०४ तदभावाधिकरणम्

ॐ तदभावो नाडीषु तच्छ्रुतेरात्मनि ह ॐ

४. तदभावाधिकरणम्

सूत्रभाष्यम्

॥ ॐ तदभावो नाडीषु तच्छ्रुतेरात्मनि ह ॐ ॥ ७ ॥

जाग्रत्स्वप्नाभावः सुप्तिर् नाडीस्थे परमात्मनि ।

‘आसु तदा नाडीषु सुप्तो भवति’ (छां.उ. ८-६-३)

‘सता सौम्य तदा सम्पन्नो भवति’ (छां.उ. ६-८-१) इति श्रुतेः ॥ ७ ॥

तत्त्वप्रदीपिका

‘तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सुप्तो भवति’ इति च्छन्दोगश्रुतिः । ‘यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति’ इति च ।

‘तन्नाडीसंस्थितं विष्णुं मध्ये जीवः प्रपद्यत’ इति पर्यङ्कोपसनायाम् ॥

तत्त्वप्रकाशिका

अत्र ईश्वरप्राप्तिसाधनभक्त्यर्थं सुप्तप्राप्यत्वमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । एतदवर्णने न निरतिशया भक्तिः स्यादतोऽसौ वर्णनीयः । स्वप्नजाग्रद्विचारेऽवशिष्टा सुषुप्तिर्विषयः । भगवदधीनत्वे विवादाभावात् किं परमात्मनि नाडीषु वेति सन्देहः । ‘सता सोम्य तदा सम्पन्नो भवति’ । ‘यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सुप्तो भवति’ इति श्रुती सन्देहबीजम् । परमात्मन्येव सुप्तिर्न नाडीष्विति पूर्वः पक्षः । परमात्मनोऽन्यत्रावस्थाने सुप्तस्य दुःखित्वप्रसङ्गाज् जाग्रत्स्वप्नयोरिव । न च मुक्तवत्सुप्तस्य दुःखमस्ति । तदा सुखमात्रानुभवात् । न च तत्र प्रमाणाभावः । सुखमहमस्वाप्समित्युत्तरकालीनस्मृतेः । न चाननुभूतं स्मर्यते । न च वाच्यं दुःखाभावः स्मर्यते न सुखमिति । तदनुभवाभ्युपगमे किमपराद्धं सुखेन । दुःखाभावोऽनुमीयते न च स्मर्यत इति चेन्न । पक्षभूतावस्थास्मरणाभावेन तदनुदयात् । आत्मपक्षीकारेऽपि प्रतिज्ञाविशेषणतयाऽवस्थास्मरणस्यावश्यंभावित्वात् । अतः सुषुप्तौ सुखैकानुभवात्परमात्मन्येव सुप्तिर्न नाडीष्वित्यतस्तत् श्रुतेरप्रामाण्यमिति ।

सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ तदिति ॥ सुप्तिर्जीवस्य नाडीषु भवति । न चैवं दुःखप्राप्तिः । परमात्मनि सुप्त्यङ्गीकारात् । न चैकस्योभयत्र सुप्तिर्विरुद्धा । नाडीस्थपरमात्मनि सुप्त्यङ्गीकारेणोभयोपपत्तेः । परमात्मन्येव किं न स्यात् सुप्तिः किं नाडीस्थविशेषणेनेति चेत् । न । उभयविधश्रुतेरन्यथानुपपत्तेः । एवं च सति तदुपपत्तेः । एवं चाभ्युपगमेनोपपन्नेन प्रमाणभूतश्रुतिद्वयव्यवस्थोपपत्तौ तदनभ्युपगमे सर्वत्राप्यव्यवस्थैवेत्यतिप्रसङ्ग इति भावः । सुप्तः प्राप्तः । अतः परमात्मनो नाडीस्थस्य सुप्तप्राप्यत्वमाहात्म्यवत्त्वाद्युक्ता तत्र भक्तिरिति सिद्धम् ।

गुर्वर्थदीपिका

भगवदधीना न वेति सन्देहाभावादित्यत्र सुप्तस्य जीवस्य सर्वव्यापाररहितत्वेनाकिञ्चि-त्करत्वात्सुप्तेर्भगवदधीनत्वे न सन्देह इति भावः । पक्षीभूतावस्थास्मरणाभावेन तदनुदयादित्यत्र सुप्त्यवस्थां पक्षीकृत्य दुःखाभावोऽनुमीयत इति चेत्तदा पक्षीभूतावस्थाज्ञानं वाच्यम् । अतीतायाश्च नेदानीमनुभवः । अतः स्मरणमेव वाच्यम् । तच्चानुभवं विना न भवतीति सुप्तावनुभवो वाच्य इति भावः । आत्मपक्षीकरणेऽपीत्यत्र अतीतावस्थायां दुःखाभाववानित्यनुमानेऽपि प्रतिज्ञाविशेषण-तयाऽवस्थास्मरणस्यावश्यम्भावादित्यर्थः । अहमेतावन्तं कालं दुःखानुभववानित्यनुमानेऽप्ये-तावत्पदसूचितावस्थाया अतीतकालस्य च स्मरणमावश्यकमित्यप्यूह्यम् । ‘यत्रैतत्सुप्तः समस्तः सम्प्रसन्न’ इति श्रुतिखण्डे सुप्तस्य प्रागेवोक्तत्वात्पुनः ‘आसु तदा नाडीषु सुप्तो भवति’ इत्युक्ते पौनरुक्त्यं स्यात् । अतः सुप्तः प्राप्त इत्युक्तम् । नाडीष्विति चेति बहुवचनं च प्रतिशरीरं नाडीबाहुल्यादिति ज्ञेयम् । ‘तदभावो नाडीषु’ इत्यत्र सुप्तेः स्वरूपविवरणाय सुप्तिरित्यनुक्त्वा तदभाव इत्युक्तम् ।

भावबोधः

अवशिष्टा सुषुप्तिरिति ॥ जाग्रदवस्थादौ श्रान्तस्य श्रमापनोदनार्थं सुप्तिरिति सात्र विचार्यत इत्यनन्तरसङ्गतिरिति भावः । स्वप्नजाग्रद्वत् सुप्तेर्भगवदधीनत्वं कुतो न विचार्यत इत्यत आह– भगवदधीनत्वे विवादाभावादिति ॥ न चैवं सुप्तिस्वरूपमात्रविचारपरस्य भगवन्माहात्म्या-प्रतिपादकत्वे न पादान्तर्भाव इति वाच्यम्; सुप्तिस्वरूपविचारपरस्यापि सुप्तेर्भगवदधीनत्वलक्षण-माहात्म्याप्रतिपादकत्वेऽपि सुप्तप्राप्यत्वलक्षणमाहात्म्यप्रतिपादकत्वात् । एतदेवाभिप्रेत्योक्तं प्राक्– सुप्तप्राप्यत्वमहिम्न इति ॥ अज्ञानकालयोरचेतनत्वेनास्वातन्त्र्यस्योक्तत्वात् तदरिक्तकारणस्या-प्रतीतेरभ्यधिकाशङ्काभावात् पूर्वसूत्रे ‘वासोऽपि’ इति सौत्रा‘पि’पदेनानुक्तस्यापि समुचितत्वाभि-प्रायेण भाष्ये स्वप्न इति श्रुतिशेषोदाहरणाच्च पूर्वन्यायेनैव सुप्तेरपि भगवदधीनत्वसिद्धौ तत्र विवादाभाव इति भावः । परमात्मनि नाडीषु वेति । अत्र सुप्तिः किं परमात्मन्येवोत नाडीष्वपीति चिन्ता । तदर्थं परमात्मनोऽन्यत्र सुप्त्यङ्गीकारे दुःखप्राप्तिरस्त्युत नेति । तदर्थं नाडीपरमात्मनो-र्विशेषणविशेष्यभावो नास्त्युतास्तीति । एवं च नाडीपरमात्मनोर्विशेषणविशेष्यभावे एकस्योभयत्र सुप्त्यङ्गीकारस्य विरुद्धत्वेन परमात्मनोऽन्यत्रैव सुप्त्यङ्गीकारप्राप्त्या दुःखित्वप्रसङ्गेन परमात्मन्येव जीवस्य सुप्तिरिति पूर्वपक्षे, विशेषणविशेष्यभावे चान्यत्र सुप्त्यङ्गीकारेऽपि परमात्मनि सुप्त्यङ्गीकारेण दुःखाप्राप्त्या नाडीष्वपि सुप्तिरिति सिद्धान्ते च फलफलिभावः । परमात्मनोऽन्यत्रावस्थाने दुःखित्वप्राप्तेर्नाडीषु सुप्तिर्न भवतीति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– परमात्मन्येवेति ॥ अनेन नाडीषु सुप्तिर्न भवतीत्येतद्व्याख्यातम् । परमात्मनोऽन्यत्रावस्थान इत्यनेन परमात्मनोऽ-न्यत्रेत्यादि व्याख्यातं भवति । इष्टापत्तिमाशङ्क्य परिहरति– न च मुक्तवदिति ॥ किमपराद्धं सुखेनेति ॥ सज्जीवानां किञ्चिदभिव्यक्तस्वरूपसुखस्यान्येषां परमात्मसम्बन्धलक्षणनिमित्तोत्पन्न-सुखस्य चानुभवादिति भावः । यथोक्तं षट्प्रश्नभाष्यटीकायाम् ‘यस्मादेवं परमेश्वरतेजसाभिभूतो भवत्यथ तस्मात् तत्सन्निधानसामर्थ्योद्भूतरूपं यत्सुखं तदस्मिन् शरीरे भवतीति । सुप्तौ सर्वेन्द्रियाणामुपरतत्वात् किंनिमित्तं सुखं केन वा जीवोऽनुभवतीत्यभिप्रायेण परमेश्वरसन्निधान-सामर्थ्योद्भूतं सुखमात्मस्वरूपज्ञानेनानुभवतीति परिहारोऽभिप्रेतः’ इति । अत्रोद्भूतरूपमित्यनेन योग्यानां स्वरूपसुखाभिव्यक्तिरन्येषां परमात्मसम्बन्धनिमित्तजन्यं सुखमुच्यत इति सम्प्रदायविदः ।

ननु कथं दुःखाभावोऽनुमीयते? किं देवदत्तसुप्त्यवस्था न देवदत्तसमवेतदुःखोपेता तत्कारण-शून्यत्वादिति वा सुप्त्यवस्थाविशिष्टो देवदत्तो न दुःखसमवायी तत्कारणरहितत्वादिति वेति विकल्पं मनसि निधायाऽऽद्ये दोषमाह– पक्षभूतावस्थास्मरणाभावेनेति ॥ दुःखाभावानुमान-वादिना सुषुप्तिकालेऽवस्थानुभवस्याङ्गीकारात् । अन्यथा दुःखाभावानुभवस्यापि सम्भवेन तत्स्मरणापलापासम्भवादिति भावः । द्वितीयं दूषयति– आत्मेति ॥ न च देवदत्तमात्रपक्षी-कारेणावस्थास्मरणाभावो न दोषायेति वाच्यम्; तथात्वे जाग्रदाद्यवस्थाविशिष्टस्य देवदत्तस्य दुःखसमवेतत्वेन तदभावसाधने बाधप्रसङ्गात्, सौषुप्तिकदुःखाभावासिद्ध्यार्थान्तरत्वाच्चेति । ‘तद-भावो नाडीष्वात्मनि’ इति सूत्रभागं योजयति– सुप्तिर्जीवस्येति ॥ नाडीस्थेति भाष्यं व्याख्यातु-माह– न चैकस्येति ॥ उभयस्वीकारोपपत्तौ मानस्य क्लृप्त्यकारणमित्यनवस्थितिदोषा-दतिप्रसङ्गादिति न्यायविवरणमिति श्रुतेरिति भाष्यैकवाक्यत्वेन व्याचष्टे– एवं चाभ्युपगमेनेति ॥ तथा चैवं वाभ्युपगमेनोपपन्नेन प्रमाणभूतश्रुतिव्यवस्थोपपत्तावित्यनेनोभयस्वीकारेण प्रमाणभूतश्रुति-द्वयव्यवस्थोपपत्ताविति । तदनभ्युपगम इत्यनेन मानक्लृप्त्यकारणमित्येतन्मानस्य श्रुतिद्वयस्य या क्लृप्तिर् नाडीस्थपरमात्मनि सुप्तिरिति तदकारणं तदनभ्युपगम इति कृत्वेति सर्वत्राव्यवस्थैवेत्यति-प्रसङ्ग इत्यनेनानवस्थितिदोषादतिप्रसङ्गादित्येतद्व्याख्यातं भवति ।

भावदीपः

सुप्तप्राप्यत्वेति ॥ नाडीस्थरूपविशेषात्मकस्य भगवत इति योज्यम् । तेनेक्षतिकर्मव्यपदेशात्स इत्यत्र सदेव सोम्येति वाक्यस्थसन्नामसमन्वयोक्त्या वा स्थानं लिङ्गमनुग्रह इति तत्रत्यानुभाष्योक्तेः सन्नामसमन्वयद्वाराऽनेकप्रकरणजातस्थानसमन्वयोक्त्या वा तत्स्थानमध्यस्थसुप्तप्रकरणगतसता-सोम्येति वाक्योक्तसुप्तप्राप्यत्वमहिम्नोऽपि लाभाद् व्यर्थोऽयमारम्भ इति निरस्तं बोध्यम् । तस्यात्र प्रपञ्चनात् । प्रपञ्चनं च नाडीषु सुप्त इति सता सोम्येति च छन्दोगश्रुत्यर्थव्यवस्थोपपादनार्थम् । सङ्गतिमाह ॥ स्वप्नेति ॥ श्रुतिषु निर्दिष्टासु वा जीवे लोकप्रसिद्धासु वा तिसृष्ववस्थासु स्वप्नजाग्र-द्विचार इत्यर्थः । एतेन जाग्रदादौ दुःखस्याप्यनुभवेन जीवस्य ईशादन्यत्रावस्थानेऽपि न सुप्तस्य सुखमात्रानुभवेनान्यत्रावस्थानं किंत्वीश एवेत्यर्थोपपादकत्वात्स्वप्नजाग्रदुक्त्यनन्तरं सुप्तप्राप्यत्ववर्णन-मिति सङ्गतिरपि सूचिता । भाष्ये तदभावोऽस्य पराभिध्यानादेवेति योजनानुक्तौ बीजमाह ॥ भगवदधीनत्व इति ॥ कालादेरस्वातन्त्र्येणाऽन्याधीनत्वशङ्काप्रापकाभावादिति भावः ॥ परमात्मनीति ॥ परमात्मन्येव नाडीष्वपि वेत्यर्थः । अन्यथा परमात्मनि नाडीषु वेति सन्देहे नाडीस्थपरमात्मनीति सिद्धान्तस्य व्यधिकरणतापत्तेः । अत एव परमात्मन्येवेति पूर्वपक्षोक्तिः । यद्वाऽत्र वाऽत्र वेति सन्देहेऽत्रैवेति प्राप्ते उभयत्रापीति सिद्धान्तोपपत्तेरेव सन्देहोक्तिः । यद्वा परमात्मनि नाडीषु वा उभयत्र वेत्यपि कोटिर्ध्येया । तथा दुःखित्वप्राप्तेरेकस्योभयप्राप्तेर्विरुद्धत्वाच्च नोभयत्र प्राप्तिरित्यपि पूर्वपक्षोऽग्रे ध्येयः ॥ यत्रेति ॥ यदा एतत्सुप्त एष सुप्तः समस्त उप-संहृर्तेन्द्रियवृत्तिः । प्रतिशरीरं नाडीभेदाद्बहुवचनम् । अन्यथा तन्नाडीसंस्थितं विष्णुं मध्ये जीवः प्रपद्यत इत्यष्टमच्छान्दोग्यभाष्येण ताभिः प्रसृत्य पुरीतति शेत इति चतुर्थे काण्वश्रुत्या सुषुम्नासंस्थितं विष्णुमेति तत्सुप्तिमेष्यतीति द्वितीयाध्यायबृहद्भाष्येण तासां मध्ये सुषुम्ना च तत्र सुप्तिं व्रजत्ययमिति षष्ठाध्यायबृहद्भाष्येण च विरोधादित्येके । ‘मध्ये सुषुम्ना विज्ञेया वज्रिकाऽऽर्या प्रकाशिनी । वैद्युता ब्रह्मनाडीति सैव पञ्चप्रभेदिनि’ इति तन्त्रसारोक्तेस्तदभिप्रायेण बहुवचनमित्यन्ये । जीवपरत्व-ज्ञापनाय पूर्वांशोक्तिः ॥ श्रुती इति ॥ न चैवं श्रुत्यविगानपरपादान्तर्भाव इति शङ्क्यं श्रुत्य-विगानस्य फलत्वेऽपि सुप्तिचिन्तात्वेनात्र निवेशोपपत्तेः । परमात्मनोऽन्यत्रावस्थाने दुःखित्व-प्राप्तेर्नाडीषु सुप्तिर्न भवतीत्यन्यत्रोक्तं व्यनक्ति ॥ परमात्मन्येवेति ॥ एतेन नाडीषु सुप्त्यभावे निराश्रया सुप्तिः स्यादिति निरस्तम् । अन्यत्र नाड्याम् ॥ जाग्रदिति ॥ यद्यपि जाग्रदादावपीशा-दन्यत्रावस्थानं जीवस्य न भवति । ‘हृदये सर्वशो व्यापी प्रादेशः पुरुषोत्तमः । जीवानां स्थान-मुद्दिष्टः सर्वदैव सनातनः ।’ हृत्कर्णिकामूलगतः सोऽङ्गुष्ठाग्रप्रमाणकः । ‘मूलेश इति नामास्मिन् सर्वे जीवाः प्रतिष्ठिता’ इति षष्ठबृहद्भाष्योक्तेः । तथाऽपि ‘अङ्गुष्ठमात्रे पुरुषे कर्णिकाग्रस्थिते हरौ । प्रविशन्ति सुषुप्तौ तु प्रबुध्यन्ते ततस्तथा’ इति स्मृत्या हृदयस्थात्पराज्जीव इति वक्ष्यमाणस्मृत्या च रूपविशेषमवस्थानविशेषं वाऽभिप्रेत्यैवमुक्तम् । तदुक्तं षष्ठे बृहद्भाष्ये सदा प्रतिष्ठितानि भवन्ति विशेषतोऽपि प्रतिष्ठितानि सुप्ताविति ॥ सुखमात्रानुभवादिति ॥ ‘प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’ इति श्रुतिस्तु मनोवृत्तिसुखदुःखाद्यनुभवाभावपरा । अत्राऽपि मात्रपदेन दुःखाद्येव व्यावर्त्यं बोध्यम् । ‘नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः किञ्चन संवेत्ति’ इति श्रुतौ किञ्चन संवेत्ति किञ्चिन्न संवेदयेत्प्राज्ञ इति किञ्चित्पदेनापि दुःखाद्येव व्यावर्त्यम् । अन्यथा ‘प्राज्ञः संवेदयेत्किञ्चिज्जीवकालतमो विना । सुप्त्यवस्थां सुखं वापि नान्यत्किञ्चि-त्प्रदर्शयेदिति माण्डूकभाष्योक्तस्मृतिविरोधा’ इति भावः ॥ स्मृतेरिति ॥ तत्स्वरूपमुक्त-मस्माभिर्जिज्ञासानये ।

स्वरूपसुखहीनानां तादृशस्मृतेर्गतिसूचनाय शङ्कामाह ॥ न वाच्यमिति ॥ सुखस्वरूप-जननाभिप्रायेणाह ॥ किमपराद्धं सुखेनेति ॥ पुंस्त्वादिवदित्यत्रोक्तन्यायेन स्वरूपसुखादेस्तदापि भावात् । न च नित्योपलब्ध्यनुपलब्धीत्युक्तदिशा अविद्यावृतत्वान् न भानमिति शङ्क्यम् । परमेश्वरसन्निधानसामर्थ्योद्भूतं सुखम् आत्मस्वरूपज्ञानेनानुभवतीति षट्प्रश्नभाष्यटीकोक्तदिशा तदनुभवोपपत्तेरिति भावः । तार्किकरीतिमाशङ्क्य निराह ॥ दुःखाभाव इति ॥ सुप्त्यवस्था दुःखहीनेति वा सुप्त्यवस्थावान् जीवो वा न दुःखवान् तद्धेत्वप्रियज्ञानादिशून्यत्वाद्यदेवं तदेव-मित्यादिरूपेणानुमीयत इत्यर्थः ॥ अत इति ॥ सुखाभावानुमित्ययोगादौत्तरिकानुस्मृत्यन्यथानु-पपत्तिबलादन्यत्रावस्थाने दुःखित्वप्रसङ्गाच्चेत्यर्थः । सुखैकेत्युक्तार्थम् ॥ सूत्रार्थमाह ॥ सुप्तिरिति ॥ अस्येत्यनुवृत्तस्यार्थो जीवस्येति । तत्त्वप्रदीपे तूत्तरसूत्रे यतस्तस्मिन्परमात्मनि सुप्तिस्तदभिध्याना-देवेत्यनुवादादत्र तदभावोऽस्य पराभिध्यानादेवेति योजनाऽभिमता । नाडीस्थे परमात्मनीत्येतद् व्याचष्टे ॥ न चैकस्येत्यादिना ॥ नाडीस्थेति ॥ ‘न चांगुष्ठमात्रे पुरुषे कर्णिकाग्रस्थिते हरौ । प्रविशन्ति सुषुप्तौ तु’ इति बृहद्भाष्योक्तस्मृतिविरोध इति शङ्क्यम् । मन्दिरे मणिमालेतिवत् ‘तस्यान्ते सुषिरं सूक्ष्मं तस्मिंत्सर्वं प्रतिष्ठितम्’ इतिवच्च कर्णिकाग्रस्थनाडीस्थपरमात्मनीत्युपपत्तेः । न च ‘देहांगुष्ठमितो देहे जीवांगुष्ठमितो हृदि । जीवस्य स तु विज्ञेयो जीवाद्भेदेन मुक्तय’ इति काठकभाष्योक्तेर्देहांगुष्ठमानस्य रूपस्य यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्य इति वाजसनेये षष्ठाध्यायोक्त्यातिसूक्ष्मतमनाडीस्थत्वायोग इति वाच्यम् । अचिन्त्यशक्त्याऽल्प-श्रुतेरित्यत्रोक्तदिशोपपत्तेः । उभयस्वीकारोपपत्तौ मानस्य क्लृप्त्यकारणमित्यव्यवस्थितिदोषादति-प्रसङ्गादित्यन्यत्रोक्त्यनुरोधेन इति श्रुतेरिति भाष्यशेषभावमाह ॥ परमात्मन्येवेत्यादिना ॥ नाडीषु सुप्त इत्युक्तेः कथमात्मनीत्यत आह ॥ सुप्तः प्राप्त इति ॥ अत इति ॥ श्रुतिद्वयान्यथानु-पपत्तिबलादिति उक्तरूपमाहात्म्यवत्त्वे हेतुः । तत्र परमात्मनि ।

अभिनवचन्द्रिका

सुप्तप्राप्यत्वमहिम्न इति ॥ नाडीस्थस्येति शेषः । परमात्मनि, नाडीषु वेति । ननु परमात्मनि स्वापस्य वादिप्रतिवादिसंमतत्वान् नैवं सन्देहो युक्तः । किं तर्हि, किं नाडीस्थे परमात्मनि, उत केवल इति सन्देहो दर्शनीयः । तत्रैव विवादात् । अत एव वक्ष्यमाणं सन्देहबीजमपि नोपपद्यत इति चेत् सत्यम्, नाऽयं पूर्वपक्षिसिद्धान्तिमताऽवलम्बी तद्विप्रतिपत्तिजः संशयः । किं नाम श्रुतिविप्रतिपत्तिजः संशयः । अत एव विप्रतिपत्तिः सन्देहबीजमित्यनुक्त्वा श्रुतिविगानमेवोक्तम् । नायमस्ति नियमः पूर्वपक्षसिद्धान्तकोट्यवलम्बी संशय एव सिद्धान्तनिरस्य इति, शुक्तिकायां नागवङ्गत्वकोटिकस्यापि संशयस्य शुक्तित्वनिर्णयेन निरासदर्शनात् । एवं च अस्यापि संशयस्य ‘नाडीस्थे परमात्मनि स्वाप’ इति सिद्धान्तनिरस्यत्वात् तत्प्रदर्शनं नानुपपन्नम् ॥ परमात्मन्येवेति ॥ नाड्यादिस्थानमपहाय स्वाधारतयैव स्थिते परमात्मनि इत्यर्थः । को दोषो नाडीसंपर्के येन तत्परित्याग इत्यत आह– परमात्मनोऽन्यत्रेति ॥ सर्वदा परमात्माऽवस्थितस्यापि जीवस्य जाग्रत्स्वप्नयोरक्ष्यादि सम्बन्धेन दुःखदर्शनान् नाडीसम्बन्धसुप्तस्य दुःखप्रसङ्ग इति भावः । न च– मुक्तवदिति ॥ सुप्तस्य दुःखं नास्ति मुक्तवदित्यर्थः । तदा सुख मात्राऽनुभवादिति ॥ यदि स्वापे दुःखं स्यात्, सम्भृतसामग्रीकत्वात् सुखवदनुभूयेत, न चाऽनुभूयते, तस्मान्नास्त्येवैतदिति भावः । एतेन दुःखाननुभवस्यैव वक्तव्यत्वेन सुखानुभवकथनमयुक्तमिति परास्तम् । तटस्थशङ्कां निषेधति– न च तत्रेति ॥ तटस्थशङ्कां निषेधति– न च वाच्यं दुःखाभाव इति ॥ तटस्थ एव शङ्कते– दुःखाभावोऽनुमीयत इति ॥ न चैवमिति ॥ जीवस्य नाडीसम्बन्धाङ्गीकारे दुःखप्राप्तिरिति नेत्यर्थः । परमात्मनीति ॥ परमात्मसम्बन्धाद् दुःखप्राप्तिपरिहरासम्भवादिति भावः । सिद्धान्त्यङ्गीकृता उभयत्र सुप्तिर् दुःखाभावाङ्गीकारेण निरुद्धा । देहसम्बन्धे जाग्रदादाविव दुःखस्याऽवर्जनीयत्वादित्याशङ्कते न चैकस्येति ॥ दुःखाभावाङ्गीकारेण निरुद्धेत्यर्थः । न हि सम्भवति दुःखकारणनाडीसम्बन्धो विद्यते । न विद्यते च दुःखमितीति भावः ॥ उभयोपपत्ते-रिति ॥ नाऽस्माभिर्नाडीसम्बन्धो जीवस्याऽङ्गीक्रियन्ते, अपि तु नाडीसम्बन्धः परमात्मन एव, जीवस्य तु परमात्मनैव सम्बन्ध इति । एवं च गृहस्थितमञ्चोपरि सुप्तो यथा गृहे सुप्तः, तथा नाडीस्थपरमात्मनि सुप्तो नाडीसुप्तोऽपि भवतीति नाडीषु स्वापो, दुःखाऽभावश्चेत्युभयमप्युपपन्नम् । दुःखकारणस्य नाडीसम्बन्धस्याभावादिति भावः । एतेन एकस्यैव व्यासज्योभयत्र स्वापसम्भवे-नाऽनुपपत्तेरेवाऽभावान् नाडीस्थपरमात्मनि स्वापाङ्गीकारेण समाधानं व्यर्थमिति परास्तम् ।

ननु नोभयविधप्रमाणाऽन्यथाऽनुपपत्त्या नाडीस्थे परमात्मनि स्वापः कल्प्यः । एवमपि ‘आसु तदा नाडीषु सुप्तो भवती’त्यस्य यथाश्रुतार्थे प्रामाण्यानुपपादनादित्यत आह– एवं चाभ्युपगमे-नेति ॥ उपपन्नेन एवमभ्युपगमेन प्रमाणभूतश्रुतिव्यवस्थोपपत्तौ सत्यामपि नाडीस्वापश्रुते-र्मुख्यार्थाऽनुपपादकत्वान् नाडीस्थे परमात्मनि स्वापानङ्गीकारे ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः, तमेवं विद्वानमृत इह भवति’ इति प्रमाणद्वयाऽन्यथाऽनुपपत्त्या कल्प्यमानं कर्मजन्यज्ञानस्य मोक्षसाधनत्वमपि न स्यात्, अविशेषादिति भावः ।

पूर्वपक्षस्तु केवले परमात्मन्येव स्वापो न नाड्यवस्थानविशिष्टे, नाडीसम्बन्धे दुःखप्रसङ्गात् । जाग्रदाद्यवस्थासु चक्षुरादिस्थितभगवद्गतस्यापि जीवस्य देहसम्बन्धेन दुःखदर्शनात् । न चेष्टापत्तिः सुप्तिकाले सुखैकाऽनुभवस्य उत्तरकालीनानुस्मृतिसिद्धत्वात् ।

सिद्धान्तस्तु नाडीस्थित एव परमात्मनि सुप्तिः । अन्यथा ‘आसु तदा नाडीषु सुप्तो भवति’ सता सोम्य तदा संपन्नो भवति’ति श्रुत्योरन्यतराऽप्रामाण्यप्रसङ्गात् । न च दुःखप्राप्तिः परमात्मन एव नाडीसम्बन्धाङ्गीकारेण जीवस्य तदनङ्गीकारात् । अतः परमात्मनो नाडीस्थस्य सुप्तप्राप्यत्वमाहात्म्यवत्त्वाद् युक्ता तत्र भक्तिरिति सिद्धम् ।

वाक्यार्थमुक्तावली

प्रतियोगिज्ञानाधीनत्वादभावज्ञानस्य प्रतियोगिभूतजाग्रत्स्वप्ननिरूपणानन्तरं तदभावरूपसुप्ति-र्निरूप्यत इत्यनन्तरसङ्गतिः । भावबोधे तु जाग्रत्स्वप्नश्रमपरिहाराय हि सुषुप्तिरित्यनन्तरसङ्गति-रित्युक्तम् ॥ विवादाभावादिति ॥ अज्ञानास्वातन्त्र्यस्य प्रागेवोक्तत्वेन सुप्तेस् तदधीनत्वशङ्कानु-दयादिति भावः । सुप्तिः किं परमात्मनि नाडीषु वेति चिन्ता । तदर्थं परमात्मनोऽन्यत्र सुप्त्यङ्गीकारे दुःखप्राप्तिरस्ति न वेति ॥ तदर्थं नाडीपरमात्मनोर्विशेषणविशेष्यभावो नास्त्युतास्तीति । यदा एतत्सुप्तये एष सुप्तःसमस्त उपरतकरणः सम्प्रसन्नः स्वानुभवेन प्रसादं प्राप्तः स्वप्नं न विजानाति । तदा नाडीषु सुप्तो भवतीति संशयबीजं श्रुत्यर्थः । अत्र सुषुप्तेस्तदभाव इति जाग्रत्स्वप्न-वैलक्ष्यण्योक्त्या निर्दुःखस्य सूचितत्वात् । अन्यत्र सुप्त्यङ्गीकारे तन्न स्यात्प्रत्युत दुःखित्वं स्यादिति लब्धं दुःखेत्युक्तपूर्वपक्षन्यायं विशदयति । परमात्मन इति ॥ उत्तरकालीनस्मृतेरिति ॥ साक्ष्यनुभवेनापि स्वरूपसंस्कारसम्पादनेन साक्षिणैव स्मरणसम्भवादिति भावः ॥ किमपराद्धं सुखेनेति ॥ सुखानुभवेनेत्यर्थः । यद्वा सर्वकरणोपरतिदशायां साक्षिरूपदुःखानुभवानभ्युपगमे किमपराद्धं सुखेन तस्यापि स्वरूपभूतस्य भगवत्सन्निधिविशेषेण मुक्ताविव व्यक्त्युपपत्तेरिति भावः । ननु तमोयोग्यानां स्वरूपसुखाभावात् कथमेतदिति चेन्न, तेषां परमात्मसम्बन्धातिशयेन स्वरूप एव भिन्नाभिन्नसुखस्य मोक्षयोग्येषु स्वरूप एव नीचतावच्च तमोयोग्येषु वृत्तिसुखेन स्वरूपे एव उच्चतावच्च जन्युपपत्तेः । केचित्तु अन्येषां दुःखाभाव एव सुप्तौ न सुखम् । टीकावाक्यं तु सज्जीवमात्रविषयमित्याहुः । नित्यसंसारिणां मिश्रत्वात्सुप्तौ सुखमात्रस्य व्यक्तिरिति ज्ञेयम् ॥ न च स्मर्यत इति ॥ येन तदनुभवसिद्ध्या किमपराद्धमिति प्रतिबन्द्यनवकाश इति भावः । कथं दुःखाभावोऽनुमीयते, देवदत्तसुप्त्यवस्था न देवदत्तसमवेतदुःखोपेता तत्कारणशून्यत्वादिति वा सुप्तो देवदत्तो न दुःखसमवायी तत्कारणरहितत्वादिति वेति विकल्पं मनसि निधायाद्ये दोषमाह ॥ पक्षभूतेति ॥ तदनुदयादवस्थापक्षकानुमानानुदयाच्च । अवस्थास्मरणे च सुप्तौ तदनुभवस्याङ्गी-कार्यत्वेन किमपराद्धं सुखेनेति दोषप्रसङ्गादिति भावः । न चावस्थाप्यनुमीयत इति वाच्यम् । लिङ्गाभावादनवस्थानाच्चेति भावः । द्वितीयं दूषयति ॥ आत्मेति ॥ प्रतिज्ञाविशेषणतयेति ॥ अवस्थायाः प्रतिज्ञाविशेषणत्वेनेत्यर्थः । आत्ममात्रपक्षीकारे बाधात् सौषुप्तिकदुःखाभावा-सिद्ध्यार्थान्तराच्चेति भावः ।

सूत्रेऽस्येत्यनुवर्तते । तदभाव इति प्रस्तुतजाग्रत्स्वप्नाभावः । बाह्यान्तरिन्द्रियवृत्तीनामुपरतिर्हि सुषुप्तिरिति तदभावो भवति । यद्वा सुखैकायतनत्वेन तद्वैलक्षण्यात्तदन्योन्याभावरूप इत्यर्थः । सुप्तिरित्येव वक्तव्ये एवमुक्तिस्त्वेतादृशसुप्तौ दुःखाभावादन्यत्र सुप्तौ दुःखप्रसङ्गादिति पूर्वपक्षन्यायं सूचयितुमिति प्रागेवोक्तम् । नाडीस्थ इत्यनुक्त्वा नाडीषु आत्मनीति विभज्योक्तिरुभयश्रुत्यनु-सारेणोभयस्वीकारस्पष्टीकरणाय । नाडीष्विति बहुवचनं श्रुत्यनुसारात् । श्रुतौ च नाडीष्विति निर्धारणसप्तम्या तन्मध्यगतसुषुम्नायामिति द्योतयितुमिति भावेन प्रतिज्ञांशं व्याचष्टे ॥ सुप्तिर्जीव-स्येत्यादिना ॥ तच्छ्रुतेरित्यस्य नाडीस्थपरमात्मस्थत्वे तच्छ्रुतेरुभयविधश्रुत्यर्थं मत्वा तत्सूचितं समानक्लृप्तिरिति न्यायम् एवं नाडीस्थपरमात्मनि सुप्तिरित्यनङ्गीकारे मानयोः श्रुत्योरक्लृप्ति-रव्यवस्थितिरिति भावेन विवृणोति ॥ उभयश्रुतेरन्यथानुपपत्तेरिति ॥ सूत्रे हेत्यनेन प्रसिद्धं खलु सर्वत्र श्रुतिद्वयविरोधे व्यवस्थया तत्परिहरणम् । अन्यथा सर्वत्राप्यव्यवस्थेति सूचितं तदेव न्यायं प्रकारान्तरेण विवृणोति ॥ एवं चेति ॥ अत्र तत्त्वप्रदीपे । तन्नाडीसंस्थितं विष्णुं मध्ये जीवः प्रपद्यत इति पर्यङ्कोपासनायामिति स्मृतिग्रहणात् तत्सूचनाय वा हेति पदमिति भाति । आसु नाडीषु सुप्त इत्यस्यार्थमाह ॥ सुप्तः प्राप्त इति ॥

तत्त्वसुबोधिनी

ननु सुप्तिस्वरूपमात्रविचारपरस्यास्य माहात्म्याप्रतिपादकत्वात् कथमन्तर्भाव इत्यत आह ॥ सुप्तप्राप्यत्वेति ॥ सुप्तिस्वरूपविचारपरत्वेन सुप्तेर् भगवदधीनत्वलक्षणमाहात्म्याप्रतिपादकत्वेऽपि सुप्तप्राप्यत्वलक्षणमाहात्म्यप्रतिपादकत्वादन्तर्भावो युक्त इति भावः ॥ अवशिष्टा सुप्तिरिति ॥ जाग्रदवस्थादौ श्रान्तस्य श्रमापनोदार्थं सुप्तिरिति सात्र विचार्यत इत्यनन्तरसङ्गतिरिति भावः । ननु स्वप्नजाग्रद्वत् सुप्तेर् भगवदधीनत्वं कुतो न विचार्यत इत्यत आह ॥ भगवदधीनत्वेति ॥ अज्ञान-कालयोरचेतनत्वेनास्वातन्त्र्यस्योक्तत्वात् तदतिरिक्तकारणस्याप्रतीतेरभ्यधिकशङ्काभावात् पूर्वसूत्रे वासोऽपीति सौत्रापिपदेनानुक्तस्यापि समुच्चितत्वाभिप्रायेण भाष्ये स स्वप्न इति श्रुतिशेषोदाहरणाच्च पूर्वन्यायेनैव सुप्तेरपि भगवदधीनत्वसिद्धौ तत्र विवादाभाव इति भावः । तत्र हेतुमाह ॥ परमात्मन इति ॥ अत्र दृष्टान्तः जाग्रत्स्वप्नयोरिति ॥ अस्तु स्मृतिः, तथापि सुखानुभवः कुत इत्यत आह ॥ न चेति ॥ अननुभूतस्य स्मरणासम्भवादिति भावः । इष्टापत्तिमाशङ्क्याह ॥ न च मुक्तवदिति ॥ मुक्तवदिति व्यतिरेकदृष्टान्तः । किमपराद्धं सुखेनेति । सज्जीवानां किञ्चिदभिव्यक्त-स्वरूपसुखस्यान्येषां परमात्मसम्बन्धलक्षणनिमित्तोत्पन्नसुखस्य चानुभवसम्भवादिति भावः । ननु कथं दुःखाभावोऽनुमीयते । किं देवदत्तसुप्त्यवस्था न देवदत्तदुःखोपेता तत्कारणशून्यत्वादिति वा, सुप्त्यवस्थाविशिष्टो देवदत्तः न दुःखसमवायवान् तत्कारणरहितत्वादिति वा इति विकल्पं मनसि निधायाद्ये दोषमाह ॥ पक्षभूतावस्थेति ॥ दुःखाभावानुमानवादिना सुप्तिकालेऽवस्थानुभव-स्यानङ्गीकारादित्यर्थः । अन्यथा दुःखाभावानुभवस्यापि सम्भवेन तत्स्मरणापलापायोगादिति भावः । द्वितीयं दूषयति ॥ आत्मेति ॥ न च देवदत्तमात्रपक्षीकारेणावस्थास्मरणाभावो न दोषायेति वाच्यम् । तथात्वे जाग्रदाद्यवस्थाविशिष्टस्य देवदत्तस्य दुःखसमवेतत्वेन तदभावसाधने बाधप्रसङ्गात् । सौषुप्तिकदुःखाभावसिद्ध्यार्थान्तरत्वाच्चेति । तदभावो नाडीषु आत्मनीति भागं योजयति । सुप्तजीवस्येति ॥ नाडीस्थेति भाष्यं व्याख्यातुमाह ॥ न चैकस्येति ॥ अर्थाप्रतीतेः सुप्त इत्येतद्व्याचष्टे ॥ सुप्तः प्राप्त इति ॥ तदुपपत्तेः श्रुतिद्वयस्योपपत्तेः ।

वाक्यार्थविवरणं

यत्रैतदिति ॥ यत्र यदा एतत्सुप्त एषः सुप्तः समस्तः । उपसंहृतेन्द्रियवृत्तिः । सुखेन प्रसन्नमनाः सन् स्वापं दुःखं न विजानातीत्यर्थोऽष्टमाध्यायच्छान्दोग्यभाष्ये स्पष्टः ॥ तदनुभवा-भ्युपगम इति ॥ दुःखाभावस्मृतिबलेन सुषुप्तौ दुःखाभावानुभवाभ्युपगम इत्यर्थः ॥ न स्मर्यत इति ॥ येन तदन्यथानुपपत्त्या सुप्तौ तदनुभवः सिद्ध्येत् तत्प्रतिबद्ध्य च सुखानुभवः सिद्ध्येदिति भावः ॥ अवस्थेति ॥ सुखमस्वाप्समिति स्मृतिबलेनैवावस्थास्मृतिमंङ्गीकृत्य सुप्तौ तदनुभवो वाच्यः । तन्न सम्भवति । सुखमस्वाप्समिति दुःखाभावोऽनुमीयत इत्येवं वदता दुःखाभावानुमानवादिना अवस्थास्मरणस्य वक्तुमशक्यत्वेन दुःखाभावानुमानस्यैवानुदयादित्यर्थः ॥ अवश्यंभावित्वादिति ॥ तच्चावस्थास्मरणमुक्तरीत्या दुःखाभावानुवादिमतेन सम्भवतीति भावः । अतो दुःखाभावानु-मानासम्भवात् तत्स्मरणमेवेदमित्यङ्गीकृत्य सुप्तौ तदनुभवेऽङ्गीकार्ये सुखानुभवेन किमपराद्धम् । अतस्तत्र प्रमाणाभावोऽसिद्ध इति ध्येयम् ॥ अन्यथा ॥ नाडीस्थिते परमात्मनि सुप्त्यनङ्गीकारे ॥ सर्वत्रापि ॥ आकाशोत्पत्त्यनुत्पत्त्यवस्थादावपि ॥ इत्यतिप्रसङ्गः ॥ इत्येवंरूपोऽतिप्रसङ्ग इत्यर्थः ।

वाक्यार्थमञ्जरी

ननु स्वप्नजाग्रद्वत् सुप्तेर् भगवदधीनत्वं कुतो न विचार्यत इत्यत आह ॥ भगवदधीनत्व इति ॥ सतेति ॥ हे सौम्य तदा सुप्तो जीवः सता भगवता संपन्नः प्राप्तस्तेनान्तःप्रवेशितो भवतीत्यर्थः ॥ यत्रेति ॥ यत्र यदा एतत्सुप्त एष सुप्तः समस्त उपरतेंद्रियवृत्तिः संप्रसन्नःसम्यक् प्रसीदति सुखमनुभवतीति संप्रसन्नो जीवः स्वप्नं न विजानाति तदा आसु नाडीषु सुप्तो भवतीत्यर्थः । इष्टापत्तिमाशंक्य परिहरति ॥ न च मुक्तवदिति ॥ व्यतिरेकदृष्टान्तोऽयम् ॥ किमपराद्धं सुखेनेति ॥ सज्जीवानां किञ्चिदभिव्यक्तस्य स्वरूपसुखस्यान्येषां परमात्मसम्बन्धलक्षण-निमित्तोत्पन्नसुखस्य चानुभवसम्भवादिति भावः । यथोक्तं षट्प्रश्नभाष्यटीकायाम् । यस्मात्परमेश्वर-तेजसाभिभूतो भवत्यतस्तस्मात्तत्सन्निधानसामर्थ्योद्भूतं यत्सुखं तदस्मिन् शरीरे भवतीति । यथा सुप्तौ सर्वेन्द्रियाणामुपरतत्वोक्तिनिमित्तं सुखं केन वा जीवोऽनुभवतीत्यभिप्रायेण पृष्टे परमेश्वर-सन्निधानेनोद्भूतं सुखमात्मस्वरूपज्ञानेनानुभवतीतिपरिहारोऽभिप्रेत इति । अत्रोद्भूत इत्यनेनयोग्यानां स्वरूपसुखाभिव्यक्तिरन्येषां परमात्मनिमित्तजन्यं सुखमुच्यत इति संप्रदायविद इति भावबोधे स्फुटम् ॥ न स्मर्यत इति ॥ ततो न तदनुभवाभ्युपगम इति भावः । किमत्र दुःखाभावानुमानम् । देवदत्तीयसुप्त्यवस्था देवदत्तसमवेतदुःखोपेता न भवति तत्कारणशून्यत्वादिति वा । सुप्त्यवस्था-विशिष्टो देवदत्तः न दुःखसमवायी तत्कारणरहितत्वादिति वेति विकल्पं मनसि निधायाद्ये दोषमाह ॥ पक्षभूतेति ॥ दुःखाभावानुमानवादिना सुप्तिकाले सुप्त्यवस्थायामनुभवानङ्गीकारा-न्नोत्तरकालं तत्स्मरणं तदनुभवाङ्गीकारे च दुःखाभावस्याप्यनुभवसम्भवेन तत्स्मरणापलापा-योगादिति भावः ॥ द्वितीयं दूषयति ॥ आत्मेति ॥ न च देवदत्तमात्रपक्षीकार इति वाच्यं तथात्वे जाग्रदवस्थाविशिष्टस्य देवदत्तस्य सुखसमवेतत्वेन तदभावसाधने बाधप्रसङ्गात् सौषुप्तिकदुःखाभाव-सिध्यार्थान्तरत्वाच्चेति भावः ॥ ॐ तदभावो नाडीषु तच्छ्रुतेरात्मनि ॐ ॥ जीवस्य तदभावस् तयोर् जाग्रत्स्वप्नयोरभावः सुप्तिर् नाडीष्वात्मनि नाडीस्थपरमात्मनि भवति । कुतः ? तच्छ्रुतेस् तस्य नाडीस्थत्वस्य आत्मस्थत्वस्य चासु तदेति सता सोम्येति च श्रुत्युक्तत्वादित्यर्थः । श्रुतिद्वयानु-सारेण कदाचिन्नाडीषु क्वचिदात्मनीत्यव्यवस्थैवाऽस्तु किमुक्तव्यवस्थेत्यत आह ॥ एवं चेति ॥ सर्वत्र आकाशानादित्वसादित्वादौ ।

॥ इति तदभावाधिकरणम् ॥ ४ ॥