ॐ देहयोगाद्वासोऽपि ॐ
३. देहयोगाधिकरणम्
सूत्रभाष्यम्
॥ ॐ देहयोगाद्वासोऽपि ॐ ॥ ६ ॥
देहयोगेन वासो जाग्रदपि तत एव ।
‘स एव जागरिते स्थापयति स स्वप्ने स प्रभुस्तुराषाट् स एको बहुधा भवति’
इति कौण्ठरव्यश्रुतेः ।
तत्त्वप्रदीपिका
स्वदेहाभिमानेन स्थितिर्जागरितमपि तदभिध्यानादेव । तुराषाट् वेगसहः वायुसहो वा ।
तत्त्वप्रकाशिका
अत्र ईश्वरप्राप्तिसाधनभक्त्यर्थं जाग्रत्प्रवर्तकत्वमहिम्नो निरूपणादस्ति शास्त्रादिसङ्गतिः । अस्य च महिम्नोऽवर्णने न निरतिशया भक्तिरुत्पद्यत इति वर्णनीयः । स्वप्ननिरूपणसङ्गता जाग्रदवस्थाऽत्र विषयः । किमीश्वराधीना न वेति सन्देहः । पूर्वोक्तमेव सन्देहबीजम् । न जागरणमीश्वराधीनमिति पूर्वः पक्षः । तस्य कालाधीनत्वदर्शनात् । न च कालस्यास्वातन्त्र्यादयुक्तिः । तदधीनत्वस्य प्रत्यक्ष-सिद्धत्वात् । न चास्य प्रत्यक्षस्य बाधकमस्ति येन मन्यामहे भ्रान्तमिति । अतो जाग्रदवस्थाया भगवदधीनत्वाभावेन न महामाहात्म्यं तस्येति ।
सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ देहेति ॥ देहाभिमानेन या स्थितिर्जीवस्य जाग्रदवस्था साऽपि पराभिध्यानादेव न कालतः । तस्याचेतनत्वेनास्वातन्त्र्यादिति भावः । जाग्रदवस्थायाः कालाधीनत्वप्रतीतेः कथमीश्वराधीनत्वमित्यत आह ॥ स एवेति ॥ कालस्यैव तत्प्रवर्तकत्वे श्रुतिविरोधान्निमित्तमात्रविषयं प्रत्यक्षमिति भावः । तुराषाट् वैरिवेगसहः । अतो हरेर्जाग्रत्प्रवर्तकत्वेन महामहिमत्वाद्युक्ता तत्र भक्तिरिति सिद्धम् ॥
गुर्वर्थदीपिका
करितुरगादिदर्शनस्य नानाविषयभोगस्य च स्वाप्नजाग्रदवस्थयोस्साम्यात्को विशेषस्तयोरित्यतः सहजदेहबाह्यदेहाभिमानाख्ययोगोऽस्ति जाग्रदवस्थायाम् । स्वप्ने तु नासाविति तयोर्विशेषं च सूचयितुमल्पाक्षरतायां भगवानपि सूत्रकारः जाग्रदित्यनुक्त्वा ‘देहयोगाद्वासोऽपि’ इत्याहेति भावस्तु स्पष्टत्वान्न टीकायामुदाहृत इति द्रष्टव्यम् ।
भावबोधः
स्वप्ननिरूपणसङ्गतेति । ‘पराभिध्यानात्तु तिरोहितम्’ इति स्वप्नतिरोधानोक्तौ तन्निमित्तत्वेन सङ्गतबाह्यज्ञानरूपजाग्रदवस्थाविचारादनन्तरसङ्गतिरिति भावः ॥ किमीश्वराधीनेति ॥ अत्र जाग्रदवस्था किमीश्वराधीना न भवत्युत भवतीति चिन्ता । तदर्थं तस्याः स्वातन्त्र्येण काला-धीनत्वमस्ति न वेति । तदर्थं कालाधीनत्वग्राहिप्रत्यक्षं स्वातन्त्र्यांशे प्रमोत भ्रम इति । कालापेक्षयैव जाग्रदिति न्यायविवरणानुसारेण पूर्वपक्षमाह– न जागरणमिति ॥ अनेनावधारणव्यावर्त्यमुक्तं भवति ।
ननु कालस्याप्यचेतनत्वेन पूर्वाधिकरणन्यायेनैव निराससम्भवेन कथमेतदधिकरणोत्थानम् ? न च पूर्वाधिकरणसिद्धान्तयुक्त्यतिदेशार्थमेतत्प्रवृत्तिः । अत एवानुव्याख्याने तदेवेति पूर्वाधिकरण-सिद्धान्तन्यायातिदेशोऽत्र कृत इति वाच्यम्; अभ्यधिकाशङ्काभावेनातिदेशस्यैवानुपपत्तिरिति चेत्, न; स्वप्नप्रतीतितत्तिरोधानयोः स्वातन्त्र्येणाज्ञानज्ञानहेतुकत्वदर्शनस्य भ्रमत्वे ‘स्वप्नादिबुद्धिकर्ता’ इति ज्ञानाज्ञानस्वातन्त्र्यप्रतिपादकविशेषप्रमाणरूपबाधकवज्जागरावस्थायाः स्वातन्त्र्येण काला-धीनत्वग्राहिप्रत्यक्षस्य बाधकाभावादित्यभ्यधिकाशङ्कयास्योत्थानात् । अत एवोक्तम्– न चास्य प्रत्यक्षस्य बाधकमस्तीति ॥
यद्वा भवत्ववस्थान्तराणां भगवदधीनत्वं न जाग्रदवस्थायाः किं तु जीवाधीनैव सा । तत्र जीवस्य देहादिकं ममैवेति स्वातन्त्र्यप्रतीतिदर्शनात् । न चेयं भ्रान्तिर् जीवस्य चेतनत्वेन पूर्वोक्त-न्यायस्याबाधकत्वाद्बाधकान्तराभावाच्चेति पूर्वपक्षोत्थानान्नैतदारम्भवैयर्थ्यम् । अत एव सूत्रे ‘जाग्रत्’ इत्येव वक्तव्ये ‘देहयोगाद्वासः’ इत्युक्तम् । व्याख्यातं च भाष्ये देहयोगेनेति ॥ विवृतं टीकायां देहाभिमानिनेति ॥ एतदेवाभिप्रेत्योक्तं न्यायविवरणे चेतनान्तरस्यास्वातन्त्र्यादिति । अत एव च भाष्ये स्वातन्त्र्याभिमानस्य भ्रमत्वोपपादनाय जीवस्यापि भगवदधीनत्वप्रतिपादनस्य स एव जागरिते स्थापयतीति विशेषप्रमाणस्योक्तिरिति । देहयोगेन वासस्य सुप्त्यादावपि सद्भावेन जाग्रदिति कथं तत्तात्पर्योक्तिरित्यत आह– देहाभिमानेनेति ॥ परभिध्यानादेवेति । अनेन पूर्वसूत्रात् ‘पराभिध्यानात्तु’ इत्येतदत्रानुवर्तत इत्युक्तं भवति ॥ तस्याचेतनत्वेनेति ॥ अनेनाचेतनत्वादेव कालस्येति न्यायविवरणं व्याख्यातं भवति । उपलक्षणमेतत् । चेतनान्तरस्याप्यस्वातन्त्र्यादित्यपि तत्रोक्तं द्रष्टव्यम् ।
भावदीपः
जाग्रत्प्रवर्तकत्वेति ॥ कालकृतत्वशङ्कानिरासेनेति भावः । तेनास्तु तिरोभावादेरीशाधीनत्वं ज्ञानादेर्निमित्तत्वेनोपपत्तेर् न तु जागरणस्य । निर्बाधप्रत्यक्षेणैव कालाधीनत्वावगमादिति शङ्कनात्सङ्गतिस्सूचिता । ज्योतिर्ब्राह्मणब्रह्मणः स समानस्सन्नुभौ लोकावनुसञ्चरतीत्यादिना श्रुतं जाग्रत्प्रवर्तकत्वं ज्योतिर्नय एव सिद्धमिति शङ्का च निरस्ता । अन्यां च सङ्गतिमाह ॥ स्वप्न-निरूपणसङ्गतेति ॥ स्वाप्नविषयतत्तिरोधानानाम् ईशाधीनत्वोक्तौ बुद्धिस्था जाग्रदवस्थेत्यर्थः । यद्वा षष्ठे काण्वश्रुतौ ज्योतिर्ब्राह्मणे स वा एष एतस्मिन् स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च प्रतिन्यायं प्रतियोन्या द्रवति बुद्धान्तायैवेति स्वाप्नोक्त्यनन्तरं जाग्रदुक्तेः स्वप्ननिरूपणसङ्गतेत्यर्थः । जाग्रदवस्था जाग्रत्त्वेन देहाद्यभिमानेन यज्जीवस्यावस्थानं तदित्यर्थः । जागरितस्येशाधीनत्वोक्ते-र्निर्बीजत्ववारणाय कालापेक्षयैव जागरितमित्यन्यत्रोक्तं पूर्वपक्षमेवकारव्यावर्त्यपूर्वं व्यनक्ति ॥ न जागरणमिति ॥ कालेति ॥ अहरादिकालेत्यर्थः । अत एव प्राण इत्यादाविवैवकारः कालापेक्षत्वहेतोर्बलवत्त्वसूचनेन पूर्वस्माद्विशेषशङ्काद्योतक इति भावेन तद्व्यनक्ति ॥ न चेत्यादिना ॥ अत इति ॥ कालाधीनत्वादित्यर्थः । भाष्यं व्याचष्टे ॥ देहेति ॥ स्वदेहेत्यर्थः । फलितमाह ॥ जाग्रदिति ॥ सापीति ॥ न केवलं स्वप्नाविर्भावतिरोभावावित्यर्थः । तत एवेत्येवकारव्यावर्त्यं न कालत इति ॥ अन्यत्रोक्तमेव हेतुमाह ॥ तस्येति ॥ अत इति ॥ अस्वतन्त्रकालाद्यधीनत्वायोगात् स एवेति श्रुतिबलाच्चेत्यर्थः । अत एव न्यायविवरणे चेतनान्तरस्याप्यस्वातन्त्र्यादित्युक्तम् ।
अभिनवचन्द्रिका
ननु हेत्वनुपन्यासान् न्यूनमिदं सूत्रम् । न च याज्ञ्यवल्क्यप्रसङ्गे ‘त्रयस्त्रिंशदिति ॐ इति होवाच’ इत्यादाविव प्रतिज्ञामात्रेणार्थ सिद्धिसम्भवात् तदनुपन्यासो न दोषायेति वाच्यम् । न्यायसूत्रत्वा भावप्रसङ्गादितिचेत् । स्यादयं दोषो यद्यत्र हेतुर्न सूचितः स्यात् । न चैवं किं नाम ‘देहयोगाद्वासोऽपि’ इत्यपिशब्देन न केवलं स्वप्नावस्था, अपि तु जाग्रदवस्थापीति समुच्चायकेन स्वप्नावस्थाया भगवदधीनत्वे प्रमाणतयोपन्यस्तस्य ‘आह ही’ त्यस्य इहापि ज्ञेयतया सूचनात् । अत एव भाष्यकार एतत्सिद्धये ‘स एव जागरित’ इति श्रुतिमुदाहरतीति ॥ निमित्तमात्रविषय-मिति ॥ यत्प्रत्यक्षं निमित्तमात्रविषयं तदेव प्रमाणम् ‘अन्यत्तु श्रुतिविरोधाद् अप्रमाणमित्यर्थः । एतेन प्रतीते र्व्याख्यानाऽनर्हत्वात् प्रतीतेर्निमित्तमात्रविषयत्वाभिधानमयुक्तमिति परास्तम् ।
पूर्वपक्षस्तु न जागरणं भगवदधीनं तस्य कालाधीनत्वात् । न चाऽचेतनत्वात् तदधीनत्वाऽनु-पपत्तिः । कालाधीनत्वस्य अनुभवसिद्धत्वेन अचेतनत्वानुमानस्य बाधितविषयत्वात् । न चाऽनुभवो भ्रमः । बाधकाभावात् । अतो जाग्रदवस्थाया भगवदधीनत्वाभावान् न तस्य महामहिमत्वमिति ।
सिद्धान्तस्तु जाग्रदवस्थापि भगवदधीनैव । ‘स एव जागरिते स्वाप यति स स्वप्ने स प्रभुस्तुराषाट्’ इति श्रुतेः । अत एव अचेतनत्वानु मानमपि कालाधीनत्वनिवर्तकं, श्रुतिविरोधेन प्रत्यक्षस्याऽप्रामाण्यात् । कालस्य निमित्ततामात्रविषयकं प्रत्यक्षं बाधाभावात् प्रामाणमेव । अतो हरे र्जाग्रत्प्रवर्तकत्वेन महामहिमत्वाद् युक्ता तत्र भक्तिरिति सिद्धम् ।
वाक्यार्थमुक्तावली
अनन्तरसङ्गतिं सूचयन् विषयमाह ॥ स्वप्ननिरूपणसङ्गतेति ॥ स्वप्नादुत्थाने तैजसाद्विभक्तो भवतीति माण्डूकभाष्योक्तरीत्या जाग्रदवस्थायाः स्वप्नकार्यकार्यत्वात् कारणोक्तिसङ्गता जाग्रदव-स्थेत्यनन्तरसङ्गतिरिति भावः । अत्र जाग्रदवस्था किमीश्वराधीना न भवत्युत भवतीति चिन्ता । तदर्थं जाग्रदवस्थायाः कालग्राहित्वप्रत्यक्षस्य बाधकत्वं नास्त्युतास्तीति । अत्र हि पराभिध्याना-देवेत्यनुवर्तते । तत्रैवकारेण न तु कालत इति विवक्षितम् । तत्सूचितकालत इत्युक्तपूर्वपक्षन्यायं विशदयति ॥ तस्येति ॥ ननु ज्ञानाज्ञानयोरिव कालस्याचेतनत्वेनास्वातन्त्र्यान्न कालाधीनत्वमिति गतार्थतां परिहरति ॥ न च कालस्येति ॥ अयुक्तिः’ युक्तिविरोधः । प्रत्यक्षसिद्धत्वादिति ॥ साक्ष्यनुभवसिद्धत्वादित्यर्थः ॥ न चास्य प्रत्यक्षस्येति ॥ याथार्थ्यनियमात्प्रत्यक्षसिद्धस्य तदन्या-बाध्यत्वाच्चेति भावः । न च निमित्तमात्रविषयं प्रत्यक्षमिति वाच्यम् । बलवद्बाधकमन्तरेणैवं कल्पनायोगादिति भावः । सूत्रेऽपिपदं पराभिध्यानात्त्विति साध्यस्य हिशब्दसूचितस्याचेतनत्वेना-स्वातन्त्र्यादित्युक्तन्यायस्याप्यनुकर्षणार्थम् । तस्य इत्यस्ति ॥ तृतीयार्थे पञ्चमीति भावेन सूत्रार्थारोहं दर्शयति ॥ देहाभिमानेनेति ॥ जाग्रदपीति वाच्ये देहयोगाद्वास इति जाग्रत्स्वरूपोक्तिस्तु भवत्ववस्थान्तराणां भगवदधीनत्वं न जाग्रदवस्थायाः । किन्तु जीवाधीनैव सा । तत्र जीवस्य देहादिकं ममैवेति स्वातन्त्र्यप्रतीतिदर्शनात् । न चेयं भ्रान्तिः । जीवस्य चेतनत्वेन पूर्वोक्तन्यायस्या-बाधकत्वात् । बाधकान्तराभावाच्चेति पूर्वपक्षे देहाभिमानेन स्थितिरपि तत एव, प्रबोधे जीवस्याप्य-स्वातन्त्र्यादित्युक्तम् । पूर्वाधिकरणन्यायविवरणेऽपि प्रबोधे जीवस्याप्यस्वातन्त्र्यादिति जीवपूर्वपक्षो दर्शितः ॥ तस्याचेतनत्वेनेति ॥ तेन स्वतोबोध इत्युक्तन्यायः स्वातन्त्र्येण कालस्याबोधः बोधशब्दितजाग्रत्कारणत्वाभाव इति विवृतो भवति ॥ इत्यत आहेति ॥ इति शङ्कानिरासाय हिशब्दोपात्तश्रुतिमुदाहरतीत्यर्थः ।
तत्त्वसुबोधिनी
स्वप्ननिरूपणसङ्गतेति ॥ पराभिध्यानात्तु तिरोहितमिति स्वप्नतिरोधानोक्तौ तन्निमित्तत्वेन एतत्सङ्गतबाह्यज्ञानरूपजाग्रदवस्थाविचारादनन्तरसङ्गतिरिति भावः ॥ तस्येति ॥ ननु काल-स्याप्यचेतनत्वेन पूर्वाधिकरणन्यायेनैव निराससम्भवेन कथमेतदधिकरणोत्थानम् । न च पूर्वाधि-करणसिद्धान्तयुक्त्यतिदेशार्थमेतत्प्रवृत्तिः । अभ्यधिकशङ्काभावेनातिदेशस्यायुक्तत्वादिति चेन्न । स्वप्नप्रतीतितत्तिरोधानयोः स्वातन्त्र्येणाज्ञानज्ञानहेतुत्वदर्शनस्य भ्रमत्वे स्वप्नादिषु द्विकर्तेति ज्ञानाज्ञानयोरस्वातन्त्र्यप्रतिपादकविशेषप्रमाणरूपबाधकवज्जागरावस्थायाः स्वातन्त्र्येण काला-धीनत्वग्राहिप्रत्यक्षस्य बाधकाभावादित्यभ्यधिकशङ्कयास्योत्थानात् । अत एवोक्तम् ॥ न चास्य प्रत्यक्षस्य बाधकमस्तीति ॥ देहयोगेन वासस्य सुप्त्यादावपि सद्भावेन जाग्रदिति । कथं तात्पर्योक्तिरित्यत आह ॥ देहाभिमानेनेति ॥ पराभिध्यानादेवेति ॥ अनेन पूर्वसूत्रात् पराभिध्यानादित्येतदत्रानुवर्तत इत्युक्तं भवति ।
वाक्यार्थविवरणं
ननु देहयोगेन देहसम्बन्धेन वासस्य स्थितेः सुप्त्यादावपि सत्त्वेन कथं जाग्रदवस्थालाभ इत्यत आह ॥ देहाभिमानेनेति ॥ देहयोगेन वास इत्यस्य फलितार्थ उक्तो भाष्ये जाग्रदपीति । तद्व्याख्यातं जाग्रदवस्थेति ॥ अभिध्यानम् इच्छा ॥ प्रतीतेः प्रत्यक्षेणेति शेषः । तुराशब्दस्त्व-परपर्यायो वेगवाची । तुरं वेगं सहत इति तुराषाट् । वैरीति योग्यतया सम्बन्धः ।
वाक्यार्थमञ्जरी
सङ्गतेति ॥ जाग्रदवस्थायाः स्वप्नतिरोभावनिमित्तत्वे तन्निरूपणे एतत्स्मरणादिति भावः । कालः प्रातरादिः । भ्रान्तं भ्रान्तिः ॥ ॐ देहयोगाद्वासोऽपि ॐ ॥ जीवस्य देहयोगाद्देहाभिमानेन वासः स्थितिरूपजाग्रदपि परमात्मेच्छात एवेत्यर्थः । देहयोगस्य सुप्त्यादिसाधारण्यादाह ॥ देहाभिमानेनेति ॥ बाह्यदेहाभिमानेनेत्यर्थः ॥ स्वप्नेति ॥ वासनामयदेहाभिमानसत्वात् ।
॥ इति देहयोगाधिकरणम् ॥ ३ ॥