ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ
९. अरूपाधिकरणम्
सूत्रभाष्यं
रूपवत्त्वादनित्यत्वमित्यतो वक्ति—
॥ ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ १४ ॥
प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्वान्नैव रूपवद्ब्रह्म । हिशब्दाद् ‘अस्थूलमनणु’ (बृ.उ. ५-८-८) इत्यादिश्रुतेश्च ।
‘भौतिकानि हि रूपाणि भूतेभ्योऽसौ परो यतः ।
अरूपवानतः प्रोक्तः क्व तदव्यक्ततः पर’ इति मात्स्ये ॥
तत्त्वप्रदीपिका
एवं बद्धत्वश्रुतेस्तत्स्वातन्त्र्येणैव प्रकाममर्थवत्त्वोपन्यासेन महिमासम्भवाशङ्का परिहृता । अथ च हेत्वन्तरेण तदसम्भव आशङ्क्यते । रूपादिमत्त्वाच्च विपर्ययो दर्शनादित्यत्र रूपादिमतोऽ-नित्यत्वव्याप्तिर्दर्शिता । ब्रह्मणश्च रूपवत्त्वमुक्तं ‘रूपोपन्यासाच्च’ ‘पुरुषविधमपि’ इत्यादिना । तस्माद् ब्रह्मणोऽपि रूपवत्त्वादनित्यत्वं प्रसक्तम् । अनित्यस्य च को हि महिमा वर्ण्येतेत्यत आह ॥ अरूपवदेव हि तत्प्रधानत्वात् ॥ भौतिकानि हि रूपाण्यनित्यत्वव्याप्तानि । भूतकारणत्वेन भूतेभ्यः परस्याः प्रकृतेरपि नियामकत्वेन तदुत्तमस्य ब्रह्मणः क्व तादृशरूपवत्त्वम् । अतो नानित्यताशङ्का ।
तत्त्वप्रकाशिका
अत्रेश्वरप्राप्तिसाधनभक्त्यर्थं तस्याप्राकृतरूपसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथाऽ-नित्यत्वादिप्राप्त्या न तत्र भक्तिरुत्पद्यत इति तत्समर्थनीयमेव । यदर्थं महिमा निरूपितः सा भक्तिरेवात्र विषयः । विष्णौ युक्ता न वेति सन्देहः । साधनतयोक्तेषु युक्तायुक्तदर्शनं सन्देहबीजम् । पूर्वपक्षयति ॥ रूपवत्त्वादिति ॥ न युक्तैव भगवद्भक्तिः । तथा हि । किमसौ रूपवान्न वा । नाद्यः । रूपवत्त्वादनित्यत्वप्रसङ्गात् । यज्ञदत्तादिवत् । अनित्यशरीरे च न भक्तिरुत्पद्यते । ‘अरूप-मव्ययं’ ‘तदरूपमनामयम्’ इत्यादि श्रुत्यप्रामाण्यं च स्यात् । न द्वितीयः । ‘रुक्मवर्णं कर्तारम् आदित्यवर्णम्’ इत्यादिश्रुतेर्वैयर्थ्यापातात् । सौन्दर्यसौलक्षण्याद्यभावापाताच्च । सौन्दर्यादिशून्ये च भक्त्ययोगात् । तदेवमुभयथापि भक्तेरनुपपन्नत्वाद् व्यर्थोऽयं पाद इति भावः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ कर्तव्यैव परमात्मनि भक्तिः । ब्रह्मणो रूपवत्त्वाभावेनानित्यत्वाभावादरूपत्वश्रुत्यवैयर्थ्याच्च । अरूपत्वं कुतः । रूपं हि भवत्प्राकृतं भौतिकं वा भवेत् । न च तद् ब्रह्मणि सम्भवति । तस्य प्रकृत्यादिप्रवर्तकत्वात् । न हि स्वाधीनं स्वात्मानं बध्नातीति भावः । प्रधानत्वादित्यस्योत्तमत्वादिति व्याख्यानम् । उत्तमत्वप्रकारप्रदर्शनं प्रवर्तकत्वेनेति । ननु ब्रह्मणः प्रकृत्यादिसामर्थ्येन बन्धाभावेऽपि स्वेच्छादिनिमित्तेन रूपं किं न स्यादित्यत आह ॥ हिशब्दादिति ॥ सूचिताया इति शेषः । सूत्रार्थे स्मृतिं चाह ॥ भौतिकानीति ॥ परः प्रवर्तकत्वेनोत्तमः । अव्यक्ततः परे तद् आव्यक्तिकं च रूपं क्वेत्यर्थः । कैमुत्यं वा ।
गुर्वर्थदीपिका
साधनतयोक्तेष्वित्यत्र नानावादिभिः साधनतयोक्तेष्वित्यर्थः । कैमुत्यं वेति वदता भूतेभ्यः परे महदहङ्कारादावपि भौतिकरूपं नास्ति भूतमूलाव्यक्ततः परे तद्भौतिकं क्व नास्तीति किमु वक्तव्यमित्यर्थस्सूचितः ।
भावबोधः
अप्राकृतरूपसमर्थनादिति ॥ अत्र– ‘रूपमस्य शिरः पाणिपादाद्यात्मकमिष्यते ॥’ इत्यनु-व्याख्यानानुसारेण रूपशब्देन शरीरमुच्यते । अत एवोक्तं सुधायां रूपशब्देन शुक्लादिगुणप्रतीतिः स्यादतः शिरःपाणीति विवरणं कृतमिति । अत्र यद्यपि ‘अत एव चोपमा’ इत्यस्य पूर्वाधि-करणानन्तर्यं युक्तम् । ‘यस्मादेवमिति’ ‘ईशरूपेष्विवोदित’ इति भाष्यानुव्याख्यानानुसारेण ‘न स्थान तोऽपि’ इत्येतदधिकरणप्रतिपाद्यमीश्वररूपाभेदं दृष्टान्तत्वेनोपजीव्य चेतनत्वांशत्वाभ्यां जीवानामीश्वरेणाभेद इति पूर्वपक्षोत्थानात् । तथाप्यत्र ‘अत एव’ इत्युत्तराधिकरणप्रतिपाद्ये जीवेश्वराभेदाभावे उपोद्घातलक्षणया सङ्गत्येश्वरस्याप्राकृतशरीरत्वरूपो हेतुः प्रतिपाद्यत इत्यस्य मध्ये निवेशेऽप्यव्यवधायकत्वमिति ज्ञातव्यम् । तदुक्तं सुधायाम्– ‘अत एव च’ इति सूत्रं ‘न स्थानतोऽपि’ इत्येतदधिकरणेन सङ्गतमिति ज्ञापनाय क्रमभेदः । तत्सिद्धमर्थमुपजीव्य पूर्वपक्षो-त्थानात् । तथा च भाष्यं यस्मादेवमित्यादि । अत्रापीशरूपेष्विवेत्यादि । अथ तदनन्तरमेव किं न कृतम् । अरूपत्वाधिकरणार्थस्य ‘अत एवे च’ इति सूत्रार्थं प्रति हेतुत्वेनोपोद्धातलक्षणया सङ्गत्या वर्णितस्याव्यवधायकत्वादिति ।
विष्णौ युक्ता न वेति ॥ अत्र भक्तिर्विष्णौ न युक्तोत युक्तेति चिन्ता । तदर्थं रूपवत्त्वारूपवत्त्वे विष्णौ न सम्भवत उत सम्भवत इति । तदर्थं तदुभयप्रतिपादकश्रुत्यप्रामाण्यं विष्णोरनित्यत्वसौन्दर्याद्यभावश्च प्राप्नोत्युत न प्राप्नोतीति । तदर्थं विष्णोर्विलक्षणं रूपं नास्ति उत अस्तीति । तदर्थम् ‘ऐकात्म्यप्रत्ययसारम्’ इत्यादिश्रुतिस्तत्र प्रमाणं न भवत्युत भवतीति । तदर्थं सा श्रुतिः स्पष्टमीश्वरशरीरस्य ज्ञानानन्दाद्यात्मकत्वप्रतिपादकश्रुतिसंवादिनी न भवत्युत भवतीति । तथा च विशेषश्रुतिस्मृतिसंवादाभावे ‘ऐकात्म्यप्रत्ययसारम्’ इत्यादिश्रुतेर्विष्णोरेव ज्ञानाद्यात्मकत्व-प्रतिपादकत्वेन चारितार्थ्यान्न तच्छरीरस्य तदात्मकत्वप्रतिपादकत्वमिति प्रमाणाभावेन विलक्षण-रूपासिद्धौ रूपवत्त्वप्रतिपादकश्रुत्यप्रामाण्यं सौन्दर्याद्यभावश्च तत्परिहाराय प्रसिद्धरूपवत्त्वाङ्गी-कारेऽनित्यत्वमरूपवत्त्वश्रुत्यप्रामाण्यं चेति रूपवत्त्वारूपवत्त्वयोरसम्भवान्न तत्र भक्तिर्युक्तेति पूर्वपक्षे, ‘आनन्दरूपम्’ ‘शुद्धस्फटिकसंकाशम्’ इति विशेषश्रुतिस्मृतिसंवादात् ‘ऐकात्म्यप्रत्यय-सारम्’ इत्यादिश्रुतिरूपप्रमाणसद्भावेन विलक्षणरूपसिद्धौ रूपित्वारूपित्वप्रतिपादकश्रुत्यप्रामाण्यस्य सौन्दर्याद्यभावस्य चाप्राप्त्या रूपवत्त्वारूपवत्त्वयोः सम्भवेन युक्ता तत्र भक्तिरिति सिद्धान्ते च फलफलिभावो ज्ञातव्यः ।
अत्र भाष्ये अरूपवत्त्वादनित्यत्वमिति प्रथमसूत्रनिवर्तनीय एव पूर्वपक्ष उक्तः । रूपवत्त्वा-रूपवत्त्ववचनयोर्विरोधादप्रामाण्यमिति न्यायविवरणे प्रथमद्वितीयसूत्रनिरसनीयपूर्वपक्ष उक्तः । अतस्तदुभयानुसारेण पूर्वपक्षमुपपादयति– तथा हीत्यादिना ॥ भाष्याभिप्रायमाह– रूपवत्त्वा-दिति ॥ अनेन भाष्ये स्यादित्यध्याहार इत्युक्तं भवति । अत्रानित्यत्वं नाम देहहान्यादिरूपमेव । अत एव यज्ञदत्तवदित्युक्तम् । रूपवत्त्ववचनविरोधादरूपवत्त्ववचनस्याप्रामाण्यमिति बुद्ध्या विविक्तस्य न्यायविवरणांशस्यार्थमाह– अरूपमव्ययमित्यादिना ॥ अरूपवत्त्ववचनविरोधाद् रूपवत्त्ववचनस्याप्रामाण्यमिति पूर्ववद्विभक्तस्य न्यायविवरणस्याभिप्रायमाह– रुक्मवर्णमिति ॥ अत्र वैयर्थ्यं नामाप्रामाण्यम् । न्यायविवरणेऽप्रामाण्यमित्युक्तेऽपि ‘प्रकाशवच्चावैयर्थ्यम्’ इति सूत्रानुसारेणैवमुक्तम् । चतुर्थसूत्रनिरसनीयं हेतुमाह– सौन्दर्येति ॥ भूतेभ्यो भिन्नस्य जीवस्य भौतिकशरीरसत्त्वात् । सूत्रसमानार्थत्वापत्त्या प्रकृतानुपयोगाच्च परशब्दस्य भिन्नार्थकत्वासम्भवेना-पेक्षितांशपूरणेन यथावद्व्याचष्टे– पर इति ॥ तदाव्यक्तिकं रूपमिति । अव्यक्ततः परे तत्त्वे इत्यन्वयक्रमेणाव्यक्तस्य प्रकृतत्वेन तदात्मकस्य रूपस्यापि प्रकृतत्वात्तच्छब्देन तत्परामर्श इति भावः ॥ कैमुत्यं वेति ॥ अस्मिन् पक्षे तच्छब्देन पूर्वप्राप्तभौतिकरूपपरामर्शः । तथा च यदा भूतेभ्यः परत्वेनैव भौतिकरूपराहित्यं किमु वक्तव्यं तदा भूतकारणाव्यक्ततः परे तद्भौतिकं रूपं नास्तीति कैमुत्यमित्यर्थः ।
भावदीपः
अप्राकृतरूपेति ॥ अप्राकृतविग्रहेत्यर्थः । समर्थनाद् रूपित्वारूपित्वश्रुत्योर्व्यवस्थाकल्पनेति भावः । एतेन पूर्वत्रोभयलिङ्गपदेन समग्ररूपेणैवेश्वरस्याऽनेकत्रावस्थानमुक्तं तदयुक्तम् । रूपित्वेऽ-नित्यत्वप्राप्तेरिति शङ्कनात्सङ्गतिः सूचिता । एतेनैव प्रथमाध्याय एव ‘रूपोपन्यासाच्च’ पुरुषविधमपि चैनमधीयते, ‘अन्यभावव्यावृत्तेश्च’ इत्यादिना भगवतो विग्रहस्य सिद्धत्वात्पौनरुक्त्यमिति निरस्तम् । विशेषशङ्कानिरासेनाऽत्र समर्थनात् । यदपि विकरणत्वान्नेति चेत्तदुक्तमिति सूत्रे युक्तिपाद एवाऽ-प्राकृतविग्रहत्वं हरेः सिद्धम् । यथोक्तम् । तत्र भाष्ये न तस्य कार्यं करणं च विद्यते इति । तथा सर्वोपेता च’ इति सामान्यपरिहारेऽपि विशेषयुक्त्यर्थं पुनराशङ्केति च । तथा तत्र टीकायामप्युक्तं न तस्य कार्यमिति पाणिपादादिरहितत्वस्य प्राकृतविषयत्वेनोपपादितत्वादिति । विशेषयुक्तिस्तु प्राकृतशरीराभावेऽपि चिदानन्दाद्यात्मकविग्रहत्वादिरिति चेति तदप्येतेनैव समाहितं बोध्यम् । अरूपित्वश्रुतेः सदृष्टान्तं गत्युपपादनपूर्वकं प्रमाणविशेषकथनेन च तस्यैवात्र समर्थनादिति ॥ अन्यथेति ॥ प्राकृतशरीरवत्त्वाद्यभ्युपगम इत्यर्थः ॥ भक्तिरेवेति ॥ सूत्रे अरूपित्वाद्युक्ते-र्भक्त्यर्थत्वद्योतनाय सैवात्र विषयतयोक्तेति ज्ञेयम् ॥ साधनतयोक्तेष्विति ॥ ज्योतिष्टोम-चैत्यवन्दनादिषु परलोकसाधनतया वेदे मतान्तरे चोक्तेष्वित्यर्थः । रूपवत्त्वारूपवत्त्व वचनयो-र्विरोधादप्रामाण्यमित्यन्यत्रोक्तं पक्षभेदेन योजयितुं विकल्पमुखेन भाष्यं व्याचष्टे ॥ किमसाविति ॥ अनित्यत्वेति ॥ देहनाशाख्येत्यर्थः ।
यत्तु नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य इति सूत्रे द्वितीये नित्यदेहत्वमीश्वरस्य सिद्धम् । यथोक्तं तत्र पूर्वपक्षटीकायाम् । स्वतन्त्रस्यापि लीलया विग्रहग्रहणपरित्यागोपपत्तेरिति । सिद्धान्त-टीकायामपि ‘नित्यो नित्यानाम्’ इति देहनित्यत्वस्याप्युक्तत्वादिति । तथा च तत्रैवाऽ-नित्यत्वशङ्काया अपि निरासात्पौनरुक्त्यमिति । तन्न । देहवत्त्वे यज्ञदत्तादिवदनित्यत्वनियमेन नित्यदेहत्वस्याऽयोगादिति तदाक्षेपेणेह शङ्कोत्थानात् । शरीरत्वस्याऽनित्यत्वव्याप्तत्वात् । देहस्याऽप्रकृतत्वसाधनपर्यन्तमनित्यत्वचोद्यस्याऽनिवृत्तेरिति प्रागनिरस्तामन्यत्रोक्तां विशेषाऽऽशङ्कां चाह ॥ अरूपमव्ययमिति ॥ भाष्ये अनित्यत्वपदेनारूपश्रुत्यप्रामाण्यं चेत्युपलक्ष्यत इति भावः । अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यदिति काठके शब्दरसादिसाहचर्येणाऽ-रूपशब्दस्य शुक्लादिवर्णराहित्यार्थपरतयेक्षतिनये व्याख्यानेऽपि रूपपदस्य विग्रहार्थत्वमुपेत्याऽत्राऽ-व्ययत्वोपपादकतया तद्राहित्यार्थपरतयोदाहरणमविरुद्धम् । अत एवाऽव्ययमित्युक्तिः । यद्वा लोके शरीरवर्णेनैव श्यामो लोहितः पीत इत्यादिव्यपदेशादिहाऽप्यरूपमिति वर्णसामान्याभावोक्त्या शरीराभाव उपलब्ध इति भावेनाऽरूपमिति श्रुत्युक्तिः । अत एव रूपाभावादेव रूपादिमत्त्वाच्च विपर्ययोऽदर्शनादित्युक्तदोषो नेति वक्तुमव्ययमित्यंशोक्तिः । अन्यथा अनित्यत्वं स्यादेवेति भावः । एवं तदरूपमनामयमित्यपि पूर्ववदुपपादकोपपाद्याशयं व्याख्येयम् । तेन रूपवत्त्वयुक्तेः श्रुत्युपो-द्बलितत्वं च सूचितं ध्येयम् ॥ रुक्मवर्णमिति ॥ न चैतद्वर्णमात्राभिप्रायम् । तथैव रूपोपन्यासा-दित्यत्रोक्तेर् न तु शरीराभिप्रायमिति युक्तम् । कर्तृत्वोपपादकत्वादत एव कर्तारमित्यन्तोक्तिः । अन्यथा सम्बन्धानुपपत्तेश्चेत्यत्राऽशरीरत्वात्तस्य जगता सम्बन्धो न युज्यते कर्तृत्वेनेति भाष्योक्त-दिशा कर्तारमित्युक्तकर्तृत्वाभावापत्तेरिति भावः । वर्णपरत्वेऽप्युक्तदिशा देहपरत्वावश्यंभावाच्च ॥ तदिति ॥ तस्मात्पक्षद्वयेऽपि बाधकाभावादित्यर्थः ।
फलं वदन् तत्राऽरूपवदिति सूत्रभाष्यांशौ परंपराहेतुत्वेन योजयति ॥ कर्तव्यैवेति ॥ प्रकृत्यादीत्यादि व्याचष्टे ॥ अरूपत्वमिति ॥ रूपं किमिति ॥ प्राकृतं भौतिकं वेत्यर्थः ॥ अत आहेति ॥ अस्थूलमनण्वित्यादिश्रुतिश्च अन्यभावव्यावृत्तेश्चेत्यत्र प्राकृतस्थौल्यादिराहित्यपरत्वेन व्याख्यातत्वात् । प्राकृतस्थूलसूक्ष्मादिवैलक्षण्याज्जनार्दनः । अस्थूलादिरिति प्रोक्त इति बृहद्भाष्योक्तेश्च । तया तादृशरूपाभावोऽवगम्यत इति भावः । यद्यपि तत्र विरुद्धैर्लक्षणैर्युतम् । ब्रह्मैवेत्यनुभाष्यदिशा अप्राकृतस्थौल्यादिपरत्वमप्युक्तम् । तथाऽप्यत्र तस्य प्रपञ्चनमित्यदोषः । स्मृतौ भौतिकानि हि रूपाणीत्यत्राऽऽव्यक्तिकानि चेत्युपलक्ष्यत इति मत्वाऽर्थमाह ॥ तदाऽऽ-व्यक्तिकमिति ॥ उपलक्षणं विनैवार्थमाह ॥ कैमुत्यं वेति ॥ अव्यक्तमप्यतीत्य वर्तमाने हरावव्यक्तकार्यभूतकार्यं नेति किमु वाच्यमित्यर्थः ।
अभिनवचन्द्रिका
भक्त्यर्थमिति ॥ ‘तस्य’ इत्यतः परं प्राकृतरूपनिरासपूर्वकमिति शेषः ॥ अन्यथेति ॥ प्राकृतरूपनिरासपूर्वकमप्राकृतरूपसमर्थनाभाव इत्यर्थः ॥ भक्तिरेवात्र विषय इति ॥ ननु परमात्मा विषयः । प्राकृतरूपवान् न वेति सन्देहः । प्राकृतरूपवानेवेति पूर्वपक्ष इति वक्तव्यम् । सिद्धान्ते परमात्मनः प्राकृतरूपाभावस्यैव समर्थनान् न तु भक्तिरेवात्रेत्यादि । भक्तेरधिकरणफलत्वेनाधि-करणार्थत्वाभावाद् इति चेत्, सत्यम् । भक्तिर्नाधिकरणप्रतिपाद्या, तथापि नास्याऽधिकरण-स्यात्राऽन्तर्भावो युक्तः । किन्नाम युक्तिपाद एव । तथा हि उक्तं तावत् ‘रूपोपन्यासात्’ इति भगवतो रूपं, ‘पुरुषविधमपि चैनमधीयते’ इति च तदयुक्तम् । अनित्यत्वप्रसङ्गादिति युक्तिविरोधे प्राप्ते प्राकृतरूपनिरासेन युक्तिविरोधस्य निराक्रियमाणत्वादित्याशङ्कानिरासाय, यथा अस्याधि-करणस्य युक्तिविरोधनिरासफलत्वम्, तथा भक्तिकर्तव्यताफलकत्वमप्यस्तीति अत्रान्तर्भावो नायुक्त इति द्योतनाय ‘भक्तिर्विषय’ इत्याद्युक्तम् । एवमुत्तरत्रापि द्रष्टव्यम् । भाष्ये ‘रूपवत्त्वादनित्यत्वम्’ इति पूर्वपक्षप्रदर्शनमुपलक्षणत्वाभिप्रायेणेति भावेन पूर्वपक्षफलं प्रतिज्ञापूर्वकमाह– न युक्तैवेत्यादिना ॥ नाद्य इति ॥ न सिद्धान्तिना रूपवत्त्वपक्षोऽभ्युपगन्तुं शक्य इत्यर्थः ॥ रूपवत्त्वादिति ॥ रूपवत्त्वस्यानित्यत्वापादकत्वादिति भावः । एतेन ‘रूपवत्त्वादिति व्यर्थमिति परास्तम् । अनित्यत्वमित्युपलक्षणमिति भावेनाह– अरूपमिति ॥ अत्रापि अरूपित्वश्रुत्यप्रामाण्येऽ-विशेषाच्छ्रुत्यन्तरेऽप्यनाश्वासप्रसङ्गेन गुणासिद्ध्या भक्तिर्नोपपद्यत इति भक्त्ययोगो बोध्यः । एतेन प्रकाशवच्च’ इत्यादिसूत्रेणाऽप्राकृतरूपाङ्गी कारेणाऽनित्यत्वदोषस्य परिहृतत्वाद् अरूपत्वप्रतिपादकं सूत्रं व्यर्थमिति परास्तम् । अरूपत्वश्रुत्यप्रामाण्यपरिहाराय अरूपत्वस्यापि वक्तव्यत्वात् ॥ न द्वितीय इति ॥ द्वितीयोऽपि नाभ्युपगन्तुं शक्य इत्यर्थः । एतेन ‘नाद्य’ इत्याद्यपक्षं दूषयता द्वितीयपक्षस्याङ्गीकृतत्वात् पुनस्तस्यापि दूषणे व्याघात इति परास्तम् ॥ श्रुतिवैयर्थ्यापातादिति ॥ अनेन ‘प्रकाशवच्चेत्यादिसूत्राणां सौन्दर्याद्युपपादनवत् श्रुत्यप्रामाण्यनिरासोऽपि प्रयोजनमिति सूचितम् । सिद्धान्तफलं प्रतिजानीते कर्तव्यैवेति ॥ अरूपत्वेति ॥ अरूपत्वश्रुतिवैयर्थ्य-प्रयुक्तश्रुतिमात्राना श्वसाभावाच्च भक्तिरुपपन्नेति भावः । कैमुत्यं चेति ॥ अस्मिन्व्याख्याने तद् भौतिकं रूपम् अव्यक्ततः परे क्केति योजना द्रष्टव्या ॥ न चैवं रूपशब्दस्येति ॥ रूपशब्दस्य प्राकृतादावेव व्युत्पन्नत्वाद् व्युत्पत्त्यनुसारेण शब्दस्य बोधकत्वाद् रुग्मवर्णादि श्रुतेः प्राकृतादि-रूपबोधकत्वाद् अनित्यत्वप्रसङ्गभिया अरूपत्वश्रुत्यवष्टम्भेन प्राकृतरूपनिषेधे तच्छ्रुत्यप्रामाण्यमेव स्यादिति न वाच्यमित्यर्थः । कुतो न वाच्यमित्यत आह– अप्रसिद्धप्रकाशेऽपीति ॥ न रूपादि-शब्दानां प्राकृतादिरूपेषु शक्तिग्रह कल्प्यः । किन्तु प्राकृतत्वादिपरित्यागेन रूप एव । अन्यथा प्रकाशादिशब्दानामपि तथात्वापत्त्या अप्रसिद्धप्रकाशे भगवति ‘आत्मैवाऽस्य ज्योतिर्भवति’ इत्यादि व्यवहारविलोपप्रसङ्ग इति भावः । एतेन रूपशब्दस्य प्राकृतादावेव व्युत्पन्नत्वशङ्काया निरासाय अप्राकृतरूपेऽपि रूपशब्दस्य व्युत्पत्तेर् व्युत्पादनीयत्वेन तद्विहाय अप्रसिद्धप्रकाशे परमात्मनि प्रकाशशब्दप्रवृत्तिप्रदर्शनमयुक्तमसङ्गतत्वादिति निरस्तम् । रूपादिशब्दानां रूपमात्रे व्युपत्त्यनङ्गीकारेऽनिष्टप्रदर्शनार्थत्वात् ॥ कथं ब्रह्मण इति ॥ येनाऽङ्गीकृतेन ब्रह्मणोऽनित्य त्वाभावः ‘रुग्म(क्म)वर्णम्’ इति श्रुतेश्चाऽप्रामाण्याभावः । तद्विलक्षणं रूपं ब्रह्मणः कथं, न कथमपि । विलक्षणरूपस्य काप्यनुक्तत्वेन सर्वरूपाणां प्रकृत्याद्यात्मकत्वनियमादिति भावः । ननु ‘विज्ञानाऽऽनन्द मात्रत्वम्’ इति भाष्ये कथं पूर्वाऽप्रकृतविज्ञानानान्दपरतया सौत्रतच्छब्दो व्याख्यात इत्यत आह– तद्गुणसारत्वादिति ॥ न त्वानन्दादेर्ब्रह्म रूपत्वमिति ॥ विस्पष्टमिति शेषः । एतेन एतत्सूत्रविषयवाक््यस्य पूर्वसूत्र एवोदाहर्तुं शक््यत्वाद् एतत्सूत्रं व्यर्थमिति परास्तम् । सामान्येनोक्त्वा, विशेषाकारेणोक्तेर् विशिष्यानुग्रहार्थत्वात् ।
पूर्वपक्षस्तु नाङ्गीकर्तव्या निरतिशया भगवति भक्तिः । तथा हि किं भगवतो रूपमङ्गीक्रियते उताऽरूपित्वम् । न तावदाद्यः कल्पोऽङ्गीकर्तुमुचितः । अनित्यत्वप्रसङ्गात् । ‘तदरूपमनामयम्’ इत्यादिश्रुत्यप्रामाण्यप्रसङ्गाच्च । ततश्च भक्तिविलोपः । न ह्यनित्यशरीरे निरतिशया भक्तिरुपपद्यते । नापि अरूपित्वश्रुत्यप्रामाण्ये भक्तिरुपपद्यते । अरूपत्वश्रुत्यप्रामाण्येऽ विशेषात् श्रुतिमात्राऽ-प्रामाण्यापत्त्या भक्तिप्रयोजकगुणासिद्धेः । नापि द्वितीयः ‘रुग्मवर्णम्’ इत्यादिश्रुत्यप्रामाण्याऽऽ-पातात् । सौन्दर्याद्यभावापाताच्च । ततश्च न भक्तिः । तदेवमुभयथापि भक्तेरनुपपन्नत्वाव्द्यर्थोऽयं पाद इति ।
सिद्धान्तस्तु उपपन्नैव भगवद्भक्तिः । तस्यारूपित्वेन अनित्यत्वाभावात् । अरूपित्व-श्रुत्यप्रामाण्यलक्षणदोषराहित्यात् । न च अरूपित्वमसिद्धम् । प्रकृत्युत्तमत्वेन प्राकृतरूपवैधुर्य-सिद्धेः । न च ‘रुग्मवर्णम्’ इत्यादिश्रुतिवैयर्थ्यम् । सौन्दर्याभावश्च अप्राकृतरूपाङ्गीकारात् । न च तत्र प्रमाणाभावः । ‘ऐकात्म्यप्रत्ययसारम् आनन्दमात्रम्’ इति श्रुतिसिद्धत्वात् । न च विस्पष्टप्रमाणाभावः ‘आनन्दरूपममृतम्’ इति श्रुतेः, ‘शुद्धस्फटिकसंकाशम्’ इति स्मृतेश्च सत्त्वात् । तदेवं भक्तेरुपपन्नत्वात्सार्थकोऽयंपाद इति सिद्धम् ।
वाक्यार्थमुक्तावली
अप्राकृतरूपसमर्थनादिति ॥ अत्र रूपपदेन वर्णविशेषस्य भगवद्विग्रहस्य च ग्रहणम् । तदुक्तं तत्त्वप्रदीपे । रूपत्वाच्च विपर्ययो दर्शनादिति । रूपादिमतोऽनित्यत्वव्याप्तिरभिहिता । परब्रह्मणश्च रूपवत्वमुक्तं रूपोपन्यासाच्च पुरुषविधमपीत्यादिना । तस्माद्ब्रह्मणोऽपि रूपवत्वादनित्यत्वमनित्यस्य को महिमाविशेष इत्यत आहेति । प्रकाशवच्चावैय्यर्थ्यमिति सूत्रभाष्ये तत्प्रतीतेश्च । ननु रूपमस्य शिरःपाणिपादाद्यात्मकमित्यत्र सुधायां रूपशब्देन शुक्लादिगुणप्रतीतिः स्यादतः शिरःपाणीति विवरणं कृतमित्युक्तत्वात् कथमत्र रूपपदेन गुणग्रहणमिति चेन्न । शुक्लादिगुणप्रतीतिस्स्यादित्यस्य शुक्लादिगुणमात्रप्रतीतिः स्यादित्यर्थत्वेनाविरोधात् । ननु रूपोपन्यासाच्च पुरुषविधमपीति रूप-विग्रहयोर् अन्यभावव्यावृत्तेश्च विकरणत्वाच्च नेति चेत्तदुक्तमिति तयोरप्राकृतत्वस्यैव समर्थितत्वाद् गतार्थमिदमिति चेन्मोक्तं विस्मार्षीः । पादादौ टीकायामेव क्वचित्तदेव विविच्योच्यते क्वचित्समर्थ्यते इत्युक्तत्वात् । अन्यभावव्यावृत्तेरित्यत्रान्यवस्तुस्वभावस्थौल्यादिव्यावृत्तिमात्राभिधानेऽपि तस्या-प्राकृतरूपवत्वस्य स्पष्टमुक्तत्वादसमर्थितत्वाच्चेह तदुभयकरणात् । ननु स्थानतोऽपीतीशरूपाणामभेदे साधिते तद्दृष्टान्तेन चेतनत्वादिहेतुना जीवस्येशाभेदः किन्न स्यादिति पूर्वपक्षोत्थानात् । अत एव चोपमेत्यधिकरणस्यैव तदानन्तर्यं युक्तं, कथमस्याधिकरणस्य न स्थानाधिकरणानन्तर्यमिति चेन्न । उत्तराधिकरणसाध्ये ईश्वरस्य जीवभेदेऽप्राकृतरूपवत्वरूपविरुद्धधर्मस्य हेतुत्वादुपोद्घातसङ्गत्या-स्याधिकरणस्य पूर्वनिवेशोपपत्तेः । उक्तं चैतत्सुधायाम् । अरूपत्वाधिकरणार्थस्यात एवेति सूत्रार्थहेतुत्वेनोपोद्घातलक्षणसङ्गत्या वर्णितस्याप्यस्याव्यवधायकत्वादिति ।
युक्ता न वेति ॥ अत्र भक्तिर्विष्णावयुक्तोत युक्तेति चिन्ता । तदर्थं रूपवत्वारूपवत्वे न सम्भवत उत सम्भवत इति । रूपवत्वादनित्यत्वमिति भाष्ये प्रथमसूत्रनिरसनीयपूर्वपक्षोक्तावपि तदुपलक्षणं मत्वा द्वितीयादिसूत्रनिरसनीयपूर्वपक्षं विरुद्धमित्युक्तन्यायप्रदर्शनपूर्वकमाह ॥ तथा हीत्यादिना ॥ वैय्यर्थ्यापातादिति ॥ अप्रामाण्यापातादित्यर्थः । सूत्रे तदिति तन्त्रम् । व्यस्तं समस्तं च पदम् । तत् प्रस्तुतं ब्रह्म अरूपवदेव प्राकृतादिरूपरहितमेव । कुतस् तत्प्रधानत्वात् । तस्य ब्रह्मणस् तेभ्यः प्रकृत्यादिभ्यः प्रधानत्वादिति सूत्रार्थमभिप्रेत्याह ॥ कर्तव्यैवेति ॥ ननु तत्प्रधानत्वादिति तच्छब्देन कथं प्रकृत्यादिपरामर्शः । अप्रस्तुतत्वादित्यतो ऽरूपवदिति रूपस्य प्रकृतत्वात्तस्य प्राकृतभौतिकान्यतरत्वनैय्यत्यात् प्रकृत्यादिकमपि प्रकृतमेवेति भावेनाह ॥ रूपं हि भवदिति ॥ स्वेच्छादिनिमित्तत्वेनेति । स्वेच्छया लीलया चेत्यर्थः ॥ सूचिताया इति ॥ तत्र सामान्येन रूपमात्रनिषेधादिति भावः । एतेन परस्योभयलिङ्गमिति सूत्रे परमात्मन इत्यादि-भाष्यानुसारेण पुंल्लिङ्गेन प्रकृतत्वादरूपवदिति क्लीबोक्तिरयुक्तेति निरस्तम् । हिशब्दसूचितश्रुत्यनु-सारेण तदुपपत्तेः । अरूपमिति वाच्येऽरूपवदिति मतुप् रूपवत्वनिषेधेन रूपभेदनिषेधार्थं सूत्रार्थे स्मृतित्वात्प्रधानत्वादित्यनेन समर्थनाय व्याचष्टे ॥ परःप्रवर्तकत्वेनोत्तम इति ॥ तदाव्यक्तिक-मिति ॥ अव्यक्ततः परे तत्त्वे इत्यन्वयं क्रमेणाव्यक्तस्य प्रकृतत्वेन तदात्मकरूपस्यापि प्रकृतत्वा-त्तच्छब्देन तत्परामर्श इति भावः ॥ कैमुत्यं वेति ॥ यदा भूतेभ्यः परत्वेनैव भौतिकरूपराहित्यं किमु वक्तव्यं तदा भूतकारणाव्यक्तप्रकृतेः परे तत्प्रर्तकत्वेन तदुत्तमे । अत एव तत्कृतबन्धशून्ये तद्भौतिकं रूपं नास्तीति कैमुत्यं वेत्यर्थः ।
तत्त्वसुबोधिनी
अप्राकृतरूपसमर्थनादिति ॥ अरूपशब्देन शरीरमुच्यते । एवं च पूर्वाधिकरणे विश्वादि-रूपाणां येन मत्स्यरूपेण अभेद उक्तो ऽत्र तद्रूपे प्राकृताप्राकृतत्वविचारादनन्तरसङ्गतिरिति भावः ॥ अन्यथेति ॥ अप्राकृतरूपसमर्थनाभावे । कुतो नेत्यतः हरेः रूपवत्वम् अरूपवत्वं वाङ्गीक्रियते । नोभयमपीत्याह ॥ तथा हीत्यादिना ॥ अस्त्वनित्यत्वं ततः किमित्यत आह ॥ अनित्यशरीर इति ॥ अन्यथास्मदादावपि सा स्यादिति भावः । किञ्चारूपत्वश्रुतिव्याकोपश्च स्यादित्याह ॥ अरूपमिति ॥ न केवलं श्रुतिवैय्यर्थ्यम् । किन्तु लोके सुन्दरे एव भक्तेर्दृष्टत्वेन भगवतोऽरूपवत्त्वे न सौन्दर्याभावात्तत्र भक्त्युदयः स्यादित्याह ॥ सौन्दर्येति ॥ अस्तु प्रकृत्यादिप्रवर्तकत्वं तथापि प्राकृतरूपं किं न स्यादित्यत आह ॥ न हीति ॥ प्राकृतरूपवत्वे हि तद्बन्धः स्यादिति भावः । भाष्ये उत्तमत्वादित्येतत् किमर्थमुक्तमित्यत आह ॥ प्रधानत्वादिति ॥ प्रकृत्यादिप्रवर्तकत्वेनेत्येतत् किमर्थमुक्तमित्यत आह ॥ उत्तमत्वे इति ॥ भूतेभ्यो भिन्नस्यापि भौतिकशरीरसत्त्वात् सूत्र-समानार्थत्वाभावापत्त्या प्रकृतानुपयोगाच्च परशब्दस्य भिन्नार्थत्वसम्भवेनापेक्षितांशपूरणेन यथाव-द्व्याचष्टे ॥ पर इति ॥ तदाव्यक्तिकं रूपमिति ॥ अव्यक्ततः परे न क्व इत्यन्वयक्रमेणाव्यक्तस्य प्रकृतत्वेन तदात्मकस्य रूपस्यापि प्रकृतत्वात् तच्छब्देन परामर्श इति भावः ॥ कैमुत्यं वेति ॥ अस्मिन् पक्षे तच्छब्देन पूर्वप्राप्तभौतिकत्वरूपपरामर्शः । तथा च पराभूतेभ्यः परत्वेनैव भौतिक-रूपराहित्यं किमु वक्तव्यम् । तदा भूतकारणाव्यक्ततः परे तद्भौतिकं रूपं नास्तीति कैमुत्यमित्यर्थः ।
वाक्यार्थविवरणं
साधनतयोक्तेष्विति ॥ तमेवमित्यादौ ज्ञानस्य ‘अपाम सोमम्’ इत्यादौ कर्मणो मोक्ष-साधनत्वमुच्यते । तत्र ज्ञानस्यैव तद्युक्तं न कर्मण इति दर्शनेनात्रापि मोक्षसाधनतयोक्तभक्तौ युक्तायुक्तत्वसंशय इत्यर्थः ॥ अनित्यशरीरे ॥ अनित्यशरीरवति । दूषणान्तरं चाह ॥ सौन्दर्येति ॥ सौन्दर्यादेर्विग्रहवत्येव भावेन तदभावे तदभावादित्यर्थः ॥ स्वाधीनमिति कर्ता । स्वात्मनमिति कर्म ॥ स्वेच्छेति ॥ तथा च तत्परित्यागेनानित्यत्वं प्राप्तमेवेति भावः ॥ हिशब्दादितीति ॥ अस्थूलमित्यादिना भगवतः स्थूलाण्वादिविग्रहसामान्यनिषेधात् स्वेच्छागृहीतरूपसत्त्वे तदयोगात् । न हि यत्किञ्चिद्विशेषसत्त्वे सामान्याभावो युक्त इति भावः । प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्व-रूपार्थलाभाय व्याचष्टे ॥ पर इति ॥ कैमुत्यं चेति ॥ तथा च भूतपराव्यक्ततः परे तद् भौतिकं रूपं क्वेत्यर्थः ।
वाक्यार्थमञ्जरी
रूपेति ॥ शरीरेत्यर्थः ॥ एवमग्रेऽपि ॥ रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते इत्यनु-व्याख्यानोक्तेः । रूपपदेन शुक्लादिगुणप्रतीतिः स्याद् अतः शिरःपाणीति विवरणं कृतमिति सुधोक्तेश्च । अरूपमव्ययं तदरूपमनामय इति भिन्नं वाक्यम् । एवं रुक्मवर्णं कर्तारमादित्य-वर्णमित्यपि ॥ वैयर्थ्यमिति ॥ अप्रामाण्येत्यर्थः ॥ ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ तदिति तन्त्रं व्यस्तं समस्तं च । तथा तद्ब्रह्म अरूपवत् प्राकृतादिदेहवन्नैव । कुतः ? तत्प्रधानत्वात् तस्य ब्रह्मणस् तेभ्यः प्रकृत्यादिभ्य उत्तमत्वादित्यर्थः ॥ कैमुत्यं वेति ॥ अस्मिन्पक्षे तच्छब्देन पूर्वप्राप्तभौतिकरूपपरामर्शः । तथा च यदा भूतेभ्यः परत्वेनैव भौतिकरूपराहित्यं तदा भूतकरणाव्यक्ततः परे तद्भौतिकं रूपं नास्तीति किं वक्तव्यमिति कैमुत्यमित्यर्थः ।
ॐ प्रकाशवच्चावैयर्थ्यम् ॐ
सूत्रभाष्यम्
॥ ॐ प्रकाशवच्चावैयर्थ्यम् ॐ ॥ १५ ॥
‘यदा पश्यः पश्यते रुक्मवर्णम्’ (मुं. उ. ३-१-३) । ‘श्यामाच्छबलं प्रपद्ये’ (छां.उ. ८-१३-१) ।
‘सुवर्णज्योति’ (तै. उ. ३-१०) रित्यादिश्रुतीनां च न वैयर्थ्यम् । विलक्षणरूपवत्वात् । यथा चक्षुरादिप्रकाशे विद्यमानेऽपि वैलक्षण्यादप्रकाशादिव्यवहारः ।
तत्त्वप्रदीपिका
श्यामरूपाच्छबलरूपं प्रपद्ये । ‘श्यामो हृदि स्थितो विष्णुः शबलो विश्वरूपवान्’ इति मानसे । रूपवत्त्वश्रुतीनां च न वैयर्थ्यम् । प्राकृतविलक्षणरूपवत्त्वाद् ब्रह्मणः । यथा चक्षुर्मनआदिप्रकाशे ज्ञानान्तराङ्गभूते विद्यमानेऽपि सूर्यादिप्रकाशाभावे वैलक्षण्यादेवाप्रकाशादिव्यवहारः, तथा विलक्षण-रूपवत्त्वादरूपवत्त्वश्रुतीनां रूपवत्त्वश्रुतीनां च न वैयर्थ्यम् । अतश्चशब्दः । ‘अस्थूलमनणु’ इत्यादावप्यन्यवस्तुस्वभावव्यावृत्तिर्ह्युदिता न तु नीरूपता । अन्यथाऽम्बरान्तधृतिप्रशास्त्ययोगात् ।
‘प्रसिद्धस्थूलसूक्ष्मादिवैलक्षण्याज्जनार्दनः ।
अस्थूलादिरिति प्रोक्तो नैव स्थौल्याद्यभावत’ इति महामीमांसायाम् ॥
तत्त्वप्रकाशिका
ब्रह्मणो रूपाभावे रूपित्वश्रुतिवैयर्थ्यं सौन्दर्याद्यभावश्चेत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ प्रकाशवच्चेति ॥ नारूपित्वेऽपि ब्रह्मणो रुक्मवर्णादिश्रुतिवैयर्थ्यं सौन्दर्याद्यभावश्च । रूपवत्त्वाद् ब्रह्मणः । न च तर्हि तस्याऽनित्यत्वमरूपश्रुतिवैयर्थ्यं चेति वाच्यम् । तद्रूपस्याऽनित्यत्व व्याप्त-प्राकृतभौतिकरूपविलक्षणत्वेनानित्यत्वाद्यप्रसङ्गादिति भावः । ननु विलक्षणरूपत्वे कथमरूपित्व-श्रुत्यवैयर्थ्यमित्यत आह ॥ यथेति ॥ यथा गृहान्तर्नयनादिप्रकाशे विद्यमानेऽपि नास्ति प्रकाश इति व्यवहारो भवति । चक्षुरादिप्रकाशस्य लौकिकप्रकाशवैलक्षण्यात् । तथा रूपित्वेऽपि ब्रह्मणो विलक्षणरूपित्वादरूपित्वश्रुत्यवैयर्थ्यमिति भावः । न चैवं रूपशब्दस्य प्राकृतादावेव व्युत्पन्नत्वेन रूपित्वश्रुतिवैयर्थ्यम् । अप्रसिद्धप्रकाशेऽपि परमात्मन्यात्मैवास्य ज्योतिरिति प्रकाशशब्दप्रवृत्तेः ।
गुर्वर्थदीपिका
गृहान्तरित्यतः परमन्धकारदशायामित्युपस्कर्तव्यम् ।
भावबोधः
तद्रूपस्येति ॥ अनेनाप्राकृतरूपवत्त्वमिति व्यवस्थोपपत्तेरिति न्यायविवरणमप्युक्ततात्पर्यं भवति । ‘प्रकाशवच्चावैयर्थ्यम्’ इति सूत्रस्यार्थान्तरपरम्–
‘यथा हि तैजसस्यैव प्रकाशस्योज्झितावपि ।
आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा ॥’
इत्यनुव्याख्यानं मनसि निधाय ‘प्रकाशवच्चावैयर्थ्यम्’ इति सूत्रस्यार्थान्तरं तन्निवर्तनीया-शङ्काप्रतिषेधपूर्वकमाह– न चैवं रूपशब्दस्येत्यादिना ॥ तथा लोकविलक्षणेऽपि भगवद्रूपे रूपशब्दप्रवृत्तिर्युक्तेति भावः ।
भावदीपः
इत्याशङ्कामिति ॥ यद्यपि सूत्रे प्रकाशवदवैयर्थ्यमित्यरूपित्वश्रुतिगतिरेव प्रतीयते । अथाऽपि चशब्देन रूपित्वश्रुतीनां चाऽवैयर्थ्यमित्यस्याभिमतत्वादेवमुक्तम् । एवं च तदर्थं रूपित्वे चारूपित्वश्रुतिवैयर्थ्यमनित्यत्वं चेत्याशङ्कामिति शेषो ध्येयः । वैयर्थ्यमित्येतदुपलक्षणं मत्वा भाष्यमापादकपूर्त्या व्याचष्टे ॥ नारूपित्वेऽपीति ॥ आदिपदेन श्यामाद्धृदि स्थिताच्छबलं विश्वरूपवन्तं प्रपद्ये इत्यर्थकभाष्योक्तश्रुत्यादिग्रहः । ‘श्यामो हृदि स्थितो विष्णुः शबलो विश्वरूपवान् । जीववर्णो जीवगतो लोहितश्चक्षुषि स्थित’ इत्यष्टमछान्दोग्यभाष्योक्तेः । विलक्षणरूपत्वादित्युक्तविलक्षणपदस्याऽप्राकृतरूपवत्त्वमित्यन्यत्रोक्तिं भौतिकानीति स्मृत्युक्तिं चानुरुध्याऽर्थं वदन् कृत्यं व्यनक्ति ॥ न च तर्हीति ॥ चशब्देन केवलमरूपित्वश्रुतीनामवैयर्थ्यमिति समुच्चीयत इति सूचितत्वाद्विलक्षणपदोक्त्या कथमवैयर्थ्यमित्यतो यथेत्यादिभाष्यं शङ्कापूर्वं व्यनक्ति ॥ नन्वित्यादिना ॥ इत्यादिश्रुतीनां च न वैयर्थ्यमिति भाष्यमरूपित्वे बाधकनिरासपरतया व्याख्याय विलक्षणरूपत्वेऽपि निरर्थकत्वरूपबाधकनिरासपरतयाऽपि व्याचष्टे ॥ न चैवमिति ॥ कथमित्यतः प्रकाशवदिति सूत्रांशः प्रवृत्तः । तस्य यथेति भाष्योक्तार्थ इव यथा हि तैजसस्यैव प्रकाशस्योज्झितावपि । आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा’ इत्यनुभाष्योक्तार्थान्तर-मप्यनुसन्धेयमिति भावेनाऽऽह ॥ अप्रसिद्धेति ॥ आत्मैवास्य ज्योतिरिति बृहदारण्यकवाक्ये अस्य सुप्तजीवस्याऽऽत्मा परमात्मा ज्योतिर्ज्ञानसाधनमित्यर्थस्य ज्योतिर्दर्शनादित्यत्र प्रथमाध्याय एव निर्णीतत्वादिति भावः । अत्र किञ्चिल्लौकिकरूपसदृशत्वादिति युक्तिस्तु परमतः सेतून्माने-त्यत्रोत्तराधिकरणे ‘विद्वद्व्युत्पत्तितोऽपि च । तैस्तैःपदैश्च भण्यन्ते युज्यते चोपदेशतः’ । अन्यानन्दादिसादृश्यादानुकूल्यादिना परमित्यनुभाष्योक्तदिशा अत्र टीकायां बुध्यर्थः पादवदिति गुणसूत्रे वक्ष्यमाणदिशा च सुज्ञानेति तामनुक्त्वा दृष्टान्तव्यक्त्यैवोपपादनं कृतम् ।
वाक्यार्थमुक्तावली
सूत्रेऽरूपवदिति वर्तते । चशब्दोऽप्यर्थे । तद् अरूपवदपीति सम्बन्धः । रुग्मवर्णादि-श्रुतीनामिति शेषः । सौन्दर्याद्यभावसमुच्चये चशब्दः । हेत्वर्थे च ॥ प्रकाशवदिति ॥ रूप-वदित्यर्थः । सुवर्णज्योतिरित्यादौ प्रकाशशब्दपर्यायस्य ज्योतिःपदस्य रूपपरभाष्ये च इत्यादि-श्रुतीनां च न वैय्यर्थ्यम् । इतरत्र इत्यादिरूपप्रतिपादकश्रुतीनां न वैय्यर्थ्यम् । सौन्दर्याद्यभावश्चेति चशब्दसम्बन्ध इति भावेन विलक्षणेत्यंशं विहाय योजयति । नारूपित्वेऽपीत्यादिना । तथा च तदरूपवदपि तस्य ब्रह्मणो रूपित्वेऽपि न रुग्मवर्णादिश्रुतीनां वैय्यर्थ्यम् । सौन्दर्याद्यभावश्च यतस्तत्प्रकाशवद्रूपवदिति सूत्रार्थः । सौत्रचशब्दस्य तदरूपमनामयमित्यरूपश्रुतीनां च न वैय्यर्थ्यमित्यध्याहृतेनान्वयः । अनित्यत्वप्रसङ्गश्च नेति समुच्चयपरत्वम् । सूत्रे रूपवदिति प्रसिद्धपदे प्रयोक्तव्ये प्रकाशवदित्यप्रसिद्धपदप्रयोगेण रूपस्य वैलक्षण्यं ध्वन्यते । तथा च तदरूपमित्यादि-श्रुतीनां च वैय्यर्थ्यं नानित्यत्वप्रसङ्गश्च रूपस्य विलक्षणत्वादिति सूत्रस्य वृत्त्यन्तरमभिप्रेत्य इत्यादिश्रुतीनां च न वैय्यर्थ्यं विलक्षणरूपत्वादिति भाष्यं प्रवृत्तम् । तत्र इत्यादिश्रुतीनां चेत्यादिपदेन तदरूपमित्याद्यरूपत्वश्रुतीनां च न वैय्यर्थ्यमनित्यत्वप्रसङ्गो वा रूपस्य विलक्षणत्वा-दित्यर्थं मत्वा व्यवस्थेत्युक्तन्यायं व्यञ्जयन् व्याचष्टे । न च तर्हीत्यादिना । एवं प्रकाशवदिति विलक्षणरूपोपेतमिति मतुबन्ततया व्याख्याय वत्यन्ततयापि व्याकुर्वद्भाष्यमवतार्य व्याचष्टे ॥ नन्वित्यादिना ॥ यद्वा विलक्षणरूपत्वादिति न साक्षात्सूत्रारूढं, किन्तु प्रकाशवदिति दृष्टान्त-बलाल्लब्धहेतुकथनपरमिति ज्ञेयम् । नयनादीत्यादिपदेन मनआदीन्द्रियान्तरं गृह्यते । तद्रश्मीनामपि गृहाद्यन्तर्व्याप्तत्वात् । तथा चार्थद्वयसङ्ग्रहणं सूत्रार्थपरं तत्त्वप्रदीपवाक्यम् । यथा चक्षुर्मन-आदिप्रकाशे विद्यमानेऽपि सूर्यादिप्रकाशाभावेन वैलक्षण्यादप्रकाशव्यवहारस् तथा विलक्षण-रूपत्वादरूपत्वश्रुतीनां रूपवत्वश्रुतीनां च न वैय्यर्थ्यमतश्चशब्द इति । ‘यथा हि तैजसस्यैव प्रकाशस्योज्झितावपि । आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा’ इत्यनुव्याख्यानं मनसि निधाय प्रकाशवच्चेति सूत्रस्यार्थान्तरं व्यावर्त्यकथनपूर्वमाह ॥ न चैवं रूपशब्दस्येत्यादिना ॥
तत्त्वसुबोधिनी
अनित्यत्वेन व्याप्तं यद्भौतिकं प्राकृतरूपं तद्विलक्षणत्वेनेत्यर्थः । कुत इत्यत आह ॥ चक्षु-रादीति ॥ प्रकाशवच्चावैय्यर्थ्यमिति सूत्रस्यार्थान्तरं तन्निवर्तनीयाशङ्काप्रतिषेधपूर्वकमाह ॥ न चैवमिति ॥ अप्रसिद्धोऽपीति ॥ तथा च लोकविलक्षणेऽपि भगवद्रूपे रूपशब्दप्रवृत्तिर्युक्तेति भावः ।
वाक्यार्थविवरणम्
अनित्यत्वव्याप्तेति ॥ ‘भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मत’ इत्याद्युक्तेरिति भावः ॥ इत्यत आहेति ॥ इत्याशङ्कापरिहारायात्र दृष्टान्तमाहेत्यर्थः ॥ लौकिकप्रकाश आलोकाख्यः ॥ एवम् ॥ प्राकृतभौतिकविग्रहानङ्गीकारे ॥ वैय्यर्थ्यमिति ॥ विषयाभावादप्रामाण्यमित्यर्थः । अप्रसिद्धप्रकाशे अप्रसिद्धप्रकाशरूपे ॥ प्रकाशशब्देति ॥ प्रकाशशब्दपर्यायज्योतिश्शब्देत्यर्थः ।
वाक्यार्थमञ्जरी
ब्रह्मणो रूपित्वाद्रुक्मवर्णमित्यादिश्रुतीनामवैय्यर्थ्यम् अप्रामाण्यं नास्ति । तर्ह्यरूपित्व-श्रुतिविरोध इत्यत उक्तम् ॥ प्रकाशवदिति ॥ यथांधकारे चक्षुरादिप्रकाशसत्वेऽपि तस्य सौरादि-प्रकाशविलक्षणत्वान्नास्ति प्रकाश इति व्यवहारस्तथा भगवद्रूपस्य प्राकृतादिरूपविलक्षणत्वाद-रूपित्वोक्तिरित्यर्थः । शङ्कान्तरवारकत्वेनापि सूत्रं योजयति ॥ न चैवमिति ॥ भगवद्रूपस्या-प्राकृतत्वेत्यर्थः ॥ वैयर्थ्यमिति ॥ रूपशब्दस्याप्राकृतरूपे व्युत्पत्त्यभावेन तच्छ्रोतुरर्थाप्रतीतिरिति भावः ॥ प्रकाशशब्दप्रवृत्तेरिति ॥ तद्वदेव लोकविलक्षणेऽपि भगवद्रूपे रूपशब्दप्रवृत्तिर्युक्ता सुवर्णघटे घटशब्दस्येव किञ्चित्सादृश्यमात्रेण व्युत्पत्त्युपपत्तेरिति भावः ।