०२ पराभिध्यानाधिकरणम्

ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ

२. पराभिध्यानाधिकरणम्

॥ ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ॥ ५ ॥

सूत्रभाष्यम्

बन्धमोक्षप्रदत्वात्स एव स्वप्नतिरस्कर्ता ।

‘स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव च ।

तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठिता’विति कौर्मे ॥

तत्त्वप्रदीपिका

यदभिध्याननिबन्धनोऽनादिबन्धस्तद्विमोक्षश्चातिदुरापोऽनन्तकालीनः स्वप्नतिरोधानादिशक्तिः किं तस्य वर्णनीया? अतः स एव स्वप्नतिरस्कर्ता ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनभक्त्यर्थं तस्य स्वप्नतिरोधायकत्वमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । यदि न तस्यायं महिमा निरूप्यते न तर्हि तत्र निरतिशया भक्तिर्जायत इति वर्णनीयः । प्रकृतः स्वप्नस्य तिरोभावो विषयः । भगवदधीनो न वेति सन्देहः । सर्वस्य तदधीनत्वोक्तिर्विशेषानुक्तिश्च सन्देहबीजम् । न भगवदधीनः स्वप्नतिरोभाव इति पूर्वः पक्षः । बाह्याज्ञानादेव स्वप्नः प्रतीयते । अतस्तद्विज्ञानादेव तत्तिरोभावोऽप्युपपद्यते । शक्तिर्ह्येषा ज्ञानस्य यत्समानविषयाज्ञानं नाशयतीति । अत आलोकेन तमोवज्ज्ञानेनैवाज्ञानस्य निवृत्त्या तन्निमित्तस्वप्नप्रतीत्युपरमे किमीश्वरेणेति न तस्यातिमाहात्म्यमिति ।

सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ परेति ॥ परमेश्वरेच्छयैव स्वप्नतिरोधानं न विज्ञानेन । न चाज्ञाननिमित्तत्वात्स्वप्नप्रतीतेस्तत्तिरोधानं ज्ञानेन युक्तमिति वाच्यम् । अज्ञाननिमित्तो बन्धो ज्ञाननिमित्तश्च मोक्षः सुप्रसिद्धः । न च तथापि बन्धमोक्षौ ज्ञानाद्यधीनौ । ज्ञानाज्ञानयोर-चेतनत्वेनास्वातन्त्र्यात् । अतो ‘बन्धको भवपाशेन भवपाशाच्च मोचकः’ इत्यादेर्भगवदधीनावेव । तथा ज्ञानाज्ञाननिमित्ततया प्रतीतयोरपि स्वप्नाविर्भावतिरोधानयोः परमात्माधीनत्वमेव । ज्ञानाज्ञानयोरस्वातन्त्र्यात् । ते तु निमित्तमात्रमिति भावः । नेदं दृष्टान्तमात्रमिति भावेनात्र स्मृतिं चोदाहरति ॥ स्वप्नादीति ॥ अतः स्वप्नतिरोधानस्यापि भगवदधीनत्वसिद्धेस्तस्य महामहिमत्वाद्युक्ता तत्र भक्तिरिति सिद्धम् ।

भावबोधः

स्वप्नतिरोधायकत्वमहिम्न इति ॥ पूर्वाधिकरणे स्वप्नप्रदर्शकत्वमभिधायानन्तरं तत्तिरोभावकत्वं विचार्यत इत्यनन्तरसङ्गतिरिति भावः ॥ भगवदधीन इति ॥ अत्र स्वप्नतिरोभावो भगवदनधीन उत तदधीन इति चिन्ता । तदर्थं बाह्यविज्ञानस्य स्वातन्त्र्येण स्वप्नतिरोधायकत्वमस्त्युत नेति । तदर्थं बाह्यविज्ञानस्यैव स्वाप्नप्रतीतिहेतुत्वमस्त्युत नेति । तदर्थं बन्धमोक्षयोरज्ञानज्ञानाधीनत्वमेवोत नेति । अविज्ञानमात्रेण स्वप्नप्रतीत्या ज्ञानशक्त्यैव स्वप्नतिरोधानं नेशेनेति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– बाह्याविज्ञानादेवेत्यादिना ॥ ननु पूर्वाधिकरणे भगवतः स्वप्नप्रदर्शकत्वमुक्तम् । यथोक्तं भाष्यादौ दर्शयतीति । अतोऽसिद्धो हेतुरिति चेत्, न; अन्वयव्यतिरेकाभ्यां विज्ञानस्यैव स्वप्नप्रतीतिं प्रति हेतुत्वसिद्धेस्तदप्यसंप्रतिपन्नमिति तदाक्षेपेण प्रवृत्तेरिति भावः । ज्ञानाज्ञानयोर-चेतनत्वेनास्वातन्त्र्यादिति ॥ अनेन ज्ञानाज्ञानयोर्जडत्वादस्वातन्त्र्यादिति न्यायविवरणांश उक्तार्थो भवति ॥ बन्धको भवपाशेनेति ॥ सर्वस्येशहेतुत्वे मानाच्चेति न्यायविवरणानुसारेणैवमुक्तम् । ननु तदाविर्भावतत्तिरोधानयोर्बाह्याविज्ञानतज्ज्ञानान्वयव्यतिरेकानुविधायित्वदर्शनविरोध इत्यतस्तन्मात्रनिमित्तत्वे मानाभावादिति न्यायविवरणानुसारेण तस्यान्यथासिद्धिमाह– ते त्विति ॥

भावदीपः

स्वप्नतिरोधायकत्वमहिम्नो वर्णनादिति ॥ स्वप्नतिरोधानस्य बाह्यज्ञानाधीनत्वशङ्कानिरासेनेति भावः । तेन सृष्टिराह हीत्यत्र प्राक् सृष्टिपदेनोपलक्षणतयोपात्तः स्वाप्नविषयाणां निरोधोऽस्तु न तु तस्य सृष्टेरिवेशाधीनत्वं तेन विनापि बाह्यज्ञानेनैव तन्निरोधोपपत्तेरित्याक्षेपात्पूर्वसङ्गतिः सूचिता । भक्त्यर्थमित्युक्तं व्यनक्ति ॥ यदीति ॥ एवमग्रेऽपि ॥ प्रकृत इति ॥ उपलक्षणतया सृष्टिपदेन प्रकृत इत्यर्थः ॥ सर्वस्येति ॥ पूर्वनयेष्विति भावः । यद्वा तत्रापि च तद्व्यापारादिति सूत्रे सर्वं प्रवर्तयतीत्यादिभाष्योक्तश्रुतौ सर्वस्य तदधीनत्वोक्तिरित्यर्थः । अविज्ञानमात्रेण स्वप्नप्रतीत्या ज्ञान-शक्त्यैव स्वप्नतिरोधानं नेशेनेत्यन्यत्रोक्तं पूर्वपक्षं व्यनक्ति ॥ न भगवदिति ॥ बाह्याज्ञानादेवेत्येव-कारेण मात्रशब्दार्थो व्याख्यातः । हिशब्देनान्वयव्यतिरेकप्रसिद्धत्वं वा यच्चक्षुषि स्थितं रूपं विष्णोश्चक्षुस्तदुच्यते । शब्दादेरप्यापरोक्ष्ये तद्धेतुर्विश्वनामकम् । ‘तद्गतस्य ततो विष्णोः कण्ठस्थानागमो यदा । तदा स्वप्नो भवेज्जाग्रद्दर्शनं नैव जायते । चक्षुर्निमीलनं च स्यात्सर्वेन्द्रिय-गुणैस्सह’ इति षष्ठबृहद्भाष्योक्तप्रसिद्धत्वं वोच्यते । न स्वप्नोऽपि तं विना प्रतीयत इत्यादिना प्रागुक्तदिशा परमेश्वरेण जीवस्य प्रतीयमानोऽपि स्वप्नो बाह्याज्ञानादेव निमित्तात्प्रतीयते न तु तज्ज्ञानान्नापि निमित्तान्तरादित्यर्थः । ततश्च किमित्यत आह ॥ अत इति ॥ अज्ञानमात्र-हेतुकत्वादित्यर्थः । कथमित्यतो ज्ञानशक्त्यैवेत्युक्तशक्तिपदतात्पर्यमाह ॥ शक्तिर्हीति ॥ अत इति ॥ ज्ञानस्याज्ञाननिवृत्तावन्यानपेक्षत्वादित्यर्थः ॥ किमीश्वरेणेति ॥ स्वाप्नार्थप्रदर्शनादिकार्यं कुर्वन्नपीश्वरः स्वयमीश्वरोऽपि साधनान्युपादायैव साध्यमार्जयति न तु तानि विनापीत्यर्थस्य तदनन्यत्वनये युक्तेः शब्दान्तराच्चेत्यत्र सिद्धत्वाद् अत्र च बाह्यज्ञानेन च स्वप्नप्रतीतिनिमित्तस्या-ज्ञानस्यापगमे निमित्ताभावादेव तत्प्रतीत्युपरमोपपत्तौ नेश्वरेण तत्र कृत्यमस्तीत्यर्थः । बन्धेत्यादि-भाष्यं सूत्रारूढं दर्शयन् सूत्रार्थमाह ॥ परमेश्वरेच्छयैवेति ॥ स एवेत्युक्तेः सौत्रस्तुशब्दोऽ-वधारणार्थो व्याख्यातः । तद्व्यावर्त्यं न विज्ञानेनेति ॥ ईश्वर विना कृतेन विज्ञानेनेत्यर्थः । पूर्वस्मात्संध्यमित्यनुवर्तत इति भावः ।

ततो ह्यस्येत्यादिशेषं भाष्ये हेतुतयोपात्तमपि यदभिध्याननिबन्धनोऽनादिबन्धमोक्षः स्वप्न-तिरोधानशक्तिः किं तस्य वर्णनीया अतः स एव स्वप्नतिरस्कर्तेत्यादिना तत्त्वप्रदीपे स्पष्टं व्याख्यानाद्वा वक्ष्यमाणस्मृत्यनुरोधेन स्फुटत्वाद्वा तदभिध्यानादित्यत्रोक्तरीत्या व्याख्यातप्रायत्वाद्वा तद्व्याख्यानमप्रदर्श्यान्यत्रोक्तज्ञानाज्ञानास्वातन्त्र्यरूपहेत्वन्वयाय बन्धादेरीशाधीनत्वं विवृण्वन्नेव दृष्टान्तपरतयापि प्रागुक्तव्यावर्त्यशङ्कापूर्वं व्याचष्टे ॥ न चेत्यादिना ॥ अज्ञाननिमित्तो बन्ध इति ॥ ईश्वराज्ञानेत्यर्थः । सौत्रहिशब्दार्थः सुप्रसिद्ध इति । ‘अनादिमायया सुप्तः’ इत्यादौ ‘विद्यया च विमुच्यते’ इत्यादौ चेत्यर्थः । सुतरामस्वातन्त्र्यं वक्तुमचेतनत्वेनेत्युक्तम् । चेतनत्वे कर्तेत्यत्रोक्त-न्यायेन कथञ्चिदीशाधीनस्वातन्त्र्यसम्भवादिति ॥ अत इति ॥ ज्ञानाद्यधीनत्वायोगादित्यर्थः । सौत्रो हिशब्दः प्रमाणसूचकश्चेति भावेनाह ॥ बन्धको इति ॥ इत्यादेरिति ॥ तत्वनिर्णयोक्त-वाक्यादित्यर्थः ॥ भगवदधीनावेवेति ॥ एतेन भाष्योक्तहेतुसमर्थनमपि कृतं भवति ॥ तथेति ॥ भाष्ये सूत्रांशस्य बन्धमोक्षप्रदत्वादिति हेतुतया व्याख्यानमुपलक्षणमिति भावः । स्वप्नाविर्भावेति दृष्टान्तत्वेनोक्तिः प्रागेव तस्येशाधीनत्वसमर्थनात् । यद्वा दृष्टान्ते बन्धपदस्याप्युक्तेः स्मृतौ स्वप्नादिबुद्धीत्युपादानाच्च सूत्रे तिरोहितमित्युपलक्षणम् । पूर्वपक्षे चाविर्भावस्यापीशाधीनत्वाक्षेप इति भावः । अज्ञानाद्यधीनत्वप्रतीतेर्गतिमाह ॥ ते त्विति ॥ ज्ञानज्ञाने ॥ नेदमिति ॥ ततो ह्यस्येत्यादीत्यर्थः । स्वकृतव्याख्यानदिशेति भावः । किं तु हेत्वर्पकमपीति भावेनेति योज्यम् ॥ स्मृतिं चेति ॥ बन्धमोक्षप्रदत्वादिति स्वकृतव्याख्यानेन समुच्चये चशब्दः । अत एवोत्तरार्धे यतो ह्यस्येति हेतुत्वेनोक्तिरिति भावः । अस्मिन् पक्षे सौत्रो हिर्हेतौ ॥ अत इति ॥ अस्वतन्त्रतया ज्ञानादेर्निमित्तमात्रत्वात् । अनादिबन्धादिदातृत्वेनेशस्यैव शक्तत्वादित्यर्थः । न केवलमाविर्भाव-स्येत्यपेरर्थः । अत्र यद्यपि तदभिध्यानादेव तु तल्लिङ्गात्स इत्यत्रानादिबन्धलयकर्तुरीश्वरस्य कैमुत्यसिद्धविश्वलयसामर्थ्येन विश्वसंहर्तृत्वं तस्यैवेत्युक्त्वा ‘रुद्रो माविशान्तकः’ इत्यादेः ‘निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः । हिरण्यगर्भश्शर्वश्च कालाख्या रूपिणस्तव’ इत्यादिना निमित्तमात्रपरत्वोक्त्या ज्ञानादेर्जडत्वेनात्यन्तपारतन्त्र्यान्निमित्तमात्रत्वं कैमुत्यसिद्धमिति न पुनरस्यारम्भो युक्त इति भाति । तथापि स्वप्नाविर्भावस्य बाह्याज्ञानाधीनत्वाद्बाह्यज्ञाने चाज्ञान-रूपनिमित्तनाशेनाविर्भावरूपकार्यस्यानुदये तिरोधानस्य स्वत एव सिद्धेर्नेशेन कृत्यम् । तस्यापि निमित्तापेक्षयैवाविर्भावकत्वादिति विशेषशङ्कायां तथा प्राग्बन्धलयस्येशाधीनत्वोक्त्या तस्य विश्वसंहर्तृत्वोक्तिरयुक्ता । बन्धस्याज्ञानाधीनत्वेन ज्ञानेनाज्ञाने निवृत्ते बन्धलयस्य स्वत एव सिद्धेस्तस्येश्वरानधीनत्वात् तस्याभिध्यानादिति श्रुतिरपि औत्याद्युक्तदिशा कथञ्चिदन्यथा योज्येत्यप्याशङ्कायां च सत्यां ज्ञानाज्ञानयोर्जडत्वेनास्वातन्त्र्याद्वन्धमोक्षयोर्द्वयोरपीशाधीनत्वमेव । ‘बन्धको भवपाशेन’ इत्यादेरित्याद्युक्त्या तस्यापीशाधीनत्वोक्त्या ईश्वरस्यैव स्वप्नतिरोधायकत्वं वक्तुमस्यारम्भः । अत एव टीकायां ज्ञानाद्यस्वातन्त्र्यहेतोर्दृष्टान्ते दार्ष्टान्तिके च संयोजनं कृत्वा बन्धादेरपीशाधीनत्वसमर्थनं कृतम् । उक्तं चानुभाष्ये जिज्ञासानये ‘नर्ते त्वत्क्रियते किञ्चन’ इत्यादेर्न हरिं विना । ‘ज्ञानस्वभावतोऽपि स्यान्मुक्तिः कस्याऽपि हि क्वचित्’ इति यज्जन्मादि-नयादावीश्वरस्य सर्वसंहारबन्धमोक्षाणां कर्तृत्वमुक्तं तदत्राज्ञानादेरस्वातन्त्र्योक्त्या एकेश्वरात्स्वा-प्नार्थतत्प्रतीतितिरोधायनोक्त्या च समर्थितं बोध्यम् ।

अभिनवचन्द्रिका

बन्धग्रहणं शक्यमकर्त्तुं ‘पराऽभिध्यानात्तु तिरोहितं ततो ह्यस्य मोक्ष’ इत्येव कर्तुं शक्यत्वात् । लघुचैवं सूत्रं भवति । अवश्यज्ञापनीयस्य ज्ञानास्वातन्त्र्यस्य मोक्षग्रहणेनैव सिद्धेः । बन्धस्य तु ज्ञानकार्यत्वाभावेन तद्ग्रहणस्य प्रकृताऽसङ्गतत्वादिति चेत्, सत्यं बन्धग्रहणं न पृकृतोपयोगि तथापि लोके पितुरन्यस्यैव मारकत्वदर्शनात् स्वाप्नपुत्रादीनां भगवानेव कर्तेति न तेषां निरोधकः । ततश्च न तेन स्वप्ननिवृत्तिरिति शङ्का निरासाय लौकिकानां रागिणां तथात्वासम्भवेऽपि रागादिदोषरहितस्य भगवतो देहयोगरूपबन्धस्य, तद्वियोगरूपमोक्षस्य च हेतुत्वं दृष्टमेवेति न स्वप्ननिरोधकत्वमनु-पपन्नमिति द्योतनाय बन्धग्रहणम् । स्वप्नस्य तिरोभाव इति । स्वप्नज्ञानसन्ततिविच्छेद इत्यर्थः ॥ तथा ज्ञानाऽज्ञानेति ॥ अल्पाच्तरत्वेन ज्ञानशब्दस्य पूर्वनिपाताद् यथायोगमेव निमित्तत्वं न तु यथाक्रममिति द्रष्टव्यम् ॥ नेदं दृष्टान्तमात्रमिति ॥ दृष्टान्तशब्देन दृष्टान्तयुक्तमनुमानमुच्यते ततश्च नेदं धूमाद्यनुमानवद् अनुमानमात्रम् । अपि तु स्मार्तमिति भावेन स्मृतिमाहेत्यर्थः ।

पूर्वपक्षस्तु न स्वप्नतिरोभाव ईश्वराधीनः । तस्य बाह्याऽज्ञानजन्यत्वेन अज्ञाननाशे सन्तत्यनु-त्पादसम्भवात् । तथा च ज्ञानेनाऽज्ञानविनाशद्वारा स्वप्नतिरोभावसम्भवान् न तस्य ईश्वराधीनत्व-मिति न तस्य महामहिमत्वमिति ।

सिद्धान्तस्तु ज्ञानाऽज्ञानयोरचेतनत्वेन स्वातन्त्र्याभावाज् ज्ञानाऽ ज्ञानाधीनयोरपि बन्धमोक्ष-योरीश्वराधीनत्वात् स्वप्ननिरोधस्यापि तदधीनत्वेन तस्य महामहिमत्वाद् युक्ता तत्र भक्तिरिति सिद्धम् ।

वाक्यार्थमुक्तावली

स्वप्नतिरोधायकत्वेति ॥ पूर्वाधिकरणे स्वाप्नपदार्थस्रष्टृत्वं तत्प्रदर्शकत्वं चोक्तम् । इह तु स्वप्नार्थानां पुनः संस्कारतापादकत्वलक्षणं तत्प्रतीत्युपरतिहेतुत्वलक्षणं च स्वप्नतिरोधायकत्वं वर्ण्यत इत्यनन्तरसङ्गतिरिति भावः ॥ भगवदधीन इति ॥ स्वप्नतिरोधानो भगवदधीनो न भवत्युत भवतीति चिन्ता । तदर्थं बाह्यविज्ञानस्य स्वातन्त्र्येण स्वप्नतिरोधायकत्वमस्ति न वेति । तदर्थं बाह्याज्ञानस्य स्वप्नाविर्भावहेतुत्वमस्ति न वेति । सूत्रे बन्धमोक्षयोरज्ञानज्ञानाधीनत्वं नास्ति किन्त्वीश्वरस्यैवेति । तथा प्रकृतेऽपीत्युक्त्या सूचितमविज्ञानेत्युक्तन्यायं विशदयति ॥ बाह्येति ॥ एवेतीश्वरं व्यावर्तयति । अन्वयव्यतिरेकाभ्यामज्ञानस्य स्वप्नाविर्भावहेतुत्वावगमात् पूर्वाधिकरण-स्याप्ययमेवाक्षेप इति भावः । ननु बाह्याज्ञानस्य स्वप्नाविर्भावहेतुत्वे बाह्यज्ञानस्य तत्तिरोधानहेतुत्वं कुतः व्याप्त्यभावादिति चेत् स्वप्नो बाह्यज्ञानतिरस्कार्यस् तन्निवर्त्यबाह्याज्ञानेनाविर्भूयमानत्वाद् यद्यन्निवर्त्याज्ञानेनानुभूयते तत्तज्ज्ञानतिरस्कार्यम् । यथा शुक्तित्वप्रकारकज्ञाननिवर्त्यशुक्त्य-ज्ञानेनाविर्भूयमानो भ्रमस् तज्ज्ञानेन तिरस्कार्य इति प्रयोगस्य विवक्षितत्वादिति भावः । ननु बाह्यज्ञानेन निवर्त्यत्वं बाह्याज्ञानस्य नास्तीति विशेषणासिद्धो हेतुरित्यत आह ॥ शक्तिर्ह्येषेति ॥

ननु जन्माधिकरणे ज्ञानाज्ञानस्येशाधीनत्वस्योक्तत्वात्कथमत्र स्वातन्त्र्यशङ्केति चेत्तदेव क्वचिद्विविच्यते क्वचित्समर्थ्यत इति प्रागेवोक्तत्वादिति । ननु तथापि व्यतिरेकानवस्थितेश्चा-नपेक्षत्वादिति ईश्वरमन्तरेण कस्यापि कर्मणोऽनवस्थानोक्तेः कथं स्वप्नतिरस्कारस्यान्याधीनत्व-चोदनेति चेन्न । ‘न ऋते त्वत्क्रियते किञ्चनारे महामर्कं मघवन् चित्रमर्च’ इति तदुपात्तश्रुतेः सामान्याकारेण सर्वविषयत्वेन प्रत्यक्षसिद्धव्याप्तिकानुमानविरोधेन श्रुतेरेतद्व्यतिरिक्तविषयत्वोपपत्तेः । ज्ञानाज्ञानयोरीशजन्यत्वेन स्वप्नतिरस्काराविर्भावौ प्रतीशस्य परंपरया कारणत्वेन तद्विवक्षया प्रवृत्तेश्चेति भावः । सूत्रे सन्ध्यमित्यस्ति । तुरवधारणे । हिशब्दो बन्धमोक्षयोर्ज्ञानाज्ञाननिमित्तत्व-प्रसिद्धिद्योतकः, ईशाधीनत्वप्रसिद्धिद्योतकश्च, हेत्वर्थकश्च । तथा च हि यस्मात् हि ज्ञानाधीनत्वेन प्रसिद्धावपि बन्धविपर्ययौ तयोरचेतनत्वेनास्वातन्त्र्यात् । बन्धको भवपाशेन भवपाशाच्च मोचक इति प्रमाणप्रसिद्धेस्तत एवेश्वरादेव तदधीनावेव यतस्ततस्तस्माज्ज्ञानाज्ञानाधीनत्वेन प्रसिद्धयोरपि बन्धमोक्षयोस्तदधीनत्वात्तद्दृष्टान्तेनास्वातन्त्र्यहेतुना सन्ध्यमपि पराभिध्यानादेव तिरोहितमिति सूत्रार्थं मत्वा भाष्यार्थमाह ॥ परमेश्वरेच्छयैवेत्यादिना ॥ हिशब्दसूचितं स्वतोबोध इत्युक्तन्यायं स्वतःस्वातन्त्र्येण ज्ञानाज्ञानयोरबोधकत्वं स्वल्पप्रबोधहेतुत्वाभाव इति विवृणोति ॥ ज्ञाना-ज्ञानयोरस्वातन्त्र्यादिति ॥ ननु स्वप्नतन्निरोधयोर्बाह्याविज्ञानतज्ज्ञानान्वयव्यतिरेकानुविधायित्व-दर्शनविरोध इत्यत आह ॥ ते त्विति ॥ नेदं दृष्टान्तमात्रमित्यस्य स्वातन्त्र्येण हेतुना ज्ञानाज्ञानयोः स्वप्नतत्तिरोधानहेतुत्वं नास्तीत्येतदस्मदुत्प्रेक्षितदृष्टान्तमसिद्धम् इत्येतावन्मात्रेण न भवतीति भावेनात्र सूत्रार्थे हिशब्दसूचितस्मृतिं चोदाहरतीत्यर्थः । यद्वा ‘ततो ह्यस्य बन्धविपर्ययौ’ इति सूत्रं दृष्टान्तमात्रकथनपरं न भवतीति भावेनात्र सूत्रार्थे हिशब्दसूचितस्मृतिं चोदाहरतीत्यर्थः ।

तत्त्वसुबोधिनी

स्वप्नतिरोधायकत्वेति ॥ पूर्वाधिकरणे स्वप्नप्रदर्शकत्वमभिधायानन्तरं तत्तिरोभावकत्वं विचार्यत इत्यनन्तरसङ्गतिरिति भावः । कुत इत्यतः प्रकारान्तरेण सिद्धत्वादित्याह ॥ बाह्येति ॥ एवं च विमतः स्वप्नतिरोभावः न भगवदधीनो ऽन्यतः सिद्धत्वात् । न च हेतुरसिद्धः, पूर्वाधिकरणे भगवतः स्वप्नप्रदर्शकत्वस्योक्तत्वादिति वाच्यम् । अन्वयव्यतिरेकाभ्यां विज्ञानस्यैक्यप्रतीतिं प्रति हेतुत्वसिद्धेस् तदप्यसम्प्रतिपन्नमिति तदाक्षेपेण प्रवृत्तेरिति भावः । अस्तु बाह्याज् ज्ञानात् स्वप्न-तिरोभावः भगवतः किं न स्यादत्राह ॥ शक्तिर्हीति ॥ अस्तु ततः किमित्यत आह ॥ न चेति ॥ कुतो नेत्यत आह ॥ ज्ञानेति ॥ तर्हि कस्याधीनावित्यत आह ॥ अत इति ॥ ननु स्वप्न-तिरोधानयोर् बाह्याज्ञानतज्ज्ञानान्वयव्यतिरेकानुविधायित्वदर्शनविरोध इत्यत आह ॥ ते त्विति ॥

वाक्यार्थविवरणं

विशेषानुक्तिरिति ॥ विशिष्य स्वप्नतिरोधानस्य भगवदधीनत्वानुक्तिरित्यर्थः ॥ बाह्येति ॥ बाह्यपदार्थेत्यर्थः । अज्ञाननिवृत्त्येत्यनन्तरं कारणाभावादेवेति शेषः ॥ तदधीनत्वस्यैवेति ॥ जागरणस्य प्रातरादिकालाधीनत्वस्यैवेत्यर्थः ।

वाक्यार्थमञ्जरी

विशेषानुक्तिरिति ॥ स्वाप्ननाश ईशाधीन इति विशिष्यानुक्तिरित्यर्थः ॥ समानविषयेति ॥ स्वयं यद्विषय उत्पद्यते तद्विषयेत्यर्थः ॥ ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ॥ परस्य परमात्मनोऽभिध्यानादिच्छायाः सकाशादेव सन्ध्यं तिरोहितं नश्यति । कुतः ? हि यस्मादस्य जीवस्य बन्धविपर्ययौ संसारमोक्षौ तत ईश्वरादेव भवतस्तस्मादेवेत्यर्थः ॥ सुप्रसिद्ध इति ॥ अनेन हिशब्दः प्रसिद्धत्वेनापि व्याख्यातः ॥ दृष्टान्तमात्रमिति ॥ प्रतिदृष्टान्तस्यापि सम्भवेन तन्मात्रस्यासाधकत्वादिति भावः ।

॥ इति पराभिध्यानाधिकरणम् ॥ २ ॥