारकर्तृत्वमात्रम् ॥ प्रागुक्तमिति ॥ अस्येदेेषा सुमतिः प्रप्रथानेत्यादिश्रुतौ प्रागुक्तमित्यर्थः । येनेत्यस्यार्थो तेनेति । अस्तीत्यस्य भवदिति कार्यमिति चार्थद्वयम् । उक्षेत्यस्यार्थो भक्ताभिलषितसेचक इति । धत्ते पुष्णातीति चेति अर्थद्वयम् ॥ समुच्चिनोतीति ॥ उपलक्षणमेतत् । स सृजतीति श्रुतिरपि समुच्चितेति ज्ञातव्यम् ।

वाक्यार्थविवरणं

गुणानामपि ॥ मध्य इत्यर्थः ॥ युक्तायुक्तेति ॥ गुणेत्यर्थः । अनित्यज्ञानादयो दुःखादयश्च धर्मा हरावयुक्ताः । नित्यज्ञानसुखाद्या धर्मा युक्ता दृष्टा इत्यर्थः । यावत्संहारम् । संहारपर्यन्तम् । स्वतः सिद्धःरक्षारूपस्यायोगादित्यादौ योज्यम् । ननु संहर्तुः कथं रक्षारूपव्यापारस्यायोगः । संहारोदासीनत्वमेव रक्षारूपव्यापार इत्यत उक्तम् ॥ असंहारव्यतिरिक्तेति ॥ संहारोदासीनत्व-मसंहार इति सुधोक्तरीत्या व्याख्येयम् । ननु कथमयोगः भगवदन्यस्मिन् कस्मिंचित्पुरुषे संहरणाय उद्युक्ते सति त्वया न संहर्तव्यमित्येवं तन्निवारणारूप एव व्यापारोऽसंहारव्यतिरिक्तो रक्षारूपः पालनापरपर्यायोऽस्तीति चेत् । सत्यम् । स्यादेवम् । यद्यन्यः संहर्ता स्यात् । न चैवम् । भगवत एव संहर्तृत्वाङ्गीकारात् । अतः स भगवान् जगत् सृष्ट्वा यावन्न संहरेत्तावत्पर्यन्तं जगत्स्थितिः स्वत एव सिद्धेत्याह ॥ अन्यस्य त्विति ॥ अवान्तरोपद्रवः ॥ व्याधिचोरादिप्रयुक्तः । तदेव चासंहारव्यातिरिक्तं रक्षारूपं पालनमस्तीत्यर्थः । कथं प्रत्युक्तमित्यत एतेनेत्युक्तं विशदयति ॥ तत्रापीति ॥ अवान्तरोपद्रवसर्जनेऽपीत्यर्थः ॥ अयमर्थः ॥ यद्यवान्तरोपद्रवकर्ता अन्यः स्यात्तदा तन्निवारणमनेन क्रियमाणं पालननामकं स्यात् । न चैवम् । अवान्तरोपद्रवेऽपि स्वस्यैव कर्तृत्वात् । अतः स्वसृष्टस्य जगतोऽवान्तरोपद्रवं यावन्न सृजेत्तावत्पर्यन्तम् अवान्तरोपद्रवो-दासीनत्वरूपं पालनं स्वयमेव सिद्धमिति । डु भृञ् धारणपोषणयोरित्यतो धत्ते पुष्णाति चेत्युक्तम् । अन्नदानादिना पुष्णातीत्यर्थः ॥ धारणेति ॥ श्रुतौ बिभर्तीत्युक्तसंहारव्यतिरिक्तस्य धारण-पोषणरूपपालनकर्तृत्वस्य भगवत उक्तत्वेन न धारणापरपर्यायस्थितेः स्वतः सिद्धत्वमित्यर्थः ।

वाक्यार्थमञ्जरी

गुणानामपीति ॥ आकाशे गन्धादेरयुक्तत्वदर्शनादिति भावः ॥ कर्तृत्वादिति ॥ कर्तृत्वा-भ्युपगमादित्यर्थः । यावत्संहारं संहारपर्यन्तम् ॥ जगत्स्थितेरिति ॥ स्थितेरेव पालनफलत्वादिति भावः । ननु रक्षारूपपालनाभावे कथमसंहारमात्रेण स्थितिरित्यत आह ॥ संहारकर्तुरिति ॥ अयोगमेवोपपादयति ॥ अन्यस्य त्विति ॥ एतेनेत्युक्तं विशदयति ॥ तत्रापीति ॥ अवान्तरोपद्रवदानेऽपीत्यर्थः ॥ ॐ प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ॥ विष्णोः पालकत्वं पृथगस्त्येव । कुतः ? हि यस्मान्नैतावदिति श्रुतिः प्रकृतस्य सृष्टिलयकर्तृत्वस्य एतावत्त्वं तावन्मात्रत्वं प्रतिषेधति । ततः सृष्टिलयकर्तृत्वाद्भूयो ऽधिकं पालकत्वमपि ब्रवीतीत्यर्थः ॥ प्रागुक्तमिति ॥ अस्ये देषा सुमतिः प्रपथानेत्यादिपूर्ववाक्योक्तमित्यर्थः । तदर्थस्त्वतो देवानामिति पूर्वप्रकृतदेवानामेषा प्रपथानातिशयेन प्रथमानषा सुमतिः शोभना बुद्धिरस्त्येव प्रकृतविष्णोरेव सकाशादभवदिति । एनेत्यस्यार्थोऽनेनेति । सदित्यस्य भवदिति कार्यमिति चार्थद्वयम् । उक्षेत्यस्य भक्ताभिलषितसेचक इति । बिभर्ति चेत्यस्य धत्ते पुष्णाति चेत्यर्थद्वयम् । अनेन श्रुतिस्मृत्युदाहरणेन ।

॥ इति पालकत्वाधिकरणम् ॥ १३ ॥