ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ
८. स्थानतोऽप्यभेदाधिकरणम्
सूत्रभाष्यं
स्थानापेक्षया, परमात्मनो(ऽपि) भेदादनुग्राह्यानुग्राहकभाव इत्यत आह–
॥ ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥ ११ ॥
स्थानापेक्षयाऽपि परमात्मनो न भिन्नं रूपम् ।
‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षत’ (ऐ.आ. ३-२-३) इति श्रुतिः ।
‘एकरूपः परो विष्णुः सर्वत्रापि न संशयः ।
ऐश्वर्याद्रूपमेकं च सूर्यवद्बहुधेयत’ इति (हि) मात्स्ये ॥
‘प्रतिदृशमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः’ इति च भागवते ॥
तत्त्वप्रदीपिका
स्वप्नादिस्थानानां भेदात्तदपेक्षया परस्यापि तत्र तत्र स्थितस्य रूपभेद सम्भवादनुग्राह्यानु-ग्राहकभावस्तद्रूपेष्वपि स्यात् । अतो न पर्याप्तमहिमत्वमित्यत आह ॥ ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥ स्थानापेक्षयाऽपि परमात्मनो न भिन्नं रूपम् । न हि स्थानभेद-स्तस्योभयत्वस्य कारणं लिङ्गं वा भवति । स्थानभेदेऽपि तद्गतवस्त्वेकत्वोपपत्तेः । स्वप्नाद्यवस्था-भेदेऽपि तद्वतो भोक्तुरेकत्ववत् । प्रतिदृशमनेकधा स्थितमर्कं यथैकं समधिगच्छति विद्वान्, तथा हरिमपि तत्र तत्र स्थितमेकं समधिगतोऽस्मि । विष्णौ भेदोऽस्तीति व्यामोहो भेदमोहः ।
‘जाग्रदादिकरो देवः परमात्मैक एव तु ।
इति वीक्षेत सततं मुच्यते संसृतेरत’ इति प्रकाशिकायाम् ॥
तत्त्वप्रकाशिका
अत्रेश्वरप्राप्तिसाधनभक्त्यर्थं तस्य सर्वत्र निर्दोषाशेषसद्गुणत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । स्वगततारतम्ये न तत्र निरतिशया भक्तिर्जायत इति तत्प्रतिषेद्धव्यम् । सर्वावस्थाप्रेरकत्वेन प्रकृतः परमात्मा विषयः । प्रतिशरीरं जाग्रदादिस्थानेषु स्थितः किमन्योन्यं भिन्न उताभिन्न इति सन्देहः । घटादीनां भिन्नत्वदर्शनमाकाशादीनामभिन्नत्वदर्शनं च सन्देहबीजम् । पूर्वपक्षयति ॥ स्थानेति ॥ सर्वशरीरेषु जाग्रदादिस्थानेषु च स्थितो विश्वादिरूपो हरिरन्योन्यं भिन्न एव । भिन्नस्थानत्वाद् घटादिवत् । न चाकाशादिदवदुपपत्तिरिति वाच्यम् । किमीश्वरोऽवयवी पाणिपादाद्यवयवैरनेकस्थान उत समग्ररूपेण वा । नाद्यः । विश्वादीनां सप्ताङ्ग एकोनविंशतिमुख इत्यादिना प्रत्येकं रूपश्रवणात् । द्वितीयेऽसङ्गतो दृष्टान्तः । अतोऽस्त्येव विश्वादीनां भेदः । तथा च भिन्नानां गुणादि-तारतम्यादनुग्राह्यानुग्राहकभावदर्शनाच्च तत्प्रसङ्गः । एवं च निरतिशयैश्वर्याभावान्न तत्र भक्तिर्युक्तेति भावः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ न तत्र तत्राऽऽस्थितो हरिर्मिथो भिन्नः । न च भिन्नस्थानतानुमानविरोधः । सर्वेषु भूतेष्विति श्रुतिविरोधेन बाधितविषयत्वादिति भावः । सर्वेषु भूतेषु चक्षुरादिस्थानेषु एतमेकमेव पूर्णगुणमाचक्षत इत्यर्थः । एकैकदेशतोऽनेकस्थानगतत्वं परस्याविरुद्धं श्रुतिविरुद्धं चेति भावेनोभयत्वमित्यनुक्त्वा उभयलिङ्गमित्युक्तम् । तद्व्याख्यानं भिन्नं रूपमिति । ‘लिङ्गं स्वरूपमुद्दिष्टं लिङ्गं ज्ञापकमेव च’ इति वचनात् । समग्ररूपेणानेकस्थानगतत्वं कथमुपपद्यते हरेरन्यत्राऽदृष्टत्वादित्यत आह ॥ एकेति ॥ सूर्यदृष्टान्तं स्पष्टयन्नुक्तार्थे स्मृत्यन्तरं चाह ॥ प्रतिदृशमिति ॥ प्रतिदृशं प्रेरकत्वेनैश्वर्यवशान्नैकधा स्थितमर्कं यथैकमेव समधिगच्छन्ति । तथा भूतानां प्रतिहृदयं सामग्य्रेणैश्वर्यबलादनेकधा स्थितमीश्वरमेकं समधिगतोऽस्मीत्यर्थः । मां प्रति मां प्रतीति बहुधा स्थितमिति वा ।
गुर्वर्थदीपिका
उभयत्वमित्यनुक्त्वोभयलिङ्गत्वमित्युक्तमित्यत्रोभयत्वं भिन्नत्वं नास्तीत्युक्ते नानास्थानेषु रूपबाहुल्यमङ्गीकृत्य तद्भेदमात्रं निषेद्धुं पाणिपादाद्यवयवाख्यांशैर्व्याप्तस्यानेकस्थानस्थस्य तैरंशैर्भेदो नास्तीत्येतावताऽपि सूत्रं चरितार्थं स्यात् । तन्मा भूदिति सूत्रकृता उभयलिङ्गत्वमुक्तम् । एवं च स्थानभेदेऽपि भगवतः भिन्नशरीरं नास्तीत्युक्तं स्यात् । तथा च ‘सविशेषणे विधिनिषेधौ विशेषणमुपसंक्रामत’ इति न्यायेन नानास्थानेषु विशेष्यभूतं समग्रमङ्गीकृत्य तद्भेदमात्रं निषिद्धं स्यात् । अत उभयलिङ्गमित्युक्तमिति भावः ।
भावबोधः
सर्वावस्थाप्रवर्तकत्वेन प्रकृत इति ॥ तथा चातीताधिकरणेषु सर्वावस्थाप्रवर्तकत्वोक्ताववस्थानां भिन्नत्वात्परमात्मनोऽपि भेद इति पूर्वपक्षोत्थानादनन्तरसङ्गतिः । यद्वा, युगपद्भिन्नस्थानत्वेन परमात्मनोऽपि भेदे भिन्नानां च तारतम्यमनुग्राह्यानुग्राहकभावश्चोपलब्ध इति तत्प्रसङ्गोऽपीति कथं ‘स एव च’ इत्युक्तमिति सुधोक्तरीत्या ‘स एव च’ इत्युक्ताक्षेपादनन्तरसङ्गतिः । न चैवं तदानन्तर्यमेव स्यादिति वाच्यम्; सार्वदेशिकसार्वकालिकसर्वावस्थाप्रवर्तकत्वप्रदर्शनपरस्य ‘स एव च’ इत्यस्यावस्थाविशेषप्रतिपादनपरात् ‘मुग्धेऽर्धसंपत्तिः’ इत्यतोऽनन्तरं कर्तव्यत्वेऽपि व्यत्यासे निमित्तस्योक्तत्वात् ॥ प्रतिशरीरमिति ॥ अत्र विश्वादिरूपी परमात्मा प्रतिशरीरं जाग्रदादिस्थानेषु स्थितः किमन्योन्यं भिन्न उताभिन्न इति चिन्ता । तदर्थं भिन्नस्थानत्वानुमानं किं विश्वादीनां भेदसाधकमुत नेति । तदर्थं तदनुमानम् ‘एतमेव ब्रह्मेत्याचक्षते’ इति श्रुतिबाधितं न भवत्युत भवतीति । तदर्थमनुमानं किं ‘कार्यकारणबद्धौ’ इति श्रुत्युपोद्बलितं न वेति । तदर्थमियं श्रुतिः ‘अयं वै हरय’ इत्याद्यभेदप्रतिपादकश्रुतिबाधिता न भवत्युत भवतीति । तदर्थम् ‘अयं वै हरय’ इत्याद्यभेदप्रतिपादिका श्रुतिर्विश्वादिव्यतिरिक्तमत्स्यादिकतिपयरूपाभेदप्रतिपादकत्वेन सावकाशोत सर्वरूपाभेदविषयत्वेन निरवकाशेति । तदर्थं ‘कार्यकारणबद्धौ’ इति भेदप्रतिपादिका श्रुति-र्निर्विषयोत सविषया वेति । तथा च भेदप्रतिपादकश्रुतेर्विषयान्तराभावे तत्प्रामाण्यायोगा-त्तत्सिद्ध्यर्थम् ‘अयं वै हरय’ इति श्रुतेः कतिपयरूपविषयत्वेन सावकाशतया बाधकत्वाभावेन तदबाधितभेदश्रुत्युपोद्बलितत्वेन प्रबलस्य भिन्नस्थानत्वानुमानस्य ‘एतमेव’ इति श्रुत्या बाधा-सम्भवात्, अबाधितेन तेन विश्वादीनां भेदसिद्धिरिति पूर्वपक्षे, भेदश्रुतेः सर्वरूपविषयत्वेन निरवकाशत्वे तद्बाधितभेदश्रुतेरनुमानोपोद्बलकत्वासम्भवेन केवलानुमानस्य ‘एतमेव’ इति श्रुतिबाधितत्वान्न तेन विश्वादीनां भेदसिद्धिरिति सिद्धान्ते च फलफलिभावः ॥ सर्वशरीरेष्विति ॥ भिन्नस्थानत्वादिति हेतोः स्वरूपासिद्धिशङ्कापरिहारार्थमुक्तम् ॥ सर्वशरीरेषु जाग्रदादिस्थानेषु चेति ॥ भेदमात्रसाधने सिद्धसाधनत्वप्रसङ्गाद् अन्योन्यमिति ॥ न चैकस्यैव घटस्य कालभेदेन भिन्नस्थानत्वसम्भवेनाप्रयोजको हेतुरिति वाच्यम्, युगपद्भिन्नस्थानत्वस्य हेतुत्वेन विवक्षितत्वात् । अनेन स्थानभेदाद्विष्णोरपि भेद इति न्यायविवरणमपि व्याख्यातम् ।
ननु भिन्नस्थानत्वं कथमन्योन्यं भेदसाधकम् । स्वाभेदेऽपि व्याप्तत्वेन भिन्नस्थानत्वो-पपत्तेरित्यन्यथासिद्धिशङ्कामाशङ्क्य परिहरति– न चाकाशादिवदिति ॥ श्रवणादिति । तथा च तद्विरोधः स्यादित्यर्थः ॥ असङ्गत इति ॥ आकाशस्य समग्ररूपेणानेकस्थानत्वाभावादिति भावः । एतेन भिन्नस्थानत्वहेतोराकाशे व्यभिचार इत्यपि परिहृतम् । समग्ररूपेणेत्यस्य हेतुविशेषणत्वादिति ॥ नन्वस्तु परमात्मनो भेदः । तथा च को दोष इत्यत उक्तं भाष्ये भेदादनुग्राह्यानुग्राहकभाव इति ॥ तदभिप्रायमाह– तथा चेति ॥ तत्प्रसङ्गश्चेति ‘च’ शब्द-सम्बन्धः । अत एव सुधायां तत्प्रसङ्गोऽपीत्युक्तम् । भिन्नानामनुग्राह्यानुग्राहकभावहीनोच्चादिभाव-
निबन्धनत्वाद्गुणतारतम्येत्युक्तम् । तथा च भेदाद्गुणतारतम्यं ततश्चानुग्राह्यानुग्राहकभावः स्यादित्यर्थः ।
ननु भिन्नानामपि केषाञ्चिद्गुणतारतम्यानुपलम्भाद्व्यभिचार इति चेत्, न; चेतनानां परस्पर-भेदस्योत्सर्गतो गुणादितारतम्यव्याप्तत्वात् साम्यग्राहकप्रमाणरूपापवादनिबन्धनस्यादोषत्वात् । तदुक्तम्–
‘उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् ।
व्यभिचार्यपवादेन मानमेव भविष्यति ॥’ इति ।
श्रुतावेतमित्येकवचनश्रवणादाह– एकमिति ॥ ब्रह्मशब्दार्थमाह– पूर्णगुणमिति ॥ ननु सूत्रे ‘परस्योभयत्वम्’ इत्यल्पाक्षरेणैव भेदाभावोक्तिसम्भवे ‘उभयलिङ्गम्’ इति किमर्थमुक्तमित्यत आह– एकैकदेश इति ॥ परस्य परमात्मनः । असिद्धं प्रमाणाभावात् । न केवलमप्रामाणिकम् । किं तु सप्ताङ्ग एकोनविंशतिमुख इत्यादिप्रमाणविरुद्धं चेत्यर्थः । तथा च परस्योभयत्वं नेत्येवोक्तौ पाणिपादाद्यवयवरूपैकदेशतोऽप्यनेकस्थानत्वेन भेदाभावो विज्ञायेत । उभयलिङ्गेनेत्युक्तौ तु भिन्नस्थानेषु विद्यमानानां समग्ररूपाणां भेदमात्रनिषेधो विज्ञायेत । विशिष्टनिषेधस्य विशेषण-निषेधपर्यवसानादिति भावः ।
भावदीपः
भेदमात्रनिरासपरत्वभ्रान्तिनिरासाय ‘सर्वत्राशेषदोषोज्झपूर्णकल्याणचिद्गुण’ इत्यनु-भाष्यदिशाऽर्थमाह ॥ सर्वत्रेति ॥ स्थानेषु रूपेष्विति वाऽर्थः ॥ समर्थनादिति ॥ स्थान-भेदकृतभेदादिशङ्कानिरासेनेति भावः । तेन ‘अतोऽनन्तगुण’ इति सर्वदोषोज्झितस्तस्मात्’ इत्यणुभाष्योक्तदिशा निर्दोषाशेषगुणत्वस्य पूर्वाध्यायद्वयेनैव सिद्धेर् नेदमारभ्यमिति प्रत्युक्तम् । एतेन हृदयस्थादिति पूर्वत्र जीवस्य स्थानभेदेन जाग्रदाद्यवस्थोक्तौ ‘दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः’ । विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक्तथा प्राज्ञ इत्यादिश्रुत्या स्थानभेदेनैव विश्वादिरूपस्येश्वरस्य जाग्रदाद्यवस्थाप्रवर्तकत्वोक्तेस्तद्रूपाणामप्यन्योन्यं भेदादि स्यादिति शङ्कनात्पूर्वसङ्गतिरपि ध्येया । सुधायां तु युगपद्भिन्नस्थानत्वेन परमात्मनोऽपि भेदे भिन्नानां च तारतम्यमनुग्राह्यानुग्राहक-भावश्चोपलब्ध इति तत्प्रसङ्गोऽपीति कथं स एव चेत्युक्तमित्युक्तिस्तु एतच्चिन्ताफलोक्तिपरा । स्थानभेदाद्विष्णोरपि भेद इत्यन्यत्रोक्त्यनुरोधेन स्थानेति भाष्यं स्थानभेदापेक्षयेत्यर्थमुपेत्य व्याचष्टे ॥ सर्वशरीरेष्वित्यादिना ॥
ननु सर्वत्र प्रसिद्धोपदेशादित्यधिकरणे निचाय्यत्वादेवं व्योमवच्चेति गुणसूत्रे व्योमदृष्टान्तेनैकस्य परमात्मनोऽनेकस्थानेषु स्थितिरुपपादिता । यथोक्तमनुव्याख्याने । ‘महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदवित् । यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् । स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद् ध्रुवम् । एकत्राप्यनवस्थस्य कुत एवाखिलस्थता’ इत्यादि । तथा च कथमेवमाशङ्का । हेतोरप्रयोजकत्वादित्यतो व्योमवैषम्योक्त्या प्रागुक्ताक्षेपेण सौत्रलिङ्गपदव्यावर्त्यविवरणेन पूर्वपक्ष-मुज्जीवयति ॥ न चेत्यादिना ॥ विश्वेति ॥ ‘सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः । स्वप्नस्थानोंऽतःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पाद’ इत्यादिना माण्डूके दक्षिणाक्ष्यादिषु जाग्रदादिप्रवर्तकत्वेनोक्तविश्वादीनां प्रत्येकं पाणिपादादि-समग्ररूपश्रवणात् । तथा श्रुतौ ‘अक्षिस्थस्य तस्य भूरिति शिरः, भुव इति बाहू, स्वरिति पादौ’ इत्युक्तेरित्यर्थः । चत्वारो बाहवः, द्वौ पादौ, हस्तिमुखत्वादेको मुखकर, इति सप्ताङ्गः । ‘वैश्वानरो जागरितस्थानगो गजवक्त्रकः । निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः । अष्टादशमुखान्यस्य पुमाकाराणि सर्वशः । मध्यमं तु गजाकारं चतुर्बाहुधरः (बाहुःपरः) पुमान् । पादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरित’ इति तद्भाष्योक्तेः । यद्यप्यत्र ‘सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरो मुखम्’ । ‘विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात्’ । इत्यादिना पाणिपादादेरपि व्याप्तत्वोक्तेस्तद्विरोधो वक्तुं शक्यस्तथाप्यस्याल्पश्रुतेरित्यत्रोक्तन्यायेन समाधानस्य स्पष्टत्वाद्वा ‘अणोरणुतरै रूपैः पाणिपादादिसंयुतैः । सर्वत्र संस्थितत्वात्स सर्वतः पाणिपादवान्’ । इत्यादिना गीतातात्पर्ये त्रयोदशे व्याख्यातत्वेन सप्ताङ्गेतिश्रुतिविरोधोक्त्यैव तुल्यार्थतया तद्विरोधस्याप्युक्तप्रायत्वाद्वा मुखतोऽनुक्तिः ॥ दृष्टान्त इति ॥ आकाशादिवदुपपत्ति-रित्युक्तदृष्टान्त इत्यर्थः । तस्यैकदेशेनैव नानास्थानेषु स्थितेरिति भावः । एतेन विष्णोरपीत्य-न्यत्रोक्तवाक्ये व्योमवदनेकस्थानेषु स्थितत्वेनोक्तस्यापि स्थानभेदाद्भेद एवेत्यपि शब्दार्थो दर्शितः ।
नन्वेषापि शङ्काऽल्पश्रुतेरिति चेत्तदुक्तमिति दहरनयगुणसूत्रे एव परिहृतेति चेन्न । तत्राऽऽकाशवदंशतोऽनेकत्र वृत्तिरयुक्ता । अंशस्यापि व्याप्तत्वादित्याशङ्कैव श्रुतिबलान्निरस्ता । यथोक्तं तत्र भाष्ये । ‘एष म आत्माऽन्तर्हृदये ज्यायान’ इति श्रुत्युक्तत्वाच्चेति । अत्र तु समग्रावयवरूपैरनेकत्राऽवस्थानं तेषां भेदं विना न युक्तमिति शङ्का निरस्यत इति भेद इति भावः । एतेनांऽशो नानाव्यपदेशादित्यधिकरणेन पौनरुक्त्यं तत्रैव भगवद्रूपाणां प्रकाशादिवन्नैवं परः स्मरन्ति चेत्यादिना भेदाभावस्योक्तेर्जीवानामीश्वरांशत्वे मत्स्यादिसाम्यमाशंक्य जीवानां मत्स्यादिरूपाणां च भगवद्भिन्नाभिन्नांशत्वेन साम्यनिरासस्य तत्र भाष्यादौ स्पष्टत्वादिति निरस्तम् । जीवेन तेषां भिन्नांशत्वोक्तावेव तात्पर्याद्वा मत्स्यादीनां तथात्वेऽप्यक्ष्यादिस्थानभेदेन स्थितानां विश्वादीनां भेदादेवावश्यकत्वमित्यादिविशेषशङ्कानिरासाद्वाऽपौनरुक्त्यादिति । यत्तु शास्त्रयोनित्वात् श्रुतेस्तु शब्दमूलत्वादित्यादौ सूत्रे ‘नैषा तर्केण मतिरापनेया’ इत्यादिश्रुतौ चेश्वरस्य तर्कागोचरत्वोक्तेः कथं स्थानभेदादीश्वरभेदानुमानप्राप्तिरिति । तन्न सर्वकर्तृत्वेन गुणपूर्णत्वाद्यनुमानवत् श्रुतिसमर्पितेश्वररूपेषु स्थानभेदेन भेदानुमानोपपत्तेः । स्वतन्त्रानुमाना-योग्यत्वस्यैव प्रागभिधानात् । अन्यथा मीमांसानारम्भापत्तेः । पूर्वोक्तस्यैवात्र प्रपञ्चनाद्वा । भाष्यशेषं योजयति ॥ तथा चेति ॥ स्थानापेक्षया भेदादित्यस्य निर्बाधे सतीत्यर्थः । भाष्ये भेदादिति हेतुरुपलक्षणमिति भावेन मध्ये हेत्वन्तरमाह ॥ भिन्नानामिति ॥ समगुणत्वेऽनुग्राह्यत्वादि-भावायोगात्तदुपपादकत्वेन गुणशक्तिक्रियादितारतम्येत्युक्तम् । तदुभयोपपादकत्वेन भिन्नानामिति । तत्प्रसङ्गः गुणादितारतम्यादिप्रसङ्ग इत्यर्थः ॥ एवं चेति ॥ गुणादितारतम्यादौ सतीत्यर्थः । ननु यद्रूपं सर्वानुग्राहकं पूर्णगुणं च तत्र भक्तिः स्यादेव तावताऽपि बन्धनिवृत्तिसम्भवादिति चेन्मैवम् । तद्रूपमिदमिति निर्णयायोगात् पूर्वं जाग्रदाद्यवस्थाप्रेरकत्वोक्तेर्भक्त्यर्थत्वेन तस्य विश्वतैजसादिनाना-रूपगतत्वेनैकत्रैव भगवत्यभावेन तदुक्तेर्भक्त्यर्थत्वानापत्तेः । अधिकारिभेदेन विश्वादिरूपाणां तत्तदधिकारियोग्यबिम्बतया सर्वरूपेषु भक्तेरावश्यकत्वादिति भावः ।
परमात्मना रूपाणामभेदस्यैव प्रतीत्या रूपाणामन्योन्याभेदाप्रतीतेर्भाष्यसूत्रे तात्पर्यतो व्याचष्टे ॥ न तत्र तत्रेति ॥ श्रुतिबलात्स्थानानां भेदस्तस्याभेद एवेति व्यवस्थोपपत्तेरित्यन्यत्रोक्त्यनुरोधेन शेषस्य तात्पर्यमाह ॥ न चेत्यादिना ॥ बाधितेति ॥ प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृत-मिति तत्वनिर्णयोक्तस्मृतेरदृष्टे विषये आगमस्य प्राबल्यादुपजीव्यत्वाच्चेति भावः । प्रकृतोपयोगितया श्रुत्यर्थमाह ॥ सर्वेष्विति ॥ भूतपदमुपलक्षणं मत्वाऽऽह ॥ चक्षुरादिस्थानेष्विति ॥ स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यतेति पूर्वत्रैतरेये भूतहृदयगुहाप्रविष्टस्य तस्य त्रय आवसथास्त्रयः स्वप्ना इति चक्षुरादिस्थानानामप्युक्तेः । अत एवोत्तरत्र चक्षुर्मय इत्याद्यप्युच्यत इति भावः । एतमित्येकवचनार्थ एकमिति । ब्रह्मेत्याचक्षत इतीतिशब्दः प्रकारवाचीति भावेनाह ॥ पूर्णगुणमाचक्षत इति ॥ एतमेवाखिलजगद्व्याप्तं पूर्णगुणात्मकमित्यैतरेयभाष्योक्तेरिति भावः । लिङ्गपादे शब्दविशेषादित्यत्र तु ब्रह्मशब्दवाच्यमाचक्षत इत्यर्थोऽभिमतः । भिन्नं रूपमित्यस्य व्याख्येयप्रदर्शनपूर्वमुपयोगमाह ॥ एकैकेति ॥ परस्याविरुद्धमिति ॥ सर्वगतस्यापि परमात्मनो व्योमवदेकदेशतोऽनेकस्थानत्वस्य निचाय्यत्वादेवं व्योमवच्चेत्यत्रैव व्युत्पादितत्वेनाविरुद्धमित्यर्थः । तथा च तत्र विरोधाभावान् न स्थानतोऽपि परस्योभयत्वमिति न वक्तव्यं स्यादिति भावः । तर्हि न स्थानतोऽपि परस्योभयलिङ्गमित्यपि न वक्तव्यमित्यतो व्यावर्त्यविशेषशङ्कां पूर्वपक्ष्युक्तां स्मारयति ॥ श्रुतिविरुद्धं चेति ॥ सप्ताङ्ग इत्यादिश्रुतिविरुद्धं चेत्यर्थः । वस्तुतस्तु परस्येत्यस्य पूर्वपक्षिण इत्येवार्थः । तावता को दोष इत्यत आह ॥ श्रुतीति ॥ इत्युक्तमिति ॥ सूत्र इत्यर्थः ॥ तद्व्यख्यानमिति ॥ तथा च सविशेषणे हीति न्यायेन सर्वत्र समग्ररूपेषु सत्सु तेषां भिन्नत्वमात्रं निषिद्धं भवतीति भावः । लिङ्गपदस्य स्वरूपार्थत्वे सप्तमस्कन्धतात्पर्ये द्वितीयाध्यायोक्तं वचनमाह ॥ लिङ्गमिति ॥ ज्ञापकमेवेत्यन्तोक्त्या न हि स्थानभेदस्तस्योभयत्वस्य लिङ्गं कारणं वा भवतीति तत्त्वप्रदीपोक्तयोजनान्तरमपि बोध्यमिति सूचयति । तेनोभयरूपमित्येव सूत्रेण किं न कृतमिति निरस्तम् । ऐश्वर्यादित्यस्य व्यावर्त्यं कथमुपपद्यत इति ॥ सूर्यवदित्यस्य व्यावर्त्यम् अन्यत्रा-दृष्टत्वादिति ॥ शेषपूर्त्या दृष्टांतांशं व्याचष्टे ॥ प्रतिदृशमिति ॥ तमिममहमजं शरीरभाजां हृदि हृदि विष्ठितमात्मकल्पितानामिति पूर्वार्धगतपदानामर्थमाह ॥ तथेत्यादिना ॥ विशब्दार्थः सामग्य्रेणेति ॥ ऐश्वर्यबलादिति ॥ आत्मनि चैवं विचित्राश्च हीत्युक्तदिशाऽघटितघटका चिन्त्य-शक्तिबलादित्यर्थः । वेरर्थान्तरमनेकधेति । विशेषेण विविधतया च स्थितं विष्ठितमित्युक्तं भवति ॥ अजमित्यस्येश्वरमिति ॥
अभिनवचन्द्रिका
सर्वत्राशेषगुणवत्वसमर्थनादिति ॥ यद्यपि अत्राधिकरणे न सर्वत्राशेषगुणत्त्वं समर्थ्यते किंतु भेदो निराक्रियते । तथापि भेदकनिराकरणस्य सर्वत्र गुणपूर्णतासिध्द्यर्थत्वाद् अधिकरणफलाभि-प्रायेण गुणपूर्णतासमर्थनादित्युक्तम् ॥ स्वगततारतम्य इति ॥ ईश्वरात्मकानां विश्वादीनां परस्परभेदे तत एव च तारतम्ये ईश्वरस्यानन्तरूपेण गुणपूर्णत्वरूपमहामहिमत्वाभावात् पूर्णत्वप्रयुक्तभक्ति-सम्भवेऽपि न निरतिशया भक्तिः स्यादित्यर्थः ॥ घटादीनामिति ॥ घटादीनां भिन्नस्थानस्थितानां भेददर्शनम् । आकाशादीनां स्थानभेदेऽपि अभेददर्शनं सन्देहबीजमित्यर्थः । साध्यं विनापि हेतोः सिद्धिमाशङ्क्य निषेधति न चेति ॥ इतः परं टीकायां श्रूयमाणं ‘किमीश्वरोऽवयवी पाणिपादा-द्यवयवैरनेकस्थान, उत समग्ररूपेण । नाद्यः विश्वादीनां ‘सप्ताङ्ग एकोनविंशतिमुख’ इत्यादिना प्रत्येकं रूपश्रवणाद् द्वितीये इत्यन्तं वाक्यं प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयम् । भावानभिज्ञेन हेतोरन्यथासिद्धिशङ्कायां कृतायां, स्वाऽभिप्रेतहेतोराविष्करणीयत्वेन तं प्रति विकल्पकरणायोगात् । कुतो न वाच्यमित्यत आह– असङ्गत इति ॥ यत इति शेषः । सामस्त्येन भिन्नस्थानत्वस्य हेतुत्वेन विवक्षितत्वाद् असङ्गतो दृष्टान्त इति भावः । उपसंहरति अत इति ॥
ननु श्रुतेर्विश्वादीनां मूलरूपाभेदप्रतिपादकत्वेऽपि विश्वादीनां परस्परमभेद प्रतिपादकत्वाभावात् कथमेतच्छ्रुत्युदाहरणमित्यतः श्रुत्यर्थमाह– सर्वेषु भूतेष्विति ॥ सर्वेषु भूतेषु सर्वेषां चक्षुरादिषु एतं विश्वादिरूपिणम् एकमेवाऽऽचक्षते तथा चक्षुःस्थितं विश्वं कण्ठादिस्थिततैजसादिना एकम् अभिन्नं पूर्णगुणं चाऽऽचक्षत इति श्रुत्यर्थ इति भावः । इतः परं टीकायां श्रूयमाणं ‘एकैकदेशतोऽनेक-स्थानत्वं परस्याऽसिद्धं श्रुतिविरुद्धं चेति भावेनोभयत्व मनुक्त्वा’ इत्यन्तं प्रक्षिप्तम् । ‘उक्तमिति च प्रक्षिप्तम् । तच्छब्दश्च प्रक्षिप्तः । अस्येत्युच्छिन्नम् । ततश्च एवं टीकावाक्यपाठः ‘उभयलिङ्गमित्यस्य व्याख्यानं भिन्नरूपम्’ इति । अवश्यं चैतदेवं विज्ञेयम् । सामस्त्येनाऽनेकस्थानस्थित्यभिप्रायकेण ‘स्थानत’ इति पदेन भावानभिज्ञस्यै कैकदेशतोऽनेकस्थानस्थितत्वभ्रमसम्भवेऽपि तस्योभयत्वमिति-पदोच्चारणप्रयुक्तत्वाऽभावात्, तदनुत्पादायोभयत्वमित्यनुक्त्वेत्युक्त्ययोगात् । न हि यदुच्चारणप्रयुक्तो भ्रमो भवति तत्परित्यागमनुक्त्वा, यदुच्चारणप्रयुक्तो भ्रमो न भवति तत्परित्यागकथनं युक्तिमत् । भाष्ये एकरूप इति ॥ सर्वत्र अक्ष्यादिस्थानेषु सामस्त्येन विद्यमानो विश्वादिरूपो विष्णुर् एकरूप एक एव अभिन्न एव नाऽत्र संशयः कार्यः, कथमेकस्य नानास्थानेषु सामस्त्येनाऽ-वस्थानमन्यत्रादृष्टत्वेनासम्भावितत्वादित्यत उक्तम् ऐश्वर्यादिति ॥ एकं च एकमपि तद्रूपम् ऐश्वर्याद् बहुधा=नानास्थानेषु सामस्त्येन वर्तते, सूर्यवदीयते सूर्यदृष्टान्तकेनाऽनुमानेन ज्ञायत इत्यर्थः । भाष्ये विधूतभेदमोह इति ॥ ईश्वरावतारेषु इदं च विधूतभेदमोहः । निरस्तभेदभ्रम इत्यर्थः । टीकायां ‘समधिगतोऽस्मि’ इत्यर्थ इत्यतः परं ‘मां प्रति मां प्रतीतिबहुधास्थितमिति वा’ इति वाक्यं प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयम् । अस्य व्याख्यानस्य नास्त्येवेश्वरस्याऽनेकं रूपं किंतु सूर्यमण्डलवत्पतीतिमात्रमिति विरुद्धार्थप्रतिपादकत्वात्, जाग्रदवस्थाया अविद्याकार्यत्वाभावात् …… …….. ।
तत्प्रवर्तकस्य विश्वस्य कार्यबद्धत्वकथनमयुक्तमित्यत आह– कार्यभ्रमेति ॥ अत्र जाग्रच्छब्देन जाग्रदवस्थागतज्ञानमुच्यते । ज्ञानमात्रस्याऽविद्याकार्यत्वाभावेऽपि तद्विशेषस्याविद्याकार्यत्वात्तद्बद्ध उच्यत इति भावः । तैजसस्य कार्यबद्धत्वमुपपादयति तत्कारणेति ॥ सः जाग्रत्कालीनो भ्रमः कारणं यस्य भ्रमस्येति विग्रहः । तथा च जाग्रत्कालीन भ्रमकार्यस्वाप्नभ्रमबद्धस्तैजसः कार्यबद्ध (इति) उच्यत इति भावः । उभावपि अविद्यारूपकारणेन बन्धकत्वात् ‘कारणबद्धौ’ उच्यते इति ग्राह्यम् । एतेन विश्वतैजसयोर्द्विविधबन्धवत्वं प्रतिज्ञाय एकैकबन्धकथनमयुक्तमिति परास्तम् ॥ तत्कारणाज्ञानेति ॥ द्विविधभ्रमकारणाज्ञानरूपसुप्तिबद्ध इत्यर्थः । शङ्कते नैतच्छ्रुतिबाध इति ॥ एतच्छ्रुत्या ‘एष त आत्माऽन्तर्यान्यमृत’ इत्यादि श्रुत्या ‘कार्यकारणबद्धौ तौ’ इति भेदश्रुते-र्विषयापहारो नेत्यर्थः ॥ तासामिति ॥ अभेदश्रुतीनां कतिपयविषयत्वेन भिन्नविषयत्वसम्भवादिति भावः । ‘अयमात्मा’ इत्यन्तिमश्रुतेर्विषयसङ्कोचोऽपि न कार्य इति भावेनाह– अन्तिमश्रुतौ चेति ॥ विश्वाद्यनन्तरूपाणामिति ॥ विश्वाद्यनन्त रूपाणामभेदेन विशिष्य पठितत्वादित्यर्थः ।
ननु अनन्तरूपत्वमेव ‘अनन्तमात्र’ इत्यनेन पठ्यते न तु परस्पराऽभेदवैशिष्ट्येन । तत्कथ-मुच्यते विश्वादीनामभेदेनैव पठितत्वादितीत्याशङ्कां परिहरन् ‘चशब्दादनन्तरूपत्वं चैके शाखिनः पठन्ति’ इति भाष्यं शेषपूरणेन समीकरोति चशब्दात्समुच्चितमिति शेष इति ॥ अनेनाऽनन्त-रूपत्वन्तु अनन्तमात्रं चेति चशब्दादभेदेन समुच्चितं कृत्वा पठन्ति’ इति भाष्यं व्याख्यातं भवति । एतेन श्रुतौ अमात्रोऽनन्तमात्रश्च’ति पदाभ्यां विश्वादीनां मूलरूपेणाऽभेदप्राप्तावपि विश्वादीनां परस्परमभेदाप्रतीतेः ‘अभेदेनैवाऽनन्तरूपत्वं पठन्ति’ इत्ययुक्तमिति परास्तम् । ‘अभेदेनैव चशब्दात्’ इति भाष्यस्य योजनान्तरमभिप्रेत्याह– अभेदेन सहैवेति ॥ अनेन ‘एके शाखिनश् चशब्दाच् चशब्दसहिताद् अनन्तमात्रशब्दाद् अभेदेनैव सह अत्यन्ताभेदेनैव सह ईश्वरस्यानन्त-रूपत्वं पठन्तीति भाष्ययोजनोक्ता भवति । पूर्वयोजनायां चशब्दादित्यतः परं समुच्चितमिति शेषोऽभिमतः, इह तु नेति विशेषः ॥ का गतिरिति ॥ भेदकबद्धत्वादिव्यपदेशस्य का गतिरित्यर्थः । भेदकधर्मा भेदनिर्वाह्या भवन्ति । न चेदीश्वररूपेषु भेदः । तर्हि केन भेदेन ते निर्वाह्या इति भावः । अत्र टीकायाम् ‘अभेदेऽपि भेदव्यपदेशोऽचिन्त्यैश्वर्यात्’ इत्युक्तम् । अनन्योऽप्यन्यशब्दन’ इति वाक्यं प्रक्षिप्तमिति ध्येयम् । अवश्यं चैतदेवं विज्ञेयम्, ‘अभेदेऽपि भेदव्यपदेश’ इति भाष्ये भेदव्यपदेशे स्थानभेदमात्रस्य हेतुत्वेनोक्तावपि ऐश्वर्यस्य तद्धेतुत्वेनाऽ-नुक्तेः । ऐश्वर्ययोगादित्यत्र चशब्दाऽभावात् । अत एव टीकाकृता ‘अक्ष्यादिस्थितो बद्धोऽन्यत्राबद्ध उच्यत इति भावः’ इत्येव व्याख्यातम् । अन्यथा ‘ऐश्वर्ययोगाच्च बद्धोऽबद्ध इत्युच्यत’ इत्यवक्ष्यत् । अत एव च अभिन्नस्य स्थानभेदः कुत इत्यत आहेति ‘ऐश्वर्या’दित्येतत् स्थानभेदो-पपादकतयाऽवतारितम् । ‘अनन्योऽप्यन्यशब्देन’ इति प्रमाणस्य ऐश्वर्ययोगादनन्योऽप्यन्य-शब्दवाच्यो भवतीत्यर्थकत्त्वेन ऐश्वर्ययोगाद्भेदक धर्मव्यपदेश इत्यर्थकत्वाभावाच्च । भावबोधे तु गङ्गाजलानुप्रविष्टयामुनोदकवत्तदपि वाक्यं सेव्यमेवेति भावेन व्याख्यातम् ।
पूर्वपक्षस्तु सर्वशरीरस्थितो विश्वादिरूपो हरिः परस्परं भिन्न एव । भिन्नस्थानत्वाद् घटादिवत् । न च अभेदेऽपि आकाशवद्भिन्नस्थानत्वोपपत्तिरिति वाच्यम् । कार्त्स्नेन भिन्नस्थान-त्वस्य हेतुत्वेन विवक्षितत्वात् । अतोऽस्त्येव विश्वादीनां भेदः । ततश्च अनुग्राह्याऽनुग्राहक-भावस्याऽवर्जनीयत्वान् निरतिशयैश्वर्याभावेन न तत्र भक्तिर्युक्तेति ।
सिद्धान्तस्तु विश्वादिरूपी हरिर् भिन्नस्थानोऽप्यभिन्न एव प्रतिपत्तव्यः । भेदसाधक-भिन्नस्थानत्वाऽनुमानस्य ‘सर्वेषु भूतेष्वेतमेव’ति श्रुतिबाधितत्वात् । ननु न विश्वादीनामभेदो युक्तः ‘कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिध्यत’ इति भेदकधर्मव्यपदेशादिति चेत्, न ‘एष तु आत्माऽन्तर्याम्यमृतः, अयमेव सः, अयं वै हरयो ऽयमात्मा ब्रह्म’ इति प्रत्येकमभेदवचनात् । अपि च ‘अमात्रोऽनन्त मात्रश्च द्वैतस्योपशमः शिवः । ॐकारो विदितो येन स मुनिर्नेतरो जनः’ इति विश्वाद्यनन्तरूपाणां परस्परं मूलरूपेण च अभेदमेके शाखिनः पठन्ति । अतो हरेः स्वगतभेदशून्यस्य सर्वगुणपूर्णत्वाद् युक्ता तत्र भक्तिरिति सिद्धम् ।
वाक्यार्थमुक्तावली
सर्वत्र निर्दोषाशेषेति ॥ सर्वरूपेष्वपि स्थानभेदकृतभेदाभावेन तारतम्याभावात् सर्वत्र निर्दोषाशेषसद्गुणत्वसमर्थनादित्यर्थः ॥ स्वगततारतम्य इति ॥ ईश्वरावतारत्वेनोक्तानां विश्वादीनां स्थानभेदकृतभेदेन स्वगततारतम्ये अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि । तावदेवेश्वरो नामेत्युक्तदिशा भक्तिप्रयोजकगुणोन्नत्वाभावेन निरतिशया भक्तिर्न जायत इत्यर्थः । सर्वावस्था-प्रवर्तकत्वेन प्रकृत इति ॥ स्थानभेदनिरूपणानन्तरं स्थानिनि भेदशङ्कावसर इति । मोहान्तस्थान-निरूपणानन्तरमस्याधिकरणस्य प्रवृत्तिरित्यनन्तरसङ्गतिरिति भावः ॥ प्रतिशरीरमिति ॥ विश्वादिरूपी परमात्मा स्थानभेदाद्भिन्न उताभिन्न इति चिन्ता । तदर्थं भेदसाधकं स्थानभेदानुमानम् एतमेव ब्रह्मेत्याचक्षत इति श्रुतिबाधितं न भवत्युत बाधितं भवतीति । तदर्थमनुमानं श्रुत्युपोद्बलितं न वेति । तदर्थं तदुपोद्बलिका कार्यकारणबद्धौ ताविति श्रुतिरयं वै हरयो अमात्रोऽनन्त-मात्रश्चेत्याद्यभेदप्रतिपादकश्रुत्या बाधिता न भवत्युत बाधितेति ॥ घटादीनामिति ॥ भिन्नस्थान-स्थितानामिति पूरणीयम् ॥ आकाशादीनामिति ॥ आदिपदेन तदतिरिक्तविभुपदार्थग्रहणम् । अत्रापि भिन्नस्थानगतानामिति पूरणीयम् । स्थानभेद इत्युक्तन्यायप्रदर्शकं भाष्यमवतार्य व्याचष्टे ॥ पूर्वपक्ष इतीति ॥ स्थानापेक्षयेत्यस्य स्थानभेदापेक्षयेत्यर्थमभिप्रेत्याह ॥ भिन्नस्थानस्थितत्वादिति ॥ हेतोरसिद्धिपरिहारार्थमुक्तं सर्वशरीरेषु जाग्रदादिस्थानेषु चेति ॥ भेदमात्रसाधने सिद्धसाधनप्रसङ्गाद् अन्योन्यमिति । न चैकस्य घटस्य कालभेदेन भिन्नस्थानत्वसम्भवादप्रयोजकत्वमिति वाच्यम् । युगपद्भिन्नस्थानस्थितत्वस्य हेतुत्वेन विवक्षितत्वात् । साध्यं विना हेतोःसिद्धिमाशङ्क्य निषेधति ॥ न चेति ॥ यथाकाशादिविभुपदार्थस्य घटमठादिभिन्नभिन्नस्थानगतत्वेऽपि न भेदस् तथा ईश्वरस्यापि भेदं विनैव भिन्नस्थानत्वोपपत्तिरित्यर्थः । यद्यप्याकाशे व्यभिचार इति शक्यते वक्तुं तथाप्य-न्यथासिद्धेः पक्षे व्यभिचारचोदनारूपत्वाद् अन्यत्र तदनुक्तिः ।
आकाशदृष्टान्तेन भिन्नस्थानगतत्वस्यान्यथासिद्धिं वदन्प्रष्टव्यः । हस्तवितस्त्याद्यंशैर्भिन्नस्थान-गतत्वस्यांशिन आकाशस्येव हस्तपादाद्यवयवैर् दक्षिणाक्ष्यादिभिन्नस्थानगतस्येश्वरस्य भेदं विनापि भिन्नभिन्नस्थानगतत्वोपपत्तिरित्युच्यत उत समग्ररूपेण भिन्नस्थानगतस्येत्याशयेन विकल्पयति ॥ किमीश्वर इति ॥ किमीश्वरोऽवयवी पाणिपादाद्यवयवैरनेकस्थानगत इति हस्तवितस्त्याद्यवय-वैरनेकस्थानगतस्याकाशाद्यवयविन इव भेदं विना भिन्नस्थानगतत्वोपपत्तिरित्युच्यते उत समग्ररूपेणैव भिन्नस्थानगत इत्यन्थोपपत्तिरित्युच्यते वेत्यर्थः ॥ श्रवणादिति ॥ तथा च पाणिपादाद्यवयवैर्भिन्नस्थानगतत्वस्य प्रमाणविरुद्धस्यास्माभिर्हेतूकर्तुमशक्यत्वान्नाकाशदृष्टान्तेना-न्यथासिद्धिचोदनेत्यर्थः ॥ द्वितीय इति ॥ प्रमाणविरोधाभावेनास्मद्विवक्षितत्वेऽप्यन्यथासिद्ध्यु-द्भावनाय त्वदुपात्तो दृष्टान्तोऽसङ्गतः । ईश्वरस्यैवांशिन आकाशस्य सामग्य्रेण भिन्नस्थानगतत्वा-भावादिति भावः । ननु भावानभिज्ञानहेतोरन्यथासिद्धावाशङ्कितायां स्वाभिप्रेतहेतोरेवाविष्करणीय-त्वेन विकल्पायोग इति चेद् अस्मदभिप्रायमजानता केनाभिप्रायेणास्मत्प्रयुक्तहेतोरन्यथासिद्धि-राशङ्कितेति विकल्पकरणोपपत्तेः । नन्वस्तु परमात्मनो भेदः को दोषस्तत इत्यत अपिशब्दा-दनुग्राह्यानुग्राहक इति भाष्यतात्पर्यमाह ॥ तथा चेति ॥ तत्प्रसङ्ग इति ॥ तयोर् गुणादि-तारतम्यानुग्राह्यानुग्राहकभावयोः प्रसङ्ग इत्यर्थः । अनुग्राह्यानुग्राहकभावोऽपीति तारतम्य-समुच्चायकापिशब्दस्य सम्बन्धः । तथा च भेदाद्गुणतारतम्यं ततश्चानुग्राह्यानुग्राहकभावः स्यादिति भाष्यार्थो ज्ञेयः । ननु भिन्नानामपि केषाञ्चिद्गुणादितारतम्यालाभाद्व्यभिचार इति चेच् चेतनानां परस्परं भेदस्योत्सर्गतो गुणादितारतम्यव्याप्तत्वात् । साम्यग्राहकप्रमाणरूपापवादनिबन्धनव्यभिचार-स्यादोषत्वात् । तदुक्तम् । ‘उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् । व्यभिचार्यपवादेन मानमेव भविष्यति’ इति ।
सूत्रे स्थानेति तद्भेदो लक्ष्यते । आद्यादिभ्य उपसङ्ख्यानात्सप्तम्यर्थे तसिः । उभशब्द-पर्यायोऽत्रोभयशब्दः । उभयशब्दश्च सङ्ख्याभेदयोर्वाचकः । उभादुदात्त इति सूत्रे द्व्यर्थस्य वृत्त्यादावुक्तत्वात् । एवं चोभयहेतुकेत्यत्र सङ्ख्यापरत्वेऽपि भिन्नपरत्वं न विरुध्यते । भेदश्चात्रा-न्योन्याभावलक्षणो गुणतारतम्यलक्षणोऽनुग्राह्यानुग्राहकभावलक्षणश्च विवक्षितः । ‘न स्थान-भेदतोऽप्यस्य भेदः कश्चित्परेशितुः’ । इत्यनुव्याख्याने कश्चिदित्युक्तत्वात् । अपिशब्दश्च परस्य पूर्णस्य समग्ररूपस्यापि स्थानभेदाद्भेदः । अतो नाकाशादिवदुपपत्तिरिति पूर्वपक्ष्यभिप्रायेण सम्बध्यते । अत एव पूर्वपक्षभाष्ये परमात्मनोऽपीत्युक्तम् । हेतोरप्रयोजनकत्वद्योतनाय स्थान-तोऽपीति यथाश्रुतं च सम्बध्यते । ततश्च स्थानभेदे सत्यपि परस्योभयलिङ्गं भिन्नं रूपं नास्ति । कुतः? हि यस्मात् कारणात्सर्वत्र सर्वभूतेषु चक्षुरादिस्थानेषु च परस्योभयलिङ्गं नेत्येतत् हि सर्वभूतेषु एतमेव ब्रह्मेत्याचक्षत इत्यादौ प्रसिद्धं तस्मादिति सूत्रार्थमभिप्रेत्य व्याचष्टे ॥ न च तत्रेति ॥ श्रुतावेतमेवेत्येकवचनश्रवणादाह ॥ एकमिति ॥ ब्रह्मशब्दार्थमाह ॥ गुणपूर्णमिति ॥ ननु सूत्रे परस्योभयत्वमित्यल्पाक्षरेणैव भेदाभावोेेक्तिसम्भवे लिङ्गमिति किमर्थमधिकोक्तिरित्यत आह ॥ एकैकदेशत इति ॥ परस्य परमात्मनः । असिद्धं प्रमाणाभावात् । सप्ताङ्ग एकोनविंशति इत्यादिश्रुतिविरुद्धं चेत्यर्थः । तथा च परस्योभयत्वमित्येवोक्तौ पाणिपादाद्यवयवैकदेशतोऽप्यनेक-स्थानत्वेन भेदाभावोऽपि ज्ञायेत । उभयलिङ्गमित्युक्तौ तु भिन्नस्थानेषु विद्यमानानां समग्ररूपाणां भेदमात्रनिषेधोऽपि ज्ञायते । विशिष्टनिषेधस्य विशेषणनिषेधपर्यवसानादिति भावः । तर्ह्युभयं रूपमिति स्पष्टं वक्तव्यं, किं नानार्थकलिङ्गपदप्रयोगेणेति चेत् हेतोरप्रयोजकत्वज्ञापनार्थमर्थान्तर-ज्ञापनार्थत्वात् । तदुक्तमानन्दमालायाम् । न हि स्थानभेदस्तद्भेदस्य ज्ञापकः कारको वा स्यादिति । तत्त्वप्रदीपे च न हि स्थानभेदस्तस्योभयत्वस्य लिङ्गं कारणं भवतीति स्थानभेदेऽपि तद्गतवस्तुष्वेकत्वोपपत्तेः स्वप्नाद्यवस्थाभेदेऽपि तद्वतो भोक्तुरेकत्वोपपत्तिरिति ।
अर्भकौकस्त्वादित्यत्र व्योमवत्सर्वगतस्याप्यंशेनैकत्र स्थितिः । अल्पश्रुतेरित्यत्रैकैकस्थितांश-स्यापि पूर्णत्वम् । अत्र तु पाणिपादादिसमग्रावयवैरेकैकस्थितस्य भगवदंशस्य विश्वादेर्भेदाभावः प्रतिपाद्यत इति भेदः ॥ अन्यत्रादृष्टमिति ॥ ब्रह्माण्डस्य अनेकरोमकूपाश्रयत्वं दृष्टमिति चेद् अनेकरोमकूपानां स्वशक्त्यैवाश्रयत्वेनाण्डशक्त्या तदभावात् । रोमकूपानामनेकत्वसङ्ख्याश्रयत्वेऽपि भेदाभावादिह समग्ररूपेण भिन्नस्थानगतत्वस्यान्यत्रादर्शनोक्तेः । अत एव कृष्णशिरसि मुक्त-किरीटस्य भगवद्रूपेष्वभेदात् तदिच्छया चैव नारायणस्य शीर्ष्ण्यप्यासीदिति नारायणशिरस्य-प्यवस्थानोक्तिरिति ज्ञेयः ॥ इत्यत आहेति ॥ सर्वत्र हीत्यनेन सूचितं सर्वत्रापि न संशय इति तत्पदगर्भं स्मृतिवाक्यं पठतीत्यर्थः । अयं स्मृत्यर्थः । सर्वत्राक्ष्यादिस्थलेषु विद्यमानः परः पूर्णो विश्वादिरूपी विष्णुरेकरूप एवाभिन्नरूप एव । एकं च एकमपि तद्रूपमचिन्त्यैश्वर्याद् बहुधा नानास्थानेषु सामस्त्येनैव सूर्यवदीयत इति । विधूतभेदमोहः भगवदवतारेषु निरस्तभेदभ्रमः ॥ मां प्रतीति ॥ प्रतिदृशं दृशं दृशं प्रति मां प्रति प्रत्ययं वर्तत इति नैकधा बहूनामाभिमुख्येन स्थितम् अर्कमिव त्वामप्येकं समधिगतोऽस्मीति वार्थ इत्यर्थः । नन्विदं व्याख्यानं समग्ररूपेणैक-स्यानेकस्थानगतत्वमदृष्टमिति शङ्कापरिहारकत्वादसङ्गतमिति चेन्न बहूनामाभिमुख्येऽप्येकत्व-वद्बहुस्थानगतत्वेऽपि तदुपपत्तेरिति सामान्यमात्रे दृष्टान्तमात्रस्य सङ्गतत्वात् । पूर्वव्याख्याने आदित्यस्य ईश्वरत्ववद्द्रव्यपूर्त्यभावेन सामग्य्ररूपेणानेकस्थानत्वाभावात् करचरणादिसामग्रीमात्रे दृष्टान्तत्वस्य विवक्षितत्वाद् द्वितीयं व्याख्यानमिति हृदयम् ।
तत्त्वसुबोधिनी
सर्वावस्थाप्रेरकत्वेन प्रकृतेति ॥ तथा चातीताधिकरणेषु सर्वावस्थाप्रेरकत्वोक्ताववस्थानां भिन्नत्वात् परमात्मनोऽपि भेद इति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः । भिन्नस्थानत्वादिति हेतोः स्वरूपासिद्धिशङ्कापरिहारार्थं सर्वशरीरेषु जाग्रदादिस्थानेषु चेति । भेदमात्रसाधने सिद्धसाधनत्वप्रसङ्गाद् अन्योन्यमिति ॥ न चैकस्यैव घटस्य कालभेदेन भिन्नत्वसम्भवादप्रयोजको हेतुरिति वाच्यम् । युगपद्भिन्नस्थानत्वस्य हेतुत्वेन विवक्षितत्वात् । ननु भिन्नस्थानत्वं किमन्योन्यं भेदसाधकं स्वरूपेणोतैकदेशावधानेन भिन्नस्थानत्वोपपत्तेरित्याशङ्क्य निषेधति ॥ न चेति ॥ रूपश्रवणादिति ॥ तथा च तद्विरोधः स्यादित्यर्थः ॥ असङ्गत इति ॥ आकाशस्थसमग्ररूपेणा-नेकस्थानत्वाभावादिति भावः । न चाकाशे व्यभिचारः समग्ररूपेणेत्यस्याविवक्षितत्वात् । नन्वस्तु परमात्मनो भेदस् ततः को दोष इत्यतो भेदानुग्राह्यानुग्राहकभाव इत्यस्याभिप्रायमाह ॥ तथा चेति ॥ तत्प्रसङ्गश्चेति चशब्दसम्बन्धः । भिन्नानामनुग्राह्यानुग्राहकभावस्य हीनोच्चादिभाव-निबन्धनत्वाद्गुणतारतम्येत्युक्तम् । तथा च भेदाद्गुणतारतम्यं ततश्चानुग्राह्यानुग्राहकभावः स्यादित्यर्थः । भिन्नानामपि केषाञ्चिद् गुणतारतम्यानुपलम्भाद्व्यभिचार इति न वाच्यम् । परस्परभेदस्योत्सर्गतो गुणादितारतम्यव्याप्तत्वात् । साम्यग्राहकप्रमाणरूपापवादनिबन्धन-व्यभिचारस्यादोषत्वादिति ॥ सर्वेष्विति ॥ अस्यां श्रुतौ एकस्यानेकस्थानत्वोक्तेरिति भावः ॥ श्रुतिं व्याचष्टे ॥ सर्वेष्विति ॥ एतमित्येकवचनश्रवणादाह । एकमिति ॥ ब्रह्मशब्दार्थः पूर्णगुणमिति ॥ ननु परस्योभयत्वमित्यल्पाक्षरेणैव भेदाभावोक्तिसम्भवे उभयलिङ्गमिति किमर्थमुक्तमित्यत आह ॥ एकैकदेशत इति ॥ परस्य परमात्मनोऽसिद्धं प्रमाणाभावात् । न केवलमप्रामाणिकं किन्तु सप्ताङ्ग एकोनविंशतिमुख इति प्रमाणविरुद्धं चेत्यर्थः । परस्योभयत्वं नेत्येवोक्तौ पाणिपादाद्यवयवरूपैकैकदेशतो ह्यनेकस्थानत्वेन भेदाभावो विज्ञायेत । उभयलिङ्गं नेत्युक्तौ तु भिन्नस्थानेषु विद्यमानानां समग्ररूपाणां भेदमात्रनिषेधो विज्ञायते । ननु भेदमात्रनिषेधज्ञानं कथमिति वाच्यम् । भेदविशिष्टरूपनिषेधे विशिष्टनिषेधस्य विशेषणनिषेधपर्यव-सानादिति भावः । लिङ्गशब्दस्य स्वरूपपरत्वं कुत इत्यत आह ॥ लिङ्गमिति ॥ प्रतिदृश-मित्यस्यार्थान्तरमाह ॥ मां प्रतीति ॥
वाक्यार्थविवरणं
सर्वत्र ॥ सर्वरूपेण ॥ प्रतिशरीरमिति ॥ प्रतिशरीरस्थितयोरन्योन्यं भिन्न उताभिन्नः । तथा एकस्मिन्नेव शरीरे जाग्रदादिस्थानेषु स्थितो भिन्न उताभिन्न इति संशयविवेको द्रष्टव्यः ॥ घटादीनामित्यादि ॥ अनेकस्थानस्थितानां घटादीनां भिन्नत्वदर्शनं तथाऽऽकाशादीनां सर्वं व्याप्य स्थितानामभिन्नत्वदर्शनं चेत्यर्थः ॥ भिन्नस्थानस्थितत्वादिति ॥ अनेकस्थानत्वादित्यर्थः । एकस्यैव घटस्य क्रमेणानेकस्थानत्वेऽपि भेदाभावेन व्यभिचारपरिहाराय युगपदनेकस्थानत्वादिति हेतुर्द्रष्टव्यः । अस्य हेतोराकाशे व्यभिचारमाशङ्कते ॥ न चेति ॥ आकाशस्य स्वांशैरेवानेक-स्थानत्वेऽपि न परमात्मवत् समग्ररूपेणानेकस्थानत्वमस्ति । हेतावपि समग्ररूपेणेति विशेषण-मभिप्रेतम् । अतो न व्यभिचार इत्याशयेन परिहारमाह ॥ किमीश्वर इत्यादिना ॥ श्रवणादिति ॥ तथा च समग्ररूपेणैवानेकस्थानत्वं श्रूयते, नावयवैरिति भावः ॥ द्वितीय इति ॥ समग्ररूपेणा-नेकस्थान इति पक्षे व्यभिचारदानायाऽऽकाशवदिति दृष्टान्तोऽसङ्गतः । तस्यांशैरेवानेकस्थान-स्थितत्वेन समग्ररूपेण तदभावादिति भावः ॥ अन्यत्र ॥ आकाशादौ ॥ सूर्यदृष्टान्तम् ॥ सूर्य-वदिति प्रमाणोक्तं सूर्यदृष्टान्तमित्यर्थः । ‘तमिममहमजं शरीरभाजां हृदि हृदि विष्ठितमात्म-कल्पितानाम्’ इति पूर्वार्धतात्पर्यमाह ॥ तथेति ॥ हृदि हृदीति वीप्साया तात्पर्यं प्रतिहृदयमिति । विष्ठितमित्यत्र वीत्यस्य तात्पर्यं सामग्य्रेणैश्वर्यबलादनेकधेति । प्रतिदृशमित्यस्य प्रतिदृशं प्रेरकत्वेन स्थितमित्येकमर्थमुक्त्वा अर्थान्तरमाह ॥ मां प्रतीत्यादिना ॥ मदाभिमुख्येनेत्यर्थः । अयं सूर्यो मा प्रति मां प्रतीत्याभिमुख्येन वर्तते । प्रतिदृशं विषयत्वेनानेकधा बहुधा स्थितो ऽर्कः यथेत्यर्थः । पृथिवीत्यारभ्यान्तर्यामीत्यन्तेन एष त आत्मेति श्रुतिर्व्याख्याता । यश्चायमित्यारभ्यायमेव स इत्यादिनेत्यन्तेन ‘अयमेव स’ इति श्रुतिर्व्याख्याता । अयं मूलरूप्येवेत्यारभ्य इत्यर्थ इत्यन्तेन ‘योऽयमात्मा’ इत्यादि अनन्तानि चेत्यन्तं व्याख्यातम् ।
वाक्यार्थमञ्जरी
सर्वत्र सर्वरूपेषु ॥ स्वगतेति ॥ स्वरूपस्थेत्यर्थः । तथात्वेऽनुग्राह्यानुग्राहकभावप्राप्तेरित्यर्थः । घटादीनामनेकस्थानस्थितानां भिन्नस्थानत्वात् ॥ असङ्गत इति ॥ आकाशस्य समग्ररूपेणानेक-स्थानस्थत्वाभावादिति भावः । ततः किमित्यत आह ॥ तथा चेति ॥ तत्प्रसङ्गश्चेति चशब्दसम्बन्धः । तथा च भेदाद्गुणतारतम्यम् । ततश्चानुग्राह्यानुग्राहकभावः स्यादित्यर्थः । भेदस्य तारतम्यव्याप्तिरौत्सर्गिकीति न व्यभिचारः शङ्क्यः । ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥ स्थानतोऽपि स्थानभेदतोऽपि । परस्य हरेः । उभयलिङ्गम् । भिन्नरूपं नास्ति । कुतः ? हि यस्मात्सर्वत्र सर्वस्थानस्थितरूपेषु निर्भेदत्वादिना श्रूयत इत्यर्थः । एतमित्येकवचनश्रवणादाह ॥ एकमिति ॥ ब्रह्मशब्दार्थः पूर्णगुणमिति ॥ ननु सूत्रे परस्योभयत्वं नेत्येतावन्मात्रेण पूर्तौ लिङ्गग्रहणं किमर्थमित्यत आह ॥ एकैकदेशत इति ॥ पादाद्यवयवैरित्यर्थः । परस्य परमात्मनः । असिद्धं प्रमाणाभावात् । श्रुतिः सप्ताङ्ग इत्यादिका । तथा च परस्योभयत्वं नेत्येवोक्तौ पाणिपादाद्यवयवरूपैकदेशतोऽप्यनेकावस्थानत्वेन भेदाभावोऽपि ज्ञायते । उभयलिङ्गं नेत्युक्तौ तु भिन्नस्थाने विद्यमानानां रूपाणां भेदमात्रानिषेधोऽपि ज्ञायेत । विशिष्टनिषेधस्य विशेष्यनिषेध-पर्यवसानादिति भावः । प्रतिदृशं प्रतिनेत्रं नैकधा अनेकरूपेण । समधिगच्छन्ति सम्यग्जानन्ति । ‘तमिममहमजं शरीरभाजां हृदि विष्टितमात्मकल्पितानाम्’ इति पूर्वार्धतात्पर्यमाह ॥ तथेति ॥ प्रतिदृशमित्यस्यार्थान्तरमाह ॥ मां प्रतीति ॥ मदभिमुखेनादित्यो वर्तत इत्यादीत्यर्थः ।
ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ
सूत्रभाष्यम्
॥ ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ ॥ १२ ॥
‘कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः’ (मां. उ. २-१-६.)
इति भेदवचनान्नेति चेन्न ।
‘एष त आत्माऽन्तर्याम्यमृतः’ (बृ.उ. ६-७-३) ।
‘अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्’ (बृ.उ. ४-५-१)
‘अयं वै हरयोऽयं वै दश च सहस्राणि च बहूनि चानन्तानि च ।
तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्’
(बृ.उ.४-५-१९) इति प्रत्येकमभेदवचनात् ।
तत्त्वप्रदीपिका
कारणं प्रकृतिः, कार्यं देहेन्द्रियमन आदि, ताभ्यां बद्धो विश्वो जाग्रत्प्रवर्तकः, तैजसश्च स्वप्न-प्रवर्तकः । कारणमात्रबद्धः प्राज्ञः सुषुप्तिनियामकः । तौ द्वावपि बन्धौ तुरीये मोचके न स्त इति बद्धाबद्धत्वादिभेदवचनान्न रूपभेदस्यानुग्राह्यानुग्राहकत्वस्य च निषेधः परमात्मनो युक्त इति चेन्न । ‘यः पृथिव्यां तिष्ठन्’ ‘यः सर्वेषु भूतेषु तिष्ठन्’ इत्यादि प्रतिस्थानमुक्त्वा तत्र प्रत्येकम् ‘एष त आत्माऽन्तर्याम्यमृत’ ‘एष त आत्माऽन्तर्याम्यमृत’ इत्येवमभेदवचनात् ॥ ‘य एष एतस्मिन्नग्नौ तेजोमयोऽमृतमयः’ ‘य एष एतस्मिन्वायौ तेजोमयोऽमृतमय,’ इत्यादिना च स्थाने स्थाने स्थितिमुक्त्वोक्त्वा तत्र तत्र प्रत्येकम् ‘अयमेव स योऽयमात्मा’ इति तस्यैवाभेदवचनात् ।
तत्त्वप्रकाशिका
उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे ॥ नेति ॥ न विश्वादीनामभेदो वाच्यः । विश्वतैजसयोर्द्विविधबन्धवत्त्वेन प्राज्ञस्यैकबन्धवत्त्वेन तुरीयस्याबन्धवत्त्वेन भेदव्यपदेशात् । तथा चानुग्राह्यादिभाव इति भावः । कार्यभ्रमरूपजाग्रद्बद्धो विश्वः । तत्कारणभ्रमरूपस्वप्न-बद्धस्तैजसः । तत्कारणाज्ञानरूपसुप्तिबद्धः प्राज्ञः । कार्यकारणाकारेण द्वावपि बन्धौ तुरीये न स्त इत्यर्थः । परिहारांशं व्याचष्टे ॥ नेति ॥ नैतच्छ्रुतिबलेनेश्वररूपाणां भेदो वक्तव्यः । ‘पृथिव्यन्त-र्याम्येव तवान्तर्यामी’ इत्यादिना ‘यश्चायमस्यां पृथिव्यां पुरुषो यश्चायमध्यात्ममयमेव सः’ इत्यादिना च अयं मूलरूप्येव । बहवो हरय इति च भगवद्रूपाणां प्रत्येकं परस्परं मूलरूपेण चाभेद-वचनादित्यर्थः । अपूर्वमनपरमाद्यन्तशून्यम् । नान्तर्बहिरन्यद्यस्य तदनन्तरमबाह्यम् । ब्रह्मेत्यनुवादः । सर्वानुभूः सर्वज्ञः । प्रत्येकमित्यादरं सूचयति । तेन चैतच्छ्रुतीनां बलवत्त्वम् ।
गुर्वर्थदीपिका
इत्यर्थ इत्यत्र परस्याभिलषित इति शेषः । अस्माकं तु स्वप्नावस्थाकार्यरूपा जाग्रदवस्था, तया देहगेहाद्यभिमानं दत्वा बन्धयति विधिनिषेधाभ्यामिति कार्यबद्धः । बन्धवान् खलु बद्ध इत्युच्यते । बन्धवत्त्वं च गोमानित्यत्रेव तत्स्वामित्वेनापि घटते । अतो जीवाधिकरणकस्य कार्यबन्धस्य स्वामित्वाद्भगवानपि बद्ध इत्युच्यते । एवं जाग्रदवस्थाकारणरूपस्वप्नावस्थायां सुखदुःखादिरूपो यो जीवाधिकरणको बन्धस् तत्स्वामित्वात्कारणबद्ध इत्युच्यते ‘प्राज्ञः कारणबद्ध’ इत्यत्र । स्वप्नकारणभूतसुप्त्यवस्थायां सर्वेन्द्रियाणामुपरमाख्यो जीवाधिकरणको यो बन्धस् तत्स्वामित्वात्प्राज्ञोऽपि कारणबद्ध इत्युच्यते । सर्गादौ लयकाले जीवानां सुप्तत्वात्सुप्तिः प्राथमिकी अवस्था । सुप्त्यन्वयव्यतिरेकानुविधायिनी स्वप्नावस्था तत्कार्यभूता स्वप्नानन्तरं जायमानावस्था जाग्रदवस्था तत्कार्यभूतेति श्रुतेरभिप्रायः । इमौ द्वावपि बन्धौ केवलं मोक्षदातरि तुरीये न सिद्ध्यतः । तत्स्वामिकतयाऽपि न विद्येते इत्यर्थः । एते विश्वादयस्त्रयोऽवतारा जीवस्य संसारबन्धहेतवः । तुरीयस्तु केवलं बन्धान्मोचक इति । एवं च भगवद्रूपाणामेव बद्धाबद्धत्वलाभा-त्परकीयभेदशङ्का अबोधविजृम्भितैव । सूत्रकारस्त्वस्यार्थस्य ‘तदधीनत्वादर्थवत्’ इत्यत्रैव समर्थितत्वात्प्रकारान्तरेणोत्तरं दातुं पुनः सूत्रमरचयदिति ज्ञेयम् । प्रत्येकमित्यादरमित्यत्र विविधश्रुतिभिः प्रत्येकं पृथक्पृथगभेदकथनात् श्रुतीनां मिथो भगवद्रूपाभेदे परमादरमित्यर्थः ।
भावबोधः
ननु विश्वतैजसयोर्द्विविधबन्धवत्त्वेन प्राज्ञतुरीयाभ्यां भेदेऽपि तयोः परस्परं भेदकधर्माभावेन भेदो न स्यादित्यतोऽविद्यारूपकारणबद्धत्वस्योभयत्राविशिष्टत्वेऽपि कार्यबद्धत्वे वैलक्षण्यसद्भावेन तयोर्मेद इत्यभिप्रेत्य तद्वैलक्षण्यं दर्शयन् ‘कार्यकारणबद्धौ’ इति श्रुत्यर्थमाह– कार्यभ्रमरूपेत्यादिना ॥ अविद्याकार्यस्वातन्त्र्यादिविषयभ्रमरूपजाग्रद्बद्ध इत्यर्थः । ‘देहादीशवशे स्थितं भ्रमति’ ‘स्ववशत्वेन’ ‘सैषा संसृतिरुच्यते’ इति प्रमाणाद्भ्रमस्यैव बन्धकत्वेन भ्रमरूपेत्युक्तम् ॥ तत्कारणेति ॥ स जाग्रत्कालीनो भ्रमः कारणं यस्य भ्रमस्येति विग्रहः । तथा च जाग्रत्कालीन-भ्रमकार्यस्वप्नबद्धस्तैजस इत्यर्थः । न च स्वप्नस्य जाग्रत्कालीनभ्रमकार्यत्वमसिद्धमिति वाच्यम्; ‘अदृष्टे चाश्रुते भावे न भाव उपजायते’ इति संस्कारद्वारा तत्कारणत्वस्य प्रमितत्वात् । अत एवान्यथाग्रहणः स्वप्न इत्युत्तरवाक्यं माण्डूक्यभाष्ये विपरीतज्ञानादपि विपरीतज्ञानान्तरं जायत इति व्याख्यातम् । कार्यभ्रमबद्धत्वे तत्कारणाविद्याबद्धत्वमर्थात् सिद्धमेवेति नोक्तम् । एवं चाविद्या-तत्कार्यभ्रमरूपजाग्रद्बद्धो विश्वोऽविद्यातत्कार्यजाग्रत्कालीनभ्रमरूपोभयकार्यभ्रम-लक्षणस्वप्नबद्ध-स्तैजस इति तयोरपि अभेदाभावः । यद्वा, सुप्तेरुत्थाने प्राज्ञाद्विभक्तो भवति स्वप्नादुत्थाने तैजसा-दिति माण्डूक्योपनिषद्भाष्ये स्वप्नावस्थाया जाग्रदवस्थां प्रति कारणत्वस्योक्तत्वात् । तस्य कारणं तत्कारणमिति तु विग्रहः । तथा चाविद्यातत्कार्यस्वप्नबद्धस्तैजसः । अविद्यातत्कार्यस्वप्नरूपो-भयकारणकजाग्रदवस्थावद्धो विश्व इति तयोर्भेद इति भावः । तत्कारणेति । तयोर् जाग्रत्स्वप्न-भ्रमयोः कारणं यदज्ञानं तन्मात्ररूपसुप्तिबद्धस्तैजस इत्यर्थः ॥ अयमेव स इत्यादिना चेति ॥ अनेन ‘अयमेव सः’ ‘नेह नानास्ति किञ्चन’ इत्यादिश्रुतिबलात् स्थानानां भेदस्तस्याभेद एवेति व्यवस्थोपपत्तेरिति न्यायविवरणमप्युक्ततात्पर्यकं भवति ॥ ब्रह्मेत्यनुवाद इति ॥ एवं च यद्ब्रह्माय-मात्मा सर्वानुभूरिति उद्देश्यविधेयभावः । ‘इदं’ शब्दस्य विधेयलिङ्गत्वं चेत्युक्तं भवति ।
भावदीपः
नेत्यस्य न परस्योभयलिङ्गमित्यनुवृत्तेनान्वयमुपेत्यार्थमाह ॥ नेति ॥ द्विविधेति ॥ आविद्यकाविद्यारूपकार्यकारणबन्धहेतुतया तद्वत्त्वेनेत्यर्थः । तदधीनत्वादर्थवदिति न्यायादिति भावः ॥ एकेति ॥ अज्ञानरूपैकबन्धवत्त्वेनेत्यर्थः ॥ कार्येति ॥ अज्ञानकार्यभूतो यो देहादौ ममताभिमानादिभ्रम इति वा अविद्यारूपप्रकृतिकार्यदेहेन्द्रियादिविषयकोक्तरूपभ्रम इति वाऽर्थः । तद्रूपजागरणेन जीवं बन्धयतीति कार्यभ्रमरूपजाग्रद्बद्ध इत्यर्थः । तदधीनत्वन्यायात् सबन्धयति स दुःखयतीत्यादिश्रुतेः । ‘कार्यकारणबन्धस्य तदधीनत्वतो विभुः । विश्वादिरूपो भगवान् बद्ध इत्युच्यते श्रुतौ’ इत्यादिमाण्डूकभाष्योक्तेः । व्यक्तमेतदग्रे बद्धो बन्धादीत्यत्र । उपलक्षणमेतत् कारणभूताऽज्ञानबद्धश्चेत्यपि बोध्यम् । प्राग्द्विविधबन्धवत्त्वेनोक्तेः ॥ तत्कारणेति ॥ भ्रम-कारणाज्ञानेन भ्रमरूपस्वप्नेन च बद्धः । तत्राऽपि स्वातन्त्र्याभिमानादज्ञानस्वाप्नरूपोभयनियन्तेत्यर्थः ॥ तत्कारणेति ॥ बाह्यान्तरप्रपञ्चगोचरस्वातन्त्र्याभिमानरूपभ्रमकारणेत्यर्थः । बाह्याभ्यन्तर-विश्वस्य नाऽभाव उपलब्धेः संध्ये सृष्टिरित्यादिन्यायेन सत्यत्वेऽपि कर्तृत्वादेश्च कर्ता शास्त्रार्थवत्त्वादित्यादिना सत्यत्वेऽपि स्वातन्त्र्यस्याऽसत्यत्वाद् भ्रमत्वं बोध्यम् । उक्तं च पूर्वं भाष्ये प्रमादात्मकत्वाद्बन्धस्येति । विवृतं चैतज्जिज्ञासाधिकरणसुधायाम् । ‘मिथ्यात्वं यदि दुःखादे-स्तद्वाक्यस्याऽग्रतो भवेत्’ इत्येतद्व्याख्यावसरे । एवं खल्वध्यात्मविदां दर्शनम् । क्रियाज्ञाने प्रति कारकान्तराप्रयोज्यत्वादिलक्षणं कर्तृत्वभोक्तृत्वं च परमेश्वरायत्तम् आत्मनि स्वतो विद्यत एव । क्रियावेशादिरूपाया विक्रियाया विनाशाद्यहेतुत्वस्य वक्ष्यमाणत्वात् । तस्यापरायत्तत्वावभासोऽ-विद्यानिमित्तको भ्रम इत्यादि । भाष्यं व्याचष्टे ॥ नैतदित्यादिना ॥ एष इत्येतच्छब्दार्थः ॥ पृथिव्यन्तर्याम्येवेति ॥ यः पृथिवीमन्तरो यमयति’ इति पूर्ववाक्यादिति भावः । ते तवेति याज्ञवल्क्येन गोतमं प्रत्युच्यते । तदेव ब्रह्मेत्युक्त्यैव ब्रह्मत्वप्राप्तेः पुनरयमात्मा ब्रह्मेति ब्रह्मविधिरयुक्त इत्यत आह ॥ ब्रह्मेत्यनुवाद इति ॥
वाक्यार्थमुक्तावली
अत्र परस्योभयलिङ्गमित्यनुवर्तते ॥ इतिशब्दश्चावर्तते ॥ परस्योभयलिङ्गं नेति न भेदव्यपदेशादिति सूत्रार्थमभिप्रेत्य व्याचष्टे ॥ न विश्वादीनामिति ॥ द्विविधबन्धवत्वेनेति ॥ उभयोरपि कार्यकारणबन्धवत्वेनेत्यर्थः । ननु विश्वतैजसयोर्द्विविधबन्धवत्वे कारणमात्रबद्धात् प्राज्ञात् तुरीयाच्च भेदेऽपि तयोर्व्यावर्तकधर्माभावेन भेदो न स्यादित्यतोऽविद्यारूपकारणबद्धत्वस्योभयत्रा-विशिष्टत्वेऽपि कार्यबद्धत्वे वैलक्षण्यसद्भावेन तयोर्भेद इत्यभिप्रेत्य तद्वैलक्षण्यं दर्शयन् कार्यकारण-बद्धौ ताविति श्रुत्यर्थमाह ॥ कार्यभ्रमरूपेत्यादिना ॥ अविद्याकार्यस्वातन्त्र्यादिविषयभ्रमरूप-जाग्रद्बद्ध इत्यर्थः । ‘देहादीशवशस्थितम् । भ्रमतीशवशत्वेन तेनैषा सृतिरुच्यते’ । इति प्रमाण-वशाद् ब्रह्मण एव बन्धकत्वेन तद्रूपेणेत्युक्तम् ॥ तत्कारणेति ॥ जाग्रत्कालीनो भ्रमः कारणं यस्य भ्रमस्येति विग्रहः । तथा च जाग्रत्कालीनभ्रमकार्यभ्रमरूपस्वप्नबद्धस्तैजस इत्यर्थः । न च स्वप्नस्य जाग्रत्कालीनभ्रमकार्यत्वमसिद्धमिति वाच्यम् । संस्कारद्वारा तस्य जाग्रद्भ्रमस्य तत्कारणत्वस्य प्रमितत्वात् । अन्यथा गृह्णतः स्वप्नम् इत्युत्तरवाक्यमाण्डूकभाष्ये विपरीतज्ञानादपि विपरीतज्ञानान्तरं जायत इति संस्कारद्वारा कारणत्वमादाय व्याख्यातम् । कार्यभ्रमबद्धत्वतत्कारणाविद्याबद्धत्व-मर्थात्सिद्धमेवेति नोक्तम् । एवं चाविद्याकार्यभ्रमरूपजाग्रद्बद्धो विश्वः । अविद्यातत्कार्यजाग्रद्भ्रमस्य च कार्यभूतस्वप्नभ्रमबद्धस्तैजस इति तयोर्भेद इति भावः । यद्वा सुप्तेरुत्थाने प्राज्ञाद्विभक्तो भवति विश्वः । स्वप्नादुत्थाने तैजसादिति माण्डूकभाष्ये स्वप्नावस्थाया जाग्रदवस्थां प्रति कारण-त्वस्योक्तत्वात्तस्य कारणं तत्कारणमिति विग्रहः । तथा चाविद्यातत्कार्यस्वप्नबद्धस्तैजसः, अविद्यातत्कार्यस्वप्नरूपोभयकारणजाग्रदवस्थाबद्धो विश्व इति तयोर्भेद इति भावः ॥ तत्कारणेति ॥ तयोर्जाग्रत्स्वप्नभ्रमयोः कारणं यदज्ञानं तन्मात्ररूपसुप्तिबद्धः प्राज्ञ इत्यर्थः ।
न प्रत्येकमतद्वचनादित्यत्र नेति निषेध्यमाह ॥ नैतच्छ्रुतिबलेनेति ॥ तेन भेदवचनात् परस्योभयलिङ्गं नेति व्याख्यातं भवति । भाष्ये इति प्रत्येकमतद्वचनादित्येतत् ‘एष आत्मान्तर्याम्य-मृतः’ इति प्रत्येकमतद्वचनात् । अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वमिति प्रत्येकमतद्वचनात् । अयं वै हरय इति प्रत्येकमतद्वचनादिति वाक्यत्रयमन्वेति । तथा च ‘यः पृथिव्यां तिष्ठन् योऽप्सु तिष्ठन् यस्सर्वेषु भूतेषु तिष्ठन्’ इत्यादिप्रतिस्थानमुक्त्वा तत्र तत्र प्रत्येकम ‘एष त आत्मान्तर्याम्यमृत एष त आत्मान्तर्याम्यमृत इति प्रत्येकमन्योन्यमभेदवचनाद् य एष एतस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषः य एष एतस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषः य एष एतस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुष इति स्थाने स्थितिमुक्त्वा तत्र तत्र प्रत्येकमयमेव स योऽयमात्मेति परस्परं तस्यैवाभेदवचनात् । ‘अयं वै हरयो’ योऽयं वै दश’ इति मूलरूपेणाभेदवचनाच्चेत्यर्थमभिप्रेत्य व्याचष्टे । पृथिव्यन्तर्याम्येव तवान्तर्यामीत्यादिनेत्यादिना ॥ अपूर्वमनपरमिति ॥ अस्य पूर्ववृत्तिप्रागभावेन पश्चाद्भाविध्वंसेन च रहितमित्यभिप्रेत्य व्याचष्टे ॥ अपूर्वमनपरमिति ॥ नान्तर्बहिरिति ॥ नियामकमाधारं चेति शेषः । ततोऽप्यण्वभावाद् अन्तरन्यन्नास्ति व्यापकाभावाद्बहिरन्यन्नास्तीत्यर्थः । ननु अयं वै हरय इति श्रुतौ तदेव ब्रह्म पूर्णमित्युक्तत्वाद् अयमात्मा ब्रह्मेति पुनरुक्तमित्यत आह ॥ ब्रह्मेत्यनुवाद इति ॥ योऽयमात्मा ब्रह्म स सर्वानुभूरिति विधानार्थमनुवाद इत्यर्थः । ननु सूत्रे तद्वचनात् प्रकृतभेदविरुद्धा-भेदवचनादित्येतावता पूर्तेर्व्यर्थं प्रत्येकग्रहणमित्यत आह ॥ प्रत्येकमितीति ॥ प्रत्येकमित्यनेन प्रतिशाखमेकैकशाखायामपि ‘यः पृथिव्यां तिष्ठन् योऽप्सु तिष्ठन्’ इत्यादिप्रतिस्थानं चाभ्यास-रूपेणाभेदवचनादित्यभेदश्रुतेस्तात्पर्यं सूचयतीत्यर्थः ।
तत्त्वसुबोधिनी
ननु विश्वतैजसोर् द्विविधत्वेन प्राज्ञतुरीयाभ्यां भेदेऽपि तयोः परस्परं व्यावर्तकधर्माभावेन भेदो न स्यादित्यतोऽविद्यारूपकारणबद्धत्वस्योभयत्रापि शिष्टत्वेऽपि कार्यबद्धत्ववैलक्षण्यसद्भावेन तयोर्भेद इत्यभिप्रेत्य तद्वैलक्षण्यं दर्शयन् कार्यकारणबद्धाविति श्रुत्यर्थमाह ॥ कार्यभ्रमरूपेत्यादिना ॥ अविद्याकार्यस्वातन्त्र्यादिविषयभ्रमरूपजाग्रद्बद्ध इत्यर्थः ॥ तत्कारणभ्रमरूपेति ॥ तज्जाग्रत्कालीनो भ्रमः कारणं यस्येति विग्रहः । तथा च जाग्रत्कालीनभ्रमकार्यस्वप्नबद्धस् तैजस इत्यर्थः । न च स्वप्नस्य जाग्रत्कालीनभ्रमकार्यत्वम् असिद्धमिति वाच्यम् । अदृष्टे चाश्रुते भावे नाभाव उपजायत इति संस्कारद्वारा तत्कारणत्वस्य प्रमितत्वात् । एवं चाविद्याकार्यभ्रमरूपजाग्रद्बद्धो विश्वो ऽविद्या-तत्कार्यजाग्रत्कालीनभ्रमरूपोभयकार्यभ्रमलक्षणस्वप्नबद्धस्तैजस इति तयोरपि भेद इति भावः । स्वप्नावस्थाया जाग्रदवस्थां प्रति कारणत्वस्यान्यत्रोक्तत्वात्तदनुसारेण तस्य कारणं तत्कारणमिति विग्रहः । तथा चाविद्यातत्कार्यस्वप्नबद्धस्तैजसः । अविद्यातत्कार्यरूपोभयकारणकजाग्रदवस्थाबद्धो विश्व इति तयोर्भेद इति भावः ॥ तत्कारणेति ॥ तयोर् जाग्रत्स्वप्नभ्रमयोः कारणं यदज्ञानं तन्मात्रसुप्तिबद्धः प्राज्ञ इत्यर्थः ॥ अपूर्वमनपरमिति ॥ न विद्यते पूर्वपूर्वकाल उत्पत्तिकालः यस्य तत्तथोक्तम् । न विद्यते परः विनाशकालो यस्य तत्तथोक्तमिति विग्रहमाश्रित्याह । अपूर्व-मित्यादीति ॥ ननु पुनः ब्रह्मशब्दप्रयोगः किमर्थ इत्यत्राह ॥ ब्रह्मेत्यनुवादेति ॥ एवं च यद्ब्रह्मायमात्मा सर्वानुभूरित्युद्देश्यविधेयभावः । श्रुतौ प्रत्यक्शब्दोदाहरणमयुक्तं प्रयोजनादर्शनादित्यत आह ॥ प्रत्येकमिति ॥ तेनापि किमित्यत आह ॥ तेनेति ॥ आदरसूचनेनेत्यर्थः ।
वाक्यार्थविवरणम्
पूर्वापरशब्दौ आद्यन्तवचनौ इत्याशयेन ‘अपूर्वमनपरं’ इत्येतद् व्याचष्टे ॥ अपूर्वमिति ॥ नान्तरिति ॥ यस्यान्तरन्यन्नास्ति तदनन्तरम् । सर्वस्याप्यन्तः स्वयमेवास्तीत्यर्थः । यस्य बहिरन्यन्नास्ति तदबाह्यम् । सर्वस्माद्बहिः स्वयमेवास्तीत्यर्थः । अत्र योऽयमात्मेत्यनूद्येदममृत-मित्यादिकं विधेयमिति न लिङ्गदोषः । तथा तदेतदिति श्रुतौ तदेतदिति पूर्वप्रकृतमनूद्य ब्रह्मेत्यादिकं विधेयम् । अयमात्मा ब्रह्म’ इत्यनयोर्भिन्नलिङ्गत्वेन विशेषणविशेष्यभावायोग इत्यत आह ॥ ब्रह्मेत्यनुवाद इति ॥ अयमात्मा ब्रह्म इत्यनुवादः । एवं च यद्ब्रह्म अयमात्मा सर्वानुभूरिति उद्देश्यविधेयभावो द्रष्टव्यः । तेन ‘अयं’ इति इदंशब्दस्य विधेयात्मशब्दलिङ्गत्वं युक्तमिति ध्येयम् ॥ बलवत्त्वम् ॥ बहुत्वप्रयुक्तमिति शेषः ।
वाक्यार्थमञ्जरी
कार्यकारणेत्यादिश्रुतौ जाग्रद्बद्धो विश्वः स्वप्नबद्धस्तैजसो ऽज्ञानबद्धः प्राज्ञ इति विरुद्ध-धर्मत्वेन भेदवचनान्नाभेदः परस्येति चेन्न । प्रत्येकं परस्परं मूलरूपेण चातद्वचनाद् एष त आत्मेत्यादिनाऽभेदवचनादित्यर्थः ॥ कार्यभ्रमरूपेति ॥ अविद्याकार्यस्वातन्त्र्यादिविषयभ्रमरूप-जाग्रद्बद्ध इत्यर्थः ॥ तत्कारणेति ॥ स जाग्रत्कालीनभ्रमः कारणं यस्य भ्रमस्येति विग्रहः ॥ तथा च जाग्रत्कालीनभ्रमकार्यस्वप्नबद्धस्तैजस इत्यर्थः । कार्यभ्रमबद्धत्वे तत्कारणाविद्याबद्धत्वमर्था-त्सिद्धमेवेति नोक्तम् ॥ तत्कारणेति ॥ तयोर्जाग्रत्स्वप्नभ्रमयोः कारणं यदज्ञानं तन्मात्रसुप्तिबद्धः प्राज्ञ इत्यर्थः । यःपृथिव्यां तिष्ठन्’ इत्यादिनोक्त एष इति परामृश्यत इत्याशयेनाह ॥ यःपृथिव्यन्तर्यामीति ॥ यश्चेति ॥ योऽयं पूर्णषड्गुणो भगवानस्यां पृथिव्यां तिष्ठति यश्चायमध्यात्मं प्रतिशरीरे तिष्ठति सोऽयमेव मूलरूप्येवेत्यर्थः । हरयः हरिनामकानि ॥ नान्तर्बहिरिति ॥ यस्यान्तर्बहिश्च नास्तीत्यर्थः स्वस्यैव सर्वान्तर्बहिस्थितत्वादिति भावः । पौनरुक्त्यवारणायाह ॥ ब्रह्मेत्यनुवाद इति ॥ एवं च यद् ब्रह्म परमात्मा सर्वानुभूरिति योजनेति भावः ॥ आदरमिति ॥ अर्थान्तरे सावकाशत्ववारणायाभेद इत्येवानुक्त्वा परस्परं मूलरूपेण चेत्यर्थकप्रत्येकशब्दग्रहणेन श्रुतीनां निरवकाशत्वरूपादरं सूचयतीत्यर्थः । यद्वा प्रत्येकमित्यस्य वचनादित्यनेनापि सम्बन्धः । तथा च प्रत्येकमेकैकस्यां श्रुतावभेदवचनादित्युक्तावभेदश्रुतीनां बहुत्वरूपमादरं सूचयतीत्यर्थः ॥ बलवत्त्वमिति ॥ सूचयतीत्यनुवर्तते ।