०७ मुग्धप्राप्त्यधिकरणम्

ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ

७. मुग्धप्राप्त्यधिकरणम्

सूत्रभाष्यम्

॥ ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ॥ १० ॥

मोहावस्थायां परमेश्वरेऽर्धप्राप्तिर्जीवस्य ।

‘हृदयस्थात्पराज्जीवो दूरस्थो जाग्रदेष्यति ।

समीपस्थस्तथा स्वप्नं स्वपित्यस्मिल्लयं व्रजन् ॥

यत एवं त्रयोऽवस्था मोहस्तु परिशेषतः ।

अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृतेरः’ इति वाराहे ॥

सोऽपि तत एवेति सिद्धम् ।

‘मूर्च्छा प्रबोधनं चैव यत एव प्रवर्तते ।

स ईशः परमो ज्ञेयः परमानन्दलक्षण’ इति (हि) कौर्मे ॥

तत्त्वप्रदीपिका

‘मुग्धं’ मोह इति व्याचख्यौ । भावे क्तप्रत्ययदर्शनात् । सोऽपि तत एवेत्युक्तहेतुभ्य एव सिद्धम् ।

तत्त्वप्रकाशिका

सर्वावस्थानां तद्बोधानां चेश्वराधीनत्वे सिद्धे अत्र भगवत्प्राप्तिसाधनभक्त्यर्थं तस्यावान्तरावस्था-संस्थितजीवप्राप्यत्वनिरूपणादस्ति शास्त्रादिसङ्गतिः । अन्यथा निरतिशयैश्वर्याभावेन न तत्र भक्तिरुत्पद्यत इति निरूपणीयम् । अवस्थाविचारप्रसक्तो मोहोऽत्र विषयः । किं जीवस्य ईश्वरे तदन्यत्र वा भवतीति सन्देहः । द्विविधावस्थादर्शनं च सन्देहबीजम् । न मोहो भगवदितरत्र जीवस्येति पूर्वः पक्षः । जाग्रत्स्वप्नयोः पृथगवस्थात्वात् । अन्यथा तत्सङ्कीर्णतापातात् । न चैवं सुप्तिसङ्करप्रसङ्गो दोषः । समानधर्मतया तत्संकरस्य गुणत्वात् । अतः परमात्मन्येव मोहो जीवस्येति ।

सिद्धान्तयत्सूत्रमुपन्यस्य प्रतिज्ञांशं तावद्व्याचष्टे ॥ मुग्ध इति ॥ हेत्वंशं व्याख्यातुं समस्तसूत्रार्थे स्मृतिमुदाहरति ॥ हृदयस्थादिति ॥ मोहे तावत्परमात्मविदूरत्वसामीप्यप्रवेशार्धप्रवेशाः प्रसक्ता न तावत्त्रयः कल्पा मोहे सम्भवन्ति । जाग्रदाद्यवस्थाधर्मत्वात् । एवं च प्रसक्तप्रतिषेधेऽन्यस्या-प्रसङ्गात् परिशिष्टोऽर्धप्रवेश एव मोहे जीवस्य ज्ञायत इति भावः । मोहस्यावस्थात्रयातिरेकित्वे भवेदेतत् । तदेव कुत इत्यत आह ॥ दुःखेति ॥ न तावत्सुप्त्यन्तर्भावो मोहस्य दुःखानुसन्धानात् । नापि जाग्रत्स्वप्नान्तर्भावः । दुःखात्मकालाद्यतिरिक्तविषयादर्शनादिति भावः । नातिदूरसामीप्यं चिरं नास्तीत्यप्रसङ्गः । मोहेऽर्धप्राप्तिसमर्थनाय परिशेषे प्रकारान्तरप्रदर्शनं चैतत् । न मोहे समग्रप्राप्तिः । दुःखानुसन्धानात् । नाप्यप्राप्तिरेव । अन्यार्थादर्शनात् । अतः परिशेषादर्धप्राप्तिरिति । दूरस्थो ऽक्षिस्थः समीपस्थः कण्ठदेशस्थः । ‘दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः’ इत्यादेः सर्वत्र सामीप्यमेवेत्यत उक्तम् ॥ हृदयस्थादिति ॥ त्रयस् तिस्रः । दूरस्थत्वादित्रयः प्रकारा यत एवमवस्थात्रये विनियुक्ता अतो मोहोऽवस्थेति वा । मोहेऽवस्थानमेव चिन्त्यते तस्येश्वराधीनता कुतो न चिन्त्यते । मोहकारणानां पृथगपि दर्शनादित्यत आह ॥ सोऽपीति ॥ कर्मानुस्मृत्यादिनैव मोहस्यापि भगवदधीनत्वं सिद्धमतो न चिन्त्यत इत्यर्थः । बाह्यकारणदर्शनं निमित्तविषयमन्यथा विशेषस्मृतिविरोधादिति भावेन तामुदाहरति ॥ मूर्छेति ॥ अत एव सार्थकोऽयं विचारः । अनिश्चितस्वरूपस्येश्वराधीनताया दुर्ज्ञानत्वात् । अतो मोहावस्थाया अपि भगवदधीनत्वान्मुग्ध-प्राप्यत्वाच्च महामाहात्म्ये तत्र भक्तिरुपपन्नेति सिद्धम् ।

गुर्वर्थदीपिका

तस्यावान्तरावस्थासंस्थितजीवप्राप्यत्वेत्यत्र प्राप्यत्वमर्धप्राप्यत्वम् । अतो न पूर्वपक्षसिद्धान्त-योरैक्यम् । अतः परमात्मन्येव मोहो जीवस्येति वदतः पूर्वपक्षिणः परमात्मप्रवेशेऽपि दुःखस्य पृष्ठलग्नत्वान्न तस्य महामाहात्म्यमिति दुराशा । तर्हि सिद्धान्तिनामपि लयेऽयोग्यजीवानां भगव-दुदरप्रवेशेऽपि दुःखानुषङ्गात्कथं महामाहात्म्यमिति चेत् स्वोदरप्रविष्टभक्तजीवानामेव दुःखानपहारे महिम्नो न्यूनता न तु द्वेषिणामपि । द्वेषिषु दुःखदानस्यैव प्रभोर्महामाहात्म्यहेतुत्वात् । मोहावस्थायां च त्रिविधजीवानामपि प्रवेशादंशतो माहात्म्यहानिं शङ्कमानो भगवानर्धजरतीयस्य चायोगा-त्तामवस्थामेवार्धप्राप्तिरूपां कुरुते । अत एव सुप्तौ स्वोदरप्रविष्टानामयोग्यजीवानामपि न स्वरूपभूतं दुःखं व्यञ्जयति । सुप्तेरपुरुषार्थत्वप्रसङ्गात् । अर्धजरतीयस्य चायोगात् । लये दुःखं भुञ्जानास्तु न सुप्ताः । येन सुप्तौ द्वैविध्यं स्यात् । किन्तु मुक्तवत्तेऽपि प्रतिबन्धाख्यसंसारान्मुक्ता एव । लयेऽपि संसारिणः कल्यादयः सुप्तिगतत्वान्न स्वरूपभूतमपि दुःखं भुञ्जते ।

इयांस्तु विशेषः । योगिजीवानां सुप्तिर्बाह्यदुःखाभावात्स्वरूपभूतसुखलेशाच्च तेषामिष्टा । अयोग्यजीवानां तु स्वरूपभूतसुखाभावात्केवलं बाह्यदुःखाभावेनैवेष्टा । एतावन्तं कालं सुखं सुप्तोऽस्मीत्यौत्तरकालिकपरामर्शाद्भ्रमस्वभावस्तेषां साक्षी तमेव सुखत्वेनानुभवति च । अतश्च-तस्रोऽपीमाः सांसारिकावस्थाः सर्वेषामेकप्रकार एव नात्र द्वैविध्यमिति सिद्धान्तिभिरभिप्रेतत्वात् । हृदयस्थपरमात्मनस्सकाशाज्जाग्रदवस्थायां दक्षचक्षुषि स्थितिरतिदूरमित्युच्यते । स्वप्नदर्शनाय दक्षनेत्रात्परावृत्त्याऽऽगमने सति कण्ठदेशे या स्थितिस् तत्सामीप्यमित्युच्यते । सुप्त्यर्थं कण्ठदेशादपि परावृत्य परमात्मन उदरे या स्थितिस्सा अतिदूरमपि न । सामीप्यमपि न । किन्तु ‘सता सौम्य तदा सम्पन्नो भवति’ इति श्रुतेः सम्पत्तिरित्युच्यते । एवमतिदूरत्वादिप्रकारत्रय-वैचित्र्यादवस्थात्रयवदागमनसमये कण्ठनेत्रयोर्मध्येऽतिदूरं नेति व्युत्पत्त्या नातिदूरमित्यप्येक-प्रकारोऽस्ति । एवं कण्ठात् हृदयं प्रत्यागमे सति मध्ये कण्ठदेशाख्यसामीप्यं नेति न सामीप्याख्यः कश्चित्प्रकारोऽस्ति । उभयं जाग्रदवस्थावदपि न । स्वप्नवदपि न । सुप्तिवदपि न । अतस्तयोरपि काञ्चित्काञ्चित्संज्ञां दत्वाऽवस्थाद्वयमपि कुतो न कल्प्यत इत्यत उक्तं नातिदूरेति ॥ अतिदूरं च सामीप्यं चातिदूरसामीप्ये द्वन्द्वस्य चैकवद्भावे अतिदूरसामीप्ये एवातिदूरसामीप्यमित्युच्यते । अतिदूरसामीप्यं नेति नञा सह समासे नातिदूरं न सामीप्यमिति पराशङ्कितावस्थाद्वयमपि नातिदूरसामीप्यमित्येवोच्यते । तच्चातिदूरे स्थितिवत्सामीप्ये स्थितिवत् हृदि स्थितिवच्च चिरं बहुकालं नास्तीति कृत्वा प्रसङ्गः पृथगवस्थाद्वयत्वप्रसङ्ग एव नेत्यर्थः । अन्यार्थादर्शनादित्यस्य भगवदन्तरप्राप्तजाग्रत्स्वप्नद्रष्टृजीववदात्मकालदुःखेभ्योऽन्येषामर्थानामदर्शनात् । भगवदुदर-प्रविष्टेभ्योऽन्यस्य चेतनस्य स्वाप्ननानापदार्थानां वा जाग्रत्पदार्थानां वा दर्शननियमादित्यर्थः । सर्वत्र सामीप्यमित्यत्र सर्वत्र जाग्रत्स्वप्नस्थानेऽपि सामीप्यात्तत्तदवस्थाप्रेरकभगवन्मूर्तिसामीप्यादित्यर्थः । मूर्तिविशेषापेक्षया तदुक्तिरित्याह ॥ हृदयस्थादिति ॥ अतो मोहोऽवस्थेत्यत्र अवस्था, चिरकालीनत्वादवस्थारूपो मोह इति विशेषणविशेष्यभावः । अन्यथा ज्ञेय इति पुल्लिङ्गानु-पपत्तिरिति ज्ञेयम् ।

भावबोधः

अस्याधिकरणस्यानन्तरसङ्गतिं वदन् शास्त्रादिसङ्गतिमाह– सर्वावस्थानामिति ॥ प्रधानावस्थाविचारानन्तरमेवावान्तरावस्थाविचारावसर इति भावः । न चैवं ‘स एव च’ इत्यतः पूर्वमेवानेन भवितव्यमिति वाच्यम्; स्वप्नादिवन्न मोहोऽसङ्कीर्णावस्थेति ज्ञापनाय सूत्रकृता व्यवधानकरणादिति तात्पर्यम् ॥ मोहोऽत्रेति ॥ अत्र मोहः किं भगवदर्धप्राप्तिरूपो न भवत्युत भवतीति चिन्ता । तदर्थमितरावस्थानतिरिक्त उत तदतिरिक्त इति । तदर्थं तद्व्यावर्तकधर्मोपेतो न भवत्युत भवतीति । मोहे ब्रह्मप्राप्तिरेव पृथगवस्थावदिति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– न मोह इति ॥ अनेन मोहे ब्रह्मप्राप्तिरित्येवेत्ययमंशो व्याख्यातः । पृथगवस्थात्वादिति हेतुवाक्यं योजयति– जाग्रत्स्वप्नयोरिति ॥ सकाशादिति शेषः । हेतोरप्रयोजकतां परिहरति– अन्यथेति ॥ मोहो भगवदितरत्रेत्यङ्गीकार इत्यर्थः ।

नन्वस्तु मोहो भगवदितरत्र तथापि तस्य जाग्रत्स्वप्नसङ्कीर्णता कुत इत्यतश्चोक्तम् । जाग्रत्स्वप्नयोरिति ॥ पृथक् परमात्मन इति शेषः । तथा च जाग्रत्स्वप्नयोरेव परमात्माऽप्रवेश-रूपावस्थात्वान्मोहस्यापि अप्रवेशरूपत्वाङ्गीकारे एतत्सङ्कीर्णता स्यादित्यर्थः । अत एव जाग्रत्स्वप्नाभ्यामिति वक्तव्येऽर्थद्वयानुगुण्याय जाग्रत्स्वप्नयोरित्युक्तम् ।

नन्वत्र ब्रह्मप्राप्तिरेवेतिवद् ब्रह्माप्राप्तिरेवेत्यपि पूर्वपक्षः कुतो न कृतः । तस्यापि पक्षस्यार्ध-प्राप्तिरूपसिद्धान्तविरोधित्वादिति चेत्, न; प्राप्तिरेवेति पूर्वपक्षे मोहस्य सुप्तिसाङ्कर्यापादने सुप्तेरेकत्वेन तत्साङ्कर्यस्येष्टत्ववदप्रवेश एवेति पूर्वपक्षे मोहस्य जाग्रत्स्वप्नसाङ्कर्यापादने जाग्रत्स्वप्नयोः परस्परं पृथगवस्थात्वादेकस्योभयसाङ्कर्यस्य पूर्वपक्षिण इष्टत्वासम्भवात् । न चान्यतरसाङ्कर्य-मेवापाद्यम्, उभयोरप्यप्रवेशावस्थात्वाविशेषेण विनिगमकाभावादिति । व्याख्यातुमिति ॥ स्मृत्यै-वेत्यर्थः ॥ एवं चेति ॥ अनेन परिशेषमानादर्धप्राप्तित्वावगमादिति न्यायविवरणमपि व्याख्यातम् ।

नन्वेतावन्तं कालमहं मूर्च्छितो दुःख्यभवमिति देशकालात्मावस्थादुःखानामनुभवात् कथं दुःखमात्रप्रतिस्मृतेरित्युक्तमित्यतो दुःखपदमनुभूयमानसर्वोपलक्षणम् । मात्रपदं तु तद्व्यति-रिक्तव्यवच्छेदपरमित्यभिप्रेत्याह– दुःखात्मकालेति ॥

ननु कण्ठहृदयमध्यप्रदेशावस्थानरूपमोहस्य पृथगवस्थात्वे दक्षिणकण्ठ मध्यप्रदेशावस्थान-स्यापि पृथगवस्थात्वं प्रसज्येताविशेषादित्यत आह– नातिदूरसामीप्यमिति ॥ दक्षिणकण्ठमध्य-प्रदेशस्य हृदयस्थाद्दक्षिणाक्षिवदतिदूरत्वं कण्ठवदतिसामीप्यं वा नास्तीति मार्गतया तत्प्रवेशगत-जीवस्य यन्नातिदूरसामीप्यं तज्जीवस्य मोहवच्चिरकालं नास्तीति हेतोस्तस्य पृथगवस्थात्वस्याप्रसङ्ग इति भावः ॥ अतः परिशेषादिति ॥ अनेन परिशेषादर्धप्राप्तित्वावगमादिति न्यायविवरणं प्रकारान्तरेण व्याख्यातम् । नन्ववस्थाशब्दस्य स्त्रीलिङ्गत्वात् त्रयोऽवस्था इति कथमित्यत आह– त्रयस्तिस्र इति ॥ नात्र त्रयोऽवस्था इति सामानाधिकरण्यं येन लिङ्गव्यत्यासदोष इति पक्षान्तरमाह– दूरस्थत्वादिति ॥ मोहस्येश्वराधीनत्वशङ्काभावान्न चिन्त्यत इत्यत आह– मोहकारणादीनामिति ॥ अभिघातव्याध्यादीनामित्यर्थः । आदिपदेन तदुद्बोधकारणौषधादीनां ग्रहणम् । अत एव भाष्ये सोऽपीत्यपिशब्दस्य मूर्च्छाप्रबोधनं चेति स्मृत्यनुसारेण तदुद्बोधसमुच्च-यार्थत्वं चेति भावः ।

भावदीपः

अत्र मोहस्येशाधीनत्वचिन्तामकृत्वा तत्स्वरूपोक्तिरेव कुतः कृतेति शङ्कां निरसितुमाह ॥ सर्वेति ॥ कर्मानुस्मृत्यादिहेतुभिः प्रागुक्तदिशेति भावः । मोहस्याप्यवस्थात्वेन तदधीनत्वसिद्धेरपि तत एवेति भाष्य एव व्यक्तत्वादिति भावः । एतेन मोहावस्थानियन्तृत्वमहिम्नो मुग्धप्राप्यत्व रूपमहिमान्तरोक्तिरत्रेति वा प्रधानावस्थाचिन्तानन्तरम् अवान्तरावस्थाचिन्तावसर प्राप्तेति वा सार्वत्रिकावस्थाचिन्तानन्तरं क्वचित्कावस्थाचिन्तावसरप्राप्तेति वा पूर्वसङ्गतिः सूचिता ॥ जीव-प्राप्यत्वेति ॥ तादृशजीवेनाऽर्धप्राप्यत्वनिरूपणादित्यर्थः । तेन सिद्धान्त इव पूर्वपक्षेऽपि जीवप्राप्यत्वस्यानुमतत्वात्फलाभावाद् व्यर्थेयं चिन्तेति प्रत्युक्तम् । पूर्वपक्षे मोहस्य सुप्तितः पार्थक्याभावेनावान्तरावस्थात्वाभावेन तदवस्थावस्थितजीवप्राप्यत्वमहिम्नोऽभावात्सिद्धान्ते च भावा-त्फलभेदः । अत एवावान्तरावस्था संस्थितेत्युक्तिः । अन्यथा मुग्धजीवेति वा सुप्त्येकदेशवज्जीव-प्राप्यत्वेति वा ब्रूयादिति बोध्यम् । मोहस्योक्तावस्थात्रयानन्यत्वं सिद्धवत्कृत्य सुप्त्यन्तर्भावोऽथ स्वप्नजाग्रदन्तर्भाव इति भावेनाह ॥ किमिति ॥ मोहे ब्रह्मप्राप्तिरेव पृथगवस्थात्वादित्यन्यत्रोक्तं पूर्वपक्षं हेतुसाध्ययोर्व्याहतिनिरासायावधारणव्यावर्त्यं दर्शयन् शेषोक्त्या हेतुं च विवृण्वन् व्यनक्ति ॥ न मोह इति ॥ पृथक्पदस्वारस्यसूचिते शङ्कोत्तरे आह ॥ न चैवमिति ॥ समानेति ॥ सर्वेन्द्रियोपरत्यादिरूपसमानधर्मतयेत्यर्थः । तयोस्तत्पृथग्धर्मत्वान्न तत्साङ्कर्यमनुगुणमिति भावः । उक्तार्थं न्यायविवरणोक्तसाध्योपपादकमिति दर्शयन्नुपसंहरति ॥ अत इति ॥ जाग्रत्स्वप्नयोः पृथगवस्थात्वेन तत्साङ्कर्यस्यायोगात्सुप्तिसाङ्कर्यस्यानुगुणत्वादित्यर्थः ।

प्रतिज्ञांशं तावद्व्यचष्ट इति ॥ अस्येति आत्मनीति च पदद्वयमनुवर्त्येति योज्यम् ॥ समस्तेति ॥ हेतुप्रतिज्ञारूपसमस्तसूत्रार्थ इत्यर्थः । मोहस्योक्तावस्थात्रयान्यत्वं सिद्धवत्कृत्य तदसम्भावनां निरसिष्यन् परिशेषमानादर्धप्राप्तित्वावगमादित्यन्यत्रोक्त्यनुरोधेन स्मृतिं व्याचष्टे ॥ मोह इति ॥ यत एवमित्यन्तस्यार्थः ॥ न तावदिति ॥ मोहस्त्वित्यादेरर्थः ॥ एवं चेति ॥ त्रयाणां मोहत्वायोगे इत्यर्थः ॥ अन्यस्येति ॥ नातिदूरसामीप्यमिति वक्ष्यमाणदिशेति भावः । दुःखेति शेषोपयोगमाह ॥ मोहस्येति ॥ मात्रपदसार्थक्यमाह ॥ नापीति ॥ दुःखपदमुपलक्षणं मत्वाऽऽह ॥ दुःखात्मकालादीति ॥ सुप्त्यवस्थातमश्चादिपदार्थः । कालात्माज्ञानसुप्त्यवस्थानां तदा साक्षिवेद्यत्वादिति भावः । नन्वन्यस्याप्रसङ्गादित्ययुक्तम् । विदूरसामीप्यरूपाक्षिकण्ठ-देशयोरिवाक्षिकण्ठयोर्मध्यदेशरूपस्य किंचिद्दूरत्वस्य तथा हृदयकण्ठयोर्मध्यदेशरूपस्य किञ्चि-त्सामीप्यस्य च प्रसङ्गसम्भवेन परमात्मविदूरत्वकिञ्चिद्दूरत्वसामीप्यनातिसामीप्यप्रवेशार्धप्रवेशाः प्रसक्ता इति वक्तव्यम् । तथा च कथं परिशेषतोऽर्धप्रवेशो मोह इत्युक्तिरित्यत आह ॥ नाति-दूरेति ॥ दूरं च समीपं च दूरसमीपे अत्यन्तं दूरसमीपे अतिदूरसमीपे तयोर्भावो ऽतिदूरसामीप्यं तन्न भवतीति नातिदूरसमीप्यं किञ्चिद्दूरत्वं किंचित्सामीप्यं च यज्जीवस्य कण्ठाक्षिमध्यदेश-स्थत्वादिरूपं तच्चिरकालं नास्ति । दक्षिणाक्षितो हृदयदेशं प्रत्यागमने मार्गमात्रमिति तयोः प्रसक्तिर्नास्तीत्यर्थः । कण्ठाक्षिमध्यदेश एव नातिदूरसमीप्यशब्देनोच्यत इत्यप्याहुः । दुःख-मात्रेतिपदं प्रकृतोपयोगितयाऽपि व्याचष्टे ॥ मोह इति ॥ मात्रपदार्थव्यक्तीकरणं नाप्यप्राप्तिरेवेत्यादि ॥ अन्येति ॥ प्रागुक्तदुःखाद्यन्येत्यर्थः ॥ अत इति ॥ समग्रप्राप्त्यप्राप्त्योरयोगादित्यर्थः । स्मार्तपदानामर्थमाह ॥ दूरस्थोऽक्षिस्थ इत्यादि ॥

ननु हृदये प्रतिष्ठितानि भवन्तीति षष्ठगतबृहदारण्यकवाक्येन तथा ‘हृदये सर्वशो व्यापी प्रादेशः पुरुषोत्तमः । जीवानां स्थानमुद्दिष्टः सर्वदैव सनातनः । हृत्कर्णिकामूलगतः सोऽङ्गुष्ठाग्र-प्रमाणकः । मूलेश’ इति नामास्मिन्सर्वजीवाः प्रतिष्ठिता इति स्मृत्या तथा अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हीति सूत्रेण हृदि ह्येष आत्मा’ इति षट्प्रश्नश्रुत्या च जीवस्य सर्वदा हृद्देश एवाऽवस्थित्यवगमात्कथमक्ष्यादिस्थत्वमुच्यत इति चेन्मैवम् । ‘हृदये संस्थितो जीवो विशेषेण हरिः स्वयम् । चक्षुरादिषु रूपाणि जाग्रत्काले तयोस्सदा । बहूनि सन्ति तान्येव यदैकीभावमाप्नुयुः । हृदयस्थेन रूपेण तदा जीवो न किञ्चन । जानाति’ इति षष्ठबृहद्भाष्योक्तस्मृत्या ‘असम्यक्सम्य-गिति च ह्यवस्थाभेदतः सुराः । व्याप्त्यव्याप्तियुता’ इत्याद्यवस्थितिसूत्रभाष्योक्तस्मृत्या चोत्तमानामंशेनाऽक्ष्यादिष्ववस्थाने विरोधाभावाद् अन्येषां त्वक्ष्यादिष्वभिमानातिशयेनाऽक्षिस्थ इत्याद्युक्त्युपपत्तेः । उक्तं चैतरेयभाष्ये द्वितीयेऽध्याये । न हि जीवस्याऽक्षिणि पृथक् शिरोबाह्वादिकं विद्यते हृदिस्थमेव हि तस्य रूपं जागरितेऽप्यक्ष्यादिषु विशेषसन्निहितं भवति दीपप्रकाशवत् । अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि गुणाद्वा लोकवदिति सूत्रादिति ॥ समीप्यमेवेति ॥ अक्ष्यादिस्थविश्वतैजसनामकभगवन्मूर्तिसामीप्यमेव । माण्डूके तथा श्रवणादित्यर्थः । त्रय इति पुल्लिङ्गानुपपत्तेराह ॥ त्रयस् तिस्र इति ॥ अत इति ॥ कर्मानुस्मृत्यादिहेतोरप्राप्तेरयोगाच्चेत्यर्थः ।

अभिनवचन्द्रिका

अन्यथेति ॥ ननु जाग्रदवस्थासंस्थितजीवप्राप्यत्वाभावेऽपि यथा न निरतिशयैश्वर्यभङ्गः, तथा मोहावस्थायां स्थितजीवप्राप्यत्वाभावेऽपि अभङ्गसम्भवेन तत्र भक्तिसम्भवाद् व्यर्थमिदमधि-करणमिति चेत्, न वैषम्यात् । युक्तं जाग्रदाद्यवस्थासंस्थितजीवप्राप्यत्वाभावेऽपि परमैश्वर्यम् । तत्र प्रमाणाऽभावेन तदभावस्य प्रमाणसिद्धपरमैश्वर्यापलापहेतुत्वाभावात् । मुग्धजीवप्राप्यत्वाभावस्तु तदपलापहेतुः । अर्धप्राप्तिरूपमोहस्य ‘अर्ध प्राप्तिरिति ज्ञेय’ इति प्रमाणसिद्धत्वात् । न हि प्रमाणत्वाविशेषेऽपि एतत्प्रमाणोक्तं नास्ति, प्रमाणान्तरोक्तमस्तीति सम्भवतीति । एवम् एवंजातीयके सर्वत्र द्रष्टव्यम् ॥ जाग्रत्स्वप्नयोरिति ॥ जाग्रत्स्वप्नातिरिक्तावस्थात्वादित्यर्थः ॥ अन्यथेति ॥ भगवदितरत्र मोह इत्यङ्गीकारे जाग्रत्स्वप्नैकदेशत्वं स्यादित्यर्थः ॥ न चैवमिति ॥ भगवत्येव मोह इत्यङ्गीकारे मोहस्य सुप्त्येकदेशत्वं स्यादिति न वाच्यमित्यर्थः ॥ समानधर्मत-येति ॥ आत्मातिरिक्तविषयादर्शनेन समानधर्मतयेत्यर्थः ॥ दुःखात्मेति ॥ जाग्रत्स्वप्नयो-र्दुःखाऽऽत्मकालाऽतिरिक्तविषयत्व स्वाभाव्यादिति भावः ।

ननु ‘अवस्थाविचारप्रसक्तो मोहोऽत्र विषय’ इति प्राचीनाधिकरणेन सङ्गातिरुक्ता । सा न युक्ता प्रतिदिनभावित्वेन चिरभाविजाग्रदाद्यवस्थानिरूपणकाले कादाचित्कमोहस्य प्रसङ्गाऽ-योगादित्याशङ्कां सिंहावलोकनन्यायेन परिहरति नातिदूरसामीप्यमिति ॥ देहारम्भक कर्म-नाशोत्तरभावित्वान् मरणमतिदूरशब्देनोच्यते । तत्समीपभावित्वाद् अतिदूरसामीप्यमिति मोह उच्यते, स चिरमहरहर्नास्तीति अप्रसङ्गो न मन्तव्यः । उपेक्षानर्हस्य स्मृतेरेव प्रसञ्जकत्वादिति भावः । एतेन ‘नलोपो नञ’ इति नलोपे नुडागमे च सति अनतिदूरसामीप्यमिति भाव्यमिति परास्तम् । अप्रसङ्गपदेन नञोऽन्वितत्वेन समासाभावात् ॥ प्रकारान्तरप्रदर्शनमिति ॥ पूर्वं तु दूरस्थत्व, समीपस्थत्व, प्रवेशाऽर्धप्रवेशान् प्रसज्य पक्षत्रयं निराकृत्याऽर्धप्रवेशोऽवशेषितः । इदानीं तु प्राप्त्यप्राप्त्यर्धप्राप्तीः प्रसज्य प्राप्त्यप्राप्ती निराकृत्य, अर्धप्राप्तिरवशेषितेति भेदः ॥ अर्धप्राप्तिरिति ॥ ननु इदमयुक्तम् । भगवत्प्राप्तेः सुखहेतुत्वेन दुःखाभावप्रसङ्गात् । अन्यथा मुग्धादपि सुप्तस्य दुःखातिशयः स्यात् । समग्रप्राप्तिसद्भावाद् इति चेत् । स्यादयं दोषः यदि मुग्धस्य प्राज्ञप्राप्तिप्रयुक्तं दुःखमिति ब्रूमः । न चैवं किंनाम मुग्धस्य मरणनाडीसम्बन्धप्रयुक्तमेव दुःखं ब्रूमः । त्रय इति पुल्लिंगस्य अवस्थेत्यनेनाऽन्वयायोगात् त्रय इत्यनूद्य लिङ्गव्यत्ययः कार्य इति भावेनाह– त्रयस्तिस्त्र इति ॥ अवस्थेत्येकवचनान्तं नित्यस्त्रीलिङ्गं मोह इति नित्यपुल्लिङ्गे नाऽन्वेति । त्रिशब्दस्तु प्रकारवाची एवमित्यनेनान्वेतीत्याशयवान् ‘यत एवं त्रयोऽवस्था’ इति भाष्यं प्रकारान्तरेण व्याचष्टे दूरस्थत्वादिति ॥ एवमित्यनूद्य ‘अवस्थात्रये विनियुक्ता’ इति व्याख्यानम् ।

पूर्वपक्षस्तु न मोहो जीवस्य भगवदितरत्र किं तु परमात्मन्येव । जाग्रत्स्वप्नावस्थाविलक्षणत्वात् । अन्यथा तत्संकीर्णतापातात् । न च परमात्मनि मोहाङ्गीकारे सुप्त्यैकदेशत्वप्रसङ्गः । बाह्यार्थाऽ-विषयत्वेन तदेकदेशत्वस्येष्टत्वात् । अतः परमात्मन्येव मोहो जीवस्येति ।

सिद्धान्तस्तु भगवति अर्धप्रवेश एव जीवस्य मोहे न समग्रप्रवेशः, परिशेषात् तथा हि मोहे तावत् परमात्मविदूरत्व, सामीप्य, प्रवेशाऽर्धप्रवेशाः प्रसक्ताः । न तावत्त्र्त्रयः कल्पाः सम्भवन्ति । तेषां जाग्रदाद्यवस्थाधर्मत्वात् । एवं च प्रसक्तप्रतिषेधेऽन्यस्याऽप्रसङ्गात् परिशिष्टोऽर्धप्रवेशो मोहो जीवस्य मोहस्याऽवस्थात्रयातिरेकित्वे भवेदेतत्, तदेव कुत इति चेत्, अत्र वक्तव्यम् । किं मोहस्य सुप्तावन्तर्भाव उच्यते । उत जाग्रत्स्वप्नयोः । न तावदाद्यः वैलक्षण्यात् । तथा हि मुग्धः कदाचिदपि नोच्छ्वसिति । स वेपथुश्चास्य देहो भवति । भयानकं चाऽस्य वदनं भवति । विस्फारिते चाऽस्य नेत्रे भवतः । सुप्तस्तु प्रसन्नवदनः, तुल्यकालं पुन रुच्छ्वसिति । निमीलिते अस्य नेत्रे भवतः । न चाऽस्य देहो वेपते, पाणिपेषमात्रेण च सुप्तमुत्थापयन्ति, न तु मुग्धं मुद्गरघातेनापि । निमित्तभेदश्च भवति मोहस्वापयोः । मुसलाभि घातादिनिमित्तत्वान् मोहस्य । सुच्छायादि-निमत्तित्वात्स्वापस्य । न च वदन्ति मुग्धं सुप्तमिति । नापि जाग्रत्स्वप्नयोरन्तर्भावः । दुःखाऽऽत्म-कालातिरिक्तविषयाऽदर्शनात् । अतो मोहोऽवस्थान्तरमेव, ततश्च मुग्धप्राप्यत्वेन महामाहात्म्य-वत्त्वाद्भगवति भक्तिर्युक्तेति सिद्धम् ।

वाक्यार्थमुक्तावली

अवान्तरावस्थासंस्थितेति ॥ अर्धप्राप्तिरूपमोहाख्यावान्तरावस्थेत्यर्थः । प्रधानविचारानन्तर-मवान्तरविचार इत्यनन्तरसङ्गतिरिति भावः । नन्वेवं सति स एवेत्यतः पूर्वमनेनाधिकरणेन भवितव्यमिति चेद् अत्रोक्तं सुधायाम् । सूत्रकृता च स्वप्नादिवन्न मोहः स्वतन्त्रावस्थेति ज्ञापनाय व्यवधानं कृतमिति ॥ अन्यथेति ॥ अवान्तरावस्थासंस्थितजीवप्राप्यत्वाभाव इत्यर्थः । ननु यथा जाग्रदवस्थासंस्थितजीवप्राप्यत्वाभावेऽपि नैश्वर्यहानिस् तद्वत्प्रकृतेऽप्युपपत्तेर् व्यर्थमिदमधिकरणमिति चेन्न ॥ वैषम्यात् ॥ धर्मिग्राहकप्रमाणेन मोहस्यार्धप्राप्तिरूपतया सिद्धत्वेन तदभावेन तत्प्रवर्तकत्व-स्यैवाभावेनैश्वर्यहानिप्रसङ्गादेतदधिकरणसार्थक्योपपत्तेः । जाग्रदवस्थायां भगवत्प्राप्तौ प्रमाणा-भावादिति ॥ किं जीवस्येश्वर इति ॥ किं जीवस्येश्वर एव तदन्यत्रापि वेत्यर्थः । मोहः किं समग्रप्राप्तिरूप उतार्धप्राप्तिरूप इति चिन्ता । तदर्थमितरावस्थानतिरिक्त उत तदतिरिक्त इति । अर्धसम्पत्तिरित्यनेन मोहस्य स्वप्नसुप्तिसमुदायत्वरूपावान्तरावस्थात्वद्योतनात्तन्निवर्त्यतया सूचितं पृथग्भव इत्युक्तन्यायं विशदयन्पूर्वपक्षयति ॥ न मोह इत्यादिना ॥ जाग्रत्स्वप्नयोस्सकाशादिति शेषः । हेतोरप्रयोजकतां परिहरति ॥ अन्यथेति ॥ मोहो भगवदितरत्रेत्यङ्गीकारे जाग्रदवस्थया स्वप्नावस्थया च साङ्कर्यापातादित्यर्थः ॥ समानधर्मतयेति ॥ स्वप्नजागरितविषयानुभवाभावेन सुषुप्तिसमानधर्मतयेत्यर्थः । दुःखानुसन्धानादैक्येनेति चोक्तम् ।

सूत्रे मुग्ध इति भावे क्तः । आत्मनीति अस्येति पदद्वयमनुवर्तत इति भावेन भाष्ये मोहाव-स्थायां परमेश्वरे जीवस्येत्युक्तम् ॥ व्याख्यातुमिति ॥ स्मृत्यैवेत्यर्थः । समानेत्युक्तन्यायप्रदर्शकं परिशेषादिति हेत्वंशं व्याख्याति ॥ मोहो तावदित्यादिना ॥ दुःखानुसन्धानादिति मोहावस्थातः-प्रागेव विषयानुभवेन जातस्य दुःखस्य तदानीमभावादित्यर्थः । न तु तदानीं विषयानुभवेन जातस्य दुःखस्यानुभवस् तदाभिमानाभावेन दुःखजन्माभावात् । तदुक्तं सुप्तिप्रलयादावभावादिति गीताभाष्ये । कालादीत्यादिपदेन दशावस्थयोर्ग्रहणम् ।

ननु मोहे परमात्मविदूरत्वसामीप्यप्रवेशार्धप्रवेशाः प्रसक्ता इति पक्षचतुष्टयमात्रस्य प्रसक्त्युक्ति-रयुक्ता । जाग्रदवस्थायां हृदयस्थं परमात्मानमपेक्ष्य दक्षिणाक्ष्याख्यविदूरस्थानस्थितस्य जीवस्य स्वप्नप्राप्तये कण्ठदेशाख्यसमीपप्राप्त्यागमनसमये दक्षिणाक्षिकण्ठमध्यस्थत्वरूपनातिदूरत्वाख्य-प्रकारान्तरस्य प्रसक्तत्वात् । तथा समीपात्कण्ठदेशात् सुप्तौ प्रवेशाय हृदयं प्रत्यागमनसमये कण्ठहृदयमध्यदेशस्थत्वरूपातिसामीप्याख्यप्रकारान्तरस्य च प्रसक्तत्वादित्यत आह ॥ नातिदूर-सामीप्यमिति ॥ अतिदूरं च सामीप्यं चातिदूरसामीप्यम् । द्वन्द्वैकवद्भावः । तदुभयविलक्षणमुक्तं प्रकारद्वयं नातिदूरसामीप्यम् । तदुभयं चिरं नास्ति । मार्गमात्रत्वादतश्चिरकालीनमोहे चिरकालीनं प्रकारचतुष्टयमेव प्रसक्तं न तु पक्षद्वयस्याल्पकालीनस्य प्रसक्तिरिति भावः । यद्वातीत्येतद्दूर-सामीप्याभ्यां सम्बध्यते । न अति दूरं नातिदूरं नातिदूरं च तत् सामीप्यं च तदुभयं चिरं नास्तीत्यप्रसङ्ग इति योज्यम् । यद्वा ननु कण्ठहृदयमध्यदेशावस्थानरूपमोहस्य पृथगवस्थात्वे दक्षिणाक्षिकण्ठमध्यदेशावस्थानस्यापि पृथगवस्थात्वं प्रसज्येताविशेषादित्यत आह ॥ नातिदूर-सामीप्यमिति ॥ दक्षिणाक्षिकण्ठमध्यप्रदेशस्य हृदयस्थानाद् दक्षिणाक्षिवदतिदूरत्वं कण्ठवदति-सामीप्यं वा नास्तीति मार्गतया तत्तद्देशगतजीवस्य यन्नातिदूरसामीप्यं तज् जीवस्य चिरकालीनं नास्तीति हेतोस्तस्य पृथगवस्थात्वस्य प्रसङ्ग इति भावबोधोक्तार्थो ज्ञेयः ।

मोहस्यावस्थात्रयातिरिक्तत्वोपपादकया दुःखमात्रप्रतिस्मृतेरित्यंशं प्रकारान्तरेण व्याचष्टे ॥ मोहोऽर्धप्राप्तीति ॥ मोहे परमात्मविदूरत्वसामीप्यप्रवेशार्धप्रवेशानां प्रसक्तिमुक्त्वा पक्षत्रयव्यवच्छेदेन परिशेषस्यैकेन प्रकारेणोपपादितत्वात्प्रकारान्तरेत्युक्तम् ॥ अन्यार्थादर्शनादिति ॥ जाग्रत्स्वप्नार्था-दर्शनादित्यर्थः । नन्ववस्थाशब्दस्य स्त्रीलिङ्गत्वात् त्रयोऽवस्था इति कथमुक्तमित्यत आह ॥ त्रयस्त्रिस्र इति ॥ अवस्थेत्येकवचनान्तत्वमभिप्रेत्य पक्षान्तरमाह ॥ दूरस्थादीति ॥ अतो मोहावस्थेति । दुःखमात्रस्मृतेर्मोहोऽपि तु विशिष्यावस्था पृथगवस्थेत्यर्थः । यद्वा अतो मोहोऽवस्था मोहलक्षणावस्था दुःखमात्रप्रतिस्मृतेः परिशेषादर्धप्राप्तिरित्यवतारद्वयानुसारेणार्थः । मोहस्येश्वरान्याधीनत्वप्रापकाभावान्न चिन्त्यत इत्यत आह ॥ मोहकारणादीनामिति ॥ आध्यातव्याध्यादीनामित्यर्थः । कारणादीनामित्यादिपदेन तदुद्बोधकारणौषधादीनां ग्रहणम् । अत एव भाष्ये सोऽपीत्यपिशब्दस्य मूर्च्छा प्रबोधनं चेति स्मृत्यनुसारेण तदुद्बोधसमुच्चयार्थत्वं चेति भावः ।

तत्त्वसुबोधिनी

अस्याधिकरणस्यानन्तरसङ्गतिं वदन् शास्त्रादिसङ्गतिमाह ॥ सर्वावस्थानामिति ॥ प्रधानावस्थाविचारानन्तरमेवावान्तरावस्थाविचारावसर इति भावः । न चैवं स एवेत्यतः पूर्वमेवानेन भवितव्यमिति वाच्यम् । स्वप्नादिवन्न मोहोऽसङ्कीर्णावस्थेति ज्ञापनार्थं सूत्रकृता व्यवधानकरणादिति तात्पर्यम् । कुतो नेत्यतस्तत्र हेतुमाह ॥ जाग्रत्स्वप्नयोरिति ॥ सावकाशादिति शेषः । जाग्रत्स्वप्नयोः सावकाशान् मोहस्य पृथगवस्थानत्वात् तयोश्च विष्णोरन्यत्रैव सत्वान् मोहस्य तदन्यत्र सत्त्वं न युक्तमिति भावः । अप्रयोजकत्वं पृथगवस्थानत्वस्य परिहरति ॥ अन्यथेति ॥ मोहो भगवदितरत्रेत्यङ्गीकारे इत्यर्थः । नन्वस्तु मोहो भगवदितरत्र तथापि तस्य जाग्रत्स्वप्न-सङ्कीर्णता कुत इत्यतश्चोक्तम् ॥ जाग्रत्स्वप्नयोरिति ॥ पृथक् परमात्मन इति शेषः । तथा च जाग्रत्स्वप्नयोरेव परमात्मप्रवेशरूपावस्थात्वान् मोहस्याप्यप्रवेशरूपत्वाङ्गीकारे तत्सङ्कीर्णता स्यादित्यर्थः । ननु स्वप्नजाग्रदवस्थाभ्यां साङ्कर्यपरिहारेऽपि सुप्त्या साङ्कर्यं स्यादेव । तस्यापि मोहवद् भगवदितरत्राभावादित्याशङ्क्य निषेधति ॥ न चेति ॥ समानधर्मवत्तयेति ॥ भगवति प्रविष्टत्वं बाह्यान्तर्द्वयजन्यज्ञानाभावरूपसमानधर्मवत्तयेत्यर्थः । व्याख्यातुमिति । स्मृत्यैवेत्यर्थः । कुतो न सम्भवतीत्यत आह ॥ जाग्रदादीति ॥ अत्र धर्माणामन्यत्रासम्भवादिति भावः ॥ नापि जाग्रत्स्वप्नान्तर्भाव इति ॥ दुःखमात्रस्य तत्रानुभवादिति भावः । अन्यथा सुखानुभवोऽपि स्यादिति भावः । नन्वेतावन्तं कालमत्राहं मूर्च्छितोऽभवमिति देशकालावस्थादुःखानामनुभवात् कथं दुःखमात्रप्रतिस्मृतेरित्युक्तमित्यतो दुःखपदमनुभूयमानसर्वोपलक्षणं मात्रपदं तु तद्व्यवच्छेदपर-मित्यभिप्रेत्याह ॥ दुःखात्मकालेति ॥

ननु कण्ठहृदयमध्यप्रदेशावस्थानरूपमोहस्य पृथगवस्थात्वे दक्षिणाक्षिकण्ठमध्यप्रदेशावस्थान-स्यापि पृथगवस्थात्वं प्रसज्येत । अविशेषादित्यत आह ॥ नातिदूरसामीप्यमिति ॥ दक्षिणाक्षि-कण्ठमध्यप्रदेशस्य हृदयस्य दक्षिणाक्षिवदतिदूरत्वं कण्ठवदतिसामीप्यं वा नास्तीति मार्गतया तत्प्रदेशगतजीवस्य यत्रातिदूरसामीप्यं तज्जीवस्य मोहवच्चिरकालं नास्तीति हेतोस् तस्य पृथगवस्था-त्वस्याप्रसङ्ग इति भावः ॥ दुःखेति ॥ अन्यथा सुखानुसन्धानमपि स्यादिति भावः ॥ अन्यार्था-दर्शनादिति ॥ सर्वथाप्राप्तौ जाग्रत्स्वप्नयोरिव घटादिरूपान्यार्थदर्शनं स्यात् । न च तदस्तीत्यर्थः । अप्रतीतार्थत्वात् स्मृतिं व्याचष्टे ॥ दूरस्थ इत्यादिना ॥ जाग्रदेष्यति जाग्रदवस्थां प्राप्नोति । नन्ववस्थाशब्दस्य स्त्रीलिङ्गत्वात् त्रयोऽवस्थेति कथमुक्तमित्यत आह ॥ त्रयस्त्रिस्र इति ॥ नात्र त्रयोऽवस्था इति सामानाधिकरण्यं येन लिङ्गव्यत्यासदोषः स्यादित्याशयेन पक्षान्तरमाह ॥ दूरस्थत्वादिति ॥ मोहस्येश्वराधीनत्वशङ्काकारणाभावान् न चिन्त्यत इत्यत आह ॥ मोहकारणादीनामिति ॥ आध्यातव्याध्यादीनामित्यर्थः । आदिपदेन तदुद्बोधकारणौषधीनां ग्रहणम् । तर्हि बाह्यकारणदर्शनस्य का गतिरित्यत आह ॥ बाह्येति ॥ अत एवेत्यस्यार्थमाह ॥ अनिश्चितेति ॥

वाक्यार्थविवरणं

जाग्रत्स्वप्नयोः सकाशादिति शेषः ॥ समानेति ॥ सुप्तिमोहयोरात्मकालातिरिक्तबाह्यपदार्थ-ज्ञानाभाववत्त्वेन समानधर्मत्वादित्यर्थः ॥ धर्मत्वादिति ॥ परमात्मविदूरत्वादीनां त्रयाणामित्यर्थः । भाष्ये जाग्रज् जाग्रदवस्थामेष्यति प्राप्नोतीत्यर्थः ॥ एतदिति ॥ दुःखमात्रप्रतिस्मृतेरिति भाष्यमित्यर्थः ॥ तमेव प्रकारं विवृणोति ॥ न मोह इत्यादिना ॥ इत्यादेः सर्वत्रेति ॥ अनया श्रुत्या जीवस्यावस्थात्रयेऽपि भगवत्सम्बन्धप्रतिपादनाज् जीवस्यावस्थात्रयेऽपि भगवत्सामीप्य-मेवेत्यर्थः ॥ हृदयस्थादितीति ॥ हृदयस्थभगवदपेक्षया सामीप्येनेत्यर्थः ॥ अवस्था इति ॥ अवस्था इति बहुवचनतया पदं विच्छिद्य त्रय इत्येतत् तद्विशेषणं तिस्र इति व्याख्यातम् । इदानीं मोहावस्थेत्येकवचनान्तमेवेत्यभिप्रेत्य त्रय इत्यनन्तरं पदानामध्याहारं चाभिप्रेत्य व्याचष्टे ॥ दूरस्थत्वादिति ॥ अतो मोहावस्थेति वेति । अतो मोहावस्था परिशेषतोऽर्धप्राप्तिरिति ज्ञेय इति भाष्येण सम्बन्धः ।

ननु एतावन्तं कालमहं दुःख्यासमिति परामर्शबलेन दुःखात्मकालानां त्रयाणां तदनुभवाङ्गी-काराद्दुःखमात्रप्रतिस्मृतेरिति मात्रशब्दः कथमिति चेत् सत्यम् । आत्मकालातिरिक्तवस्तुप्रति-स्मृतेरेव मात्रपदेनात्र व्यवच्छेद इति द्रष्टव्यम् ॥ कर्मानुस्मृत्यादिनैवेति ॥ उक्तरीत्या एष ह्येव एवेति सर्वकर्मणां भगवदधीनत्वस्य श्रुतत्वान्मोहप्राप्तेरेतदन्तर्भावादिति मोहस्य भगवदधीनत्वं सिद्धम् । अनुस्मृतिश्च प्रदर्शकस्त्विति पूर्वोक्ता न सम्भवति । तत्र मूर्च्छाया अनुपात्तत्वात् । अतो मूर्च्छा प्रबोधनमिति वक्ष्यमाणैवानुस्मृतिरत्र द्रष्टव्या ॥ अत एवेति ॥ यतोऽत्र स्मृतौ मूर्च्छाया भगवदधीनत्वं प्रतिपाद्यतेऽत एवेत्यर्थः ॥ अयं विचारः ॥ मोहे जीवस्य किं भगवत्यवस्थानमितरत्र वेत्यवस्थानविचारः । कुत इत्यत आह ॥ अनिश्चितस्वरूपस्येति ॥ मोहस्येत्यर्थः । अवस्थान-विशेषत्वेन मोहस्वरूपस्य निर्णये हि तादृशस्य मोहस्येश्वराधीनत्वं सुज्ञानमिति मोहेऽवस्थानमेव चिन्त्यते न भगवदधीनत्वमिति युक्त्यन्तरमनेनोक्तं भवतीति द्रष्टव्यम् ।

वाक्यार्थमञ्जरी

अवान्तरावस्था मूर्च्छा ॥ द्विविधेति ॥ द्विरूपेणेशतदन्यत्र भाविसुषुप्तिजाग्रदवस्था-दर्शनमित्यर्थः ॥ जाग्रत्स्वप्नयोरिति ॥ मोहस्य जाग्रत्स्वप्नयोःसकाशात्पृथगवस्थात्वादिति भावः । नन्वथापि मोहो भगवदन्यत्र किं न स्यादित्यत आह ॥ अन्यथेति ॥ जाग्रत्स्वप्नयोः परमात्मनः सकाशात्पृथगन्यत्र भागव्यवस्थानान्मोहस्यापि तथात्वाङ्गीकारे तदुभयसांकर्यं स्यादित्यर्थः । एतदर्थमुक्तं जाग्रत्स्वप्नयोःपृथगवस्थात्वादिति ॥ परमात्मन इति शेषः । न चेष्टापत्तिस् तयोः परस्परं पृथगवस्थात्वेनैकस्य मोहस्यैव सांकर्यायोगादिति भावः । एतदर्थमप्युक्तं जाग्रत्स्वप्नयोः पृथगवस्थात्वादिति । परस्परमिति शेषः ॥ न चैवमिति ॥ मोहस्य भगवत्प्रवेशावस्थानत्वाङ्गीकारे सुप्तेरपि तथात्वेन तत्सांकर्यप्रसङ्ग इत्यर्थः ॥ समानधर्मतयेति ॥ परमात्मप्रवेशार्थत्वेन मनआदि सर्वेन्द्रियोपरमत्वेन च समानधर्मत्वेन चेत्यर्थः ॥ गुणत्वादिति ॥ सुप्तेरप्यनेकत्वेन तत्साङ्कर्ये प्रागुक्तदोषाभावादिति भावः ॥ ॐ मुग्धेऽर्धसंपत्तिः परिशेषात् ॐ ॥ भावेऽक्तः । मुग्धे मोहे अर्धसंपत्तिर् जीवस्य परमात्मन्यर्धप्रवेशः । कुतः ? परिशेषात् । हृदयस्थापेक्षया दूरत्वसामीप्य-प्रवेशार्धप्रवेशानां मध्ये आद्यत्रिकस्यासम्भवेनार्धप्रवेशस्य परिशिष्टत्वादित्यर्थः । व्याख्यातुं स्मृत्यैव धर्मत्वात् तेषामेतत्परिशेषेणार्धप्रवेशज्ञानम् ॥ दुःखात्मकालेति ॥ एतावन्तं कालमहं दुःख्य-भवमित्युत्तरकालीनपरामर्शादिति भावः ।

ननु हृदयकण्ठमध्ये प्रवेशावस्थानरूपमोहस्य पृथगवस्थात्वे दक्षिणाक्षिकण्ठमध्यप्रवेशा-वस्थानस्यापि पृथगवस्थात्वं प्रसज्जेत । अविशेषादित्यत आह ॥ नातिदूरसामीप्यमिति ॥ दक्षिणाक्षिकण्ठमध्यप्रदेशस्य हृदयस्थानाद्दक्षिणाक्षिवदतिदूरत्वं कण्ठवदतिसामीप्यं वा नास्तीति मार्गतया तत्प्रदेशगतजीवस्य यन्नातिदूरं सामीप्यं तज्जीवस्य मोहवच्चिरकालं नास्तीति हेतोस्तस्य पृथगवस्थानस्याप्रसङ्ग इति भावः । एतद्दुःखमात्रेत्यादि तदेवाह ॥ न मोह इति ॥ अन्यार्थेति ॥ आत्मकालदुःखातिरिक्तेत्यर्थः ॥ दक्षिणाक्षीति ॥ विश्वस्य दक्षिणनयनाग्रवृत्तित्वेन तैजसस्य कण्ठाधोभागस्थमनोवृत्तित्वेन तदुभयसामीप्यं दक्षिणाक्षिस्थस्याप्यस्तीति कथमक्षिस्थो दूरस्थ इत्यर्थः । अवस्थाशब्दस्य स्त्रीलिङ्गत्वात्कथं त्रय इति पुल्लिङ्गप्रयोग इत्यत आह ॥ त्रयस्तिस्र इति ॥ कारणान्तरादर्शने न विवादाभावान्न तच्चिन्त्यत इत्यत आह ॥ मोहकारणानामिति ॥ ताडनादीनामित्यर्थः ॥ कर्मानुस्मृतीति ॥ एष ह्येव साधु कर्म कारयतीति सर्वकर्मणां भगवदधीनत्वोक्त्या मोहस्यापि कर्मत्वेन भगवधीनत्वं सिद्धम् अनुस्मृतिश्च वक्ष्यमाणा आदिशब्देन शब्दविधिग्रहणम् ॥ अत एवेति ॥ स्मृतौ भगवतो मूर्च्छातत्प्रबोधप्रवर्तकतया ज्ञेयत्वोक्तेरेवेत्यर्थः । सार्थक्यमेवेत्यत आह ॥ अनिश्चितेति ॥ नन्ववस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हीति सूत्रेण ‘हृदि ह्येष आत्मा’ इति श्रुत्या च जीवस्य हृदये एव सर्वदाऽवस्थानाभ्युपगमात्कथमक्ष्यादि-स्थत्वमुच्यत इति चेन्मैवम् उत्तमानामंशेनाक्ष्यादिस्थत्वे विरोधाभावादन्येषामक्ष्यादिष्वभि-मानातिशयेनाक्षिस्थ इत्युक्त्युपपत्तेः । उक्तं चैतरेयभाष्ये । न हि जीवस्याक्षिणी पृथक्शिरो-बाह्वादिकं विद्यते हृदिस्थमेव हि तस्य रूपं जागरितेऽप्यक्ष्यादिषु विशेषसन्निहितं भवति दीपप्रकाशवदिति । उक्तं च बृहद्भाष्ये । ‘हृदये संस्थितो जीवो विशेषेण हरिस्तथा । चक्षुरादिषु रूपाणि जाग्रत्काले तयोः सदा । बहूनि संस्थितान्ये यदैकीभावमाप्नुयुः । हृदयस्थेन रूपेण तदा जीवो न किञ्चन । जानाति’ इति विदुः प्राज्ञा इति । उक्तं चावस्थितिसूत्रे भाष्य एव । ‘असम्यक्सम्यगिति च ह्यवस्थाभेदतः सुराः । व्याप्त्यव्याप्तियुता’ इति सप्तमतात्पर्ये ।

॥ इति मुग्धप्राप्त्यधिकरणम् ॥ ७ ॥