ॐ अत एव चोपमा सूर्यकादिवत् ॐ
१०. उपमाधिकरणम्
सूत्रभाष्यम्
॥ ॐ अत एव चोपमा सूर्यकादिवत् ॐ ॥ १८ ॥
यस्मादेवं परमेश्वररूपाणां मिथो न कश्चिद्भेदोऽत एव सादृश्याज्जीवस्यापि तथा स्यादिति तस्य प्रतिबिम्बत्वमुक्त्वा चशब्देन भेदं दर्शयति ।
‘रूपं रूपं प्रतिरूपो बभूव’ (बृ.उ.४-५-१९)
‘बहवः सूर्यका यद्वत्सूर्यस्य सदृशा जले ।
एवमेवाऽऽत्मका लोके परात्मसदृशा मता’ इत्यादि ॥
अत एव भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्युपमा, नोपाध्यधीनत्वादिना ।
तत्त्वप्रदीपिका
एवञ्च जीवानां परमेश्वरेण चिदानन्दलक्षणरूपत्वसादृश्याद्भेदः स्वगतश्च स्थानभेदेऽपि न स्यादित्याशङ्का स्यात् । तत्परिहाराय तस्य जीवस्य सूर्यकादिवत्प्रतिबिम्बत्वं वदन्ती भेदं दर्शयति श्रुतिः । अत एव सादृश्यादेव प्रतिबिम्बत्वमुक्त्वा भेदं दर्शयतीति तदुक्त्यैव भेदं दर्शयतीत्यर्थः । सूत्रगतेन चशब्देन भेदं दर्शयति श्रुतिरिति दर्शयति भगवान् बादरायण इत्येषोऽर्थश्चशब्देन भेदं दर्शयतीति भाष्यस्य । प्रतिबिम्बत्ववचनेनैव भेदो दर्शितो भवति । प्रतिबिम्बस्य भिन्नत्वनियमात् । बिम्बान्मिथश्च भिन्नान्येव हि प्रतिबिम्बानि दृश्यन्ते । न च प्रतिबिम्बत्वं बिम्बेऽध्यस्तम् । येन चिन्मात्रे ब्रह्मणि जीवत्वाध्यासस्य दृष्टान्तः स्यात् । प्रतिबिम्बप्रतिभानसमय एव तद्व्यतिरेकेण बिम्बोपलम्भात् । नेदं प्रतिबिम्बमिति बिम्बे प्रत्ययाच्च । न हि रजताध्यासकाले शुक्तिरियं न रजतमिति प्रतीतिः । न च तयोस्तदा भेदेन युगपद्ग्रहणम् । तस्मान्न प्रतिबिम्बप्रतीतिर्भ्रान्तिः । अपरथा बिम्बापरोक्ष्ये निवर्तेत । बिम्ब एव नेदं प्रतिबिम्बमिति च प्रतीतिः स्यात् तत्काले । न च तयोर्भेदप्रतीतिरेव भ्रान्तिर्न स्वरूपप्रतीतिरिति वाच्यम् । ऐक्यप्रत्ययस्य बाधकस्य जात्वनुदयात् । न च दर्पणादिरधिष्ठानं स्फटिक इव लोहितिम्न इति वाच्यम् । साध्यान्तर्भूतत्वात्तस्य । हन्तायमियन्तं कालं स्वच्छ एव स्फटिको दृष्टः पटुदर्शनस्यैव ममेदानीं जपाकुसुमसामीप्याल्लोहितो दृश्यत इति हि तत्र प्रतीतिः । बिम्बनिमित्तेन जन्यते चेत्, तन्नाशेऽपि न नश्येत् । निमित्तकारणनाशेऽपि कार्यस्थितेरिति चेन्न । स्पर्शज्ञानादौ व्यभिचारात् । अतो दर्पणाद्युपादानं मुखादिनिमित्तं प्रतिबिम्बमुत्पद्यत इत्यभ्युपगमे न कश्चिद्दोषः ।
‘रूपं रूपम्’ इत्यादेरयमर्थः । अस्य परमेश्वरस्य रूपं रूपं प्रति प्रतिबिम्बाख्यो जीवो बभूव । ‘तदस्य’ परमेश्वरस्य ‘रूपं’ ‘अस्य’ प्रतिबिम्बभूतस्य जीवस्य ‘प्रतिचक्षणाय’ । ‘इन्द्रः’ परमेश्वरः । इदि परमैश्वर्य इति धातोः । ‘इन्दो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषस्तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते’ इति श्रुतेश्च । प्रसिद्धो हि दक्षिणाक्षिस्थो विष्णुः श्रुतिषु । ‘तमिन्द्रं सन्तमिन्द्र इत्याचक्षत’ इति च परमात्मप्रकरण एव मायाभिस्सामर्थ्यैरिच्छाभिर्वा बहुरूप ईयते । अस्य ह्यवतारात्मका ‘हरयो’ ‘युक्ता’ इति । ‘अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि’ इति ह्युपरि ।
‘स एव दशधा प्रोक्तो विष्णुर्मत्स्यादिरूपकः ।
शतं नारायणाद्यात्मा विश्वाद्यात्मा सहस्रकः ।
परादिरूपो बहुधा सोऽनन्तात्माऽजितादिकः’ इति नारायणश्रुतिः ॥
‘पृथगुपदेशात्’ ‘तद्गुणसारत्वात्तद्व्यपदेशः प्राज्ञवत्’ ‘ततो ह्यस्य बन्धविपर्ययौ’ इत्यादिषु प्रपञ्चितानि हि भिन्नत्वतदधीनत्वसादृश्यानि । अतोऽत एवेत्याह । नोपाध्यधीनत्वेन सूर्यकाद्युपमा । जीवः परस्यानुपाधिरिति पुर एव परिहृतत्वात्तस्य । आदिशब्दान्न च भेदाभावेन । भेदस्य प्रतिपादितत्वात् । न च स्थिरविनाशिनोः सूर्यसूर्यकयोरभेदसम्भव इति ।
तत्त्वप्रकाशिका
अत्र ब्रह्मप्राप्तिसाधनभक्त्यर्थं जीवाभेदनिरासादस्ति शास्त्रादिसङ्गतिः । जीवाभेदे स्वस्मिन्निव परमात्मन्यपि भक्त्ययोगात्स निराकार्यः । प्रकृता भक्तिरेव विषयः । परमात्मनि युक्ता न वेति सन्देहः । युक्तायुक्तसाधनोपदेशः सन्देहबीजम् । न युक्तेति पूर्वः पक्षः । जीवस्य परमात्मा-भिन्नत्वात् । न हि स्वस्मिन्नेव भक्तिरुपपद्यते । न चाभेदे विवदितव्यम् । जीवः परमात्मनो न भिद्यते चेतनत्वात्तदंशत्वान्मत्स्यादिवदित्यनुमानसिद्धत्वात् । मत्स्यादीनां परमात्मनश्च मिथो न भेद इति प्रागेव सिद्धम् । न च वाच्यं भेदस्य समर्थितत्वान्नाभेदो युक्त इति । सर्वचेतनसमुदाय-स्येशांशत्वेनैकैकजीवस्य परमात्मना भेदाभेदादभेदेऽपि भेदाविरोधात् । अतः परमात्मभक्तेर-युक्तत्वाद्व्यर्थं तन्महिमवर्णनमिति ।
सिद्धान्तयत्सूत्रमुपन्यस्य पूर्वपक्षं तावदनुवदति ॥ अत एवेति ॥ यस्मादेवं न स्थानतोऽपीत्युक्त प्रकारेणेश्वररूपाणामीश्वरस्य च मिथोऽभेदः सिद्धः । अतस्तत्सादृश्याच्चेतनत्वादेव जीवस्यापि परमात्माभेदः स्यादिति पूर्वः पक्ष इत्यर्थः । तत्परिहाराय सूर्यकादिवच्चेति पदं व्याचष्टे ॥ तस्येति ॥ एवं प्राप्ते सूत्रकारो जीवस्येशप्रतिबिम्बत्वहेतुं सूर्यकादिवदित्यनेन दृष्टान्तकथनेनैवोक्त्वा चशब्देन साध्यं भेदं समुच्चिनोतीत्यर्थः । इदमुक्तं भवति । जीवो ब्रह्माभिन्नो न भवति तत्प्रतिबिम्बत्वात् । यो यत्प्रतिबिम्बः स तस्माद् भिन्नो यथा सूर्यकः सूर्यादिति । जीवस्येश्वरप्रतिबिम्बत्वमेव कुत इत्यत आह ॥ रूपमिति ॥ इत्यादि प्रतिबिम्बत्वं दर्शयतीत्यनुषज्यते । अथ वा यस्मादेवमित्यादि सिद्धान्त एव । तथा हि । यस्मादुक्तरीत्या परमेश्वररूपांशानां ज्ञानैश्वर्यादौ न कश्चिद्विशेषः । अतो जीवस्याऽपि परमेश्वरस्वरूपांशत्वे मत्स्यादिसाम्यात्तद्वज्ज्ञानैश्वर्याद्यविशेषः स्यात् । न चैवम् । ‘अतोंऽशत्वेऽपि जीवो ब्रह्मप्रतिबिम्ब एवेति तस्य प्रतिबिम्बत्वमत एवोपमेति पदैरुक्त्वा तद्धेतुना सूर्यकादिदृष्टान्तेन भेदं चशब्देन समुच्चिनोतीति । अनेन प्राचीनानुमानस्याऽप्रतिबिम्बत्वोपाधिश्च सूचितो भवति । अभेदांश एव विवादात्तन्निरासः । भेदस्यापि सद्भावेन नैश्वर्यादीति चेन्न ब्रह्मस्वरूपानुगतेरावश्यकत्वात् । ऐश्वर्यादेश्च स्वरूपत्वान्मत्स्यादिवच्चेति युक्तिदृष्टार्थ एव श्रुतिः ।
यदुक्तं सूर्यकादिवज्जीवो ब्रह्मप्रतिबिम्ब इति तदयुक्तम् । तथा हि । किमसौ सूर्यकादि-वदुपाध्यायत्तत्वादिधर्मा न वा । आद्ये अनित्यत्वादिदोषः । द्वितीये न सूर्यकाद्युपमा सम्भवति । अतः प्रतिबिम्बत्वाभावादुक्तं तदवस्थमेवेत्यत आह ॥ अत एवेति ॥ न सूर्यकाद्युपमासम्भवो नाप्यनित्यत्वापत्तिः । ‘पृथगुपदेशात्’ ‘सन्ध्ये सृष्टिराह हि’ ‘तद्गुणसारत्वात्’ इत्युक्तैर्भिन्नत्वादिभिः सूर्यकाद्युपमोपपत्तेः । उपाध्यायत्तत्वादिसर्वप्रतिबिम्बधर्मानभ्युपगमेनानित्यत्वाप्रसङ्गात् । यौ हि साध्यसाधनधर्मौ विवक्षितौ तत्सद्भावेनैव दृष्टान्तदार्ष्टान्तिकयोः साम्यमन्यथा सर्वानुमानलोपात् । अत्र च भिन्नत्वं साध्यं तदधीनत्वं तत्सादृश्यं च प्रतिबिम्बपदोक्तं साधनं दृष्टान्तदार्ष्टान्तिकयोरस्तीति न कश्चिद्दोष इति भावः । अतो जीवस्य भिन्नत्वाद्युक्ता भगवति भक्तिरिति युक्तं तन्महिम-वर्णनमिति सिद्धम् ।
गुर्वर्थदीपिका
पूर्वपक्षं तावदनुवदतीति टीकोक्तेर् अतः न स्थानतोऽपीत्यधिकरणे बहुस्थानगत-स्वांशानामभेदोक्तेः कारणादंशभूतजीवानामप्यंशत्वाविशेषादुपमा तदुपमा तद्वदभेद इत्यर्थः । नेति स्पष्टं निषेधाभावात्पूर्वस्यानुवादमात्रम् । तद्विरुद्धसिद्धान्तयुक्तेर्निरूपितत्वादार्थिकोऽपि नञ् ग्राह्य इति टीकाकारस्याभिप्रायः । एवं च ‘न च परमात्मना चेतनत्वन्यायसाम्येन जीवस्याप्यभेदः’ इति न्यायविवरणोक्तेः ‘न स्थानतोऽपि’ इति सूत्रान्नञावृत्त्या अत उपमेति यदुक्तं तन्नैवेति सिद्धान्ता-रम्भोऽपि ज्ञातव्यः । अतः सूत्रस्य न न्यूनता । कुत इत्याकाङ्क्षायां सूर्यकादिवदिति निदर्शनेन प्रतिबिम्बत्वाख्यहेतोरपि सूचितत्वाच् चशब्देन तद्योग्याभेदाभावाख्यभेदरूपसाध्यस्यापि सूचितत्वात् ‘जीवः परमात्माऽभिन्नो न भवति तत्प्रतिबिम्बत्वाद् यो यत्प्रतिबिम्बः स तस्मादभिन्नो न भवति यथा सूर्यकस्सूर्यात्’ इत्यनुमानाख्यं प्रमाणं सूत्रखण्डेन निरूपितमिति सूत्रभाष्ययोरभिप्रायः ।
प्रतिबिम्बत्वमत एवोपमेति पदैरुक्तेति वदता अत एव मत्स्यादिवत्सर्वसाम्याभावादेव उपमा अल्पोपमा प्रतिबिम्बत्वमिति यावदिति सौत्रपदानामर्थो दर्शितः । तद्धेतुनेत्यस्य तेन प्रतिबिम्ब-त्वाख्यहेतुनेत्यर्थः । ब्रह्मस्वरूपानुगतेरावश्यकत्वादित्यत्राभेदे सतीति प्रागुपस्कर्तव्यम् । मत्स्यादि-वदित्यतः परमैश्वर्यवान्जीवः स्यान्न चैवमित्युपस्कर्तव्यमिति हेतोः किञ्चित्सादृश्याख्ययुक्त्या दृष्टेऽर्थे प्रतिबिम्बत्वे । श्रुतिर् जीवस्य भगवदंशत्वश्रुतिः । एवं चाभेदे ब्रह्मस्वरूपानुगतेरावश्यकत्वा-दैश्वर्यादेश्च स्वरूपत्वान्मत्स्यादिवज्जीवश्च स्यात् । न चैवमिति हेतोर्युक्तिदृष्टार्थ एव वर्तत इति योजना । नोपाध्यायत्तत्वादिनेति वदता प्रतिबिम्बत्वघटकभेदतदधीनत्वसादृश्यनिरूपणवदुपाधेः प्रागसूत्रितत्वादिति सूचितम् । एवं च अतोंऽशत्वाज्जीवस्य मत्स्याद्युपमा नेत्येका योजना । यदि मत्स्याद्युपमा जीवस्य स्यात्तर्हि तद्वदैश्वर्यादिकमपि स्यात् । न चैवम् । अतो मत्स्यादिवत्सर्वैश्वर्या-भावादुपमैव सूर्यकोपमैव न तु मत्स्याद्युपमेति द्वितीययोजना । अतो भिन्नत्वतदधीनत्वसादृश्या-नामेव प्राक् सूत्रकृतोक्तेरुपाधेरनुक्तेश्च तावतैव सूर्यकोपमा । न तूपाध्यधीनापीति सूत्रखण्डस्य तृतीया योजनिकेत्युक्तं भवति ।
भावबोधः
अत्रानन्तरसङ्गतिः प्रागेवोक्ता ॥ युक्ता न वेति ॥ अत्र भक्तिः परमात्मनि युक्ता न वेति चिन्ता । तदर्थं जीवस्य परमात्मना भेद उत नेति । तदर्थमभेदसाधकं चेतनत्वांशत्वानुमानमना-भासमुताभासमिति । तदर्थं भेदसाधकं जीवस्येश्वरप्रतिबिम्बत्वं नोपपद्यते उतोपपद्यत इति । तदर्थं जीवस्योपाध्यायत्तत्वादिकं प्रतिबिम्बत्वप्रयोजकं भवत्युत नेति । अतः सादृश्याज्जीवस्यापि तथा स्यादिति परमात्मना चेतनत्वसाम्येन जीवस्याप्यभेद इति भाष्यन्यायविवरणाभ्यामुक्तमनुमानमाह– जीव इति ॥ दृष्टान्तस्य साध्यवैकल्यपरिहारपरस्य यस्मादेवं परमेश्वरस्वरूपाणां मिथो न कश्चिद्भेद इति भाष्याभिप्रायमाह– मत्स्यादीनामिति ॥ प्रागेव ‘न स्थानतोऽपि’ इत्यत्रेत्यर्थः ।
ननु ‘पृथगुपदेशात्’ इत्यत्र भेदस्य निपुणतरं समर्थितत्वात् कथम् अभेदेन पूर्वपक्षोत्थान-मित्याशङ्क्य निषेधति– न च वाच्यमित्यादिना ॥ ‘समुदायैक्यमापतेत् ।’ ‘ईशाख्या समुदाये स्यात्’ इत्यनुव्याख्यानं मनसि निधायोक्तम्– सर्वचेतनसमुदायस्येति ॥ अत्रेशपरमात्मशब्दाभ्यां ब्रह्माभिप्रेतम् । परेणेशस्यापि जीववद् ब्रह्मांशत्वाङ्गीकारात् । ‘ईशाख्य’ इत्याद्यनु-व्याख्यानानुसारेण तु ईशत्वेनेत्युक्तमिति ज्ञातव्यम् । तस्य प्रतिबिम्बत्वमुक्त्वेत्यनेन सूर्यकादिवदिति पदं कथं व्याख्यातमित्यत आह– दृष्टान्तकथनेनैवेति ॥ सूर्यकादिदृष्टान्तेऽभेदाभावव्याप्तत्वेन प्रतिबिम्बत्वस्य सुप्रसिद्धत्वादिति भावः ।
ननु जीवब्रह्मणोर्भेदाङ्गीकारवादिनं प्रति भेदसाधने सिद्धसाधनता स्यादित्यतः ‘न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते’ इत्यनुव्याख्यानं मनसि निधाय प्रयोगप्रकारमाह– इदमुक्तं भवतीत्यादिना । अत एवाभेद एवांश एव विवादात्तन्निरास इति वक्ष्यति–
‘यत आभासतामेव श्रुतिरस्य वदत्यलम्’
इत्यनुव्याख्यानं मनसि निधाय रूपं रूपमिति भाष्यमवतार्य व्याचष्टे– जीवस्येति ॥ तथा च प्रतिबिम्बत्वहेतोः श्रौतत्वेन प्राबल्यात्तेनांशत्वचेतनत्वयोर्बाध इति भावः । इत्यादीति कर्तृवाचक-पदस्य कर्मक्रियानुवर्तनेनान्वयमाह– इत्यादीति ॥ यस्मादेवमित्यादिभाष्यस्य भिन्नवाक्यत्वेन पूर्वपक्षानुवादपरत्वे पूर्वपक्ष इत्यध्याहारप्रसङ्गः । प्रतिबिम्बत्वहेतोः कण्ठतोऽनुक्तिः कश्चिदित्यस्य वैयर्थ्यं विपर्ययपर्यवसानायोगेन स्यादित्यापादनानुपपत्तिश्च स्यादिति यस्मादित्यादिदर्शयतीत्यन्तं भाष्यमेकवाक्यतया योजयति– अथवेत्यादिना ॥ अस्मिन्नपि पक्षे जीवस्यापि परमेश्वरस्वरूपांशत्व इत्याद्यापादकाध्याहारस्यावश्यकत्वादाद्यं व्याख्यानमिति ज्ञातव्यम् । स्यादित्यापादनबललभ्यं विपर्ययपर्यवसानं दर्शयति– न चैवमिति ॥ जीवानामल्पगुणत्वेनानुभवादिप्रमाणसिद्धत्वादिति भावः । अनेनाल्पगुणत्वादिविरोध इति न्यायविवरणमुक्ततात्पर्यं भवति । भाष्ये इति शब्दात् प्राक्तनो यस्मादेवमित्यादिको ग्रन्थः सौत्रा‘तः’शब्दपरामृश्यमानार्थप्रतिपादकः । इतिशब्दस्तु सौ‘त्रातः’ शब्दोक्तहेत्वर्थकः । उपमैवेत्येवशब्दसम्बन्धः । उपमाशब्दः प्रतिबिम्बपर इत्यभिप्रेत्येति तस्य प्रतिबिम्बत्वमुक्त्वेति भाष्यं व्याचष्टे– अतो ऽंशत्वेऽपीत्यादिनोक्त्वेत्यन्तेन ॥ प्रतिबिम्ब एवेति ‘इति’शब्दः प्रकारार्थः । चशब्देनेत्यादिभाष्यं सोपस्करं व्याचष्टे– तद्धेतुनेत्यादिना ॥ स चासौ हेतुश्चेति विग्रहः ॥ उपाधिश्चेति ॥ अत एवांशत्वेऽपीत्य‘पि’पदेन हेतोरप्रयोजकत्वमुक्तम् ।
ज्ञानैश्वर्यादीश्वरसाम्ये जीवानां नेश्वराभेदः प्रयोजकः किं तु तद्भेदाभाव इत्याशङ्कते । भेदस्यापीति ॥ ब्रह्मस्वरूपानुगतेरिति ॥ मृदादिना भिन्नाभिन्ने घटादौ मृदादिस्वरूपानुगतिवद् ब्रह्माभिन्नेषु जीवेषु ज्ञानैश्वर्यादिरूपब्रह्मस्वरूपानुगतेरावश्यकत्वादित्यर्थः । किं च परेण भिन्नाभिन्नतयाऽङ्गीकृतेष्वपि मत्स्यादिषु ऐश्वर्यादिब्रह्मस्वरूपानुगतेर्दर्शनात्तद्वज्जीवेष्वपि स्यादि-त्यभिप्रेत्याह– मत्स्यादिवच्चेति ॥ नन्वस्यां योजनायां युक्तित एव प्रतिबिम्बत्वहेतुसिद्धे ‘रूपं रूपम्’ इति श्रुत्युदाहरणं किमर्थमित्यत आह– युक्तिदृष्टार्थ एवेति ॥ ‘अत एवोपमा’ इति सूत्रखण्डस्य व्याख्यानान्तरपरमत एव तदधीनत्वमित्यादिभाष्यं तन्निवर्तनीयाशङ्काप्रदर्शन-पूर्वकमवतारयति– यदुक्तमित्यादिना ॥ ‘अथाभासा’ ‘मुख्यतः प्रतिबिम्बवत्’ ‘यदा तदोपाध्या-यत्तरूपाणां नाशिता भवेत्’ ‘यदाभास उपाध्यायत्त ईयते’ ‘उपाध्यायत्तताभावात्’ इत्यनुव्याख्यानं मनसि निधाय विकल्प्य दूषयति– किमसावित्यादिना ॥ न सूर्यकाद्युपमा सम्भवतीति ॥ प्रतिबिम्बमात्रस्योपाध्यायत्तता नियमात् । उपाध्यायत्तत्वाभावे तस्य दृष्टान्तत्वासम्भवः । यतस्तस्य दृष्टान्तत्वासम्भवः, अत उपाध्यायत्तत्वादिव्यापकाभावेन तत्प्रतिबिम्बत्वाभावात् । बाधाद्यभावेन यदुक्तं चेतनत्वांशत्वाभ्यां जीवानां ब्रह्माभेद इति तत्तदवस्थमेवेत्यर्थः । ‘नातिसाम्यं निदर्शन’ इत्यनुव्याख्यानं मनसि निधायाह– यौ चेति ॥ भाष्ये भिन्नत्वादित्रितयोक्तेः प्रयोजनमाह– अत्र चेति ॥
भावदीपः
जीवाभेदेति ॥ अस्य भेदाभेदशङ्कानिरासपरत्वेऽपि भेदे विवादाभावेन सूत्रे चशब्देनाऽभेद-निरासरूपसाध्यस्यैवोक्तत्वादभेदेत्येवोक्तम् । यद्वा भेदसहिताऽभेदनिरासादित्यर्थः । प्रतिबिम्बत्व-हेतुनेति भावः । तेन न पृथगुपदेशादित्यादिना गतार्थत्वम् । तथा न स्थानत इत्यत्र समग्ररूपेणैव नानास्थानस्थितानामीशांशानामभेदे कथिते अनित्यत्वाद्यापत्त्या रूपमेव तस्य नेति शङ्कायां च निरस्तायाम् अत्र पुनस्तर्ह्यंशत्वाऽविशेषाद्विश्वाद्यंशवज् जीवरूपांशानामपीशेनाऽभेदोऽस्त्विति शङ्कनाद्वा मत्स्यादिरूपेषु प्राकृतादिरूपराहित्येऽपि जीवसमुदायस्यैव ब्रह्मत्वेन जीवरूपस्वरूपांशेषु प्राकृतादिरूपवत्त्वेनाऽरूपवदित्ययुक्तम् । भेदस्यापि सत्त्वेन न स्थानतोऽपि परस्योभयलिङ्ग-मित्यप्ययुक्तमिति शङ्कनाद्वा सङ्गतिश्चेति बोध्यम् । भक्त्यर्थमित्युक्तं व्यनक्ति ॥ जीवेति ॥ स्वस्य परमप्रेमास्पदत्वस्य विश्वजनीनत्वेनात्मनः स्नेहपात्रत्वेऽपि भक्तेर्माहात्म्यज्ञानपूर्वकस्नेहरूपतया तस्य चाऽऽत्मन्यभावात् स्वस्मिन्निवेत्युक्तम् ॥ युक्तायुक्तेति ॥ पूर्ववद्व्याख्या । फलोक्तिपूर्वमभि-प्रेतहेतूक्त्या पूर्वपक्षमाह ॥ न युक्तेतीति ॥ अत एवोपमेति सूत्रांशविवरणपरम् अत इत्यादिभाष्यम् । तत्तु न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यत इत्यनुभाष्यदिशा व्याचष्टे ॥ न चेत्यादिना ॥ सादृश्यशब्दार्थश्चेतनत्वात्तदंशत्वादिति । चित्त्वादित्युपलक्षणमिति भावः । एतेन न च परमात्मनो चेतनत्वन्यायसाम्येन जीवस्याप्यभेद इति न्यायविवरणेऽप्युपलक्षणं व्याख्येयमिति सूचितम् । यस्मादित्यादेरत इत्यन्तस्यार्थमाह ॥ मत्स्यादीनामिति ॥ प्रागेव न स्थानत इत्यत्र । चेतनत्वेन चांशत्वात्समुदायैक्यमापतेत् । अतः पृथक्त्वमुदितं समुदायांशयोर्भवेदित्यनुव्याख्यानोक्तमत्र शङ्कापूर्वकं संयोजयति ॥ न च वाच्यमिति ॥ पृथगुपदेशादित्यादौ समर्थितत्वात्’ इत्यर्थः ॥ भेदाविरोधादिति ॥ अभेदस्य स्वाभाविकत्वाद्भेदस्य चौपाधिकत्वादिति भावः । एतेन प्रकाशादि-वन्नैवं परः स्मरन्ति चेत्यादिभिः सूत्रैर् अंशो नानाव्यपदेशादित्यधिकरणे जीवानां भिन्नांशत्वस्य मत्स्यादेः स्वरूपांशत्वस्य च सिद्धत्वात्कथमंशत्वेन मत्स्यादिवदभेदानुमानमिति निरस्तम् । भेदमुपेत्याभेदस्यापि मत्स्यादिरूपेष्विवाऽऽशङ्कनेन भेदाविरोधादिति । फलोक्त्या भाष्यार्थमुपसंहरति ॥ अत इति ॥ जीवस्य परमात्माभिन्नत्वादित्यर्थः ॥
पूर्वपक्षमिति ॥ अत एवोपमेत्यंशेनोक्तमित्यर्थः । आत्मनोक्तत्वादनुवदतीत्युक्तम् । यस्मा-दित्यादिभाष्यं पूर्वपक्षोपन्यासदशायां विवृतमपि वक्ष्यमाणार्थान्तराऽसङ्कीर्णत्वायाऽक्षरशो व्याचष्टे ॥ यस्मादेवमिति ॥ एवमित्यस्यार्थो नेत्यादि ॥ अत इति ॥ अभेदस्य सिद्धत्वादित्यर्थः ॥ पूर्वः पक्ष इतीति ॥ सूत्रे न भेदादिति चेदित्यत इति चेदित्यनुवर्त्यमिति भावः । सौत्रचशब्दस्याऽन्वय-पूर्वमनुवादः सूर्यकादिवच्चेति । पदमिति समुदायाशयम् । पदद्वयमित्यर्थः ॥ एवं प्राप्त इति ॥ भाष्ये स्यादितीतिशब्दानन्तरं प्राप्त इति शेष इति सूचितम् ॥ दृष्टान्तेति ॥ सूर्यप्रतिबिम्बसूर्यक-दृष्टान्तकथनेनेत्यर्थः । अन्तरङ्गत्वाद् व्याप्त्यादिभावाच्च तस्यैव हेतोर्लाभ इति भावः । ननु कथमत्र प्रयोगप्रकारः । जीवः परमात्मनो भिन्नः प्रतिबिम्बत्वात्सूर्यकादिवदित्युक्तौ सिद्धसाधनतापत्तेरभेद एव विप्रतिपत्तेर्भेदसाधने अर्थान्तराच्चेत्यत आह ॥ इदमिति ॥ प्रतिबिम्बत्वमेव कुत इति ॥ यद्यप्यंशाधिकरणे आभास एव चेति गुणसूत्र एव सिद्धम् । तथापि तदेवाऽत्र भाष्ये श्रुत्युक्त्या दर्शयतीत्यर्थः ॥ इत्यनुषज्यत इति ॥ पदद्वयमनुवर्तत इत्यर्थः । यत आभासतामेव श्रुतिरस्य वदत्यलमित्यनुभाष्योक्तेरिति भावः । रूपमिति श्रुत्यर्थस्तु आभास एव चेत्यत्र टीकायां व्यक्तः । एतेन प्रतिबिम्बत्वहेतोरसिद्धिरपास्ता ।
यत्तु दर्पणादिसन्निकृष्टाः प्रतिहताः परावृत्ता नयनरश्मयो मुखेन सन्निकृष्टास्तदेव विषयी-कुर्वन्ति न ततोऽन्यः प्रतिबिम्बोऽस्तीति प्रतिबिम्बत्वमभेदेनैव व्याप्तमिति विरुद्धो हेतुरिति चोद्यं तत्तु आभासत्वविरोधत इत्यनुभाष्य एवाशंक्य निरासाद्वा अत्रैव वक्ष्यमाणवर्णकान्तरेण वा निरस्तप्रायमिति भावः । सूत्राक्षरैरेव प्रतिबिम्बत्वहेतूक्तितत्समर्थनयोर्लाभप्रकारमाह ॥ अथवेति ॥ यद्वा श्रुत्या प्रतिबिम्बत्वं जीवस्य समर्थ्य युक्त्याऽपि साधयितुमाह ॥ अथवेति ॥ सिद्धान्त एवेति ॥ अत एवोपमेत्यंशस्य सिद्धान्तपरत्वेनैवानुभाष्ये व्याख्यानादिति भावः ॥ न चैवमिति ॥ एतच्च अशेषशक्तियुक्तश्चेत्स्वातन्त्र्याद्दोषवान्कथमित्यादिनाऽन्यत्र विस्तृतमिति भावः । भाष्यस्थेति- शब्दं हेत्वर्थं मत्वाह ॥ अत इति ॥ भाष्ये तस्य प्रतिबिम्बत्वमित्यनन्तरमध्याहार्यमाह ॥ अत एवोपमेति पदैरिति ॥ उक्त्वेत्यतः पश्चादपि शेषमाह ॥ तद्धेतुनेति ॥ तेन हेतुनेत्यर्थः ॥ अनेनेति ॥ सूत्रादौ जीवस्य सयुक्तिकं प्रतिबिम्बत्वसमर्थनेनेश्वररूपाणां सर्वसाम्योक्तेर्हेतूकरणेन चेत्यर्थः । यद्वा श्रुत्या युक्त्या च जीवानां प्रतिबिम्बत्वमीश्वररूपाणां तद्राहित्यमिति कथनेनेत्यर्थः । साधनाऽव्यापकत्वसाध्यव्यापकत्वयोः सम्भवादिति भावः ॥ उपाधिश्चेति ॥ न केवलं प्रतिबिम्ब-त्वानुमानविरोधश्चेतनत्वाद्यनुमानस्येति चार्थः । अभेदनिरासमात्रेण कथं भेदाभेदवादिभङ्ग इत्यत आह ॥ अभेदेति ॥ तर्कस्याप्रयोजकत्वमाशङ्क्य निराह ॥ भेदस्यापीति ॥ औपाधिकभेदस्या-पीत्यर्थः ॥ मत्स्यादिवच्चेति ॥ परमते मत्स्यादिरूपेषु जगदनुग्रहार्थं लीलया विग्रहोपादानेन तदुपाधिकृतभेदे सत्यपि स्वरूपांशत्वेनैश्वर्याद्यविशेषस्तथाऽत्राऽपि स्यादित्यर्थः । दृष्टान्त-बलाच्चेति चार्थः ।
यत्त्वस्त्येव जीवेष्वप्यैश्वर्यादि किं तु तिरोहितमस्तीति तदपि मत्स्यादिवच्चेत्युक्त्यैव निरस्तम् । तत्र तत्तिरोधानाभाववदत्राऽप्याऽऽपत्तेरिति । यदपि मत्स्याद्या लीलाविग्रहोपाधिभिन्ना इत्य-तिरस्कृतैश्वर्यादिमत्त्वात्तदनुसन्धानवन्तः । जीवास्त्वनाद्यविद्याकामकर्मादिनिबन्धनदेहेन्द्रिया-द्युपाधिभिन्ना इति तिरोहितब्रह्मस्वभावत्वान्नानुसन्धानवन्त इति ॥ तदप्ययुक्तम् ॥ हस्तपादा-द्युपाधिभेदेऽपि भोक्तुरेकत्वानुसन्धानादित्यादिना तत्वोद्योतोपाधिखण्डनादौ निरासादिति भावः । विस्तृतश्चाऽयमर्थो न्यायामृते द्वितीयपरिच्छेदे । स्वरूपांशत्वे ज्ञानाद्य वैशेष्याद्यापत्तिरित्या-द्युक्तयुक्त्यैव प्रतिबिम्बत्वसिद्धेः । अस्मिन्पक्षे भाष्ये रूपमित्याद्युक्तिर्व्यर्थेत्यत आह ॥ युक्तीति ॥ उक्तार्थद्वये वक्ष्यमाणार्थे च सूत्राक्षरयोजना तन्त्रदीपिकायां व्यक्ता । अथाभासा मुख्यतः सूर्यकादिवत् । यदा तदोपाध्यायत्तरूपाणां नाशिता भवेत् । इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः । अत एवोपमेत्येव चान्याभासविशेषिताम् । यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः । जीवस्येत्याद्यनुभाष्यदिशा अत एवोपमेत्यंशस्य वर्णकान्तरपरभाष्यशेषमवतार्य व्याचष्टे ॥ यदुक्तमिति ॥ सूर्यकादिवदिति ॥ एतेन अथाऽऽभासा मुख्यतः सूर्यकादिवदित्युक्तदिशा । पूर्वत्र भाष्येऽपि तस्य सूर्यकादिवत्प्रतिबिम्बत्वमुक्त्वा इत्यपि योजना सूचिता । अन्यथा तस्य चशब्दसूचिताऽभेदनिरासरूपसाध्य एव दृष्टान्तोक्त्याऽसदनुवादः स्यात् ॥ उपाध्यायत्तत्वादि-धर्मेति ॥ तन्नाशनाश्यत्वजडत्वतत्कृतविकारादिरादिपदार्थः । धर्मादनिच्केवलादित्यनिच् प्रत्ययः ॥ अनित्यत्वादीति ॥ कृतहानाकृताभ्यागमादिरादिपदार्थः ॥ अत इति ॥ यदाभास उपाध्यायत्त ईयते । उपाध्यायत्तताभावादित्यनुभाष्योक्तदिशा प्रतिबिम्बत्वव्याप्तोपाध्यधीनत्वाभावादित्यर्थः ।
ननु यावदात्मभावित्वाच्च न दोषस्तद्दर्शनादित्यत्र जीवचिन्तापेटिकायां बिम्बोपाधितत्सन्निधीनां नित्यत्वेन जीवस्य नित्यत्वोपपादनात्कथमेषा शङ्का । मैवम् । तत्र ज्ञोऽत एवेत्यत्र देहयोगेन जीवोपाध्युत्पत्तावुक्तायां तर्हि देहरूपोपाध्युत्पत्तौ तद्विनाशे च तदुपाधिकस्य प्रतिबिम्बरूप-जीवस्याऽप्यनित्यत्वमिति शङ्कायां देहस्य न जीवोपाधित्वं येनानित्यत्वमित्येवोक्तम् । न तु नित्योपाध्यधीनत्वम् । तथैव भाष्यन्यायविवरणयोः प्रतीतेः । तत्वप्रदीपे तथैव व्याख्यानाच्च । टीकायां जीवोपाधिर्द्विधा प्रोक्त इत्यादिवचनोक्तिपूर्वकं तदुक्तिस्तु देहस्य जीवोपाधित्वं नेत्येतत्स्पष्ट-मुपपादयितुम् । यद्वा अथोपाधयोऽविनाशिनस्तदा प्रत्यक्षादिविरोधः सर्वदा संसारित्वं च स्यादिति सुधोक्तदिशा स्वरूपोपाधौ विप्रतिपत्त्या विशेषशङ्काऽत्रेति भावः । फलोक्तिपूर्वं तत्र हेतुत्वेन सूत्रभाष्ये व्याचष्टे ॥ न सूर्यकादीति ॥ अत एवेत्यस्याऽप्रकृतपरामर्शित्वभ्रान्तिं निराह ॥ पृथगिति ॥ उपाध्यायत्तत्वादीति ॥ उपपादितमेतदाभास एव चेत्यत्र ‘सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते । जीव ईशस्याऽनुपाधिरिन्द्रचापो यथा रवेः’ इति । नन्वेवमतिसाम्याभावा-द्दृष्टान्तदार्ष्टान्तिकभावो न स्यादित्यतो नातिसाम्यं निदर्शन इत्यनुभाष्योक्तं तात्पर्योक्त्या व्यनक्ति ॥ यौ हीति ॥ अन्यथा सर्वसाम्ये । सादृश्यं चेत्युक्त्या प्रत्येकं साधनमिति दर्शितम् ॥ प्रतिबिम्बपदोक्तमिति ॥ तथा च प्रतिबिम्बत्वादित्यस्य तदधीनत्वात्तत्सदृशत्वाच्चेत्यर्थ इति भावः । इमौ च हेतू प्रागुपपादितावेव सन्ध्ये सृष्टिरित्यादिभिरनेकैः सूत्रैः सप्रमाणं सूत्रकृतेति नासिद्धौ भेदेन व्याप्तावेवेति कृत्वा च न विरुद्धानैकान्तिकत्वादीति भावेनोक्तं न कश्चिद्दोष इति । नन्वथाऽपि बिम्बप्रतिबिम्बयोरैक्यात्सूर्यकादिदृष्टान्तः साध्यसाधनहीन इत्यतो न कश्चिद्दोष इत्ये-तदुपपादनायोक्तं दृष्टान्तदार्ष्टान्तिकयोरस्तीति । बिम्बप्रतिबिम्बयोर्भेदस्तु सुधायामुपपादित इति भावः । विस्तरस्तु न्यायामृते बिम्बप्रतिबिम्बवादे चन्द्रिकायां चाऽदृष्टानियमादित्यधिकरणे द्रष्टव्यः । सूत्रोक्तं हेतूकृत्य फलोक्त्योपसंहरति ॥ अत इति ॥ अभेदस्य प्रबलनिर्दोषयुक्ति-बाधादित्यर्थः ।
अभिनवचन्द्रिका
भेदाऽभेदमतमत्र निराक्रियते । तथा हि जीवब्रह्मणोर्भेदस्तावत्सिद्धान्तिनाऽङ्गीक्रियते श्रुत्यादिसिद्धश्च । अभेदस्तु ‘जीवो ब्रह्माऽभिन्नश् चेतनत्वात्, तदंशत्वाच्च, मत्स्यादिव’द् इत्यनुमानसिद्धः । अत उत्तरं पठति ‘सूर्यकादिवच्च’ इति सूत्रखण्डेन । अनेन जीवो न परमात्माऽभिन्नस् तदाभासत्वात् सूर्यकादिवत्’ इति प्रयोगः सूचितः । तत्रेयमाशङ्का उपाध्यायत्तो ह्याभास उच्यते । यथा सूर्यकादिः । न चाऽसावुपाध्यायत्तः । अनित्यत्वप्रसङ्गात् । ततश्चाऽसिद्धमाभासत्वम् । सूर्यकाद्युपमा चाऽनुपपन्नेति । तां परिहर्तुं स्वाभिप्रायं व्यनक्ति ‘अत एव चोपमा’ इति सूत्रखण्डेन । अत एव ‘संध्येसृष्टिराह ही’ इत्यादौ प्रकृताभ्यां तदधीनत्वतत्स-दृशत्वाभ्यामेवाऽभेदो निराक्रियते । सूर्यकादिदृष्टान्तेन तादृशाऽऽभासत्वस्यैव हेतुत्वेन सूचितत्वात् तदधीनत्वतत्सादृश्ययोरेव विवक्षितत्वेनोपमा चोपपन्ना भवति । उक्तं च सुधायाम्, ‘अनेन अत एव प्रकृताभ्यां तदधीनत्वतत्सदृशत्वाभ्यामेव आभासत्वं सूर्यकाद्युपमा चोक्तेति स्वाभिप्रायप्रकटनं सूत्रार्थ इत्युक्तं भवति’ इति ॥ भक्त्ययोगादिति ॥ दोषिणा ऐक्ये दोषाणामवर्जनीयत्वादिति भावः ॥ भक्तिरेव विषय इति ॥ यद्यपि अत्र परमात्मा विषयः । जीवाऽभिन्नो न वेति सन्देहः । अभिन्न इति पूर्वपक्ष इत्येव वक्तव्यम् । तथापि जन्माधिकरणोक्तगुणपूर्णत्वे जीवाभिन्नत्वयुक्ति-विरोधपरिहारात्मकत्वादस्याधिकरणस्य युक्तिपादे निवेशो युक्त इति शङ्कानिरासायास्याधिकरणस्य युक्तिविरोधनिरासफलकत्वमिव भक्तिसिद्धिफलकत्वमप्यस्तीति विवक्षावशादत्राऽन्तर्भावो युक्त इति ज्ञापनाय तथोक्तम् । एवमुत्तरत्रापि द्रष्टव्यम् ॥ न हीति ॥ न हि स्वाधिकत्वेन स्वात्मनि भक्तिरुपपद्यत इत्यर्थः । परमात्मनो नभिद्यते इति ॥ अत्यन्तभेदशून्यो ऽभिन्न इति यावत् । एतेन पूर्वपक्षिणो भेदाऽभेदवादित्वाद्भेदनिराकरणमयुक्तमिति परास्तम् ॥ न भेद इतीति ॥ अभेद इति प्रागेव सिद्धमित्यर्थः । दृष्टान्तकथनेनोक्त्वेति ॥
ननु दृष्टान्तकथनस्य परकालत्वेन चशब्दात्पूर्वकालत्वाभावात् क्त्वाप्रत्ययोऽनुपपन्न इति चेन् न ब्रूमो वयम् ‘अत एव च’ इति श्रुतचशब्देन साध्यभेदं समुच्चिनोतीति येनोक्तदोषः स्यात् किंनाम सूर्यकादिवदित्यतःपरमनुवृत्तेन चशब्देनेति । एवं च कृत्वा स दोषः परिहृतो भवति । अनुवृत्त च शब्दाद् दृष्टान्तवचनस्य पूर्वकालत्वात् । तदिदमुक्तं सूर्यकादिवच्चेति पदे व्याचष्ट इति ॥ अन्यथाचसूर्यकादिवदिति पदे व्याचष्ट इत्यवक्ष्यत् । श्रूयमाणश्चशब्दो न केवलं तदधीनत्व-तत्सदृशत्वयोर्हेतुतया विवक्षितत्वात् हेतुर्नासिद्धः । अपि तु अत एवोपमा चोपपन्नेति समुच्चयार्थः । अनुवृत्तस्तु साध्यसमुच्चयार्थ इति विवेकः ॥ अत एवोपमेति पदैरुक्त्वेति ॥ मत्स्यादिवज् ज्ञानैश्वर्याद्यविशेषप्रसङ्गाद् उपमैव भगवत्प्रतिबिम्बत्वमेव न मत्स्यादिवदंशत्वमिति अत एवोपमेति-पदैरुक्त्वा तद्धेतुना अत एवोपमेति पदलब्धहेतुना सह सूर्यकादिदृष्टान्तेन लब्धं भेदं चशब्देन समुच्चिनोतीत्यर्थः । साधनस्य साध्येन समुच्चयार्थ एव चशब्दः । न तु हेतुसमुच्चयार्थ इति भावः । ननु पूर्वपक्षिणा भेदस्याङ्गीकृतत्वाद्भेदसाधनं व्यर्थमित्यत आह– अभेदांश एवेति ॥ अभेद एव विवादात्तन्निराकरणमेव सूत्रार्थः न तु भेदसाधनमिति भावः । ब्रह्मस्वरूपानुगतेरावश्यकत्त्वा-दिति ॥ स्वरूपानुगतेरैक््यव्यापकत्वेन ऐक््यं प्रतिजानतस्तत्स्वरूपाऽनुगतेरावश्यकत्वाद् भेदबलेन ऐश्वर्यादिनिषेधो न कार्य इति भावः । ननु अस्तु तर्हि ब्रह्मस्वरूपानुगतिर्जीवेषु, तथापि ऐश्वर्यनिषेधः कुतो न युक्त इत्यत आह– ऐश्वर्यादेश्चेति ॥ चोऽवधारणार्थः । अनेन जीवो यदि ब्रह्माऽभिन्नः स्यात् तर्हि ऐश्वर्याद्यनुगतिमान् स्यान् मत्स्यादिवद् घटवच्चेति तर्कः सूचितो भवति । विशेषव्याप्तौ मत्स्यादिदृष्टान्तः । सामान्यव्याप्तौ तु अनुक्तसमुच्चयार्थेन चकारेण सूचितो घटादिदृष्टान्त इति विवेकः । एतेन मत्स्यदिवदित्येतावतैव पूर्णत्वाच्चकारो व्यर्थ इति परास्तम् । ननु अस्यां योजनायां युक्तित एव प्रतिबिंबत्वहेतुसिद्धेः ‘रूपं रूपम्’ इत्यादिश्रुत्युदाहरणं किमर्थमित्यत आह– युक्तिदृष्टार्थ एवेति ॥ दृष्टान्तदार्ष्टान्तिकयोरस्तीति ॥ दृष्टान्तस्य साध्य-साधनवत्त्वं निश्चितमेव विवक्षितम् । दार्ष्टान्तिकस्य तु साधनवत्त्वं नाम तत्त्वेन निश्चितत्वं साध्यवत्त्वं तु तत्त्वेन विवक्षितत्वमात्रं न तु तत्त्वेन निश्चितत्वमिति बोध्यम् । एतेन दार्ष्टान्तिकस्य साध्यवत्तया निश्चितत्वेऽनुमानवैयर्थ्यमिति निरस्तम् । अत एव साध्यं साधनं चाऽस्तीत्युक्तम् । अन्यथा व्याप्यं व्यापकं चाऽस्तीत्यवक्ष्यत् ।
पूर्वपक्षस्तु जीवस्तावत्परमात्मनो भिद्यते इति श्रुत्यादिसिद्धम् अनुमतं च भवताम् । एवं सति प्रयुज्यते ‘जीवः परमात्माऽभिन्नश् चेतनत्वात् तदंशत्वान् मत्स्यादिवत्’ एवं च ईश्वरस्य जीवे भिन्नत्वेऽपि अभेदस्याऽपि भावाद् दोषिणा ऐक््ये च दुष्टत्वावश्यंभावान् न परमात्मनि भक्तिर्युक्तेति ।
सिद्धान्तस्तु जीवो न परमात्माऽभिन्नस् तत्प्रतिबिम्बत्वाद् यो यत्प्रतिबिम्बः नाऽसौ तदभिन्नः यथा सूर्यकादिः । ननु उपाध्यायत्तः प्रतिबिम्ब उच्यते न चाऽसावुपाध्यायत्तस् तथात्वेऽ-नित्यत्वप्रसङ्गात् । ततश्च असिद्धं प्रतिबिम्बत्वम् । अथ परमात्माधीनत्वे सति चेतनत्वेन तत्सादृश्यं हेतुतया विवक्षितम्, तर्हि अनुपपन्नो दृष्टान्तः प्राप्नोतीति चेत्, न । चेतनत्वादिविशेषरूपस्याऽ-विवक्षितत्वात् । तदधीनत्वतत्सदृशत्वयोरेव हेतुतया विवक्षितत्वात् । अत एवोपमाप्युपपन्ना । बिम्बाधीनत्वमिव बिम्वसादृश्यस्याऽपि तत्र सत्त्वात् । नन्वेवमपि पक्षे सर्वदृष्टान्तधर्माभावात् ‘तथा चाऽयम्’ इत्युपनयो न सम्भवतीति चेत्, न यथा दृष्टन्तः साध्यव्याप्यसाधनवान् तथा पक्षोऽपीत्येतावन्मात्रस्य उपनये विवक्षितत्वेन यावत्साधर्म्यस्याविवक्षितत्वात् । अन्यथा अनुमानमात्रोच्छेदप्रसङ्ग इति । अतो जीवपरमात्मनोरभेदाभावाद् युक्ता भगवति भक्तिरिति तन्महिमवर्णनमुपपन्नमिति सिद्धम् ।
वाक्यार्थमुक्तावली
अत्रानन्तरसङ्गतिः प्रागेवोक्ता ॥ भक्त्ययोगादिति ॥ स्वात्मात्मीयसमस्तवस्तुभ्योऽधिको माहात्म्यज्ञानपूर्वः स्नेहो हि भक्तिः । सा च जीवाभेदे स्वस्मिन्निव परमात्मन्ययुक्तेति भावः । एतेन माहात्म्यपूर्वकस्नेहस्य स्वस्मिन्विद्यमानत्वात्स्वस्मिन्निवेत्युक्तमयुक्तमिति निरस्तम् ॥ युक्तीति ॥ भक्तिः परमात्मन्ययुक्तोत युक्तेति चिन्ता । तदर्थं जीवस्य परमात्मनाभेदोऽस्ति न वेति । तदर्थ-मभेदसाधकं चेतनत्वाद्यनुमानमनाभासमुताभासमिति । तदर्थमभेदाभावसाधकं प्रतिबिम्बत्वं नोपपद्यत उतोपपद्यत इति । न्यायसाम्यमिति न्यायप्रदर्शकयस्मादेवमित्युत्तरभाष्यानुसारेण पूर्वपक्षयति ॥ न युक्तेति ॥ ननु पृथगुपदेशादित्यन्तसूत्रैर् भेदस्य श्रुत्यादिभिः समर्थितत्वादनुमानं बाधितम् । गतार्थं चेदमधिकरणमित्याशङ्क्य ‘समुदायैक्यमापतेत् । ईशाख्या समुदाये स्यात्’ इत्यनुव्याख्यानं मनसि निधाय निषेधति ॥ न चेति ॥ अनुवदतीति ॥ बहिरेव पूर्वपक्षमाह । न तु यस्मादेवमित्यत-श्शब्दार्थतयोच्यत इति । केचित्तु उपमेत्यनन्तरं न भेदादिति सूत्रादिति चानुवर्तते । ततो हि अस्य इत्यतो अस्येत्यस्ति । अत एवेत्यावर्तते । तथा च अत एव ईशरूपाणामभेदस्य साधितत्वादेव अत एव चेतनत्वादिहेतोरेव अस्य जीवस्योपमा मत्स्यादिसाम्यं मत्स्यादिवदभेद इति यावदिति चेन्नेति सूत्रार्थकथनपरं भाष्यमित्याहुः ॥ अतस्तत्सादृश्याच्चेतनत्वादेरिति ॥ ईश्वररूपाणाम-भेदात्तद्दृष्टान्ताच्चेतनत्वादेर्हेतोरित्यर्थः । यद्वा चेतनत्वादिरूपतत्सादृश्यादित्यर्थः । प्रतिबिम्बहेतुः केनोक्त इत्यत आह । सूर्यकादिवदिति दृष्टान्तकथनेनोक्त्वा सूचयित्वेति भेदं दर्शयतीति भाष्यस्या-भेदं निरस्य शुद्धभेदं दर्शयतीत्यर्थः । भेदाभेदवादिनो भेदस्य सिद्धत्वात् । अत एवानुव्याख्याने चर्चितत्वाद् अभिन्नमित्यभेदो निरस्त इति भावेन प्रयोगप्रकारमाह ॥ इदमुक्तं भवतीति ॥ अत एव वक्ष्यति अभेदांश एव विवादात्तन्निरास इति ।
एवं यस्मादेवमित्यादिभाष्यं पूर्वपक्षानुवादपरमिति व्याख्याय तस्य प्रतिबिम्बत्वमित्यादिकं सूर्यकादिवच्चेति सूत्रखण्डविवरणपरमिति व्याख्यातम् । तर्हि पूर्वपक्ष इत्यध्याहारः प्रतिबिम्बत्वहेतोः कण्ठतोऽनुक्तिः कश्चिदित्युक्तस्य वैय्यर्थ्यमित्युक्त्यरुच्या यस्मादेवमित्यादिसमग्रभाष्यम् अत एवेत्यादिसमग्रसूत्रविवरणपरतया सिद्धान्तपर एवेति पक्षान्तरमाह ॥ अथवेति ॥ अत इत्यस्य प्रदर्शनपरं यस्मादेवमित्यादिभाष्यं व्याचष्टे ॥ यस्मादित्यादिना ॥ अत इत्यस्य तर्हीत्यर्थं मनसि निधायापादकमाह ॥ जीवस्यापि परमेश्वरस्वरूपत्व इति ॥ यत उपमा अत इत्यपि सम्बन्धं मत्वा प्रवृत्तस्य जीवस्यापि तथा स्यादित्यस्यार्थमाह ॥ तद्वज्ज्ञानैश्वर्याद्यविशेषः स्यादिति ॥ आपादन-लब्धं विपर्यये पर्यवसानमत्यल्पतेत्युक्तन्यायमनुसृत्याह ॥ न चैवमिति ॥ न च जीवस्येश्वरेण ज्ञानैश्वर्याद्यविशेषोऽयुक्तः । अल्पगुणत्वेनानुभवात् । अतो न परमेश्वरांशत्वं युक्तमिति विपर्यय-पर्यवसानं द्रष्टव्यमिति भावः । अस्त्वेवं ततः किमित्यतः प्रवृत्तस्यात उपमैवेति सूत्रखण्ड-स्योपयोगकथनपरमिति तस्य प्रतिबिम्बत्वमिति भाष्यं व्याचष्टे । अतोंऽशत्वेऽपि जीवो ब्रह्म-प्रतिबिम्ब एव । भाष्ये इतिशब्दः सौत्रातःशब्दोक्तहेत्वर्थकः । सूत्रे उपमाशब्द उपमाव-त्प्रतिबिम्बपरः । तथा च यत एवं जीवस्य ब्रह्मस्वरूपांशत्वं नास्ति, अतोंऽशत्वेऽपि जीवो ब्रह्मण उपमा प्रतिबिम्ब एवेति तस्य प्रतिबिम्बत्वम् अत एवोपमेति पदैः साधयित्वेत्यर्थ इति भावः । यत उपमा प्रतिबिम्बो ऽतः सूर्यकादिवच्च नाभिन्न इति सूत्रार्थमभिप्रेत्य प्रवृत्तस्य प्रतिबिम्बत्वमुक्त्वा चशब्देन भेदं समुच्चिनोतीति भाष्यस्यार्थमाह ॥ तद्धेतुत्वेनेति ॥ स चासौ हेतुश्चेति विग्रहः । ततश्चायं सूत्रार्थः । अतो मत्स्यादीनां परमेश्वरेण ज्ञानानन्दाद्यविशेषस्योक्तत्वाद् अतस्तर्हि जीवस्यापि परमेश्वरस्वरूपांशत्वे यत उपमा अतस्तत्सादृश्याद् उपमा स्याज् ज्ञानाद्यविशेषप्रसङ्गो न चैवमतो जीवांशोऽपि उपमैव प्रतिबिम्ब एव यतोऽतस्सूर्यकादिवच्च भिन्न एवेति ॥ अनेनेति ॥ प्रतिपक्षवचनेनेत्यर्थः ॥ उपाधिश्चेति ॥ अंशत्वस्य प्रयोजकत्वं चेत्यर्थः । अत एवांशत्वेऽ-पीत्युक्तम् ।
न चाभेदः प्रागेव निरस्त इति भेदाभेदोऽत्र निरसनीयः, कथमभेदनिरासेन चारितार्थ्यमित्यत आह ॥ अभेदांश एवेति ॥ ननु ज्ञानैश्वर्यादीश्वरसाम्ये जीवानां नेश्वराभेदः प्रयोजकः, किन्तु तद्भेदाभावः । प्रकृते भेदस्य सत्त्वान्नैश्वर्यादिसाम्यमित्याशङ्कते ॥ भेदस्यापीति ॥ ब्रह्मस्वरूपानु-गतेरिति । मृदादिना भिन्नाभिन्ने घटादौ मृदादिस्वरूपानुगतिवद् ब्रह्माभिन्नेषु जीवेषु ज्ञानैश्वर्याद्यनुगतेरावश्यकत्वादित्यर्थः । किञ्च परेण भिन्नाभिन्नतयाङ्गीकृतेष्वपि मत्स्यादिष्वैश्वर्यादि-ब्रह्मस्वरूपावगतेर्दर्शनात्तद्वज्जीवेष्वपि स्यादित्यभिप्रेत्याह ॥ मत्स्यादिवच्चेति ॥ नन्वस्यां योजनायां युक्तित एव प्रतिबिम्बत्वहेतुसिद्धेः रूपं रूपमिति श्रुत्युदाहरणं किमर्थमित्यत आह ॥ युक्तीति ॥ अत एवोपमेति सूत्रखण्डस्य व्याख्यानान्तरपरतयैव तदधीनत्वमित्यादिभाष्यं तन्निवर्तनीयाशङ्का-पूर्वमवतारयति ॥ यदुक्तमित्यादिना ॥ उपाध्यायत्तत्वादीत्यादिपदेन जडत्वं गृह्यते । अनित्यत्वा-दीत्यादिपदेन जन्ममोहाभावादि गृह्यते ॥ अत इति ॥ व्यापकस्योपाध्यायत्तत्वादेर् नित्येषु चेतनेषु जीवेष्वभावात्तद्व्याप्यप्रतिबिम्बत्वाभावात् हेतोरसिद्धेरुपाध्यभावाच्च यदुक्तं चेतनत्वाशंत्वाभ्यां जीवानां ब्रह्माभेद इति तत्तदवस्थमेवेत्यर्थः ॥ पृथगुपदेशादिति ॥ पृथगित्यत्र भिन्नत्वं सन्ध्य इत्यत्र तदधीनत्वं तद्गुणेत्यत्र तत्सादृश्यमिति विवेकः ॥ उपाध्यायत्तत्वादिसर्वप्रतिबिम्बधर्मेति ॥ उपाध्यधीनत्वतन्नाशनाश्यत्वजडत्वाद्यैरपि नेत्यर्थ इति सुधानुसारेण सर्वशब्दार्थो ज्ञेयः । क्वातिसाम्यं निदर्शने इत्यनुव्याख्यानं मनसि निधायाह ॥ यौ चेति ॥ भाष्ये भिन्नत्वादित्रितयोक्तेः प्रयोजनमाह ॥ अत्र चेति ॥
तत्त्वसुबोधिनी
जीवस्येति ॥ ननु जीवपरमात्मनोरभेदेऽपि कुतः परमात्मनि भक्त्ययोग इत्यत आह ॥ न हीति ॥ तथा लोकेऽदृष्टत्वादिति भावः । ननु द्वा सुपर्णा’ इत्यादिना जीवपरमात्मनोर्भेद-स्योक्तत्वादभेदे विमतिरित्यत आह ॥ न चेति ॥ ननु मत्स्यादेः परमात्मभिन्नत्वात् तत्र साध्यवैकल्यमित्यत आह ॥ मत्स्यादीनामिति ॥ प्रागेव न स्थानतोऽपीत्यत्रोक्तमित्यर्थः । ननु पृथगुपदेशादित्यत्र भेदस्य निपुणतरं समर्थितत्वात् कथमभेदेन पूर्वपक्षोत्थानमित्याशङ्क्य निषेधति ॥ न चेति ॥ नात्र केवलभेदोऽभिप्रेतः । किन्तु जीवसमुदायस्य परमात्मनाऽभेदो एकैकजीवेन भेद इति भेदाभेदावभिमतावित्याह ॥ सर्वेति ॥ ईशत्वेनेति ॥ ईशाख्यवत्वेनेत्यर्थः । अभेदे सति कथं भेदस्तयोर्विरोधादित्यत आह ॥ अभेदेऽपीति ॥ एवं च समुदायत्वावच्छेदेनाभेद एकैकजीवत्वा-वच्छेदेन भेद इति व्यवच्छेदकभेदादविरोध इति भावः । तस्य प्रतिबिम्बत्वमुक्त्वेत्यनेन सूर्यकादिवदिति पदं कथं व्याख्यातमित्यत आह ॥ दृष्टान्तकथनेनैवेति ॥ सूर्यकादिदृष्टान्ते अभेदाभावव्याप्तत्वेन प्रतिबिम्बत्वस्य सुप्रसिद्धत्वादिति भावः । ननु जीवब्रह्मणोर्भेदाभेदाङ्गीकार-वादिनं प्रति भेदसाधने सिद्धसाधनता स्यादित्यत आह ॥ इदमुक्तं भवतीति ॥ रूपं रूपमिति भाष्यमवतार्य व्याचष्टे ॥ जीवस्येति ॥ तथा च प्रतिबिम्बत्वहेतोः श्रौतत्वेन प्राबल्यात् तेनांशत्वचेतनत्वयोर्बाध इति भावः । इत्यादीति कर्तृवाचकपदस्य कर्मक्रियावर्तनेनान्वयमाह ॥ इत्यादीति ॥ आत्मका आत्मन इमे आत्मका जीवाः । यस्मादेवमिति भाष्यस्य भिन्नवाक्यत्वेन पूर्वपक्षानुवादपरत्वे पूर्वपक्ष इत्यस्याध्याहारप्रसङ्गात् प्रतिबिम्बत्वहेतोः कण्ठतोऽनुक्तेः कश्चिदित्यस्य वैय्यर्थ्यम् । विपर्ययपर्यवसानायोगेन स्यादित्यापादनानुपपत्तिश्च स्यादित्यतो यस्मादित्यादि दर्शयतीत्यन्तं भाष्यमेकवाक्यतया योजयति ॥ अथ वेत्यादिना ॥ अत्रापि जीवस्यापि परमेश्वरस्वरूपांशत्वे इत्यापादकाध्याहारस्यावश्यकत्वाद् आद्यव्याख्यानमिति ज्ञातव्यम् । स्यादित्यापादनलभ्यं विपर्ययपर्यवसानमाह ॥ न चैवमिति ॥ ज्ञानैश्वर्याद्यविशेषस्तु नेत्यर्थः । जीवानामल्पगुणत्वेनानुभवादिप्रमाणसिद्धत्वादिति भावः ।
भाष्ये इतिशब्दात्प्राक्तनः यस्मादेवमित्यादिको ग्रन्थः सौत्रतच्छब्देन परामृश्यमाणार्थप्रतिपादक इति सौत्रातःशब्दोक्तहेत्वर्थक उपमैव इत्येवशब्दसम्बन्ध उपमाशब्दः बिम्बपर इत्यभिप्रेत्य व्याचष्टे ॥ अतोंऽशत्वेऽपीति ॥ प्रतिबिम्ब एवेति ॥ इतिशब्दः प्रकारार्थः । चशब्देनेत्यादिभाष्यं व्याचष्टे ॥ तद्धेतुनेति ॥ स चासौ हेतुश्चेति विग्रहः । प्रतिबिम्बत्वहेतुना भेदः साध्यः ॥ अनेनेति ॥ प्रतिबिम्बत्वस्य हेतुत्वकथनेनेत्यर्थः । चशब्दोऽप्रयोजकत्वसमुच्चयार्थः । अत एवाशंत्वेऽपीत्यपिपदेन हेतोरप्रयोजकत्वं पूर्वमुक्तम् । ननु भेदाभेदयोरङ्गीकृतत्वात् कथमभेदमात्रनिरास इत्यत आह
॥ अभेदांश एवेति ॥ ज्ञानैश्वर्यादीश्वरसाम्ये जीवानां नेश्वरभेदः प्रयोजकः किन्तु तद्भेदाभाव इत्याशङ्कते ॥ भेदस्यापीति ॥ ब्रह्मस्वरूपानुगतेति ॥ मृदादिनाऽभिन्नघटादौ मृदादिस्वरूपानु-गतिवद् ब्रह्माभिन्नेषु जीवेषु ज्ञानैश्वर्यादिरूपब्रह्मस्वरूपानुगतेरावश्यकत्वादित्यर्थः । ननु जीवस्य ब्रह्माभेदेऽपि ज्ञानैश्वर्यादिरूपाननुगतिः । तस्य ब्रह्मस्वरूपत्वाभावादित्यत आह ॥ ऐश्वर्यादेश्चेति ॥ किञ्च परेण भिन्नाभिन्नतयाङ्गीकृतेष्वपि मत्स्यादिषु ऐश्वर्यादिरूपब्रह्मस्वरूपानुगतेर्दर्शनात् तद्वज् जीवेष्वपि स्यादित्यभिप्रेत्याह ॥ मत्स्यादिवच्चेति ॥ नन्वस्यां योजनायां ब्रह्मस्वरूपत्वे ज्ञानैश्वर्यादिविशेषः स्यात् । न चैवम् अतोंऽशत्वेऽपि प्रतिबिम्बत्वमेवेति युक्तित एव प्रतिबिम्बत्व-हेतुसिद्धेः रूपं रूपमिति श्रुत्युदाहरणं किमर्थमित्यत आह ॥ युक्तिदृष्टार्थ एवेति ॥ तथा च युक्तिसिद्धार्थे संवादितया श्रुत्युदाहरणं न त्वसिद्धप्रतिबिम्बत्वरूपहेतुसाधनार्थम् ।
अत एव चोपमेति सूत्रखण्डस्य व्याख्यानान्तरम् अत एव तदधीनत्वमित्यादिभाष्यं तन्निवर्तनीयाशङ्कापूर्वकमवतारयति ॥ यदुक्तमिति ॥ आद्य इति ॥ सूर्यकादिवदिति भावः ॥ न सूर्यका हीति ॥ प्रतिबिम्बमात्रस्योपाध्यायत्ततानियमात् प्रतिबिम्बस्य जीवस्योपाध्यायत्तताभावे तस्य दृष्टान्तत्वासम्भवः । यतस्तस्य दृष्टान्तत्वासम्भवो ऽत उपाध्यायत्तत्वादिव्यापकाभावे तद्वत्प्रति-बिम्बत्वाभावात् । बाधाभावेन यदुक्तं चैतन्यांशत्वाभ्यां जीवानां ब्रह्माभेद इति तत्तदवस्थमेवेत्यर्थः । तर्ह्यनित्यत्वमत आह ॥ उपाधीति ॥ ननु जीवप्रतिबिम्बत्वे न सूर्यकादिदृष्टान्तः सम्भवतीति दृष्टान्तस्थोपाध्यायत्तत्वादिधर्माणां तत्राभावादित्यत आह ॥ अत्र चेति ॥ अत्र सूत्रे सूर्यकादि-वदित्यनेन प्रतिबिम्बत्वहेतुर् ग्राह्यः । चशब्देन भेदरूपसाध्यसमुच्चयः । एवं च जीवः ब्रह्माभिन्नो न भवति तत्प्रतिबिम्बत्वात् । यो यत्प्रतिबिम्बः स तेनाभिन्नो न । यथा सूर्यकः सूर्यप्रतिबिम्ब-स्तेनाभिन्नो न भवति । ननु जीवस्य ब्रह्मप्रतिबिम्बत्वं न, उपाध्यायत्तत्वादिरूपप्रतिबिम्ब-धर्माभावादित्यत उक्तम् ॥ अत एवोपमेति ॥ अत एव भिन्नत्वतदधीनत्वतत्सादृश्येनैवोपमा सूर्यकादिसाम्यम् । न तूपाध्यायत्तत्वेनेत्यर्थः । यद्वा अतश्शब्द उक्तार्थपरामर्शकः । चशब्दः भेदरूपसाध्यसमुच्चायकः । उपमाशब्दः प्रतिबिम्बत्वार्थः । उपमैवेत्येवकारसम्बन्धः । सूर्यकादिवदिति दृष्टान्तः । एवं च जीवस्य मत्स्यादिवत् स्वरूपांशत्वे ज्ञानैश्वर्याद्यविशेषरूप-बाधकसद्भावो यतोऽतः कारणाज् जीव उपमैव ब्रह्मप्रतिबिम्ब एव ॥ न तेनाभिन्नः ॥ सूर्यकादिदृष्टान्तवदित्यर्थः । अनुमानं तु पूर्ववदेवोह्यमिति सूत्राक्षरार्थः ।
वाक्यार्थविवरणम्
॥ अत एवोपमेतिपदैरुक्त्वेति ॥ सूचयित्वेत्यर्थः न तु भेदांश इत्येवार्थस् तदधीनत्व-तत्सादृश्यैरेव सूर्यकाद्युपमेत्युक्त्या तदधीनत्वे सति तत्सादृश्यरूपं प्रतिबिम्बत्वं सूचितमित्यर्थः । पूर्वं सूर्यकादिवदिति दृष्टान्तोक्त्या प्रतिबिम्बत्वसूचनमुक्तमत्र तु अत एवोपमेति पदैरिति ध्येयम् ॥ प्राचीनानुमानस्य ॥ चेतनांशत्वानुमानस्य ॥ उपाधिश्चेति ॥ न केवलं भेदसाधकप्रतिबिम्ब-त्वानुमानबाधः सूचितः । किं नाम अप्रतिबिम्बत्वोपाधिश्चानेन सूत्रेण सूचित इत्यर्थः । ननु भेदाभेदनिरासः साधनीयो न त्वभेदाभावमात्रमित्यत आह ॥ अभेदांश एवेति ॥ द्वितीययोजनायां जीवस्यापि तथा स्यादित्यापादनं न युक्तमित्याशङ्कते ॥ भेदस्यापीति ॥ आवश्यकत्वादिति ॥ घटादौ मृदादिस्वरूपानुगतिवदिति भावः । ऐश्वर्यादेश्च ब्रह्मस्वरूपत्वाज् जीवानां तदभेदे ऐश्वर्याद्यनुमतिर्जीवेषु स्यादित्यापादनं युक्तमिति योज्यम् ॥ जीवानां ब्रह्मणा भेदाभेदाङ्गीकारेऽ-प्यैश्वर्याद्यनुगत्याऽवश्यम्भाव्यमेव । मत्स्यादौ दृष्टत्वादतश्चापादनं युक्तमित्याशयेनाह ॥ मत्स्यादि-वच्चेति ॥ अनित्यत्वादीति ॥ उपाधिनाशेनेत्यर्थः ॥ द्वितीयेनेति ॥ उपाध्यायत्तत्वादिना साम्याभावादिति भावः ॥ उक्तम् ॥ अंशित्वहेतुनाऽभिन्नत्वमित्यर्थः । पृथगित्यत्र भिन्नत्वम् । सन्ध्य इति तदधीनत्वं, तद्गुणेत्यत्र सादृश्यमिति बोध्यम् ॥ तत्सद्भावेनैवेति ॥ तयोर्धर्मयोः सत्त्वेनेत्यर्थः ॥ अन्ययेति ॥ दृष्टान्तदार्ष्टान्तिकयोः सर्वैरपि धर्मैः साम्याङ्गीकारे ॥ सर्वेति ॥ धूमानुमानेऽपि पर्वतमहानसयोः पर्वतत्वमहानसत्वादिधर्मेण साम्याभावादिति भावः ।
वाक्यार्थमञ्जरी
प्रागेवेति ॥ न स्थानतोऽपीत्यनेनेत्यर्थः ॥ समर्थितत्वादिति ॥ पृथगुपदेशादित्यनेनेति शेषः ॥ सर्वचेतनसमुदायस्येति ॥ पटस्य सर्वतन्तुभिरत्यन्ताभेदस्येकैकतन्तुना भेदाभेदस्य च भवद्भि-रभ्युपगमादिति भावः ॥ ॐ अत एव चोपमा सूर्यकादिवत् ॐ ॥ अत एव ब्रह्म तदंशानां मत्स्यादीनामभेदस्योक्तत्वादेव अत एव अंशत्वहेतोरेवोपमा जीवस्य मत्स्यादिवद् ब्रह्माभेद-साम्यमिति न मन्तव्यम् । कुतः ? अत एव जीवस्येशप्रतिबिम्बांशत्वादेव । कथं सूर्यकादिवद् यथा सूर्यप्रतिबिम्बादिकं सूर्येणाभिन्नं न भवति तत्प्रतिबिम्बांशत्वात्तथा जीवोऽपीशेन भिन्न इत्यर्थः ॥ सूर्यकादिवच्चेति ॥ अनेन चशब्दो भिन्नक्रम इति सूचितं भवति । ननु भेदाभेदवादिनं प्रति भेदसाधने सिद्धसाधनमित्यत आह ॥ इदमुक्तं भवतीति ॥ तथा च भेदशब्दोऽभेदाभावपर इति भावः ॥ इत्यादीति ॥ कर्तृवाचकपदस्य क्रियानवर्तनेनान्वयमाह ॥ इत्यादीति ॥ पूर्वव्याख्याने पूर्वपक्ष इत्यध्याहारः । प्रतिबिम्बहेतोः कुतोऽनुक्तिरित्याद्यरुच्याह ॥ अथवेति ॥ भेदशब्दार्थो विशेष इति । तद्धेतुना तेन प्रतिबिम्बत्वहेतुना ॥ अनेनेति ॥ जीवस्य भेदसाधनायोक्त-प्रतिबिम्बत्वेनेत्यर्थः ॥ प्राचीनेति ॥ अभेदसाधकचेतनत्वादेरित्यर्थः । ननु तेन भेदाभेदाङ्गीकारात् कथमभेदमात्रनिरास इत्यत आह ॥ अभेदांश एवेति ॥ ज्ञानैश्वर्यादीश्वरसाम्ये जीवानां नेश्वराभेदः प्रयोजकः किन्तु तद्भेदाभावः स चात्र नास्तीति न साम्यमित्याशङ्कते ॥ भेदस्यापीति ॥ ब्रह्मस्वरूपानुगतेरिति ॥ मृदादिना भिन्नाभिन्ने घटादौ मृदादिस्वरूपानुगतिवद् ब्रह्मणा भिन्नाभिन्नेषु जीवेषु ज्ञानैश्वर्यादिब्रह्मस्वरूपानुगतेरावश्यकत्वादित्यर्थः । किं परेण भिन्नाभिन्न-तयाऽङ्गीकृतेष्वपि मत्स्यादिष्वैश्वर्यादिब्रह्मस्वरूपानुगतेर्दर्शनात्तद्वज्जीवेष्वपि स्यादित्यत आह ॥ मत्स्यादिवच्चेति ॥ नन्वस्यां योजनायामंशत्वेऽपि विशेषवत्वरूपयुक्तित एव प्रतिबिम्बत्व रूपहेतुसिद्धे रूपमित्यादिश्रुत्युदाहरणं किमर्थमित्यत आह ॥ युक्तिदृष्टार्थ एवेति ॥
उपाध्यायत्तेति ॥ उपाध्यधीनत्वादिप्रतिबिम्बधर्मवान्न वेत्यर्थः ॥ अनित्यत्वेति ॥ देहाद्युपाधेरनित्यत्वादिति भावः । यद्यपि यावदात्मभावित्वादिति स्वरूपोपाधिर्नित्य उक्तस् तथाप्यधीनत्वं भेदसापेक्षमिति भिन्नोपाध्यधीनत्वाद्येवात्र विकल्पितमिति ध्येयम् ॥ न सूर्यका-दीति ॥ उभयोरुपाध्यधीनत्वधर्मेण साम्याभावादिति भावः । तर्हि मास्तु सूर्यकादिदृष्टान्तः । तथापि जीवप्रतिबिम्बत्वमस्त्वित्यत आह ॥ अत इति ॥ सर्वेषां प्रतिबिम्बानामुपाध्यधीनत्व व्याप्तत्वेनोपाध्यधीनत्वरूपव्यापकनिवृत्तौ व्याप्यभूतप्रतिबिम्बत्वस्यापि निवृत्या भेदसाधकानामभावे नोक्तचेतनत्वाद्यनुमानेनाभेदसाधनं युक्तमित्यर्थः । प्रतिज्ञाद्वयं क्रमेणोपपादयति ॥ पृथगिति ॥ इत्युक्तैरिति ॥ इति सूत्रैः क्रमेणोक्तैरित्यर्थः । सर्वधर्मानभ्युपगमे कथं सूर्यकादेर्दृष्टान्तत्वमित्यत आह ॥ यौ हीति ॥ सर्वेति ॥ पर्वतमहानसादेरपि यावत्साम्याभावादिति भावः ॥ प्रतिबिम्बपदोक्तमिति ॥ तथा च हेतूकृतप्रतिबिम्बशब्दार्थनिरूपणायैव भाष्ये तथोक्तिरिति भावः ।
॥ इति उपमाधिकरणम् ॥ १० ॥