ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ
६. कर्मानुस्मृत्यधिकरणम्
सूत्रभाष्यम्
॥ ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ ९ ॥
न च केषाञ्चित्स्वप्नादिकर्ता न तु सर्वेषामिति ।
‘एष ह्येव साधु कर्म कारयतीति (कौ.उ.३-८) कर्मण्यवधारणात् ।
‘प्रदर्शकस्तु सर्वेषां स्वप्नादेरेक एव तु ।
परमः पुरुषो विष्णुस्ततोऽन्यो नास्ति कश्चन’ इत्यनुसारिस्मृतेश्च ॥
‘एष स्वप्नान्प्रदर्शयत्येष प्रबोधयत्येष एव परम आनन्द’ इति च श्रुतिः ।
‘आत्मानमेव लोकमुपासीत’ (बृ.उ.३-४-१५) इति च विधिः ॥
तत्त्वप्रदीपिका
न च मन्तव्यमुक्तप्रमाणानुग्रहाय केषाञ्चित्स्वप्नादिकर्ता भवतु न सर्वेषां, सर्वेषां बन्धमोक्षप्रदत्वाभावाच्चेति । ‘एष ह्येव साधुकर्म कारयति एष उ एवासाधुकर्म कारयति’ इति सर्वस्मिन्कर्मणि तस्यैव हेतुत्वावधारणात् । यतः स्वप्नादेर्जनिः । स्वप्नादेर्जनकः प्रदर्शकश्चैक एव । उक्तानुसारिस्मृतेश्च । ‘आत्मानमेव लोकमुपासीत’ इति सर्वाश्रयात्मोपास्तिविधेश्च । यस्य प्रसादादेव सर्वानिष्टहानिः सर्वकामावाप्तिश्च विपर्यये च विपर्ययः । तत्र ह्युपास्तिविधिस्सुयुक्तः । हेतौ वा चशब्दः । तस्मात्स एव परमात्मा सर्वकर्ता नान्यः । न च किञ्चित्स्वभावत एव । स्वभावस्यापि तदधीनत्वादित्यभिप्रायः ।
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनभक्त्यर्थं सर्वावस्थानां तदधीनत्वमहिम्नो निरूपणादस्ति शास्त्रादिसङ्गतिः । सर्वावस्थानां भगवदनधीनत्वे न तस्मिन्निरतिशया भक्तिर्भवेदतस्तन्निरूपणीयम् । प्रकृतावस्था एवात्र विषयः । किं सर्वजीवानां सार्वकालीना भगवदधीना अथ केषाञ्चिक्तिञ्चि-त्कालीना इति सन्देहः । अवस्था भगवदधीना इत्युक्तवाक्यस्योभयार्थसम्भवः सन्देहबीजम् । न सर्वेषां सार्वकालीना अवस्था भगवदधीनाः किं नाम केषाञ्चित्किञ्चित्कालीना इति पूर्वः पक्षः । राजादीनां खण्डेशत्वदर्शनात् । न च लोकविलक्षणमीश्वरस्य सर्वप्रेरकत्वमभ्युपगन्तुं शक्यते । अतिप्रसङ्गात् । न चात्र प्रमाणमस्ति येनादृष्टमपि कल्पयामः । अतः सर्वावस्थाप्रेरकत्वाभावेन न सर्वैश्वर्यं हरेरिति ।
सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ स एवेति ॥ स परमात्मैव सर्वावस्थाप्रेरको न तु केषाञ्चित्कादाचित्कावस्थाप्रेरकः । ‘एष ह्येव’ इति सर्वकर्मणां भगवदधीनत्वस्य श्रुतत्वात् । स्वप्नादिप्राप्तेश्च तदन्तर्भावात् ‘प्रदर्शकः’ इति स्मृतेश्च । ‘एष स्वप्नान्’ इति श्रुतेश्च । अवधारणस्य सर्वत्रान्वयेन विवक्षितसिद्धेः । ‘आत्मानमेव’ इति परमात्मन एवोपास्यत्वविधानाच्च । अन्यस्याऽपि प्रेरकस्य सद्भावेऽवधारणानुपपत्तेरिति भावः । चशब्दः पक्षान्तरनिषेधार्थः । स्फुटमभिमतार्थाभि-धायकत्वमनुसारित्वम् । अतः सर्वावस्थाप्रेरके महामहिमि्न ईश्वरे भक्तिर्युक्तेति सिद्धम् ।
गुर्वर्थदीपिका
सर्वावस्थानामित्यत्र सार्वदैशिकसार्वकालिकसर्वावस्थानामित्यर्थः । अन्यथाऽवस्थात्रयस्य भगवदधीनत्वेन प्रागेव वर्णितत्वेन पौनरुक्त्यं स्यात् । एष स्वप्नानिति एष प्रबोधयतीत्युत्तमत्वघटक-हेताववधारणाभावे अथ तस्मात्कारणादेष एव परम इति साध्येऽप्यवधारणं न स्यात् । कालान्तरे देशान्तरे सुप्त्यादिप्रवर्तकानामन्येषामपि परमत्वसम्भवेन एष एव परम इति परमान्तरव्यवच्छेदो न स्यात् । अत एवकारस्य स्थानद्वयेऽप्याकर्ष इति भावेनोक्तम् अवधारणस्येति ॥
भावबोधः
सर्वावस्थानामिति ॥ प्रत्येकमवस्थानां भगवदधीनत्वोक्तावेवैतद्विचाराङ्गसंशयोत्थानादनन्तर-सङ्गतिरिति भावः ॥ सर्वजीवानामिति ॥ अत्रावस्थाः किं केषाञ्चित् किञ्चित्कालीना एव भगवदधीना उत सर्वजीवानां सार्वकालीना इति चिन्ता । तदर्थमीश्वरः किं लौकिकराजादिवदुत नेति । राजादीनां पृथग्दर्शनादीशान्तरकल्पनेति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– न सर्वेषामिति ॥ केषाञ्चित् काश्चिदेवेत्यनेनेशान्तरकल्पनेति न्यायविवरणमुक्तार्थं भवति । राजा-दीनामिति हेतुं व्याख्याति– राजादीनामिति ॥ न चात्र प्रमाणमिति ॥ ‘स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव च’ इत्यादितत्तदधिकरणोदाहृतवाक्यानां केषाञ्चित् कदाचित् स एवेत्यर्थोपपत्त्या सावकाशत्वाद्विवक्षितार्थे न विशेषप्रमाणत्वमिति भावः । ननु ‘एष ह्येव’ इति । श्रुतिरवस्था-पे्ररकत्वे भगवतः कथं प्रमाणमित्यत आह– स्वप्नादिप्राप्तेश्चेति ॥ एष स्वप्नानिति श्रुतेश्चेति । उपलक्षणमेतत् ।
‘देशकालविशेषेऽपि स्वप्नादीनां स एव हि ।
तिरस्कर्ता च कर्ता च न खण्डेशः स राजवत् ॥’
इति न्यायविवरणोक्ता श्रुतिरपि ग्राह्या ।
ननु ईशान्तरसत्त्वेऽपि ‘स एष स्वप्नान्दर्शयति’ इति श्रुतेः सावकाशत्वात् कथं विवक्षितार्थ-साधकत्वमित्यत आह– अवधारणस्येति ॥ ‘एष एव परमानन्द’ इति श्रुतस्या वधारणस्यैव ‘स्वप्नान् दर्शयति’ ‘एष प्रबोधयति’ इत्यत्राप्यन्वयेन विवक्षितार्थस्य भगवत एव सर्वेषां सर्वावस्था-प्रेरकत्वस्य सिद्धिरित्यर्थः । स्वप्नानिति बहुवचनेन सर्वपुरुषसम्बन्धिसार्वकालिकावस्थालाभादेव ‘एव’ इत्येवकारेणेशान्तरव्यवच्छेदसिद्धेरिति भावः ।
ननु परमात्मन एवोपास्यत्वविधानेऽप्यवस्थानां भगवदधीनत्वं कुत इत्यत आह– अन्य-स्यापीति ॥ अन्यस्यावस्थापे्ररकत्वे तस्याप्युत्तमत्वेनोपास्यत्वप्राप्त्यात्मानमेवेत्यवधारणं नोपपद्यत इति भावः ।
ननु सौत्रः ‘च’शब्दः किमर्थं समुच्चयार्थत्वस्यावधारणविरुद्धत्वादित्यत आह– चशब्द इति ॥ ईशान्तरकल्पनारूपपक्षान्तरेत्यर्थः । सौत्रमनुस्मृतीति पदम् ‘अनुस्मृतेश्च’ इत्यादिवत् प्रत्यभिज्ञापरमिति प्रतीतिनिरासार्थमनुसारिस्मृतेश्चेति व्याख्यातम् । तत्र स्मृतेरनुसारित्वं नाम किमित्यत आह– स्फुटमिति ॥
भावदीपः
सर्वावस्थानामिति ॥ सर्वेषां जनानां याः स्वप्नादिसकलावस्थास् तासामित्यर्थः । सामान्य-चिन्तानन्तरं विशेषचिन्तावसरः । मोहस्य प्रधानावस्थात्वाभावद्योतनाय ततः पूर्वं चास्य निवेश इति भावः ॥ किञ्चित्कालीना इति ॥ भगवदधीना इति योज्यम् ॥ इत्युक्तवाक्यस्येति ॥ स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव चेति । स एव जागरिते स्थापयतीति । एष एव सुप्तं बोधयतीत्यादिवाक्यस्येत्यर्थः । स एवेत्याद्यवधारणसत्वेऽपि सर्वेषामित्यादिसर्वशब्दाभावाद्भवत्येवैवं संशय इति भावः । न चेत्यादिभाष्योक्तं स एव चेति सौत्रचशब्दव्यावर्त्यपूर्वपक्षं व्यनक्ति ॥ न सर्वेषामिति ॥ राजादीनां पृथग्दर्शनादित्यन्यत्रोक्तहेतुमाह ॥ राजेति ॥ अतिप्रसङ्गादिति ॥ कालाज्ञानादिनिमित्तापेक्षां विनापि कुर्यादित्यर्थः । अक्षरनयादौ लोकदृष्टित्यागेनाणुत्व महत्त्वा-द्यभ्युपगमवादवदस्त्विहापीत्यतः सूत्रशेषव्यावर्त्यमाह ॥ न चेति ॥ प्रमाणं चात्र सर्वप्रेरकत्वे नास्ति अणुत्वादौ त्वस्तीति भावः ॥ अत इति ॥ लोकदृष्ट्यनुसारात्प्रमाणाभावाच्चेत्यर्थः ॥ सर्वावस्था-प्रेरकत्वाभावेनेति ॥ एतेनाग्रेतनेन अनेन सर्वगतत्वमायामयशब्दादिभ्य इत्यनेन पौनरुक्त्यं निरस्तम् । तत्र सार्वत्रिकसृष्ट्यादिकर्तृत्वोक्तावपीह सर्वावस्थाप्रेरकत्वं नेति शङ्कायां तत्समर्थनात् । उक्तश्चायमर्थभेदः सङ्क्षेपभाष्ये अत्र सर्वावस्थाप्रेरकश्चेति । तत्र तु ‘सर्वदेशेषु कालेषु स एकः परमेश्वरः’ इति ।
सूत्रार्थमाह ॥ स परमात्मैवेति ॥ आत्मनीति प्रकृतात्मपरामर्श इति भावः । एवकार-व्यावर्त्योक्तिपरं न चेति भाष्यं व्याचष्टे ॥ न त्विति ॥ सूत्रभाष्यशेषयोरर्थमाह ॥ एष हीति ॥ सर्वत्रेति ॥ भाष्यादावित्यर्थः । क्वचित् स्वतःसिद्धेन क्वचित्कृतेनेति योज्यम् । न चेत्यादि भाष्यमुत्सूत्रमिति वाऽवधारणार्थपरमिति वा भ्रमनिरासायाह ॥ चशब्द इति ॥ स एवेत्युक्त्याऽर्थात् प्राप्तस्यापि श्रौतत्वसिध्यर्थं चशब्दादिति भावः । तत्वप्रदीपे तु हेतौ वा चशब्दः । तस्मात्स एव सर्वकर्ता नान्यः न च किंचित्स्वभाव एव । स्वभावस्यापि तदधीनत्वादित्यभिप्राय इत्यर्थान्तरं चोक्तम् ॥ अत इति ॥ कर्मानुस्मृत्यादिबलादित्यर्थः ।
अभिनवचन्द्रिका
अवस्था भगवदधीना इत्युक्तवाक्यस्येति ॥ अवस्थानां भगवदधीनत्वमित्यस्मिन्नर्थे उक्तानां ‘एष एव सुप्तं प्रबोधयतीत्यादिवाक्यानाम् उभयथाऽर्थसम्भव इत्यर्थः ॥ राजादीनामिति ॥ अत्र ‘ईश्वरः खण्डेशो भवितुमर्हति, अधिपतित्वाद् राजादिवत्’ इति प्रयोगो द्रष्टव्यः ॥ अभ्युपगन्तुं शक्यत इति ॥ ‘एष एव सुप्तं बोधयति’ इत्याद्यर्थतयेत्यर्थः ॥ न चात्र प्रमाणमिति ॥ समाख्यारूपमिति शेषः ॥ अदृष्टमपीति ॥ दृष्ट्यननुगुणमपि सर्वेशत्वं श्रुत्यर्थत्वेन कल्पयाम इत्यर्थः । एतेन प्रमाणसद्भावे तद्बलेनैव सिद्धत्वेन कल्पनाभावात् प्रमाणसद्भाव एव अदृष्टकल्पना कार्या नान्यथेति वचनमयुक्तमिति परास्तम् । ननु ‘एष स्वप्नान् दर्शयति’ इतिश्रुतौ स्वप्नादि-दर्शकत्वमनवधारणेनोक्त्वा ‘एष एव परम आनन्द’ इति सावधारणं परमानन्दत्वाभिधानात् तदेवेश्वरैकनिष्ठम् । स्वप्नादिदर्शकत्वं तु कालान्तरेऽन्यनिष्ठमिति खण्डेशत्वमेवेश्वरस्येत्यत आह– अवधारणस्य सर्वत्रेति ॥ ननु सौत्रश्चशब्दः किमर्थः । समुच्चयार्थत्वस्याऽवधारणविरुद्धत्वादित्यत आह– चशब्द इति ॥ पूर्वपक्षनिरासार्थ इत्यर्थः । अत एव भाष्ये ‘न च केषाञ्चित्स्वप्नादिकर्ता, न तु सर्वेषामिति’ इति पूर्वपक्षनिषेधः कृतः ।
पूर्वपक्षस्तु न ईश्वरः सर्वेषां सर्वकालीन सर्वाऽवस्थाप्रवर्तको ऽधिपतित्वाद् राजवत् । न च ‘एष एव सुप्तं प्रबोधयति’ इत्यादिश्रुतिविरोधः । यत्किञ्चिन्नियामकपरत्वेनाऽपि योजयितुं शक्यत्वात् । न च विस्पष्टसमाख्याश्रुत्यभावे युक्तिविरुद्धं सर्वनियामकत्वं श्रुत्यर्थतया प्रतिपत्तुं शक्यतेः । अतः सर्वाऽवस्थाप्रेरकत्वाऽभावेन न सर्वैश्वर्यं हरेरिति ।
सिद्धान्तस्तु ईश्वर एव सर्वकालीनसुप्त्यादिनियामकः सर्वकर्मनियामकत्वात्, सुप्त्यादीनां च तदन्तर्भावात् । न च तत्र प्रमाणाऽभावः ‘एष ह्येव साधुकर्म कारयति’ इति सावधारणश्रुतेः । ‘प्रदर्शकस्तु सर्वेषां स्वप्नादेरेक एव तु । परमः पुरुषो विष्णुस्ततोऽन्यो नास्ति कश्चन’ इति स्मृतेः, ‘एष स्वप्नान् दर्शयति एष प्रबोधयति, एष एव परम आनन्द’ इति श्रुतेः । ‘आत्मानमेव लोकमुपासीत’ इति विधेश्च । न ह्यन्यस्य स्वप्नादिप्रवर्तकत्वे परमात्मन एवोपास्यत्वं सम्भवति । अतः सर्वावस्थाप्रेरके महामहिमि्न ईश्वरे भक्तिर्युक्तेति सिद्धम् ।
वाक्यार्थमुक्तावली
सर्वावस्थानामिति ॥ प्रत्येकमवस्थानां भगवदधीनत्वोक्तावेवैतद्विचाराङ्गसंशयोत्थाना-दनन्तरसङ्गतिरिति भावः ॥ सर्वजीवानामिति ॥ अत्रावस्थायाः किं केषाञ्चित्किञ्चित्कालीना भगवदधीना उत सर्वजीवानां सर्वकालीना इति चिन्ता । तदर्थं किमीश्वरो लौकिकराजादिसदृश उत तद्विलक्षण इति । अवस्था भगवदधीनेत्युक्तवाक्यस्येति । अवस्था भगवदधीनेत्यत्र पठित-श्रुतीनामित्यर्थः । न केषाञ्चिदित्युत्तरभाष्यानुसारेण पूर्वपक्षयन् पृथग्भव इत्युक्तन्यायं व्यनक्ति ॥ न सर्वेषामित्यादिना ॥ खण्डेशत्वेति ॥ कालविशेषे केषाञ्चिदेवेशत्वदर्शनादित्यर्थः । अनेनेशः खण्डेशो भवितुमर्हति अधिपतित्वात् । राजादिवदिति प्रयोगो दर्शितः । तस्याप्रयोजकत्वपरिहराय विपक्षे बाधकमाह ॥ न चेति ॥ नन्वीशस्य युगपदणुत्वं महत्त्वं च लोकविलक्षणमप्यङ्गीक्रियते तदिदमपि किन्न स्यादित्यत आह ॥ न चात्रेति ॥ सूत्रे सर्वावस्थाप्रवर्तक इति शेषमभिप्रेत्य व्याचष्टे ॥ स परमात्मैवेति ॥ केषाञ्चित्स्वप्नादिकर्ता न तु सर्वेषामिति नेत्येतद्व्याचष्टे ॥ न तु केषाञ्चिदिति ॥ कर्मेति धर्माधर्मरूपं व्यापारमात्रं वा । तेन तस्येशैकायनत्वश्रुतिर्लक्ष्यते । ‘एष ह्येव साधु कर्म कारयति, एष ह्येवासाधु कर्म कारयति’ इति सर्वकर्मणामीशायत्तत्वश्रुतेरित्यर्थमभिप्रेत्याह ॥ एष ह्येवेति ॥ ननु ‘एष ह्येव’ इति श्रुतिरवस्थाप्रेरकत्वे भगवतः कथं प्रमाणमित्यत आह ॥ स्वप्नादिप्राप्तेश्चेति ॥ नन्वीशान्तरसत्त्वेऽप्येषः स्वप्नानिति श्रुतेः सावकाशत्वात्कथं विवक्षितार्थ-साधकत्वमित्यत आह ॥ अवधारणस्येति ॥ ‘एष एव परमानन्द’ इति श्रुतस्यावधारणस्य एष एव स्वप्नान् प्रदर्शयति एष एव प्रबोधयतीत्यत्रान्वये स्वप्नानिति बहुवचनेन सर्वपुरुषसम्बन्धि-सार्वकालिकावस्थालाभाद् एष एवेत्येवकारेणेशान्तरव्यवच्छेदसिद्धेश्चेति भावः ॥ अवधारणा-नुपपत्तिरिति ॥ प्रेरकान्तरस्याप्युपास्यत्वादात्मानमेवेत्यवधारणानुपपत्तिरिति भावः । एतेन सन्मानेत्युक्तसिद्धान्तन्यायः प्रकारचतुष्टयेन सूत्राक्षरारूढो दर्शितः । ननु स एवेत्यवधारणेन नान्य इतीशान्तरव्यवच्छेदलाभेऽपि न तु केषाञ्चित्स्वप्नादिकर्ता न तु सर्वेषामिति भाष्योक्तस्य पक्षान्तर-निषेधस्योत्सूत्रत्वमित्यत आह ॥ चशब्द इति ॥ समुच्चयाधिक्यन्यूनाद्यर्थानां प्रकृतानुपयोगादिति भावः । भावबोधे तु चशब्द ईशान्तरकल्पनारूपपक्षान्तरव्यवच्छेदार्थ इत्यर्थ उक्तः । न चैवकारेण तत्सिद्धिरिति वाच्यम् । एवेत्यर्थाल्लब्धस्यापि वाचनिकत्वाय चशब्दसार्थक्यादिति तेषामाशयः । केचित्तु प्रेरकं विनापि अवस्था भवत्विति पक्षान्तरव्यवच्छेदार्थ इत्याहुः । ननु स्मृतेरित्येतवता पूर्तेरनुग्रहणं व्यर्थमित्यत आह ॥ स्फुटमिति ॥ स्मृतौ सर्वेषां सार्वदेशिकानां परमपुरुषो विष्णुरेक एव स्वप्नादेः प्रेरकस्ततोऽन्यो नास्ति कश्चनेति स्पष्टं विवक्षितार्थोक्तेरिति भावः ।
तत्त्वसुबोधिनी
सर्वावस्थानामिति ॥ प्रत्येकावस्थानां भगवदधीनत्वोक्तावेवैतद्विचाराङ्गसंशयोत्थानादनन्तर-सङ्गतिरिति भावः । अवस्था भगवदधीना इत्युक्तवाक्यस्येति । न चैवमाकारस्यैव कस्यापि वाक्यस्याभावात् कथमेवमुक्तमिति वाच्यम् । एतदर्थप्रतिपादकवाक्यजातस्य इत्यर्थस्य विवक्षित-त्वादिति भावः । कुत एतदित्यत आह ॥ राजादीनामिति ॥ लोके राजादीनां खण्डेशत्वस्य दृष्टत्वादीश्वरस्यापि राजसदृशत्वात् खण्डशत्वमेव वक्तव्यम् । एवं च प्रसिद्धराजवदेव न सर्वावस्थानां तदधीनत्वमित्यर्थः । नन्वीश्वरस्य लोकविलक्षणत्वात् तत्प्रेरणस्यापि लोकविलक्षण-त्वाद् युज्यत सर्वावस्थानां तदधीनत्वमित्यत आह ॥ न चेति ॥ एवं हि अस्मदादीनामपि तादृशप्रेरकत्वादीनां वक्तुं शक्यत्वादित्यतिप्रसङ्ग इत्यर्थः । ननु सर्वावस्थानां भगवदधीनत्वे स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव चेत्यादिप्रमाणस्य विद्यमानत्वाद् लोके दृष्टमपि विलक्षणमीश्वरस्य प्रेरकत्वमङ्गीकर्तव्यमित्यत आह ॥ न चात्रेति ॥ तथा च केषाञ्चित् कदाचित् स एवेत्यर्थोपपत्त्या सावकाशत्वाद् विवक्षितार्थे न तस्य विशेषप्रमाणत्वमिति भावः । ननु ‘एष ह्येव’ इति श्रुतिः प्रेरकावस्थात्वे भगवतः कथं प्रमाणमित्यत आह ॥ स्वप्नादिप्राप्तेश्चेति ॥ एष स्वप्नानिति श्रुतेश्चेति ॥ उपलक्षणमेतत् ॥ ‘देशकालविशेषेऽपि स्वपदीनां स एव हि । तिरस्कर्ता च कर्ता च न खण्डेशः स राजवत्’ इति श्रुतिरपि ग्राह्या ।
ननु ईशान्तरसत्त्वेऽपि एष स्वप्नान् दर्शयतीति श्रुतेः सावकाशत्वात् कथं विवक्षितार्थ-साधकत्वमित्यत आह ॥ अवधारणस्येति ॥ ‘एष एव परमानन्द’ इति श्रुतस्यावधारणस्य ‘एष स्वप्नान् दर्शयति’ इत्यत्राप्यन्वयेन विवक्षितार्थस्य भगवत एव सर्वेषां सर्वावस्थाप्रेरकत्वसिद्धि-रित्यर्थः । स्वप्नानिति बहुवचनेन सर्वपुरुषसम्बन्धिसार्वकालिकावस्थानाद् एष एवेत्येवकारेणे-शान्तरव्यवच्छेदसिद्धेरिति भावः । ननु परमात्मन एवोपास्यत्वविधानेऽपि अवस्थानां भगवदधीनत्वं कुत इत्यत आह ॥ अन्यस्यापीति ॥ अन्यावस्थाप्रेरकत्वे तस्योत्तमत्वेनोपास्यत्वप्राप्त्या आत्मान-मेवेत्यवधारणं नोपपद्यत इति भावः । ननु सौत्रश्चशब्दः किमर्थः समुच्चयार्थत्वस्यावधारण-विरुद्धत्वादित्यत आह ॥ चशब्द इति ॥ ईशान्तरकल्पनारूपपक्षान्तरेत्यर्थः । ननु सौत्रमनुस्मृति-पदमनुस्मृतेश्चेत्यादिवत् प्रत्यभिज्ञानमिति प्रतीतिनिरासार्थमनुसारिस्मृतेश्चेति व्याख्यातम् । तत्र स्मृतेरनुसारित्वं नाम किमित्यत आह ॥ स्फुटमिति ॥
वाक्यार्थविवरणम्
अतिप्रसङ्गादिति ॥ अन्यथा लोकविलक्षणं शशविषाणमप्यङ्गीकार्यं स्यादित्यर्थः ॥ स्वप्नादीति ॥ स्वप्नावस्थाप्राप्तेरपि सर्वकर्मान्तर्गतत्वेन एष ह्येवेति श्रुतिर्भगवतः सर्वावस्थाप्रेरकत्वे प्रमाणं भवतीति द्रष्टव्यम् । सद्भाव इत्यनन्तरं तस्याप्युपास्यत्वप्राप्त्येति शेषः ॥ अवधारणेति ॥ आत्मानमेवेत्यवधारणेत्यर्थः ॥ चशब्द इति ॥ स एव सर्वावस्थाप्रेरक इत्युक्त्वा स्वयमेव सूत्रकारोऽन्ययोगव्यवच्छेदं चशब्देन दर्शयतीत्यर्थः । एवकारार्थविवरणं स्वयमेव कृतमिति ध्येयम् ।
वाक्यार्थमञ्जरी
खण्डेशत्वेति ॥ किञ्चिद्देशकालीनेशत्वेत्यर्थः ॥ अतिप्रसङ्गादिति ॥ लोकविलक्षणा-निष्टधर्मस्याङ्गीकारप्रसङ्गादित्यर्थः । लोकविलक्षणयुगपदणुत्वमहत्वादिवत्किं न स्यादित्यत आह ॥ न चात्रेति ॥ अणोरणीयान्महतो महीयान’ इत्यादिश्रुतिः प्रमाणमिति भावः ॥ ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ सर्वावस्थाप्रवर्तकः स एव परमात्मैव नान्यः । कुतः ? कर्मानु-स्मृतिशब्दविधिभ्यः । एष ह्येवैनं साधुकर्म कारयतीति सर्वकर्मणामीशाधीनत्वोक्तेः । प्रदर्शक-स्त्वित्यनुकूलस्मृतेर् एष स्वप्नान्दर्शयतीति शब्दात् । आत्मानमेवेत्युपासनाविधेश्चेत्यर्थः । नन्वीशान्तरसत्वेऽप्येषः स्वप्नान्दर्शयतीति श्रुतेः सावकाशत्वात्कथं विवक्षितार्थसाधकत्वमित्यत आह ॥ अवधारणस्य चेति ॥ एष एव परमानन्द इति श्रुतस्यावधारणस्य एष स्वप्नान्दर्शयत्येष प्रबोधयतीत्यत्राप्यन्वयेन विवक्षितार्थस्य भगवत एव सर्वावस्थाप्रेरकत्वस्य सिद्धेरित्यर्थः । ननु परमात्मन एवोपास्यत्वविधानेऽप्यवस्थानां भगवदधीनत्वं कुत इत्यत आह ॥ अन्यस्यापीति ॥ अन्यस्याप्यवस्थाप्रेरकत्वे तस्याप्युत्तमत्वेनोपास्यत्वप्राप्त्या आत्मानमेवेत्यवधारणं नोपपद्यत इति भावः । ननु सौत्रश्चशब्दः किमर्थः समुच्चयार्थस्यावधारणविरुद्धत्वादित्यत आह ॥ चशब्द इति ॥ ईशान्तरकल्पनारूपपक्षान्तरेत्यर्थः । किमिदं स्मृतेरनुसारित्वमित्यत आह ॥ स्फुटमिति ॥
॥ इति कर्मानुस्मृत्यधिकरणम् ॥ ६ ॥