११ अम्बुवदधिकरणम्

ॐ अम्बुवदग्रहणात्तु न तथात्वम् ॐ

११. अम्बुवदधिकरणम्

सूत्रभाष्यं

नित्यसिद्धत्वात्सादृश्यस्य नित्यानन्दज्ञानादेर्न भक्तिज्ञानादि प्रयोजनमित्यतो ब्रवीति—

॥ ॐ अम्बुवदग्रहणात्तु न तथात्वम् ॐ ॥ १९ ॥

अम्बुवत्स्नेहेन । ग्रहणं ज्ञानम् । भक्तिं विना न तत्सादृश्यं सम्यगभिव्यज्यते ।

‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्’ (कठ.उ.२-२-३) इति हि श्रुतिः ।

‘महित्वबुद्धिर्भक्तिस्तु स्नेहपूर्वाऽभिधीयते ।

तयैव व्यज्यते सम्यग्जीवरूपं सुखादिकम्’ इति पाद्मे ॥

तत्त्वप्रदीपिका

सादृश्याच्च सूर्यकाद्युपमेत्युक्तम् । एवञ्च नित्यसिद्धत्वात्सादृश्यस्य किं भक्त्या संरम्भतः प्रतिपाद्यमानया तज्जनितज्ञानेन तज्जनकवैराग्येण वा प्रयोजनमित्यतो ब्रवीति ॥ ॐ अम्बुवदग्रहणात्तु न तथात्वम् ॐ ॥ अम्बुवदित्यनूद्य स्नेहेनेति व्याख्याति । स्नेहात्मकत्वादम्बुनः । तेन मानसं स्नेहं लक्षयति । ग्रहणपदं ज्ञानमिति व्याख्याति । अम्बुवद्ग्रहणं स्नेहसहितं ज्ञानमित्यर्थः । अभिप्रायं कथयति भक्तिमिति ॥ सलक्षणं दर्शयितुमेवमुक्तिः । गोपनीयत्वेन च । महित्वबुद्धिरिति च महत्त्वबुद्धिः । ‘वैश्वानर महि नः शर्म यच्छ’ इत्यादिवत् । विष्णोरतिमहस्वरूपत्वात् स्वरूपज्ञानमेव तत्र महित्वबुद्धिः । अतत्वविज्ञानत्वप्रसङ्गादन्यथा ।

‘माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः ।

स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्न चान्यथा’ इति भविष्यत्पर्वणि ॥

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनभक्त्यर्थं तत्फलनिरूपणादस्ति शास्त्रादिसङ्गतिः । तस्या विफलत्वे अकर्तव्यत्वप्रसङ्गात्फलं साध्यमेव । प्रकृता भक्तिरेव विषयः । कर्तव्या न वेति सन्देहः । द्विविधार्थ-दर्शनं च सन्देहबीजम् । पूर्वपक्षयति ॥ नित्येति ॥ न भगवद्भक्तिः कर्तव्या प्रयोजनाभावात् । न च भगवज्ज्ञानं प्रयोजनम् । तेनापि प्रयोजनाभावात् । न च तत्प्रसादः प्रयोजनम् । तेनापि प्रयोजनाभावात् । न च मोक्षः प्रयोजनम् । नित्यानन्दज्ञानादिमत्त्वं हि मोक्षस्तस्य च नित्य-सिद्धत्वात् । कुतः । भगवत्सादृश्यस्य जीवे नित्यसिद्धत्वात् । नित्यं विद्यमानस्याभिव्यक्त्यर्थं भक्त्यादीत्युक्तमिति चेन्न । विद्यमानस्य कदाचित्स्वयमेवाभिव्यक्तिसम्भवात् सुप्ताविवेति निष्फलत्वान्न भक्तिः कर्तव्या । अतो व्यर्थं माहात्म्यवर्णनमिति भावः ।

सिद्धान्तयत्सूत्रमवतार्य अम्बुवदिति पदतात्पर्यमाह ॥ अत इति ॥ ग्रहणपदं व्याचष्टे ॥ ग्रहणमिति ॥ सूत्रार्थमाह ॥ भक्तिमिति ॥ कर्तव्यैव भगवद्भक्तिर् भगवत्सादृश्यस्य नित्यसिद्धत्वेऽपि तदभिव्यक्त्यर्थत्वात् । न च सुप्तौ भक्तिं विनापि सुखाद्यभिव्यक्तिदर्शनात्तद्वैयर्थ्यम् । भक्तिं विना सम्यगभिव्यक्त्यभावात् । न च सापि स्वयमेव भवति । तथा सत्यनादिसंसार-प्रवाहानुपपत्तेरिति भावः । ननु सादृश्याभिव्यक्तिर्भक्त्या भवतीत्येतत्कुत इत्यत आह ॥ यमिति ॥ स्वां तनुं तत्स्वरूपमित्यर्थः । यदुक्तं स्नेहेन ज्ञानं भक्तिस्तया जीवस्वरूपस्य सम्यगभिव्यक्तिरिति तत्स्फुटमत्र न प्रतीयत इत्यतः स्मृतिं चाह ॥ महित्वेति ॥ अतः प्रयोजनवती भक्तिः कार्यैवेति युक्तं माहात्म्यवर्णनमिति सिद्धम् ।

गुर्वर्थदीपिका

अल्पाक्षरत्वलाभाय भक्त्यभावादित्येव वक्तव्ये यत् ‘अम्बुवदग्रहणात्’ इति सूत्रं तद्भक्ते-स्स्वरूपनिरूपणार्थमिति भावेनोक्तम् अम्बुवत्स्नेहेन ग्रहणं ज्ञानमिति । माहात्म्यज्ञानपूर्वकस्नेहो हि भक्तिः । तर्हि स्नेहेनाज्ञानादिति कुतो नोक्तमिति चेत्सत्यम् । अम्बुनि चिक्कणताख्यः स्नेहो यथा आजानजत्वादतिसुदृढस्तथाऽतिसुदृढस्नेहलाभायाम्बुवदित्युक्तम् । गृह्णाति कदाऽपि न मुञ्चतीति ज्ञानेऽपि दार्ढ्यसूचनाय ग्रहणमित्युक्तम् । अतः प्रौढशिरोमणिः सूत्रकार इति ज्ञेयम् ॥

भावबोधः

फलनिरूपणादिति । विषयविचारानन्तरं फलविचार इति परमात्मनो भक्तिविषयत्वं विचार्य फलं विचार्यत इत्यनन्तरसङ्गतिरिति भावः । कर्तव्या न वेति । अत्र भक्तिः किं न कर्तव्योत कर्तव्येति चिन्ता । तदर्थं किं सा निष्प्रयोजनोत सप्रयोजनेति । तदर्थं जीवानां नित्यसिद्धं ज्ञानानन्दादीश्वरसादृश्यं सुप्ताविव मुक्तावपि स्वत एवाभिव्यज्यते ॥ उत भक्त्यादिसाधनेनेति ॥ न भक्त्या प्रयोजनमित्येव वक्तव्ये यज्ज्ञानानन्दादिनेत्युक्तं तदभिप्रायमाह– न च भगवज्ज्ञान-मित्यादिना ॥ आदिशब्दार्थमाह– प्रसाद इति ॥ भाष्ये नित्यसिद्धत्वाज्ज्ञानानन्दादेरित्येतावता पूर्णे सादृश्यस्येति किमर्थमुक्तमित्यतो नित्यसिद्धत्वादित्यस्योभयत्रान्वयमङ्गीकृत्य हेतुहेतुमद्भावा-पन्नार्थप्रतिपादकत्वेन वाक्यद्वयं योजयति– नित्येति ॥ भगवत्सादृश्येति ॥ ज्ञानानन्दादिना सादृश्यस्येत्यर्थः । अनेन सादृश्यस्येति न्यायविवरणांशोऽपि व्याख्यातः । न भक्त्यादिना प्रयोजनमिति भाष्यं साधनं विनैव जीवस्य तादृशत्वाभिव्यक्तिरिति न्यायविवरणं च तन्निवर्तनीया-शङ्काप्रदर्शनपूर्वकं व्याचष्टे– नित्यमित्यादिना ॥ उक्तमिति ॥ ‘पुंस्त्वात्’ इत्यत्रेत्यर्थः । स्वयमेव, साधनं विनैवेत्यर्थः । सूत्रार्थमाहेति । अम्बुवदिति सादृश्यार्थे ‘वतिः’ । ग्रहणाभावादिति नञोऽन्वयः । ततश्च स्नेहपूर्वकमहत्त्वज्ञानाभावादिति । ततश्चाम्बु यथा स्नेहेन गृह्यते तथा स्नेहपूर्वं परमात्मनो ग्रहणान् न तथात्वमिति तात्पर्यम् । ‘अम्बुवदग्रहणात्’ इति सूत्रांशस्य भक्तिं विनेत्यनेन पुंस्त्वादिवत्त्वस्येत्युक्तं सादृश्यस्याभिव्यक्तत्वम् ‘तथात्वम्’ इत्यनेन परामृश्यते । ‘तु’ शब्देन तु सम्यक्त्वमुच्यत इति । ‘न तथात्वम्’ इति सूत्रांशस्य ‘न तत्सादृश्यं सम्यगभिव्यज्यते’ इत्यनेन व्याख्यानादिति भावः । अनादितः संसारस्यानिवृत्तत्वेन भावादिति न्यायविवरणं तन्निवर्तनीयाशङ्काप्रतिषेधपूर्वकं व्याचष्टे– न च सापीत्यादिना ॥ तत्स्वरूपमिति जीवस्वरूप-मित्यर्थः । अनेन श्रुतौ स्वशब्दो जीवपर इत्युक्तं भवति ।

भावदीपः

तत्फलेति ॥ सादृश्याभिव्यक्तिरूपफलेत्यर्थः । एतेन सादृश्याच्च सूर्यकाद्युपमेत्युक्तम् । एवं च नित्यसिद्धत्वात्सादृश्यस्य किं भक्त्येति तत्वप्रदीपोक्तदिशा प्राक्प्रकृतसादृश्यमुपजीव्यात्र शङ्कोत्थानादनन्तरसङ्गतिः सूचिता ॥ द्विविधार्थेति ॥ भोजनादेः कर्तव्यस्य शिरोवेष्टनेन नासिकाग्रहणादेर्निष्फलस्य कालबलादागमिष्यत्सुप्त्याद्यर्थप्रयत्नस्य वाऽकर्तव्यस्य दर्शनमित्यर्थः । फलोक्तिपूर्वं न भक्तिज्ञानादिना प्रयोजनमिति भाष्यं तत्र हेतुत्वेन व्याचष्टे ॥ न भगवद्भक्तिरित्या-दिना ॥ अनुबन्धादिभ्य इत्यत्र दृष्टेर्भगवद्भक्तिसाध्यत्वस्योपासनापादे स्पष्टत्वात्कथमत्र प्रयोजना-भावोक्तिरित्यतस्तदाशङ्क्य निराह ॥ न चेति ॥ ननु विद्यैव तु निर्धारणादिति नयेऽग्रे ज्ञानस्य प्रसादद्वारा मुक्तिफलकत्वं स्पष्टमित्यतो भाष्यस्थाऽदिपदार्थं विवृण्वन्प्रसादरूपं फलं तावदाशङ्क्य निराह ॥ न च तत्प्रसाद इति ॥ प्रियो हि ज्ञानिनोऽत्यर्थमित्यादेरिति भावः । एतेन भक्तेर्ज्ञानादिरूपं प्रयोजनं नेति ज्ञानादेः प्रयोजनं नेति च भाष्ययोजना सूचिता । नित्यसिद्धत्वा-न्नित्यानन्दज्ञानादेरिति भाष्यांशव्यावर्त्यमाह ॥ न च मोक्ष इति ॥ नित्यानन्देति ॥ ‘अनित्यत्वात्सदुःखत्वान्न धर्माद्याः परं सुखम् । मोक्ष एव परानन्दः ससारे परिवर्तताम्’ इत्यादेरिति भावः । तत्र हेतुत्वेन नित्यसिद्धत्वात्सादृश्यस्येत्यंशं व्याचष्टे ॥ कुत इत्यादिना ॥ एवं यथाभाष्यं व्याख्याय सादृश्यस्य सत्त्वात्साधनं विनैव जीवस्य तादृक्त्वव्यक्तिरित्यन्यत्रोक्तमर्थं पुंस्त्वादिवदित्यत्रोक्ताभिव्यक्तिफलकत्वं शङ्कानिवर्तकत्वेनाऽत्र सङ्गमयति ॥ नित्यमिति ॥ इत्युक्तमिति ॥ तदभिव्यक्त्यर्थं च मुमुक्षूणां प्रयत्नोपपत्तेरिति तत्र टीकायामुक्तत्वादिति भावः । सुप्ताविवेतीतिशब्दो हेतौ ।

तात्पर्यमाहेति ॥ अक्षरार्थस्तु अम्बुना तुल्यं वर्तत इत्यंबुवत् । अम्बु यथा स्नेहवत्तथा मानसस्नेहयुक्तग्रहणाभावादिति । तत्वप्रदीपे तु स्नेहात्मकत्वादंबुनस्तेन मानसस्नेहं लक्षयति । अम्बुवद्ग्रहणं स्नेहसहितं ज्ञानमित्यर्थ इत्युक्तम् । कथमेतावतोक्तशङ्कानिरास इत्यतोऽभिप्रायमाह ॥ कर्तव्यैवेति ॥ एवं भाष्ये यथान्यायं भाववर्णनं कृत्वा अनादितः संसारस्याऽनिवृत्तत्वेन भावादित्यन्यत्रोक्ताशयं शङ्कापूर्वमाह ॥ न च सापीत्यादिना ॥ एष विष्णुर्यं वृणुते तेन लभ्यस्तस्य प्रसन्नो भवति । ततश्च तस्याधिकारिणः स्वस्वरूपं प्रकाशयतीत्यर्थः । अत्र वृणुत इत्यनेन भक्तत्वं सूचितमिति जिज्ञासासूत्रे टीकायां व्याख्यानात्कथमत्रोक्तार्थे साक्षिणीयं श्रुतिरित्यतोऽत्रोप-योग्यर्थमाह ॥ स्वां तनुमिति ॥ न चानेकार्थत्वं दोष इति शंक्यम् । न च बह्वर्थेषु तात्पर्यकल्पने कल्पनागौरवम् । वचनेनैव प्रतीयमानत्वादर्थस्य कल्पनाभावादित्यादिना कर्मनिर्णय एवास्य चोद्यस्य निरासादिति भावः ॥ स्नेहेनेति ॥ स्मृतौ स्नेहपूर्वा महित्वबुद्धिर्भक्तिरिति माहात्म्यज्ञानस्य विशेष्यत्वेनोपादानात् पूर्वं भाष्यादौ तथैवोक्तेः स्नेहेन ज्ञानं भक्तिरित्यनुवादः कृतः । विशेषण-विशेष्यभावे कामचारात् ‘माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्न चाऽन्यथा’ इति भारततात्पर्यनिर्णयोक्तवचनेनाऽविरोधः ॥ तयेति ॥ सूत्रोक्तव्यतिरेक-स्याऽयमन्वयमुखेनाऽनुवादो वक्ष्यमाणस्मृत्यानुकूल्याय । यद्यपि स्नेहपूर्वज्ञानरूपभक्तौ सत्यामपि न जीवस्वरूपसुखस्य सम्यगभिव्यक्तिः । तथात्वे ज्ञानोत्तरशुभकर्मणो वैयर्थ्यापत्तेः । वक्ष्यते च स्तुतयेऽनुमतिर्वेति नयभाष्ये । ‘ज्ञानान्मोक्षो भवत्येव सर्वाऽकार्यकृतोऽपि तु । आनन्दो ह्रसतेऽकार्याच्छुभं कृत्वा च वर्धत’ इति । तथापि जीवस्वरूपावरणयोरविद्येश्वरशक्त्योर्मध्ये ज्ञानोत्तरशुभकर्मसाध्येश्वर-शक्तिनिवृत्त्यनन्तरभाव्यानन्दाभिव्यक्त्यन्या निश्शेषाविद्यानिवृत्यनन्तर-भाविनी या अभिव्यक्तिस्तस्या एवाऽत्र सम्यगभिव्यक्तिशब्देन ग्रहणम् । यद्वोपासया कर्मभिश्च भक्त्या चाऽऽनन्दचित्रतेत्युक्त्या भक्तेरानन्दवृद्धावपि हेतुत्वात्सम्यगभिव्यक्तेरेवात्र ग्रहणेऽपि कर्मणो हेतुत्वाऽनिरासात् सूत्रार्थं हेतूकृत्य फलोक्त्योपसंहरति ॥ अत इति ॥ भक्त्यैव स्वरूपसुखस्य सम्यग्व्यज्यमानत्वादित्यर्थः ।

वाक्यार्थमुक्तावली

फलनिरूपणादिति ॥ फलप्रापकत्वमपि भगवन्महिमैवेति न भगवन्महिमोक्तिपरपादेऽ-नन्तर्भावः । सादृश्याच्च सूर्यकाद्युपमेत्युक्तम् । एवं च नित्यसिद्धत्वात्सादृश्यस्य किं भक्त्येति फलाक्षेपे तन्निरासेन फलसमर्थनादनन्तरसङ्गतिस् तत्त्वप्रदीपानुसारेण द्रष्टव्या ॥ कर्तव्येति ॥ किं भक्तिर्न कर्तव्योत कर्तव्येति चिन्ता । तदर्थं सा किं सप्रयोजनोत निष्प्रयोजनेति । तदर्थं जीवानां नित्यसिद्धं ज्ञानानन्दादीश्वरसादृश्यं सुप्ताविव मुक्तावपि स्वत एव व्यज्यते न वेति । स नो भव इत्युक्तन्यायप्रदर्शकं नित्यसिद्धमिति पूर्वपक्षभाष्यमवतार्य व्याचष्टे ॥ पूर्वपक्षयतीति ॥ न भक्ति-ज्ञानेति भाष्यस्य भक्त्या ज्ञानेन आदिशब्दोक्तप्रसादेन च न प्रयोजनमित्याकाङ्क्षाक्रमेण भावमाह ॥ न भगवदित्यादिना ॥ भाष्ये नित्यसिद्धत्वात्सादृश्यस्य नित्यसिद्धत्वान्नित्यानन्दज्ञानादेरिति नित्यसिद्धत्वादित्यस्योभयत्रान्वयम् अङ्गीकृत्य हेतुहेतुमद्भावेन योजयति ॥ न च मोक्ष इत्यादिना ॥ पुंस्त्वादिवत्वस्य सतोऽभिव्यक्तियोगादित्यनेन गतार्थतामाशङ्क्य परिहरति ॥ विद्यमानस्येति ॥ एतेन भक्तिज्ञानादिना नित्यानन्दज्ञानादेरभिव्यक्तिलक्षणप्रयोजनं नास्ति । विद्यमानस्याभिव्यक्तेरपि सुप्ताविव नित्यसिद्धत्वाद् आगन्तुकसाधनापेक्षां विनैव सिद्ध्युपपत्तेरिति भाष्यं प्रकारान्तरेण व्याख्यातं भवति ।

अम्बुवदिति पदतात्पर्यमाह ॥ अम्बुवदिति ॥ सादृश्यार्थे वतिः । अम्बुसादृश्यं च ग्रहण-शब्दितज्ञानस्य विवक्षितम् । तथाम्बुवद् अम्बुन इव तत्सादृश्येनेत्यर्थः । सादृश्यं च स्नेह एवेति स्नेहेनेति तात्पर्यमुक्तमिति भावः ॥ सूत्रार्थमिति ॥ अम्बु हि स्नेहशब्दितचिक्वणतोपेतं स्वसम्बन्धिलग्नं भवति । तथा ज्ञानमपि स्नेहयुक्तं स्वविषये श्लिष्टतरं भवति । अन्यथा शुष्ककुड्ये पतितशरवदलग्नं भवेत् । तथा चाम्बुवदम्बुसादृश्येन स्नेहेन युक्तज्ञानाभावाद् भक्तिं विनेति यावत् । तु सम्यक् । तथात्वं पुंस्त्वादिवदित्यत्रोक्तं सादृश्यस्याभिव्यक्तत्वं नेति सूत्रार्थमाहेत्यर्थः । तत्त्वप्रदीपे तु अम्बुवदित्यन्तं स्नेहेनेति व्याख्याति । स्नेहात्मकत्वादम्बुनस् तेन मानसस्नेहं लक्षयति । ग्रहणपदं ज्ञानमिति व्याख्यातम् । अम्बुवदग्रहणं स्नेहसहितज्ञानमित्यर्थः । अभिप्रायं कथयति ॥ भक्तिमितीति ॥ टीकायामप्ययमेवार्थः । अम्बुवदित्यस्य लक्षणालब्धस्नेहावत्वार्थकत्वात्स्नेहेनेति सहयोगे तृतीयेति भावेन पदतात्पर्यमाहेत्युक्तमिति ज्ञेयम् ॥ अनादिसंसारेति ॥ एतेन भव इत्युक्तन्यायोऽप्यारूढो दर्शितः । ननु सादृश्याभिव्यक्तिर्भक्त्येति ज्ञानानन्दाद्यात्मकजीव-स्वरूपाभिव्यक्तिः स्नेहपूर्वकज्ञानलक्षणभक्त्या भवतीत्यर्थः ॥ स्फुटमिति ॥ यम् एष भगवान्वृणुते तेन लभ्यः ज्ञेय इत्युक्ते भक्तमेव वृणुते इति प्रसिद्धत्वाद् भक्तिमतैव ज्ञेयः । भक्तिज्ञानवतः स्वां तनुं तत्स्वरूपं विवृणुते इत्युक्ते भक्तेरर्थाल्लाभेऽपि तत्स्वरूपानिरूपणादस्पष्टमिति भावः । ननु ज्ञानपूर्वकस्नेहस्य भक्तित्वमन्यत्रोक्तम् अत्र स्नेहपूर्वकज्ञानस्य भक्तित्वमतो विरोध इति चेन्न । अन्यत्र परिहृतत्वात् ।

तत्त्वसुबोधिनी

विषयविचारानन्तरं फलविचार इति । परमात्मनो भक्तिविषयत्वं विचार्य फलं विचार्यत इत्यनन्तरसङ्गतिरिति भावः । भगवज्ज्ञानस्यैव भक्तिप्रयोजनवत्वात् कथं प्रयोजनाभाव इत्यतः सुखदुःखाभावोत्तरत्वान् न तस्य पुरुषार्थत्वं स्वतः । अतस् तत्साधनत्वेन पुरुषार्थत्वं वाच्यम् । न च तदस्तीत्याह ॥ न च भगवज्ज्ञानमित्यादिना ॥ तेनापि प्रयोजनाभावाद् इत्यादेरप्येवमेव योजना द्रष्टव्या । ननु भाष्ये नित्यसिद्धत्वाज् ज्ञानानन्दादेर् इत्येतावता पूर्णे सादृश्यस्येति किमर्थमित्यतो नित्येत्यस्योभयत्रान्वयमङ्गीकृत्य हेतुहेतुमद्भावापन्नार्थप्रतिपादकत्वेन वाक्यद्वयार्थमाह ॥ नित्येति ॥ एवं च नित्यसिद्धत्वादित्यस्योभयत्रान्वयः । सादृश्यस्य नित्यत्वाज् ज्ञानानन्दादे-र्नित्यत्वादिति । भगवत्सादृश्यस्येति ज्ञानानन्दादिसादृश्यस्येत्यर्थः ॥ उक्तमिति ॥ पुंस्त्वादि-वदित्यत्रेत्यर्थः । स्वयमेव साधनं विनेत्यर्थः ॥ सूत्रार्थमाहेति ॥ अम्बुवदिति सादृश्यार्थे वतिः । ग्रहणाभावादिति नञोऽन्वयः । ततश्च स्नेहपूर्वकमहत्वज्ञानाभावादिति । अम्बुवदग्रहणादिति सूत्रांशस्य भक्तिं विनैवेत्यनेन परामृश्यते । तुशब्देन सम्यक्त्वमुच्यते इति न तथात्वं त्विति सूत्रांशस्य न तत्सादृश्यं सम्यगभिव्यज्यते इत्यनेन व्याख्यानाद् इति भावः । ननु भगवत्सादृश्यस्य नित्यसिद्धत्वात् तदर्थं भक्तिवैय्यर्थ्यम् इत्यत आह ॥ भगवदिति ॥ तत्स्वरूपमिति ॥ जीवस्वरूपमित्यर्थः । एवं च श्रुतौ स्वशब्दो जीवपरः ।

वाक्यार्थविवरणम्

फलं साध्यमिति ॥ फलमस्तीति साधनीयमित्यर्थः ॥ भगवत्सादृश्येति ॥ अनेन नित्यानन्दादेस्तद्रूपस्य सादृश्यस्य नित्यसिद्धत्वादित्यन्वयो द्रष्टव्यः ॥ स्वयमेवेति ॥ भक्तिं विनैवेत्यर्थः ॥ सुषुप्ताविवेति ॥ सुषुप्तौ सुखस्येवेत्यर्थः ॥ तात्पर्यमाहेति ॥ अम्बुवदिति सादृश्यार्थे वतिः । इदं च सादृश्यं ग्रहणस्य विवक्षितम् । अम्बुसादृश्यं च स्नेहवत्त्वेनैव । स्नेहश् चिक्कणताऽम्बुनि प्रसिद्धा । अत्र तु मनोवृत्तेर्द्रवीभावाख्यचिक्कणतैव स्नेहो द्रष्टव्यः । एवं चाम्बुव-त्स्थितं यद्ग्रहणम् अम्बुसदृशं यद्ग्रहणं तद्वत् स्नेहयुक्तं यद्ग्रहणमित्यर्थः ॥ इयांस्तु विशेषः ॥ अम्बुनि स्नेहवत्त्वं स्नेहसमवायः । ग्रहणे तु स्नेहवत्त्वं नाम स्नेहसाहित्यम् । एवं चाम्बुवद्ग्रहणं स्नेहयुक्तं माहात्म्यज्ञानं भक्तिरिति यावत् । तथा चाम्बुवद्ग्रहणाभावाद् भक्तिं विनेति यावत् । तथात्वमानन्दादिसादृश्यस्य सम्यगभिव्यक्तत्वं न भवतीति सूत्राक्षरार्थः । किन्तु स्नेहयुक्तज्ञान-रूपभक्त्यैव सादृश्यं सम्यगभिव्यज्यत इति सूत्रफलितोऽर्थः । अत एवोत्तरत्र यदुक्तं स्नेहेन ज्ञानं भक्तिरिति फलितार्थमनुवदिष्यति । तद्वाक्ये स्नेहेन सहितं ज्ञानमित्यर्थो द्रष्टव्यः ॥ सम्यगिति ॥ सुप्तौ तु भक्तिरूपसाधनाभावात् किञ्चिदभिव्यक्तिरेव न सम्यगभिव्यक्तिरिति भावः ॥ साऽपीति ॥ सम्यगभिव्यक्तिरपीत्यर्थः ॥ स्वयमेव ॥ भक्तिं विनैव ॥ अनादीति ॥ अनादौ पूर्वकाले कदाचित् स्वयमेवाभिव्यक्तिसम्भवेन मुक्तत्वसम्भवादिदानीं संसारोपलम्भो न स्यादित्यर्थः । केचित्तु (तत्त्वप्रदीपिकाकाराः) सादृश्ये वतिमनङ्गीकृत्य तद्वत्त्वमेव वत्यर्थमुपादाय ग्रहणस्याम्बुवत्त्वायोगा-दम्बुवत्पदेन तन्निष्ठस्नेहमुपादाय ग्रहणस्य तदाधारत्वरूपतद्वत्त्वायोगात् तत्सहितत्वमेव तद्वत्त्वम् । तथा चाम्बुवद्ग्रहणम् । स्नेहेनेति तात्पर्यकथनं युक्तमित्याहुः ॥ स्वां तनुमिति ॥ जीवसम्बन्धिनीं तनुं ज्ञानानन्दादिरूपं जीवस्वरूपमित्यर्थः । तथा च वृणुत इत्यस्य भक्तत्वेन स्वीकरोतीत्यर्थो द्रष्टव्यः । वृणुत इति भक्तत्वसूचितं भक्तमेव हि वृणुत इति प्रसिद्धमित्युक्तत्वादिति ध्येयम् ॥ स्फुटमिति ॥ वृणुत इत्यस्य स्वीकरोतीत्यैवार्थसम्भवेन तनुं स्वामित्यस्य भगवान् स्वस्वरूपं जीवाय वृणुत इत्यर्थसम्भवेन सावकाशत्वादिति भावः ॥ प्रयोजनवतीति ॥ सम्यग्भगव-त्सादृश्याभिव्यक्तिरूपप्रयोजनवतीत्यर्थः ।

वाक्यार्थमञ्जरी

भगवत्सादृश्यस्येति ॥ ज्ञानानन्दादिना भगवत्सादृश्यस्येत्यर्थः । उक्तं पुंस्त्वादिवदित्यनेन ॥ सुप्ताविवेति ॥ मुक्तियोग्यजीवस्य भक्तिं विनैव स्वरूपस्य सुखस्य व्यक्तिवदित्यर्थः ॥ ॐ अम्बुवदग्रहणात्तु न तथात्वम् ॐ ॥ अम्बुवदग्रहणात्स्नेहयुक्तज्ञानाख्यभक्त्यभावात्तां विनेति यावत् । तथात्वं ज्ञानादिसादृश्यं तु नाभिव्यज्यत इत्यर्थः ॥ तथा सतीति ॥ स्वयमेव जायमानाभि-व्यक्तेर्विलम्बे निमित्ताभावेनेतः पूर्वमेव तत्सम्भवादिति भावः ॥ तत्स्वरूपमिति ॥ जीवस्वरूप-मित्यर्थः ।

॥ इति अम्बुवदधिकरणम् ॥ ११ ॥