ॐ सन्ध्ये सृष्टिराह हि ॐ
अथ तृतीयाध्यायस्य द्वितीयः पादः
१. सन्ध्याधिकरणम्
ॐ सन्ध्ये सृष्टिराह हि ॐ
सूत्रभाष्यम्
भक्तिरस्मिन्पाद उच्यते । भक्त्यर्थं भगवन्महिमोक्तिः ।
॥ ॐ सन्ध्ये सृष्टिराह हि ॐ ॥ १ ॥
न स्वप्नोऽपि तं विना प्रतीयते ।
‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान् पथः सृजत’ (बृ.उ. ६-३-१०) इत्यादिश्रुतेः ।
तत्त्वप्रकाशिका
एतत्पादप्रतिपाद्यं दर्शयति ॥ भक्तिरिति ॥ यद्दार्ढ्यार्थं वैराग्यं निरूपितं पूर्वपादे या चोपासनस्याङ्गं सा भक्तिरवसरप्राप्ताऽस्मिन्पादे निरूप्यत इत्यर्थः । ननु भक्तिरुच्यत इति कोऽर्थः । किं तत्स्वरूपं निरूप्यते कर्तव्येति विधीयते वा । नाद्यः । अभावात् । न द्वितीयः । पुरुषप्रयत्नाविषयत्वेन विधेरयोगाद् इत्यत आह ॥ भक्त्यर्थमिति ॥ नात्र भक्तिस्वरूपनिरूपणं तद्विधानं वा क्रियते । किं नाम भक्त्युत्पादनार्थं भगवन्महिमोच्यते । माहात्म्यज्ञानपूर्वकस्नेहो हि भक्तिः । न हि माहात्म्यानुक्तौ तज्ज्ञानं भवति स्नेहो वा । एवं साधनवचनस्यापि फल एव तात्पर्याद् भक्तिरुच्यत इत्युक्तमिति भावः । स्यादेतत् । न स्नेहार्थं महिमोक्तिर्युक्ता । तदभावेऽपि पुत्रादौ स्नेहदर्शनात्क्वचित्तदुक्तावप्यदर्शनादिति । मैवम् । कारणान्तरेण फलसिद्धावप्यन्यस्य कारणत्वाविरोधात् । न हि विनापि कारीर्या वृष्टिर्दृष्टेति तदनुष्ठानं वृष्टावकारणं भवति । श्रुतमाहात्म्येऽपि स्नेहानुत्पत्तिर्मत्सरादिनिरुद्धा न माहात्म्यश्रवणस्य कारणत्वमाक्षिपति । न हि भर्जितं बीजमङ्कुरं नोत्पादयतीत्येतावता बीजस्याङ्कुरकारणत्वं नास्ति । सर्वस्यापि माहात्म्यस्य प्रथमाध्याय एवोक्तत्वात्किमत्रोच्यत इति । सत्यम् । तदेव क्वचिद्विविच्योच्यते क्वचित्समर्थ्यत इत्यदोषः ।
अत्रादौ भगवत्प्राप्तिसाधनभक्त्यर्थं स्वप्नविषयतत्प्रतीत्योर्भगवदधीनत्वमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । सर्वं भगवदधीनमिति प्रागुक्तम् । स्वप्नतत्प्रतीत्योरीश्वरानधीनत्वे तदयुक्तं स्यादिति तद्वर्णनीयम् । स्वप्नोऽत्र विषयः । भगवदधीनो न वेति सन्देहः । विप्रतिपत्तिः सन्देहबीजम् । न स्वप्नो भगवदधीन इति पूर्वः पक्षः । तस्यासत्वात् । सत्वे च वक्तव्यं किं स्वाप्नविषयो नित्योऽनित्यो वेति । उभयथापि पूर्वोत्तरकालं दर्शनप्रसङ्गः । न च तदा दृश्यते । अतः प्रातीतिकत्वादसन्नेव शुक्ति-रजतादिवत् । न च वक्तव्यं प्रतीतिकाल एव सृष्टिनिरोधावतो न दोष इति । प्रमाणाभावात्कर्त्रु-पादाननिमित्तानामभावाच्च । किं च स्वप्नविषयं किमयं शरीरे स्थित्वैव पश्यति निर्गत्य वा । नाद्यः । मेरुमन्दरादिदर्शनायोगात् । न द्वितीयः । कुरुषु सुप्तस्य पाञ्चालान्पश्यतस्तत्रैव प्रबोधे शरीर-प्रवेशोऽस्य पश्चादेवेति प्राप्तेः । किं च हेमन्ते सुप्तस्य वसन्तप्रतीतिस्तावदस्ति । न च वसन्तसत्ता तदास्ति । न च प्रतीतिकारणं वास्ति । इन्द्रियवृत्तीनामुपरतत्वान्मनसो बाह्यार्थेष्वस्वातन्त्र्यात् । यदि चैते विषया द्रष्टुर्भिन्नास्तदा समीपस्थैर्दृश्येरन् । बाह्यार्थत्वात् । अथ न ततोऽतिरिक्तास्तर्ह्यागतं कल्पितत्वमेव । परमार्थतोऽस्य करितुरगादिभावाभावात् । तत्काल एव सृष्टिनिरोधपक्षे च प्रागुत्तरकालं मृत्पिण्डकपालादीनि दृश्येरन् । न च दृश्यन्ते अतः प्रातीतिकत्वान्मरुमरीचिकाजलादि-वन्न स्वप्नविषयस्येश्वराधीनत्वमिति न तस्य महामहिमत्वमिति ।
सिद्धान्तयत्सूत्रं पठित्वाऽधिकरणतात्पर्यं तावदाह ॥ सन्ध्य इति ॥ तं विना परमेश्वरं विना । तदधीन इत्यर्थः । अत्रोक्तदोषपरिहाराय सूत्रम् । यदुक्तं स्वाप्नस्य पश्चाददृष्टेरसत्त्वाद्भगव दधीनत्वा-योग इति । तदनुपपन्नम् । यतो जाग्रत्सुषुप्तिसन्धौ भवतीति सन्ध्ये स्वप्ने प्रागसतामर्थानां सृष्टिः । अनन्तरमेव निरोधश्चाङ्गीक्रियत इति । ननूक्तमत्र प्रमाणं नास्तीति तत्राह ॥ नेति ॥
गुर्वर्थदीपिका
भक्तिरस्मिन्पाद उच्यत इति भक्त्यर्थं भगवन्महिमोक्तिरिति च भाष्यद्वयस्य सार्थक्यं दर्शयति एवमिति ॥ एवमुपरितनसूत्रैर्वक्ष्यमाणप्रकारेण स्वज्ञानद्वारा भक्तिसाधनमहिम्नां वचनस्यापि भक्तिरूपफल एव तात्पर्यात्तात्पर्यविषयभक्तिरपि मुख्यतः पादप्रतिपाद्येति साऽपि प्रतिज्ञातव्या । तत्साधनानि निरूपणीयानि । अतो भक्तिरस्मिन्पाद उच्यत इत्युक्तमिति भाष्यकृतोऽभिसन्धिरिति भावः । इदं चोपलक्षणम् । क्षीरादौ स्वादुत्वादितद्गुणकीर्तनेनैव स्नेहोत्पत्तिदर्शनात्स्नेहरूपभक्तेः प्रकारान्तरेणोत्पादयितुमशक्यत्वाद्भक्त्यर्थं भगवन्महिमोच्यत इति चोक्तमित्यप्यूह्यम् । अनयैव दिशा वैराग्यपादस्यापि वैराग्यमस्मिन्पाद उच्यत इति वाक्यस्योहः कर्तव्यः । अतो न भाष्यकारस्यैकत्र न्यूनता वाऽन्यत्राऽऽधिक्यं वेति ज्ञेयम् । अविद्याकर्मजनिताहंममतारूपाभिमानवशात्स्वदेहे स्वपुत्रादौ च स्नेहो जायते । न तथा परमात्मनि लोकानामभिमानः । यद्यपि क्वचित्प्रद्युम्नसाम्बादीनां भगवत्पुत्राणामस्ति भगवत्यभिमानजो स्नेहः, तथापि न सा भक्तिः । माहात्म्यज्ञानपूर्वकत्वाभावात् । अतो भक्त्यर्थं भगवन्महिमैव वक्तव्य इति भाष्यकृतो गूढाभिसन्धिमजानानः शङ्कते स्यादेतदिति ॥ क्वचिदुक्तावप्यदर्शनादित्यस्य क्वचिद्दर्शनादौ कारणान्तरेण फलसिद्धावित्यङ्गीकारवादोऽयम् । उक्तविधया प्रकारान्तरेण भगवति भक्त्यनुदयस्य भाष्यकारेणैव सूचितत्वादिति ज्ञेयम् । तदेव क्वचिद्विविच्योच्यते क्वचित्समर्थ्यत इत्युपलक्षणम् । सकललोकापेक्षितसुषुप्त्यादिप्रापकत्वेनाहरहः स्वोपकारत्ववर्णनाद्भक्तेरतिशयेनान्तरङ्गसाधनभूतमहिमोच्यत इत्यपि द्रष्टव्यम् । अत एव सूत्रकृता ‘सन्ध्ये सृष्टिराह हि’ इत्यादिना सकलजीवापेक्षितस्वप्नाद्यवस्थाप्रेरकत्वरूपमाहात्म्यमेव प्रपञ्चितम् । स्वाप्नविषयमित्यत्र स्वाप्नविषयपदेन स्वाप्नपदार्था गृह्यन्ते । कुरुषु सुप्तस्येत्यत्र मासमात्रं पाञ्चालविषयान्प्रति गच्छतो मासमात्रेण तत आगच्छतश्च जीवस्य तस्मिन्नेव प्रतिबुद्धे देहे मासद्वयानन्तरं प्रवेशप्रसङ्गात्त्वरया गमनागमनयोश्च तस्मिन्नेव जीवे प्रागुत्तरत्र चादर्शनेनाप्रामाणि-कत्वादिति भावः । अनेन प्रबोधक्षण एव पुनरागमनमिति कुचोद्यानवकाश इति ज्ञेयम् ।
भावबोधः
भक्तिरस्मिन्निति ‘इदं’ शब्दाभिप्रायमाह– यद्दाढर्््यार्थमिति ॥ ननु भगवन्महिमोक्तौ कथं भक्त्युत्पत्तिरित्यत आह– माहात्म्येति ॥ स्नेहो वेति । माहात्म्यज्ञानकार्यत्वात् स्नेहस्येत्यर्थः । कथं तर्हि भक्तिरस्मिन् पादे उच्यत इति प्रतिपाद्योक्तिरित्यत आह– एवं साधनवचनस्यापीति ॥ इतो भगवन्महिमैव स्नेहोत्पादक इति भावेन साधनस्येत्युक्तम् । यद्वा विषयिपरसाधनपदेन विषयस्य माहात्म्यस्योपलक्षणम् ॥ कारणान्तरेणेति ॥ वह्नित्वादिसामान्यधर्मपुरस्कारेण प्रमितानेककारणके कार्ये व्यतिरेकव्यभिचारस्यादोषत्वादिति भावः ॥ श्रुतमाहात्म्येऽपीति ॥ प्रतिबन्धकसत्त्व-निबन्धनान्वयव्यभिचारस्य दोषत्वे सर्वत्र कार्यकारणभावोच्छेदप्रसङ्ग इति भावः ॥ मत्सरादि-निरुद्धेति ॥ मात्सर्यादिदोषरहितानां सच्छिष्यादीनां ज्ञातमाहात्म्ये गुर्वादौ स्नेहोत्पत्तेरनुभव-सिद्धत्वादिति भावः । तदेव क्वचिद्विविच्योच्यते; कचित्समर्थ्यत इति । ‘सन्ध्ये सृष्टिः’ इत्याद्यधिकरणसप्तकेन जन्मादिसूत्रोक्तं सृष्ट्याद्यष्टकर्तृत्वलक्षणमाहात्म्यं विविच्योच्यते । ‘सन्ध्ये सृष्टिः’ इत्यनेन स्वाप्नपदार्थानां सृष्टिसंहारकर्तृत्वस्य ‘पराभिध्यानात्’ इत्यत्र ज्ञानाज्ञानबन्ध-मोक्षहेतुत्वस्य ‘देहयोगाद्वासोऽपि’ इत्याद्यधिकरणपञ्चकेन जाग्रदाद्यवस्थानियमकर्तृत्वस्य च विवेचनात् । ‘न स्थानतोऽपि’ इत्यत्रानन्दमयाद्यधिकरणोक्तेश्वररूपाभेदसमर्थनम् । ‘अरूपवदेव हि’ इत्यत्र ‘अन्यभावव्यावृत्तेश्च’ इत्युक्तप्राकृतशरीरराहित्यसमर्थनम् । ‘अत एव चोपमा’ इत्यत्र प्रथमसूत्राद्युक्तजीवाभेदनिरसनविवेचनम् । ‘अम्बुवदग्रहणात्तु’ इत्यत्र प्रथमसूत्रस्था‘तः’ शब्दे-नोक्तस्य भक्तेर्मोक्षसाधनत्वस्य च समर्थनम् । ‘वृद्धिह्रासभाक्त्वम्’ इत्यत्र तस्यैव विवेचनम् । ‘प्रकृतैतावत्त्वम्’ इत्यत्र द्वितीयसूत्रोक्तस्य स्थितिकर्तृत्वस्य समर्थनम् । ‘तदव्यक्तमाह हि’ इत्यत्रादृश्यत्वाद्यधिकरणोक्ताव्यक्तत्वसमर्थनम् । ‘उभयव्यपदेशात्’ इत्यत्र समस्ताध्यायोक्त-गुणित्वसमर्थनम् । ‘परमतः’ इति ‘स्थानविशेषात्’ इत्यधिकरणद्वये आद्याध्यायोक्तब्रह्मगुणा-नामलौकिकत्वस्य ब्रह्माद्यानन्दादिगुणबिम्बत्वस्य च क्रमेणोपपादनेनोक्तविवेचनम् । ‘तथान्य-त्प्रतिषेधात्’ इत्यत्रादृश्यत्वाद्यधिकरणोक्ताव्यक्तत्वस्य प्रकारान्तरेण समर्थनम् । ‘अनेन’ इत्यत्र जन्मादिसूत्रोक्ताशेषजगज्जन्मादिकर्तृत्वसमर्थनम् । ‘फलमतः’ इत्यत्र जिज्ञासासूत्रस्था-‘तः’शब्दोक्तस्य फलदातृत्वस्य समर्थनमिति क्वचिदुक्तस्य समर्थनम् । क्वचिद्विवेचनमित्यर्थः ।
स्वप्नविषयतत्प्रतीत्योरिति ॥ अनेन ‘योनेः शरीरम्’ इत्येतदवसानैः सूत्रैर् जीवस्य जन्माव-गतम् । जातस्य च स्वप्नाद्यवस्थासम्बन्धः प्रसिद्धः । तत्र स्वप्नावस्थाप्रेरकत्वलक्षणो महिमा भगवतोऽत्राधिकरणे निर्णीयते इति सुधायामुक्तानन्तरसङ्गतिः सूचिता ॥ भगवदधीन इति ॥ अत्रार्थज्ञानात्मकः स्वप्नः भगवदधीनो न भवत्युत भवतीति चिन्ता । तदर्थं सः किमसन्नुत सन्निति । तदर्थं सत्त्वविशेषान्नित्यत्वाद्युपेतो न भवत्युत भवतीति । तदर्थमनुपपन्नानादि-नित्यत्वकोऽयं नोत्पत्तिमानुतोत्पत्तिमानिति । तदर्थं किं कर्त्रुपादाननिमित्तादिकारणरहित उत तत्सहित इति । तदर्थं कर्त्रुपादानादिकं प्रसिद्धकर्त्रादिसदृशमुत विसदृशमिति । तथा च कर्त्रुपादानादीनां प्रसिद्धकर्त्रादिसादृश्येना सदृशकर्त्राद्युपलम्भनाभावादनुपपन्नानादिनित्यत्वकस्य सत्त्वविशेषानित्यत्वाद्ययोगेनासत्त्वप्राप्त्या न तस्य भगवदधीनत्वमिति पूर्वपक्षे प्रसिद्धविसदृशत्वे चानुपलम्भस्याबाधकत्वेन तादृशकर्त्रादियुक्तत्वेनोत्पत्तिमत्त्वादनुपपन्नानादिनित्यत्वोपपत्त्या सत्त्व-सम्भवात्तस्य भगवदधीनत्वमिति सिद्धान्ते च फलफलिभावो ज्ञातव्यः । पश्चाद् दृष्टेः स्वप्न-विषयस्यासत्त्वं वाच्यमिति न्यायविवरणं योजयितुमाह– सत्त्वे वक्तव्यमिति ॥ पूर्वोत्तरकाल-मित्यनेन पश्चादित्येतत्पूर्वकालस्याप्युपलक्षकमित्युक्तं भवति । इदानीं तदभिप्रायमाह– न च तदा दृश्यत इति ॥ प्रथमसूत्रस्थेन ‘आह हि’ इत्यनेन निवर्तनीयं पूर्वपक्षं वक्तुमाह– न च वक्तव्य-मिति ॥ तात्कालिकविद्युदादिवदित्यर्थः । द्वितीयतृतीयसूत्रनिवर्तनीयपूर्वपक्षयुक्तिमाह– कर्त्रिति ॥ तृतीयसूत्रस्थेन ‘मायामात्रम्’ इत्यनेन निवर्तनीयां पूर्वपक्षयुक्तिमाह– किं च स्वप्नविषयमित्या-दिना ॥ तदेव न्यायविवरणं प्रकारान्तरेण व्याचष्टे– तत्कालेति ॥ अनेन स्वप्नविषयकारणानामिति शेष उक्तः । स्वाप्नपदार्थानां सन्ध्य एव सृष्टत्वेन पूर्वकालीनादृष्टेरबाधकत्वेऽपि पश्चाददृष्टिर्बाधिका भवेदेवेत्यतः सौत्रं सृष्टिपदं निरोधस्याप्युपलक्षकमित्यभिप्रेत्याह– अनन्तरमेव निरोधश्चेति ॥ अनेन सृष्ट्वा संस्कारतामापाद्येति न्यायविवरणांशोऽप्युक्ततात्पर्यो भवति ।
भावदीपः
भक्तेरत्र पादे क्वाचित्कोक्तिभ्रमनिरासायाह ॥ एतत्पादप्रतिपाद्यमिति ॥ अत्र भक्तेरुक्तौ का पूर्वोत्तरसङ्गतिरित्यतः पादार्थोक्तिः सङ्गतिसूचनायेति भावेन ‘वैराग्यतो भक्तिदाढर्््यं तेनोपासा यदा भवेत्’ इत्यनुभाष्यसूचितां तामाह ॥ यद्दार्ढ्यार्थमिति ॥ अङ्गमिति ॥ अनुबन्धादिभ्य इति वक्ष्यमाणदिशेति भावः ॥ अभावादिति ॥ यद्यपि अम्बुवदग्रहणादित्यत्र भक्तिपदं हित्वाऽम्बुवद-ग्रहणपदयोरुक्त्या भक्तिस्वरूपमुच्यते । तथापि प्राधान्येन तत्स्वरूपोक्तिर्नास्तीति भावः ॥ पुरुषेति ॥ भक्तेः स्नेहरूपत्वात्तस्य च विषयवैलक्षण्याधीनत्वाद् विधेश्च पुरुषप्रवर्तनारूपस्य तत्प्रयत्नयोग्य एव प्रवर्तकत्वादिति भावः । महिमोक्तेर्भक्त्यर्थत्वं व्यनक्ति ॥ माहात्म्येति ॥ ‘माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिः’ इति महाभारततात्पर्यनिर्णयोक्तेः, ‘सर्वोत्तमतया ज्ञानपूर्वकः स्नेह एव तु । भक्तिर्विष्णौ समुद्दिष्टा तदन्येषां तु योग्यतः’ इति प्रथमे बृहद्भाष्योक्तेश्चेति भावः ॥ एवं साधनेति ॥ ज्ञानद्वारा साधनरूपमाहात्म्यवचनस्य भक्तिरूपफल एव तात्पर्यादित्यर्थः । अन्वयव्यतिरेकव्यभिचारान्न ज्ञानद्वारा महिमोक्तिः स्नेहहेतुरित्याशङ्क्य समाधत्ते ॥ स्यादेतदिति ॥ क्वचिदिति ॥ दुर्योधनचैद्यमागधादावित्यर्थः ॥ अकारणमिति ॥ अत एव ‘व्रीहिभिर्यजेत’ ‘यवैर्यजेत’ इत्यादौ विकल्पाश्रयणम् । एककार्ये कारणद्वयोपनिपात एव विकल्पावकाशात् कारणान्तरकृतव्यभिचारस्यादोषत्वात् । एकस्य फलोपधानदशायामन्यस्य तत्र तदभावेऽपि शक्तेः सत्वादिति भावः ॥ मत्सरादीति ॥ मत्सरादिप्रतिबन्धकनिमित्तेत्यर्थः । प्रतिबन्धककृतव्यभिचारस्यादोषत्वाद् व्यभिचार्यपवादेन मानमेव भविष्यतीत्यनुभाष्योक्तेरिति भावः । प्रकारान्तरेण शङ्कते ॥ सर्वस्यापीति ॥ नामलिङ्गात्मकाशेषशब्दप्रवृत्तिनिमित्तानां परमैश्वर्यादीना-मीशगतत्वस्यान्यगतप्रवृत्तिनिमित्तस्वातन्त्र्यस्य च वर्णनेनाशेषशब्दसमन्वयोक्तेस्तद्द्वारा तद्युक्ताशेष-वाक्यप्रकरणस्थानानां तत्सिद्ध्या च सर्ववेदोक्ताशेषमाहात्म्यस्य विष्णावेव सिद्धेरिति भावः ॥ तदेवेति ॥ एतच्च यथास्थानं तत्र तत्र विवरिष्यामः ।
अत्रादाविति ॥ प्रथमाधिकरण इत्यर्थः । ‘योनेः शरीरम्’ इति जीवानां जन्मावगतौ अवस्थावर्णनस्यावसरप्राप्तत्वात् तत्र जाग्रत्स्वप्नसुषुप्त्यवस्थानां मध्ये जाग्रति जीवानां स्वातन्त्र्याभि-मानभावेनेशाधीनत्वस्यादावेव बुद्ध्यनारोहात्सुषुप्तिप्राप्तेः स्वप्नदशाप्राप्तिपूर्वकत्वनियमात्स्वाप्नसत्यत्वे सर्ववादिविप्रतिपत्तेः ‘वैधर्म्याच्च न स्वप्नादिवत्’ इत्युक्त्या ‘स्वप्नमाया सरूपा’ इत्यादिश्रुत्यादिना च प्रसक्तसर्वस्वाप्नासत्यत्वस्यावश्यमादौ निरस्यत्वात् । पूर्वसूत्रे जीवानां जन्मोक्त्याऽत्र तद्भोग्यानां जन्मोक्तेः सङ्गतत्वाच्च कठश्रुतौ योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिन इति योनिद्वारा शरीरं प्राप्तं जीवं प्रति ईश्वरस्य ‘य एषु सुप्तेषु’ इति उत्तरवाक्ये स्वाप्नस्रष्टृत्वोक्तेश्च पूर्वं स्वाप्नचिन्ता युक्तेति सूचयत्यादाविति । यद्वा जीवानां योनिद्वारा शरीरप्राप्तिभावाभावचिन्तेव पूर्वत्र अत्रापि स्वप्नाद्यवस्थाभावाभावचिन्तैवादाववसरप्राप्तेत्यत उक्तम् । आदौ तदधीनत्वमहिम्नो वर्णनादिति ॥ स्वप्नाद्यवस्थासम्बन्धस्य जीवेषु सुप्रसिद्धत्वेन तत्रापवादशङ्कानुदयादिति भावः । यथोक्तं सुधायां जाग्रदाद्यवस्थासम्बन्धः प्रसिद्ध इति ॥ साधनेति ॥ ज्ञानहेतूपासनांगतयेति भावः । एवमग्रेऽपि ॥ भक्त्यर्थमिति ॥ प्रागथपदेनाधिकारिविशेषणतयोक्तभक्त्यर्थमित्यर्थः । एवमुत्तरत्रापि ज्ञेयम् ॥ वर्णनादिति ॥ स्वाप्नार्थानामीशसृष्टत्वेन सत्यत्वोक्त्येति भावः । एतेनैतन्निरस्तम् । सुषुप्त्युत्क्रान्त्योर्भेदेनेत्यत्र स्वप्नादिद्रष्टृत्वं च सर्वज्ञत्वादेव युज्यत इति भाषणात् स्वाप्नपदार्थानां जीवगतावस्थायाश्च सत्यत्वादिति टीकोक्तेश्च परमार्थाशेषार्थतत्वज्ञतया सर्वज्ञस्येशस्य स्वप्नद्रष्टृत्वोक्त्या स्वाप्नपदार्थानां सिद्धं सत्यत्वमिह पुनर्न वाच्यमिति । अत्रोक्तसत्यत्वमुपजीव्यैव तत्र सर्वज्ञत्वहेतुना स्वप्नद्रष्टृत्वोक्तेः । न चैवं जीवस्य स्वप्नद्रष्टृत्वमेव नेति कथं तत्प्रतीतेर्जीव-स्येशाधीनत्वमुच्यत इति वाच्यम् । मुख्यस्येशगतत्वेऽप्यमुख्यस्याल्पस्येशाधीनस्य जीवेऽपि भावात् । अत एवात्र तस्य प्रपञ्चनम् । अत्र भगवत्प्राप्तीत्युक्त्या शास्त्रे साधनेत्यध्याये भक्त्यर्थं महिम्न इति पादेंऽतर्भावरूपसङ्गतित्रयमुपपादितं भवति । एवमग्रेऽपि ।
एतच्चिन्तायाः पूर्वनयैः सङ्गतिं फलान्तरं चाह ॥ सर्वमिति ॥ ‘जन्माद्यस्य यतः’ इत्यारभ्य ‘योनेश्शरीरम्’ इत्यन्तं क्वचिदर्थात्क्वचित्कण्ठतः प्रागुक्तमित्यर्थः । तथा हि । सर्वशब्दप्रवृत्तिहेतूनां स्वातन्त्र्यतद्गतत्वाभ्यामीशे समन्वयोक्त्या सर्वस्य तदधीनतायाः प्राप्तत्वादन्तर्यामिनयादौ तदधीनत्वादर्थवत्’ इत्यत्र तदनन्यत्वनयादौ च वियत्प्राणपदाभ्यां सर्वस्येशाधीनविशेषावाप्ति-रूपजन्मादिप्रपञ्चनेन स्वात्मना चोत्तरयोरित्यादिना तत्रापि च तद्व्यापारादित्यादिना योनिद्वारा शरीरप्राप्त्युक्त्या तदधीनत्वस्य स्फुटत्वादिति भावः । विप्रतिपत्तिः सत्त्वासत्त्वाभ्यां वादि-विप्रतिपत्तिरित्यर्थः । यद्वा सत्त्वासत्त्वहेतुका भगवदधीनत्वादिविप्रतिपत्तिरित्यर्थः । सूत्रेषु सृष्ट्याद्युक्त्या सत्वोक्तावपि स्वप्नोऽपीत्यादि भाष्यव्यावर्त्त्यं पूर्वपक्षफलं दर्शयितुम् एवं सूत्रतात्पर्य-विषयकोटिकसंशयविप्रतिपत्ती दर्शिते । सूत्रादौ स्वाप्नार्थानां सृष्ट्याद्युक्तेरसांगत्यनिरासाय तद्व्यावर्त्य- पूर्वपक्षमन्यत्रोक्तं व्यनक्ति ॥ नेति ॥ पश्चाददृष्टेः स्वप्नविषयस्यासत्त्वं न वाच्यमित्यन्यत्रोक्तमसत्त्वं हेतुतया योजयति ॥ तस्यासत्त्वादिति ॥ यद्यप्यसतोऽपीशाधीनत्वं ‘एतेन सर्वे व्याख्याता’ इत्यत्रोक्तम् । यथोक्तं भाष्ये एतेन तदधीनत्वाद्युक्तयुक्तिसमुदायेनेति । सर्वस्य तदधीनत्वा-त्तत्तच्छब्दाभिधेयतेति च । तथापि स्थूलबाह्यप्रपञ्च इव स्वरूपसत्ताप्रतीत्यादिषु भगवन्नियतो नेति प्रतिज्ञार्थः । असत्तु असत्त्वेनैव तन्नियतमिति भावः । स्वाप्नस्यापि तथात्वे प्रागुक्तस्वप्न-द्रष्टृत्वभङ्गापत्तेः । असत्त्वमेव कुत इत्यतः पश्चाददृष्टेरित्यन्यत्रोक्तं हेतुमप्रयोजकत्वशङ्कानिरासपूर्वं योजयति ॥ सत्त्व इत्यादिना ॥ पश्चादित्युक्तिरूपलक्षणमित्युपेत्याह ॥ पूर्वेति ॥ दर्शनेति ॥ स्वाप्नार्थानां स्वप्नदशायामुपलभ्यमानानामयोग्यताशङ्कानवकाशादिति भावः ॥ अत इति ॥ प्रागूर्ध्वमदर्शनादित्यर्थः । प्रातीतिकत्वात् प्रतीतिमात्रशरीरत्वादित्यर्थः । समग्रं न्यायविवरणवाक्यं प्रकारान्तरेण व्याचष्टे ॥ न चेत्यादिना ॥ एतेन पश्चात् प्रागूर्ध्वं स्वाप्नविषयस्यासत्त्वम् । स्वप्नकाल एव सृष्टिनिरोधाविति यावत् । इति न वाच्यम् । अदृष्टेर् दृष्ट्यभावः प्रमाणमात्राभावोपलक्षणम् । प्रमाणाभावादित्यर्थ इति योजना सूचिता । अदृष्टेरित्यस्य कर्त्रादेरनुपलम्भादित्यप्यर्थान्तरमुपेत्याह ॥ कर्त्रिति ॥ द्रष्टुर्जीवस्य निर्व्यापारत्वादीश्वरस्य कर्तृत्वे मानाभावादिति भावः ।
ननु प्राक् सिद्धानामेव बाह्यार्थानां स्वप्ने दर्शनमस्तु । एवं च न प्रागूर्ध्वमदर्शनदोषः । नापि कर्त्राद्यभावदोष इत्यत आह ॥ किं चेत्यादिना ॥ यद्वा एवं कर्त्राद्यभावादिना स्वाप्नविषयस्य करितुरगादेरसत्त्वमुक्त्वेदानीं तत्प्रतीतेरपि जीवादेर्द्रष्टृत्वाद्यनुपपत्त्या कर्तृकरणयोरभावेनासत्त्वमाह ॥ किं चेत्यादिना ॥ दर्शनायोगादिति ॥ एतेनादृष्टेरित्यस्य दृष्टेरयोगादसत्त्वं स्वाप्नार्थस्य तद्विषयक-प्रतीतेर्वेत्यप्यर्थो दर्शितः ॥ पश्चादेवेति ॥ एतेन पश्चात्प्रवेशस्यादृष्टेरदर्शनादननुभवादित्यर्थ उक्तो भवति । बहिरन्तर्वा जीवस्य द्रष्टृत्वायोगेन प्रतीतेरसत्त्वमुक्त्वा अर्थशून्यत्वाच्चासत्त्वमिति भावेनाह ॥ किं च हेमन्त इति ॥ प्रतीत्युत्पादकहेत्वभावाच्च प्रतितेरसत्त्वमिति भावेनाह ॥ न चेति ॥ एतेन पश्चाद् इन्द्रियवृत्त्युपरमानन्तरं स्वप्नविषयस्यादृष्टेर्दर्शनायोगादसत्वं प्रतीतेरित्यर्थ उक्तो भवति । अतिप्रसङ्गेनापि प्रत्याह ॥ यदि चेति ॥ समीपस्थैरिति ॥ एतेन पश्चात् पश्चात्तनैः । उपलक्षणं पश्चात्तनादिभिः । समीपस्थैरिति यावत् । अदृष्टेरदर्शनात् । स्वप्नविषयस्य द्रष्ट्रपेक्षया पृथग-सत्त्वमित्यर्थो दर्शितः ॥ परमार्थत इति ॥ एतेन पश्चात्प्रबोधानन्तरम् आत्मनो गजाश्वादिभावा-दृष्टेरसत्त्वं कल्पितत्वं स्वाप्नविषयस्येत्यर्थो दर्शितः । पश्चात् प्रागूर्ध्वं मृत्पिण्डकपालादेर-दृष्टेरित्यर्थान्तरं चाऽऽह ॥ तत्काल इति ॥ अत इति ॥ मृत्पिण्डादेरदर्शनादित्यर्थः ॥ न तस्य महामहिमत्वमिति ॥
यद्यपि स्वाप्नार्थानामसत्त्वादेव तत्सत्ताप्रतीत्यादेरीश्वरानधीनत्वेऽपि न तस्य महामहिम-त्वच्युतिः । अन्यथा शशशृङ्गकूर्मरोमादीनां स्वरूपसत्तादिष्वीश्वरानधीनत्वात्तस्य महिमच्युतिः स्यात्तथापि ज्योतिर्दर्शनादित्यादौ जीवस्य स्वप्नसुषुप्त्याद्यशेषव्यापारनियंतृत्वमहिमा ईश्वरस्याभिमतः स न स्यात् स्वाप्नविषयस्यासत्त्वादिति भावः ॥ तात्पर्यमिति ॥ अन्यथाऽत्रैव सूत्रे तं विनेति स्वाप्नप्रतीतेरीशाधीनत्वोक्तौ निर्मातारमिति सूत्रवैयर्थ्यादिति भावः । तं विनेत्यस्य तेन सहेत्यर्थ-भ्रान्तिं तेनैव स्वाप्नभ्रान्तिरिति भ्रान्तिं वा निराह ॥ तदधीन इत्यर्थ इति ॥ न तत्रेत्यादिभाष्यं सङ्गमयितुमाह ॥ अत्रोक्तदोषेति ॥ सन्ध्ये सृष्टिरित्यंशस्यार्थं स्वयमाह ॥ यदुक्तमित्यादिना ॥ तत्वप्रदीपे तु तं प्रस्तुतं परमात्मानं विना न स्वप्नोऽपि प्रतीयते । अपिशब्दाज्जाग्रदादिप्रतीतिरपि तस्मादेवेत्यर्थः । तत्प्रत्यायनस्यैव सृष्टित्वात् सृष्टिशब्दः प्रतीयत इति व्याख्यायत इति ग्रन्थेन न स्वप्न इत्याद्यपि सूत्राक्षरार्थत्वेन व्याख्यातम् । तदनुरोधेन वा न स्वप्न इत्यादिभाष्यं सूत्रारूढतया दर्शयति ॥ यदुक्तमित्यादिना ॥ चतुर्थे तन्वभावे सन्ध्यवदुपपत्तेरित्यत्र सन्ध्यं स्वप्न इत्यादिभाष्यं हृदि कृत्वा परिशेषादिति वक्ष्यमाणसौकर्याय स्वप्नार्थलाभप्रकारमाह ॥ जाग्रदिति ॥ सन्धौ कण्ठदेशे । तत्र भव इति भवार्थे यत्प्रत्यय इति भावः । श्रुत्यनुरोधादाह ॥ प्रागसतामिति ॥ कार्यरूपेणेति भावः । असद्यत्कार्यरूपेण कारणात्मतयास्ति हीति तदनन्यत्वनयानुभाष्योक्तेः । संस्कारेण सृष्ट्वा पुनः संस्कारमात्रतामापाद्य तस्यापि तिरोधानोपपत्तेरित्यन्यत्रोक्तिमनुरुध्य सूत्रे सृष्टिपदमुपलक्षणं मत्त्वाह ॥ अनन्तरमेवेति ॥ तेन यदुक्तमित्यादिनाऽनूदितशङ्कानिरास इति भावः । इति यतोऽत इति इतिशब्दस्य पूर्वेणान्वयः ॥ नेतीति ॥ श्रुत्यर्थस्तु ‘स्वप्नेऽन्तरिक्षे स्वर्गे वा न रथाद्याः पुरा स्थिताः । तदैव तत्कर्मयोग्यान्निर्मिमीते हरिस्स्वयम्’ इति षष्ठबृहद्भाष्याद् व्यक्तः ।
अभिनवचन्द्रिका
एतत्पादप्रतिपाद्यमिति ॥ ‘तर्हि अध्यायस्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यतः साधनेऽप्यवान्तरभेदेनेति भावेन’ इति वर्तते । तस्य ‘एतत्पादप्रतिपाद्यं दर्शयति’त्यनेन सम्बन्धः ॥ श्रुतमाहात्म्येऽपीति ॥ श्रुतमाहात्म्येऽपि दृश्यमानस्नेहानुत्पत्तिर् माहात्म्यश्रवणस्य स्नेहेऽकारणत्वं न साधयति । साधनशक्तेर्मत्सरादिना निरुद्धत्वादिति भावः ॥ स्वप्नविषयतत्प्रतीत्योरिति ॥ स्वप्नशब्दार्थयोर् विषयतत्प्रतीत्योरित्यर्थः यद्यपि अत्र टीकायां विषयाऽसत्वमेवाऽऽशङ्क्य तदुत्तरत्वे नाधिकरणं व्याख्यायते, तथापि सुधोक्तरीत्या ज्ञानाऽसत्त्वशङ्कापि अनेनाऽधिकरणेन निवर्त्यत इत्यभिप्रायेण ‘स्वप्नविषयतत्प्रतीत्योः’ इत्युक्तम् । सर्वं भगवदधीनमिति ‘यतो वा इमानि भूतानि जायन्ते । अथ रथान् रथयोगान् पथः सृजत’ इत्यादि श्रुतीनां समन्वयद्वारा तच्छ्रुतौ सृज्यत्वेनोक्तानां सर्वेषां भगवदधीनत्वमुक्तमित्यर्थः ॥ स्वप्नतत्प्रतीत्योरिति ॥ सृज्यत्वेन श्रुत्युक्तयोरपि स्वप्नतत्प्रतीत्योरीश्वरानधीनत्वे अविशेषात्प्रागुक्तं सर्वस्य तदधीनत्वमयुक्तं स्यादिति तद्वर्णनीणीयमित्यर्थः । सत्त्वस्य नित्यत्वाऽनित्यत्वाऽन्यतरव्याप्तत्वाद् व्यापकनिवृत्त्या व्याप्यनिवृत्तिं साधयितुं पृच्छति सत्त्वे वक्तव्यमिति ॥ उभयथापीति ॥ नित्यत्वपक्षे प्रागूर्ध्वमुपलम्भः स्फुटः । स्वप्नावस्थायामुपलब्धत्वेन अयोग्यत्वाभावात् । अनित्यत्वपक्षे तु तत्कालोत्पत्तिविनाशयोरसम्भवात् स्थायित्वमेव वाच्यमिति भावेन प्रागूर्ध्वमुपलम्भप्रसङ्गो निरूपितो बोध्यः । अत इति ॥ अतोऽसन्नेवेति सम्बन्धः ।
ननु नित्यत्वानित्यत्वयोर्निवृत्त्या नाऽसत्त्वं निर्धारयितुं शक्यं, घटादिवत्प्रतीतिविषयत्वाऽ-न्यथाऽनुपपत्त्या सत्त्वसिद्धेरित्यत उक्तम् प्रातीतिकत्वादिति ॥ युक्तमेव नित्यत्वाऽनित्यत्वा-भावेनाऽसत्त्वसाधनम् । शुक्तिरजतादौ सत्त्वेन विनापि दृष्टस्य प्रतीतिविषयत्वस्य सत्त्वाऽसाधकत्वेन बाधकाऽभावादिति भावः । अनेन अतोऽसन्नित्येतावतैव पूर्णत्वात् ‘प्रातीतिकत्वात्’ इति ‘शुक्तिरजतादि वत्’ इति च व्यर्थमिति परास्तम् । बाधकनिरासार्थं तदुपादानस्याऽऽवश्यकत्वा-दिति । ननु सत्या एव स्वप्नविषया यदत्रोक्तं किंनित्या, उताऽनित्या इति । तत्र केचन नित्याः केचनाऽनित्या इति ब्रूमः । यदत्रोक्तं प्रागुत्तरकालं दृश्येरन्निति । तन्न इष्टत्वाद् दृश्यन्तेऽहि घटपटादयः सर्वैः पूर्वोत्तरकालयोरित्यतो जाग्रदवस्थापन्नैर्दृश्यमानानां घटपटादीनां स्वप्नविषयत्वे बाधकमाह– किंचेति ॥ प्रागूर्ध्वमन्यैर्दृश्य मानं स्वप्नविषयं, किं शरीरे स्थित्वा पश्यति बहिर्निर्गत्य वेत्यर्थः । मेरुमन्दरादीति ॥ व्यवहितत्वादिति भावः । शरीरे स्थित्वा पश्यति । बहिर्निर्गत्य पश्यतीति पक्षद्वयेऽपि बाधकान्तरमाह– किं च हेमन्त इति ॥ ‘न च वसन्तसत्ता तदास्ति’ इत्यतः परं ‘येन शरीरे स्थित्वा, बहिर्निर्गत्य वा पश्येत्’ इति शेषः । न च प्रतीतिकारणं वाऽस्तीति । बाह्यानां मेरुमन्दरादीनां प्रतीतिकारणं वा नास्तीत्यर्थः । मनस एव तत्कारणत्व-मस्त्वित्यत आह– मनस इति ॥ स्वप्नविषयाः, किं द्रष्टृभिन्ना उत नेति विकल्पं मनसि निधाय आद्यपक्षं दूषयति यदि चेति ॥ द्रष्टृभिन्नत्वेऽपि समीपस्थैर्दृश्यमानत्वं कुतः । आन्तरत्वेनाऽ-दर्शनसम्भवादित्यत आह– बाह्यार्थत्वादिति ॥ द्रष्टृभिन्नानां महापरिमाणानां शरीरान्त-स्थत्वाऽनुपपत्तेरिति भावः । द्वितीयमाशङ्क्य इष्टसिद्धिमाह– अथेति ॥ कल्पितत्वमिति ॥ भ्रमविषयत्वमित्यर्थः ।
ननु द्रष्टृभिन्नत्वाभावे कल्पितत्वं कुतः । तदात्मकत्वेन पारमार्थिकत्वसम्भवादित्यत आह– परमार्थतोऽस्येति ॥ अतः प्रातीतिकत्वादिति ॥ सत्त्वायोगेनाऽसत्त्वादित्यर्थः ॥ न तस्य महामहिमत्वमिति ॥ श्रुत्या सृज्यत्वेनोक्तस्यापि स्वाप्नार्थस्याऽसत्त्वेन भगवदनधीनत्वे श्रुत्य-प्रमाण्यान्न तस्य श्रुत्युक्तं महामहिमत्वमिति भावः ॥ तदधीन इत्यर्थ इति ॥ अनेन – ‘न स्वप्नोऽपि तं विना प्रतीयत’ इति भाष्यं स्वप्नोऽपि स्वप्नगजादिरपि तं विना तदनधीनत्वेन न प्रतीयते, किंतु तदधीनत्वेनैव मीमांसाऽभिज्ञानां प्रतीयत इति व्याख्यातमिति बोध्यम् । अनेन भाष्ये ‘न स्वप्नोऽपि तं विना प्रतीयत’ इति स्वप्नप्रतीतेर् भगवदधीनत्वं प्रतिज्ञाय, स्वाप्नपदार्थस्य भगवदधीनत्वे ‘न तत्र रथा’ इति श्रुत्युदाहरणमयुक्तमिति परास्तम् ॥ तस्य सुप्तत्वादिति ॥ सुप्तवदपहृतचक्षुरादीन्द्रियशक्तित्वादित्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । एतेन स्वप्नावस्थागतत्वेन सुप्तत्वाऽभावात् सुप्तत्वाभिधानमयुक्तमिति परास्तम् ॥ तत्प्रमाणाभावादिति ॥ ‘न तत्र रथा’ इति श्रुतेरीश्वरपरत्वनिर्णायकसमाख्याप्रमाणाऽभावादित्यर्थः । एतेन ‘रथान् रथयोगान् पथः सृजत’ इति प्रमाणस्योदाहृतत्वात् प्रमाणाभावादित्ययुक्तमिति परास्तम् । श्रौतसृष्ट्यनुपपत्त्या जीवो वा ईश्वरो वा कर्ता भविष्यति इत्यत आह– न च पक्षद्वय इति ॥ जीवस्य कुलालवदिति ॥ चक्रचीव्रा(चीवरा)दिसाधनशून्यस्येति शेषः ॥ प्रकरणप्राप्तत्वादिति ॥ यथा ‘भुञ्जानो नो सृजेद्वाचम्’ इत्यत्र भोजनप्रकरणाद् वाङ्नियमस्य भोजनसमानकालता गम्यते, तथेहापि ‘सुप्तेषु जागर्ति’ इति सुप्तिप्रकरणान् निर्माणस्य तत्समानकालता गम्यत इत्यर्थः ॥ असत्वनिरासायेति ॥ स्वशिरच्छेदादीनामननुभूतत्वेन उपादानीभूतसंस्काराभावात् स्वप्ने तत्सृष्ट्ययोगेन प्राप्तस्याऽसत्त्वस्य निरासायेत्यर्थः ॥ जाग्रत्पदार्थत्वमेवेति ॥ ननु कुतो जाग्रत्त्वस्याऽसत्त्वमंगीक्रियते, गजतुरगादिवज् जाग्रत्त्वस्यापि संस्काररूपोपादानसम्भवेन उत्पत्तिसम्भवादिति चेत्, न ब्रूमो वय मुपादानादि-सम्भवमात्रेण स्वाप्नार्थस्य सत्यत्वमिति । किंनाम बाधाभावे च सति, न चेह बाधाभावोऽस्ति । स्वप्न एवासौ न जाग्रत्पदार्थ इति जाग्रत्त्वस्य बाधदर्शनात् ॥ सत्त्वं न प्राप्नोतीति ॥ ‘स्वप्नार्था न सन्त नित्यविलक्षणत्वे सति सम्भावितकारणा जन्यत्वात्, शुक्तिरजतवत्’ इत्यनुमानविरोधादिति भावः ॥ शुभाऽशुभसूचकत्वेनेति ॥ सूचकशब्देनाऽप्रधान कारणमुच्यते । ततश्च अर्थक्रिया-कारित्वेन तत्सत्ताया निश्चितत्वाद् बाधितविषयं प्राचीनानुमानमिति भावः ।
ननु स्वाप्नार्थस्य ज्ञापकत्वमेव किं नोच्यते स्वारस्येन प्रतीतज्ञापकत्वपक्षमपहाय कारकत्वाऽङ्गीकारे कारणाऽभावात् । एवं शाकुनस्याऽपि ज्ञापकत्वमेव वाच्यं न तु कारकत्व-मिति चेन् न । ज्ञापकत्वस्य कथमप्यसम्भवात् । तथा हि किं स्वाप्नार्थाः स्वप्नाऽवस्थायामेव भाविशुभाशुभज्ञापकाः, उत प्रबोधानन्तरम् । नाद्यो ऽनुभवविरोधात् । द्वितीये तु न स्वाप्नार्थानां ज्ञापकत्वम् । अपि तु तत्स्मरणस्य । स्वप्नार्थस्य जागरेऽभावात् । अविद्यमानस्य ज्ञापकत्वाऽ-योगात् । यदपि शाकुनं ज्ञापकमेवेति, तदपि न शपथाऽऽप्तवाक्यादिना निश्चितभाविकार्यस्य शाकुनप्रतीक्षाऽभावप्रसङ्गात् । शाकुनस्य ज्ञापकत्वं तु न व्यासेधामः, किंतु कारकत्वमपीति ब्रूमः, कारकत्वं तु उभयोरपि दधिदर्शनदूर्वास्पर्शनस्येवाऽदृष्टद्वारा उपपद्यते । ‘यदा कर्मसु काम्येषु’ इति श्रुतिरपि स्वाप्नार्थस्य भाविशुभहेतुत्वं श्रावयति । ‘सुवृष्टिश्चेत् सुभिक्षं जानीयात्’ इत्युक्ते वृष्टिसुभिक्षयोः कार्यकारणभावाऽवगमात् । स्वाप्नार्थस्याऽदृष्टजनकत्वादेव हि दुःखप्रदर्शने तज्जन्यदुरदृष्टनिवृत्तये ‘उपोष्य पायसंस्थालीपाकं श्रपयित्वा रात्रिसूक्तेन प्रत्यृचं हुत्वा’ इत्यादिना प्रायश्चित्तमुपदिश्यते । भागवते च ‘स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं कुरुवर्य शृृण्वताम् । ‘शुचयः प्रातरुत्थाय दुःस्वप्नाप्त्युपशान्तये’ इति चोक्तम् । न हि एतस्य कारकत्वाऽभावे तन्निवृत्तये प्रायश्वित्तोपदेश उपपद्यते । प्रबोधे तस्य निवृत्तत्वात् ।
अदृष्यहेतुत्वे तु तन्नाशाय सर्वमुपपद्यते । भाष्ये ‘भावाभावसूचकत्वेनेश्वरो दर्शयति’ इति प्रतिज्ञाय भावशब्दवाच्यशुभसूचकत्व एव ‘यदा कर्मसु’ इति श्रुतिरुदाहृता न त्वभावशब्दवाच्याऽ-शुभसूचकत्वे । अतः स्वयमाह– एवं पुरुषमिति ॥ भाष्ये ‘हिशब्दाद् दर्शनाच्च’ इत्यतः परम् अध्याहार्यमाह– इति सूचितमिति शेष इति ॥ सूत्रे हिशब्देन दर्शनादित्येतत् सूचितम् ‘शब्दाधिक्येऽर्थाधिक्यम्’ इति न्यायादिति भावः । कारकत्वहेतोः श्रुत्यवष्टम्भेन सत्त्वव्यभिचार-माशङ्क्य निषेधति ॥ न च मन्तव्यमिति ॥ अस्तु तर्हि तद्वदेव अन्यथाज्ञातस्याऽधिष्टानं निषेधति न च मन्तव्यमिति ॥ अस्तु तर्हि तद्वदेव अन्यथाज्ञातस्याऽधिष्टानस्यैव सूचकत्वं न स्वप्नार्थ-स्येत्यत आह– न चैवमिति ॥ ‘चन्द्रमा इवाऽऽदित्यो दृश्यत’ इत्युक्तिसद्भावाच् चन्द्रत्वेन ज्ञातस्याऽऽदित्यस्याऽनिष्टहेतुत्वमभ्युपगम्यते, स्वप्ने तु नैवमुक्तिरस्ति, किंनाम ‘स्त्रियंस्वप्नेऽभि-पश्यति’ इति स्वाप्नार्थस्यैव सूचकत्वाभिधानात् तथैवाभ्युपगन्तव्यमिति भावः । अधिष्टानाऽभावाच्च स्वाप्नार्थस्यैव कारकत्वमभ्युपगन्तव्यमित्याह– न चेति ॥
पूर्वपक्षस्तु स्वप्नविषयो नेश्वराधीनो ऽसत्त्वात् । न चाऽसिद्धो हेतुः । प्रागूर्ध्वमनुपलम्भात् । न च तत्कालसृष्टिनिरोधाऽङ्गीकारात् प्रागूर्ध्व मुपलम्भाभावो न दोषायेति वाच्यम् । प्रमाणाभावात् कर्त्रुपादाननिमित्तानामभावाच्च । ननु बाह्यार्था एव स्वप्न उपलभ्यन्ते । ते च प्रागूर्ध्वमुपलभ्यन्त एवेति चेद् अत्र वक्तव्यम् । किं बाह्यार्थान् शरीरे स्थित्वा पश्यति, उत बहिर्निर्गत्येति । नाद्यः व्यवहितमेरुमन्दरादिदर्शनाऽभावप्रसङ्गात् । न द्वितीयः कुरुषु सुप्तस्य पाञ्चाचालान्प्रपश्यतः प्रबोधे शरीरप्रवेशोऽस्य पश्चादेवेति प्राप्तेः । किं च हेमन्ते सुप्तस्य वसन्तप्रतीतिस्तावदस्ति, न च वसन्तसत्ता तदाऽस्ति । येन शरीरे स्थित्वा बहिर्निर्गत्य वा पश्येत् । नापि बाह्यार्थप्रतीतिकारण-मस्ति इन्द्रियाणामुपरतत्वान् मनसो बाह्यार्थेष्वस्वातन्त्र्यात् । किञ्च एते विषया द्रष्टृभिन्ना उत न । आद्ये पार्श्वस्थैरुपलभ्येरन् । द्रष्टृभिन्नानां महापरिमाणानाम् आन्तरत्वाऽसम्भवेन बाह्यत्वात् । द्वितीये तु आगतं कल्पितत्वम् । न च जीवात्मकत्वेन सत्यत्वं किं न स्यादिति वाच्यम् । परमार्थतोऽस्य करितुरगादिभावाभावात् । तत्काल सृष्टिनिरोधपक्षे च प्रागूर्ध्वं मृत्पिण्डकपालादीनि दृश्यरेन् । न च दृश्यन्ते । अतोऽसत्त्वेन परमेश्वराधीनत्वाऽभावान्न तस्यं महामहिमत्वमिति ।
सिद्धान्तस्तु ईश्वराधीन एव स्वप्नविषयः सत्यत्वात् । न च प्रागुत्तरकालमुपलम्भप्रसङ्गः । तत्काल एव सृष्टिनिरोधाङ्गीकारात् । न च तत्र प्रमाणाभावः ‘अथ रथान् रथयोगान् पथः सृजत’ इति श्रुतेः । न च कर्तुरभावात् सृष्ट्ययोगः– ‘य एषु सुप्तेषु जागर्ति एतस्माद्ध्येव पुत्रो जायते’ इति श्रुतिभ्यामीश्वरस्यैव कर्तृत्वाङ्गीकारात् । न चोपादाननिमित्ताभावः ‘मनोगतांश्च संस्कारान्’ इति स्मृतिबलेन वासनाया उपादानत्वेन ईश्वरेच्छायाश्च निमित्तत्वेनाङ्गीकारात् । एतेन उक्तकण्ठ-कोलाहलाः प्रत्त्युक्ताः । वासनामयानां मेर्वादीनां मनसैव दर्शनसम्भवात् । बाह्यकारणाभावात्, प्राक्मृत्पिण्डादीनाम्, ऊर्ध्वं कपालादीनां च, प्रतीतेरप्रसङ्गात् । ननु यदि न स्वप्नविषया बाह्यार्थजन्याः, तर्हि सत्त्वं न प्राप्नोति शुक्तिरजतादिवद् इति चेत्, न शुभाशुभकारणत्वेन सत्त्वस्यैव निश्चितत्वात् । ‘यदा कर्मसु काम्येषु’ इति, ‘पुरुषं कृष्णं कृष्णदन्तं पश्यति’ इति श्रुतिभ्याम्, अन्वयव्यतिरेकसध्रीचीनप्रत्यक्षेण च, कारणत्वस्य सिद्धेः । अपि च एवं व्यासादयो मन्यन्ते ‘यद्वापि ब्राह्मणो ब्रूयाद् देवतावृ(ऋ)षभोऽपि वा । स्वप्नस्थमथवा राजा तत्तथैव भविष्यति’ इति । अतः स्वप्नविषयस्य भगवदधीनत्वसिद्धेर्महामाहात्म्यं तस्येति युक्ता तत्र भक्तिरिति सिद्धम् ।
वाक्यार्थमुक्तावली
पादप्रतिपाद्यमिति । अध्यायस्यैकार्थत्वात्पादभेदः किन्निबन्धन इत्यतः साधनेऽप्यवान्तर-भेदेनेति सङ्गतिं सूचयन्नित्यादावुपस्कर्तव्यम् । अस्मिन्निति इदंशब्दाभिप्रेतं सङ्गतिप्रकारमुपपादयति ॥ यद्दाढर्््यार्थमिति ॥ ननु भगवन्महिमोक्तौ कथं भक्त्युत्पत्तिरित्यत आह ॥ माहात्म्येति ॥ स्नेहो वेति ॥ स्नेहोऽप्युपकारकत्वज्ञानाद्भवति । उपकारकत्वं च स्वप्नाद्याविष्कारतिरस्कारमोचकत्वादि-महिम््नयेवान्तर्भूतमिति तत्त्वप्रदीपोक्तरीत्या माहात्म्यानुक्तौ न स्नेहोऽपि भवतीति भावः । कथं तर्हि भक्तिरस्मिन् पादे उच्यत इति पादप्रतिपाद्योक्तिरित्यत आह एवं साधनवचनस्यापीति ॥ साधनं च तद्वचनं चेति विग्रहः । एवमुक्तरीत्या भक्तिसाधनस्य माहात्म्यवचनस्यापि भक्तिलक्षण-फलोत्पादने एव तात्पर्याद्भक्तिसाधनमाहात्म्यवचनमत्र क्रियत इति वक्तव्ये भक्तिरुच्यत इत्युक्तम् । तात्पर्यगत्या भक्तिपादत्वं युज्यत इति भावः । यद्वा विषयिपरसाधनपदेन विषयस्य माहात्म्यस्योप-लक्षणमिति भावबोधरीत्या पक्षद्वयं बोध्यम् ।
ननु माहात्म्यज्ञानार्थं तद्वचनस्योपयोगित्वेऽपि स्नेहार्थं न तदुपयोगोऽन्वयव्यतिरेक-व्यभिचारादिति शङ्कते ॥ स्यादेतदिति ॥ मत्सरादिनिरुद्धेति ॥ मत्सरादिप्रतिबन्धनिमित्तके-त्यर्थः । मात्सर्यादिदोषरहितानां सच्छिष्याणां ज्ञातमाहात्म्ये गुरौ स्नेहोत्पत्तेरनुभवसिद्धत्वादिति भावः ॥ तदेव क्वचिदिति ॥ सन्ध्ये सृष्टिरित्यत्र स्वाप्नार्थस्रष्टृत्वस्य पराभिध्यानादित्यत्र ज्ञानाज्ञानबन्धहेतुत्वस्य देहयोगादित्यधिकरणपञ्चके जाग्रदाद्यवस्थानियामकत्वोक्त्या जन्मादि-सूत्रार्थविवेचनं, न स्थानादित्यत्रानन्दमयाधिकरणोक्तस्वरूपाभेदसमर्थनं, अरूपवदेवेत्यत्र अन्यभावव्यावृत्तेरित्यत्रोक्तप्राकृतशरीरराहित्यसमर्थनम्, ‘अत एव चोपमा’ इत्यत्र तस्यैव समर्थनम्, प्रकृतैतावत्त्वमित्यत्र द्वितीयसूत्रोक्तस्थितिकर्तृत्वसमर्थनम्, तदव्यक्तमित्यत्र अदृश्यत्वाधि-करणार्थसमर्थनम्, उभयव्यपदेशादित्यत्र प्रथमाध्यायोक्तगुणित्वसमर्थनम्, परमतः स्थानविशेषा-दित्यधिकरणद्वये चाद्याध्यायोक्तब्रह्मगुणानामलौकिकत्वस्य ब्रह्मादिगुणबिम्बत्वस्य समर्थनेनाथ-शब्दार्थभक्तेः समर्थनम्, तथान्यत्प्रतिषेधादित्यत्रादृश्यत्वाधिकरणोक्तादृश्यत्वस्य प्रकारान्तरेण समर्थनम्, अनेन सर्वगतत्वेत्यत्र द्वितीयसूत्रोक्ताशेषजगज्जन्मादिहेतुत्वसमर्थनम्, ‘फलमत उपपत्तेः’ इत्यत्र जिज्ञासासूत्रोक्तफलदातृत्वसमर्थनं क्वचिद्विवेचनमित्यर्थः ।
अत्रादाविति । ‘योनेः शरीरम्’ इत्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम् । जातस्य स्वप्नाद्यवस्थासम्बन्धः प्रसिद्धः । तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणो महिमा भगवतोऽत्राधिकरणे निर्णीयत इति सुधायामेवानन्तरसङ्गतिरुक्ता ज्ञातव्या । ननु जाग्रदवस्था प्रथमप्राप्ता, शरीरा-वाप्त्यनन्तरमेव स्वप्नभावादित्यत उक्तम् आदाविति ॥ शरीरादिसृष्टिप्रसङ्गे सृष्टित्वात् स्वाप्न-पदार्थसृष्टेरेव प्राप्तत्वेन प्राथम्योपपत्तेः ॥ स्वाप्नसृष्टिरिति ॥ कौतुकवत्वेनाशक्यकर्तृता शक्त्या घटनीयत्वेनार्थतः प्राप्तत्वात् प्राधान्याच्चेति ॥ प्रागुक्तमिति ॥ ‘जन्माद्यस्य यत’ इति प्रागुक्तमित्यर्थः । स्वप्नः भगवदधीनो न भवत्युत भवतीति चिन्ता । तदर्थं किमसदुत सदिति । तदर्थं कर्त्रृपादाननिमित्तकारणरहित उत तत्सहित इति । तदर्थं जन्यपदार्थसत्त्वं प्रसिद्धोपादानादि-मत्त्वेन व्याप्तं न वेति ॥ विप्रतिपत्तिरिति ॥ तदधीनत्वोक्तिः । ‘अविद्यमानो ह्यनुभाति हि द्वयोर्ध्यातुर्धिया स्वप्नमनोरथो यथा’ इत्याद्युक्तिरिति वचनविप्रतिपत्तिरित्यर्थः । न स्वप्नोऽपि तं विना प्रतीयत इति पूर्वपक्षप्रतिक्षेपकसिद्धान्तभाष्यानुसारेण पूर्वपक्षमाह ॥ न स्वप्न इति ॥ सूत्रे सृष्टिपदव्यावर्त्यं हेतुमाह ॥ तस्येति ॥ असत्वहेतोः स्वरूपासिद्धिं परिहर्तुं सन्ध्यपदव्यावर्त्यं पश्चाददृष्टिरित्युक्तन्यायं विकल्पेनोपपादयति ॥ सत्वे चेति ॥ पश्चात् पृष्ठतः पूर्वकालं पश्चादुत्तरकालम् अदृष्टिरिति न्यायाभिप्रायमभिप्रेत्योक्तं पूर्वोत्तरकालमिति ॥ पश्चाददृष्टेरप्रयोजकत्व-माशङ्क्याह हीतिपदव्यावर्त्यमाह ॥ न च वक्तव्यमिति ॥ विद्युदादिवदिति भावः । निर्मातारं मायामात्रम्’ इति सूत्रद्वयव्यावर्त्यमाह ॥ कर्त्रुपादानेति ॥ द्वितीयसूत्रस्थेन मायामात्रमित्यनेन निवर्तनीयां पूर्वपक्षयुक्तिमाह ॥ किञ्चेत्यादिना ॥ एवं विषयाणामसत्त्वेनेश्वरानधीनत्वमुपपाद्य तज्ज्ञानस्यापि निमित्ताभावेनापरमार्थत्वमाह ॥ न च प्रतीतिकारणमिति ॥ एतदपि माया-मात्रपदव्यावर्त्यं, वासनामयत्वोक्त्यान्तरार्थत्वेन मानसत्वस्य वक्तुं शक्यत्वात् ॥ मनस इति ॥ न च साक्षिणस्तत्करणत्वम् । प्राकृतरूपादिमत्यर्थे स्वातन्त्र्याभावात् । मायामात्रपदेन वासनामयत्व-प्रतिपादकेन व्यावर्त्यं दूषणान्तरमाह ॥ यदि चैत इति ॥ परमार्थत इति ॥ एकस्याविचित्रस्य विचित्रानेकात्मतया विनारोप्तुमनुपपत्तेरिति भावः । मायामात्रपदेनातीन्द्रियवासनोपादानकत्वोक्त्यैव व्यावर्त्यं पश्चाददृष्टिरिति न्यायं प्रकारान्तरेणाह ॥ तत्काल इति ॥ सूचकश्चेति सूत्रव्यावर्त्यं दर्शयन् पूर्वपक्षफलमाह ॥ अत इति ॥ तात्पर्यमिति ॥ सृष्टिपदाकथनादिति भावः । स्वप्नस्तं विना नास्ति, नापि प्रतीयत इति सत्ताप्रतीत्योस्तदायत्तत्वमिति भाष्यार्थः । सूत्रेऽध्याहार्यमाह ॥ यदुक्तमिति ॥ हिशब्दार्थो यत इति । स्वप्न इत्यनुक्त्वा सन्ध्यपदप्रयोगेण पश्चाददृष्टिन्यायविरोधः परिहृत इति भावेनाह ॥ जाग्रदिति ॥ स्वाप्नार्थानां सन्ध्य एव सृष्टत्वेन पूर्वकालीना-दृष्टेरबाधकत्वेऽपि पश्चाददृष्टिविरोधो न परिहृत इत्यतः सृष्टिपदं निरोधस्याप्युपलक्षणं मत्वाह ॥ अनन्तरमेव निरोधश्चेति ॥ तथा च हि यस्मात् सन्ध्य एव सृष्टिर्निरोधश्च तस्माद्दृष्टिविरोधा-भावेनासत्त्वाभावाद् भगवदधीनत्वाभावो नेति सूत्रार्थः । ननूक्तमत्रेति ॥ तत्काले च सृष्टौ निरोधे चेत्यर्थः । तेन हि यस्मात् श्रुतिरेवमाह तस्मात्सन्ध्य एव सृष्टिर् निरोधश्चेत्यर्थ उक्तो भवति । भाष्ये इत्यादिश्रुतिरिति आदिपदेन तत्काले एव निरोधप्रतिपादिका श्रुतिर्गृह्यते ।
तत्त्वसुबोधिनी
भक्तिरस्मिन्पाद इति ॥ इदंशब्दाभिप्रायमाह ॥ यद्दाढर्््यार्थमिति ॥ पुरुषेति ॥ तस्यास्नेहरूपत्वेन विधातुमशक्यत्वाद् इति भावः । ननु भगवन्महिमोक्तौ भक्त्युत्पत्तिः कथमित्यत्राह ॥ माहात्म्येति ॥ ततः किमित्यत आह ॥ न हीति ॥ स्नेहो वेति ॥ माहात्म्य-ज्ञानकार्यत्वात् स्नेहस्येत्यर्थः । ननु माहात्म्यमस्मिन्पाद उच्यत इति वक्तव्ये भक्तिरस्मिन् पाद उच्यत इति कथं पादप्रतिपाद्यकथनमित्यत आह ॥ एवं साधनवचनस्यापीति ॥ ननु साधन-वचनस्येत्युक्तं तदयुक्तम् । माहात्म्यज्ञानस्यैव भक्तिसाधनत्वात् । अत्र तु तद्वचनाभावात्, किन्तु माहात्म्यस्यैव वचनादिति चेन्न । यथा वह्निमत्वादिसामान्यधर्मपुरस्कारेण ज्ञातो धूमो वह्निप्रमां प्रति कारणं तथा ज्ञातो भगवन्महिमैव भक्त्युत्पादक इत्यभिप्रायेण तथोक्तत्वात् । यद्वा माहात्म्यज्ञानमेव साधनशब्देन गृह्यते । न च तदनुक्तिः कथमिति वाच्यम् । माहात्म्यज्ञानरूपविषयिपरसाधनपदेन माहात्म्यरूपविषयस्य उपलक्षणादिति भावः । कुत एवमकारणमेव कुतो न स्यादित्यत आह ॥ न हीति ॥ तथात्वे कारीरियागस्यापि वृष्टिकारणत्वं न स्यादिति भावः । ननु माहात्म्यश्रवणेऽपि भक्तिर् नोपपद्यत इत्यन्वयव्यभिचारान् न माहात्म्यस्य भक्तिकारणत्वमित्यत आह ॥ श्रुत-माहात्म्येऽपीति ॥ प्रतिबन्धकसत्वनिबन्धनान्वयव्यभिचारस्य दोषत्वे सर्वत्र कार्यकारणमात्रोच्छेद-प्रसङ्ग इति भावः ॥ मत्सरादिनिरुद्धेति ॥ मात्सर्यादिदोषरहितानां सच्छिष्यादीनां ज्ञातमाहात्म्ये गुर्वादौ स्नेहोत्पत्तेरनुभवसिद्धत्वादिति भावः ।
तदेव क्वचिद्विविच्योच्यत क्वचित् समर्थ्यत इति । सन्ध्ये सृष्टिरित्याद्यधिकरणसप्तकेन जन्मादि-सूत्रोक्तं सृष्ट्याद्यष्टकर्तृत्वलक्षणं माहात्म्यं विविच्योच्यते । सन्ध्ये सृष्टिरित्यनेन स्वाप्नपदार्थानां सृष्टिसंहारकर्तृत्वस्य पराभिध्यानादित्यत्र ज्ञानाज्ञानबन्धमोक्षहेतुत्वस्य देहयोगादित्याद्यधिकरणपञ्चके जाग्रदाद्यवस्थानियमनकर्तृत्वस्य विवेचनम् । न स्थानतोऽपीत्यत्रानन्दमयाद्यधिकरणोक्तस्वरूपा-भेदसमर्थनम् । अत एव चोपमेत्यत्र प्रथमसूत्रोक्तजीवाभेदनिरसनविवेचनम् । अम्बुवदग्रहाणा-त्त्वित्यत्र प्रथमसूत्रस्थातः शब्देनोक्तस्य भक्तेर् मोक्षसाधनत्वस्य समर्थनम् । वृद्धिह्रासभाक्त्वमित्यत्र तस्यैव विवेचनम् । प्रकृतैतावत्त्वमित्यत्र द्वितीयसूत्रोक्तस्य स्थितिकर्तृत्वस्य समर्थनम् । तदव्यक्तमाह हीत्यत्रादृश्यत्वाद्यधिकरणोक्ताव्यक्तत्वसमर्थनम् । उभयव्यपदेशात्त्वित्यत्र समस्ताध्यायोक्तब्रह्मगुणा-नामलौकिकत्वस्य ब्रह्मानन्दादिगुणबिम्बत्वस्य च क्रमेणोपपादनेनोक्तविवेचनम् । तथान्यत्प्रतिषेधा-दित्यत्रादृश्यत्वाद्यधिकरणोक्ताव्यक्तत्वस्य प्रकारान्तरेण समर्थनम् । अनेनेत्यत्र जन्मादिसूत्रोक्ता-शेषजगज्जन्मादिकर्तृत्वसमर्थनम् । फलमत इत्यत्र जिज्ञासासूत्रस्थातःशब्दोक्तस्य फलदातृत्वस्य समर्थनमिति क्वचिदुक्तस्य विवेचनमित्यर्थः ।
स्वप्नविषयतत्प्रतीत्योरिति ॥ अनेन ‘योनेः शरीरम्’ इत्येतदवसानैः सूत्रैर् जीवस्य जन्मावगतम् । जातस्य च स्वप्नाद्यवस्थाप्रेरकत्वलक्षणो महिमा भगवतोऽत्राधिकरणे निर्णीयत इत्यनन्तरसङ्गतिरिति भावः । अर्थज्ञानात्मको हि स्वप्नः । तत्र न तावत् स्वाप्नानामर्थानां भगवदधीनत्वं युक्तमित्याशयेन पूर्वपक्षयति ॥ नेति ॥ उभयथापि नित्यत्वेऽनित्यत्वे चेत्यर्थः । अस्तु तर्हि इत्यत आह ॥ न चेति ॥ ननु यदा स्वाप्नपदार्थप्रतीतिर् भवति तदैवोत्पत्तिविनाश-योरङ्गीकारान् नाश्यत्वमित्याशङ्क्य निषेधति ॥ न च वक्तव्यमिति ॥ तात्कालिकविद्युदादि-वदित्यर्थः । किञ्च कार्यस्य कर्त्रुपादाननिमित्तव्याप्तत्वात् तदभावात् कथं कार्यं स्यादित्यत आह ॥ कर्त्रिति ॥ मेरुमन्दरादीति ॥ तेषां दूरदेशस्थत्वादिति भावः ॥ कुरुष्विति ॥ तच्च प्रमाण-विरुद्धमिति भावः । एवं स्वाप्नानामर्थानामसत्त्वान्न भगवदधीनत्वमित्युपपाद्यापि तज्ज्ञानस्य तस्यापि निमित्ताभावेनापरमार्थत्वादित्याशयेनाह ॥ न च प्रतीतिकारणं वास्तीति ॥ तत्र न तावच्चक्षुरादीनां निमित्तत्वम् । तेषामुपरतत्वादित्याह ॥ इन्द्रियवृत्तीनामिति ॥ नापि मनसो रूपादिमत्यर्थेऽस्वातन्त्र्यादित्याह ॥ मनस इति ॥ उपलक्षणमेतत् । रूपादिमत्यर्थेऽस्वातन्त्र्यान् न साक्षिणोऽपि प्रवृत्तिः । इन्द्रियावृत्तेर् न श्रुतिलिङ्गयोरवकाश इति द्रष्टव्यम् । किञ्च एते विषया द्रष्ट्रुभिन्ना अभिन्ना वा । नाद्य इत्याह ॥ यदि चैत इति ॥ बाह्यार्थत्वादिति ॥ न चान्तर-त्वाद्बाह्यार्थत्वमसिद्धमिति वाच्यम् । संवृते देहदेशे रथादीनामवकाशानुपपत्त्यान्तरत्व-स्यानुचितत्वादिति भावः । द्वितीये आह ॥ अथेति ॥ स्वाप्नविषयाणां द्रष्ट्रभिन्नत्वेऽपि सत्यत्वमेव किन्न स्यादित्यत आह ॥ परमार्थत इति ॥ एकस्य विचित्रानेकात्मकताया भ्रान्तिं विनानुपपत्तेरिति भावः । विद्युदादिवत्तात्कालिकोत्पत्तिविनाशत्वे दोषान्तरं चाह ॥ तत्काल इति ॥ स्वाप्नपदार्थानां सन्ध्य एव सृष्टत्वेन पूर्वकालीनादृष्टेरबाधकत्वेऽपि पश्चाददृष्टिर् बाधिका भवति । अतः सौत्रं सृष्टिपदं निरोधस्याप्युपलक्षकमित्यभिप्रेत्याह ॥ अनन्तरमेवेति ॥
वाक्यार्थविवरणम्
अभावादिति ॥ महिम्न एव निरूपणेन माहात्म्यज्ञानपूर्वकसुदृढसर्वतोऽधिकस्नेहरूप-भक्तिस्वरूपनिरूपणस्याभावादित्यर्थः ॥ तज्ज्ञानम् ॥ माहात्म्यज्ञानम् । माहात्म्यानुक्तौ तज्ज्ञानासम्भवेऽपि स्नेहः सम्भवत्येव । स्नेहं प्रति माहात्म्यवचनस्य व्यतिरेकतोऽन्वयतश्च व्यभिचारेणाकारणत्वात् । तथा हि पुत्रादौ माहात्म्यवचनाभावेऽपि स्नेहदर्शनेन महिमोक्त्यभावे स्नेहाभाव इति व्यतिरेकव्याप्त्ययोगात् । क्वचिद् दुर्योधनं प्रति कृष्णमाहात्म्योक्तावपि तस्य तत्र स्नेहादर्शनेन माहात्म्योक्तौ स्नेह इत्यन्वयव्याप्तेरयोगादित्याशङ्क्य व्यतिरेकतो व्यभिचारः स्नेहस्यानेककारणकत्वमेव कल्पयिष्यति, न तु महिम्नोऽकारणत्वम् । यथा कारीरीयागाभावेऽपि क्वचिद्वृष्टिदर्शनेन व्यतिरेकतो व्यभिचारो वृष्टेरनेककारणकत्वकल्पक एव । न कारीरीयागस्या-कारणत्वकल्पकः । अन्वयव्यभिचारोऽपि श्रुतकृष्णमाहात्म्यं दुर्योधनं प्रति महिमोक्तावपि स्नेहानुत्पत्तेर्मत्सरादिप्रतिबद्धत्वाक्षेपक एव । नाकारणत्वकल्पकः । न हि प्रतिबद्धं कारणं कार्यमजनयदकारणं भवत्विति प्रसङ्गादित्याशयेन परिहरति । स्यादेतदित्यादिना अस्तीत्यन्तेन । कारणान्तरेण केनचित् ॥ अन्यस्य महिम्नः ॥ अकारणं भवतीति ॥ किन्तु वृष्टेरनेककारणकत्वं कल्पयिष्यतीति शेषः ॥ विप्रतिपत्तिः । वादिविवादः ॥ पूर्वेति ॥ स्वप्नात्पूर्वं जाग्र-दवस्थायामित्यर्थः ॥ सर्वदेति यावत् ॥ दर्शनप्रसङ्ग इति ॥ नित्यत्वपक्षे दर्शनप्रसङ्गः स्पष्ट एव । अनित्यत्वपक्षे तन्नाशानन्तरं कपालावयवानां दर्शनप्रसङ्ग इत्यर्थः । प्रातीतिकत्वात् प्रातिभासि-कत्वात् । प्रबोधे पाञ्चालेष्वेवेति शेषः ॥ शरीरेति ॥ कुरुदेशस्थेति शेषः । पश्चात् प्रबोधानन्तरं परावृत्य गमनेनेत्यर्थः ॥ बहिरिति ॥ मनसो बाह्येन्द्रियाधिष्ठानेनैव बाह्यपदार्थज्ञानजनकत्वं दृष्टं न तदनधिष्ठानेन । इन्द्रियाणां तदोपरतत्वादिति भावः । कथमित्यत आह ॥ परमार्थत इति ॥ अस्य द्रष्टुः । न स्वप्नोऽपीति वाक्यस्य फलितमाह ॥ तदधीन इति ॥ तं प्रकारं दर्शयति ॥ यदुक्तमित्यादिना । सन्धौ मध्ये ॥ तदिति ॥ ईश्वरस्य कर्तृत्वे इत्यर्थः ।
वाक्यार्थमञ्जरी
अवसरप्राप्तेति ॥ उक्तरीत्योभयनिरूपणमध्यकाल एव निरूपणीयत्वेन प्रसक्तेत्यर्थः ॥ अभावादिति ॥ लक्षणप्रमाणादिना तत्स्वरूपनिरूपणाभावादित्यर्थः । भगवन्महिमोक्तौ कथं भक्त्युत्पत्तिरित्यत आह ॥ माहात्म्येति ॥ स्नेहो वेति ॥ माहात्म्यज्ञानपूर्वकार्थत्वात्स्नेहस्येति भावः । तर्हि कथं भक्तिरित्युच्यत इत्युक्तमित्यत आह ॥ एवं ज्ञानसाधनेति ॥ साधनीभूतज्ञान-विषयवचनस्यापीत्यर्थः ॥ क्वचित् शत्रौ ॥ तथा चान्वयव्यतिरेकव्यभिचारान्न माहात्म्यज्ञानस्य स्नेहाख्यभक्तिहेतुत्वमिति भावः । कारणान्तरेण स्ववीर्यजातत्वादिना । तथा च प्रमितानेककारणके व्यतिरेकव्यभिचारो न दोष इति भावः । एतदेवाह ॥ न हीति ॥ मत्सरादिनिरुद्धेति ॥ तथा च सति प्रतिबन्धेऽन्वयव्यभिचारो न दोष इति भावः । इदमेवाह ॥ न हीति ॥ क्वचिद्विविच्योच्यत इति ॥ सन्ध्ये सृष्टिराह हीत्यादौ जन्मादिसूत्रोक्तसृष्ट्याद्यष्टकर्तृत्वादिमाहात्म्यसमर्थनादिति भावः ॥ क्वचित् समर्थ्यत इति ॥ न स्थानतोऽपीत्यादिनानन्दमयादिसूत्रोक्तस्वरूपाभेदादिमाहात्म्य-समर्थनादिति भावः ॥ स्वाप्नविषयेति ॥ स्वाप्नावस्थास्थितगजादीत्यर्थः । स्वप्नेति पाठेऽप्यय-मेवार्थः । एवमग्रेऽपि । विप्रतिपत्तिर् वादिनाम् । कुत इत्यतः सत्वे बाधकसद्भावादित्याशयेनाह ॥ सत्वे च वक्तव्यमित्यादिना ॥ पूर्वोत्तरकालमिति ॥ स्वप्नादर्शनादिति शेषः ॥ प्रातीतिकत्वादिति ॥ प्रतीतिमात्रशरीरकत्वादित्यर्थः ॥ प्रतीतिकाल एवेति ॥ तात्कालिक-विद्युदादिवदिति भावः । निरोधो नाशः ॥ अयोगादिति ॥ व्यवहितत्वादिति भावः । पश्यतः सतः ॥ पश्चादिति ॥ प्रबोधानन्तरं परावृत्य गमनेनेत्यर्थः ॥ इन्द्रियेति ॥ बाह्येन्द्रियव्यापारा-भावादित्यर्थः । सत्यत्वे बाधकान्तरमाह ॥ यदि चेति ॥ ततः द्रष्टुःसकाशात् । कुत इत्यत आह ॥ परमार्थतोऽस्येति ॥ द्रष्टुरित्यर्थः ॥ मरुमरीचिकाजलेति ॥ मरुदेशस्थसूर्यकिरणारोपितजल इत्यर्थः । मृगतृष्णेति नामान्तरम् ॥ ॐ सन्ध्ये सृष्टिराह हि ॐ ॥ सन्ध्ये स्वप्ने पदार्थानां सृष्टिर्भवति । कुतः ? हि यस्मात् ‘अथ रथान्’ इति श्रुतिस्तथाहेत्यर्थः । अदृष्टेर् अदृष्टत्वान्निमित्तात् ॥ सृष्टिरिति ॥ भगवदभिजाता तात्कालिकीति शेषः ।
ॐ निर्मातारं चैके पुत्रादयश्च ॐ
सूत्रभाष्यम्
ॐ निर्मातारं चैके पुत्रादयश्च ॐ ॥ २ ॥
‘य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण’ (कठ.उ.५-८) इति च ‘एतस्मा-द्ध्येव पुत्रो जायत एतस्माद्भ्रातैतस्माद्भार्या यदेनं पुरुषमेष स्वप्नेनाभिहन्ति’ इति गौपवनश्रुतिश्च ।
तत्त्वप्रदीपिका
सा च सृष्टिः परमात्मन एवेति दार्ढ्यार्थमाह ॥ ॐ निर्मातारं चैके पुत्रादयश्च ॐ ॥ ‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिंल्लोकाः श्रितास्सर्वे तदुनात्येति कश्चन’ इति निर्मातारं च परमात्मानं कठाः पठन्ति ।
तत्त्वप्रकाशिका
कर्तुरभावान्न सृष्टिरुपपन्ना । न हि जीवस्तत्कर्ता । तस्य सुप्तत्वात् । नापीश्वरः । तत्प्रमाणा-भावात् । न च पक्षद्वये सृष्टिरुपपन्ना । तत्काल एव सृष्टिनाशकर्तुरदर्शनादित्याशङ्कां परिहरत्सूत्र-मुपन्यस्य तत्सूचितश्रुती उदाहरति ॥ निर्मातारमिति ॥ न स्वप्नसृष्टौ कर्तुरभावः । जीवानां सुप्तत्वेऽपि परमात्मनः कर्तृत्वात् । न च तत्र प्रमाणाभावः । यतो ‘य एषु सुप्तेषु’ इतीश्वरं निर्मातारमाहुरेके शाखिनः । अत एव तस्यान्याशक्यकरणशक्तिमत्त्वेन तात्कालिकी सृष्टिरुपपन्नेति भावः । एके तु मन्यन्ते जीवपरैवेयं श्रुतिर् ईश्वरलिङ्गाभावात् । जीवस्य कुलालवत्कर्तृत्वायोगात् कल्पकत्वमेव । अस्तु वेश्वरपरता । तथापि नात्र तस्य स्वप्नकर्तृत्वं श्रूयते निर्मातृत्वमात्रस्यैव श्रवणादिति । तन्न युक्तम् । ‘सुप्तेषु जागर्ति’ इति ईश्वरलिङ्गश्रवणात् । ‘तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यत’ इति वाक्यशेषाच्च । न च ब्रह्मैक्यं तस्योच्यते । तस्य दूषितत्वात् । ‘तस्मिंल्लोकाः श्रिताः सर्वे’ इत्युक्तविशिष्टेनैक्यानङ्गीकाराच्च । लक्षणा चागतिका गतिः । न चेश्वरस्य स्वप्नकर्तृत्वं न प्रतीयते । ‘भुञ्जानो नोत्सृजेद्वाचम्’ इत्यादाविव प्रकरणप्राप्तत्वात् । एतस्मादिति स्पष्टम् । पुत्रादयश्च स्वाप्ना हरेरेव जायन्त इत्येके शाखिन आहुरिति सूत्रार्थः ।
गुर्वर्थदीपिका
न चेश्वरस्येत्यत्र क्वचित् ‘कामं कामं निर्मिमाणः पुरुषः सुप्तेषु जागर्ति’ इति श्रुतेरर्थोऽस्तु । अतो नेयं श्रुतिः सुप्तिकालीनसृष्टिपरेति शङ्कितुरभिप्रायः । एतस्मादित्यत्र ‘एतस्मात्पुत्रो जायत’ इति श्रुतौ पुत्रादयश्च पुत्रो जायते भ्राता जायते भार्या जायत इत्युक्ताः पुत्रभ्रातृभार्याश्च स्पष्टमेत-स्मादिति पञ्चम्योक्ताद्धरेरेव जायन्त इति एके शाखिन आहुरित्यर्थः । अतो न केवलं प्रकरण-बलान्निर्माता हरिः । किन्तु स्पष्टश्रुतिबलाच्चेति भावः । ‘पुत्रादयश्च’ इति सूत्रखण्डस्य योजना तु श्रुतिस्थमेतस्मादिति पदं जायत इति पदं च बहुवचनान्ततया सम्बध्य एतस्मात्पुत्रादयश्च जायन्त इति एके शाखिन आहुरिति घटनीया । भाष्यस्थगौपवनश्रुतिश्चेति वाक्यं च यत एवं गौपवनश्रुतिश्च अत एतस्मात्पुत्रादयश्च जायन्त इति एके शाखिन आहुरिति सौत्रपदयोगेन घटनीयम् ।
भावबोधः
अत एवेति । ‘एषु सुप्तेषु जागर्ति’ इति जीवसुषुप्तिकाले जागरणलिङ्गेन ‘तदेव शुक्रं तद् ब्रह्म’ इति वाक्यशेषेण चावगतादीश्वरत्वादेवेत्यर्थः । अनेनाशक्यकर्तृशक्तित्वादीश्वरस्येति न्याय-विवरणांशो व्याख्यातः ॥ प्रकरणप्राप्तत्वादिति ॥ ‘भुञ्जान’ इति भोजनप्रकरणाद्वागुत्सर्जना-भावस्य भोजनसमानकालीनत्ववदिहापि ‘सुप्तेषु’ इति सुप्तिप्रकरणान्निर्माणस्य स्वप्नसमान-कालीनत्वलाभेन स्वाप्नपदार्थनिर्मातृत्वस्यैव लाभादित्यर्थः ।
भावदीपः
शङ्कते ॥ कर्तुरिति ॥ सूत्रे जीवस्य कर्तृतानुक्तौ बीजं शङ्कायामेवाह ॥ न हीति ॥ सुप्तत्वादिति ॥ निर्व्यापारत्वादित्यर्थः । सूत्रे एक इत्यादिप्रमाणोक्तिव्यावर्त्यमाह ॥ नापीति ॥ यद्यपि न तत्रेति श्रुतिशेषे स हि कर्तेत्यप्यस्ति प्रमाणं तथापि तस्य स्वाप्नार्थकर्तृत्वस्याऽस्फुटत्वाद्वा तदाच्छादनेन वैवमुक्तिः । निर्मातृपदसूचितन्यायविवरणोक्ताशक्त्येत्यादियुक्तिव्यावर्त्यमाह ॥ न चेति ॥ जीवकर्तृत्वेश्वरकर्तृत्वरूपपक्षद्वयेऽपीत्यर्थः ॥ अदर्शनादिति ॥ लोके तादृशविचित्र-पुरुषस्यानुपलम्भादित्यर्थः । इति चेत्यन्तभाष्यस्य निर्मातारं चैक इति सूत्रांशेनान्वयमुपेत्य परिष्कारपूर्वकं शङ्कानिवर्तकत्वेन सूत्रं व्याचष्टे ॥ न स्वप्नेति ॥ एक इति ॥ कठशाखिनः ‘य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः’ । ‘तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिंल्लोकाः श्रितास्सर्वे तदु नात्येति कश्चन’ इत्याहुरित्यर्थः । न चेत्यादिनोक्तं निराह ॥ अत एवेति ॥ ईशकर्तृत्वस्य प्रामाणिकत्वादेवेत्यर्थः । तस्य ईश्वरस्य । आत्मनि चैवं विचित्राश्च हीत्युक्त-न्यायेनेति भावः । एतेनाशक्यकरणशक्तित्वादीश्वरस्येत्यन्यत्रोक्तेः सङ्गतिरुक्ता भवति । भाष्ये य एषु इति पूर्वांशोक्तेरुपयोगं व्यनक्ति ॥ एके त्वित्यादिना ॥ सुप्तेष्विन्द्रियेषु निर्व्यापारेष्वित्यर्थं मन्वाना इत्यर्थः । ‘यथामरणं प्राप्यात्मा भवति गोतम । योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्ये नु संयन्ति यथाकर्म यथाश्रुतम्’ इति पूर्ववाक्ये जीवस्य प्रकृतत्वादिति भावः ॥ ईश्वरलिङ्गेति ॥ सुप्तेष्वित्युक्त्यैव स्वप्नपरत्वं सिद्धम् । जीवस्यापि तदा सुप्तत्वादिति भावः । लिङ्गेत्युपलक्षणम् । ‘ततो ज्यायांश्च पूरुष’ इत्यादौ च्छन्दोनयोक्तदिशा विष्ण्वेकनिष्ठपुरुष-श्रुतेश्चेत्यपि बोध्यम् ।
यः प्रलयादिषु जीवेषु जागर्ति स विष्णुः परंब्रह्मेत्यर्थ इति काठकभाष्यदिशा निरवकाश-वाक्यशेषं चाह ॥ तदेवेति ॥ शुक्रं शोकरहितम् । यथामरणमिति पूर्ववाक्ये जीवस्य प्रकृतत्वेऽपि ततः पूर्वतन एव वाक्ये हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म वक्ष्यामि यथा मरणं प्राप्य जीवो भवति तच्च वक्ष्यामि जीवेश्वरभेदज्ञापनाय यः कर्मफलभोक्ता सुप्त्यादिमान् स जीवः यः प्रलयादिषु जीवेषु सुप्तेषु जागर्ति स विष्णुः परंब्रह्मेत्यर्थः । न हि जीवस्य योन्यादिगमनं ब्रह्म जीवाद्भेदेन ज्ञातं हि ब्रह्म यथावज्ज्ञातं भवतीति । तत्रैक्योक्तौ न्यायविरोधादिदर्शनेन भेदज्ञापनायेत्युक्तं भेदपरत्वं विशदयति ॥ न चेत्यादिना ॥ पूर्ववाक्यप्रकृतं जीवं तदेवेत्यनूद्य तद्ब्रह्मेति ब्रह्मतादात्म्यमत्रोच्यते । तथा च जीवस्यैव कल्पकत्वं प्राप्तमिति न स्वाप्नार्थानां सत्यत्वमिति भावः ॥ दूषितत्वादिति ॥ पृथगुपदेशादित्यत्रेत्यर्थः ॥ लक्षणा चेति ॥ चिन्मात्रलक्षणा चेत्यर्थः । अस्तु वेत्यादिना शङ्कितं निराह ॥ न चेति ॥ प्रकरणेति ॥ यथा भुञ्जान इत्युक्त्या भोजनकालीनत्वं मौनस्य लभ्यते तथा सुप्तेषु निर्मिमाणो जागर्तीत्युक्त्या निर्माणजागरणयोः सुप्तिकालीनत्वं लभ्यते । अर्थात्प्रकरणा-ल्लिङ्गादौचित्यादर्थनिर्णय इति न्यायादिति । नन्वेवं सुप्तेष्वित्यस्य स्वप्नदशायां सुप्तेष्वित्यर्थवत् प्रलये सुप्तेष्वित्यप्यर्थात्स्वाप्नसृष्टेरिव विश्वसृष्टेरपि लयकालीनत्वं स्यादिति चेत् स्यादेव । यथोक्तं श्रुतिगीतातात्पर्ये । ‘लयस्य त्वष्टमो भागः सृष्टिकाल’ इति । काठकभाष्ये यः प्रलयादिषु जीवेषु सुप्तेषु जागर्ति निर्ममाणश्च स विष्णुरित्यनुक्त्वा जागर्तीत्येवोक्तिस्तु सुप्तिमत्त्वजाग्रत्त्वोक्तिमात्रेण भेदज्ञापनस्य लाभादित्येवाशया न तु सुप्तेषु जागर्ति अन्यदा तु निर्ममाण इत्याशयेति भावः । एतस्मादिति श्रुत्युक्तेरुपयोगं वदन् पुत्रादयश्चेति सूत्रांशारूढतया भाष्यं व्याचष्टे ॥ एतस्मादिति ॥ स्पष्टमित्युपयोगोक्तिः ।
वाक्यार्थमुक्तावली
तत्प्रमाणाभावादिति ॥ ‘न तत्र रथा’ इति श्रुतेरीश्वरविषयकत्वे निर्णायकप्रमाणाभावेन तस्य तत्र प्रमाणत्वाभावादिति भावः । सौत्रसृष्ट्यनुपपत्त्या जीवो वेश्वरो वा कर्ता भविष्यतीत्यत आह ॥ न च पक्षद्वय इति ॥ अदर्शनादिति ॥ दृष्टिविरोधात् प्रमाणाभावाच्चेत्यर्थः । एके शाखिनः काठकशाखिन इत्यर्थः । प्रमाणेनैव तात्कालिकसृष्टेरदृष्टिविरोधोऽप्यपास्तः । तत्र वाक्यशेषे । ‘तदेव शुक्रं तदेव ब्रह्म’ इति निखिलशक्त्युपबृंहितत्वस्योक्तत्वाद् इति भावेनाशक्यकर्तृता शक्तिरित्युक्तन्यायारोहं दर्शयति ॥ अत एवेति ॥ सूत्रखण्डमवतार्य व्याख्यातुं शङ्कामुत्थापयति । एके त्विति । ननु जीवपरत्वेऽपि कर्त्रभावान्न सृष्टिरिति चोद्यानवकाश इत्यत आह ॥ जीवस्येति ॥ चक्रतुर्यादिबाह्यसामग्रीविकलत्वादिति भावः । ननु ‘य एषु सुप्तेषु’ इत्यत्र जीवस्य कल्पकत्वमुक्त्वा कथं तस्य सुप्तेषु जागरणं ब्रह्मलिङ्गमित्यतस् तदेव शुक्रमिति ब्रह्मैक्यमुच्यते । अतो न लिङ्गविरोधो नापि वाक्यशेषविरोध इत्यत आह ॥ न च ब्रह्मैक्यमिति ॥ विशिष्टेनेति ॥ लोकाधारत्वादिविशिष्टेन जीवेन ब्रह्मण ऐक्यायोगादित्यर्थः । लक्षणा च भागत्यागलक्षणा चेत्यर्थः ॥ प्रकरणप्राप्तत्वादिति ॥ भुञ्जान इति भोजनप्रकरणाद्वागुत्सर्जनाभावस्य भोजनसमान-कालीनत्ववदिहापि सुप्तेष्विति सुप्तिप्रकरणान्निर्माणस्य स्वप्नकालीनत्वलाभेन स्वाप्नपदार्थनिर्मातृ-त्वस्यैव लाभादित्यर्थः । न केवलं परमेश्वरं सन्ध्यर्थं निर्मातारमेके शाखिन आहुः किन्तूपपत्ति-निरपेक्षं स्पष्टमेवैके शाखिनः स्वप्नार्थं पुत्रादयश्च हरेरेव जायन्त इत्याहुरिति सूत्रखण्डार्थमाह । एतस्मादिति ॥
तत्त्वसुबोधिनी
न च पक्षद्वयेति ॥ जीवकर्तृत्वपक्षे ईश्वरकर्तृत्वपक्ष इत्यर्थः ॥ अत एवेति ॥ ‘य एषु सुप्तेषु जागर्ति’ इति जीवसुप्तिकाले जागरणलाभेन तदेव शुक्रं तद्ब्रह्मेति वाक्यशेषाच्च तत्र ब्रह्मशब्दादि-श्रवणादित्यत आह ॥ तदेवेति ॥ ननु लक्षणया ब्रह्मैक्यं तदर्थः किन्न स्यादित्यत आह ॥ लक्षणेति ॥ मुख्यार्थासम्भवे हि तदाश्रयणं, न च तदस्तीति भावः ॥ प्रकरणप्राप्तत्वादिति ॥ भुञ्जान इति भोजनप्रकरणाद् वागुत्सर्जनाभावस्य भोजनसमानकालीनत्ववदिहापि सुप्तेष्विति सुप्तिप्रकरणत्वा-त्तन्निर्माणस्य स्वप्नकालीनत्वलाभेन स्वाप्नपदार्थनिर्मातृत्वस्यैव लाभादित्यर्थः ।
वाक्यार्थविवरणम्
पक्षद्वये ॥ जीवकर्तृत्वपक्षे ईश्वरकर्तृत्वपक्षे चेत्यर्थः ॥ कर्तुर् जीवस्येश्वरस्य वेत्यर्थः ॥ अदर्शनात् ॥ प्रत्यक्षेणेति शेषः ॥ परिहरदिति ॥ जीवः कर्तैव न किन्त्वीश्वर एव । तस्य च कर्तृत्वमागमेनोपलभ्यत इत्याशयेनेत्यर्थः ॥ कल्पकत्वमेवेति ॥ तथा च तत्कल्पितत्वेन स्वप्नस्यापि मिथ्यात्वसिद्धिरिति भावः ॥ न चेति ॥ य एष्विति श्रुतिर्जीवपरैव । न चेश्वरलिङ्गविरोधः । तयोरैक्येनेश्वरलिङ्गस्य जीवेऽप्युपपत्तेरिति भावः ॥ विशिष्टेन इश्वरेण ॥ जीवस्येति शेषः । ननु विशिष्टयोरैक्यायोगेऽपि भागत्यागलक्षणया चिन्मात्रैक्यमुपपद्यत एवेत्यत आह ॥ लक्षणा चेति ॥ अगतिका गतिः । गतिर्गमनिका व्याख्यानं गतिशून्या गमनिकेत्यर्थः । गत्यन्तराभावे ह्येषा । व्याख्यानं त्वस्मदुक्तरीत्या सति गत्यन्तर इति भावः । तथापीत्युक्तशङ्काया दूषणानन्तरं चाह ॥ न चेति ॥ न प्रतीयते न श्रूयत इति न हि । किन्तु श्रूयत एवेति भावः । कथं श्रूयत इत्यत आह ॥ भुञ्जान इति ॥ तथा चार्थिकश्रवणमश्रवणबाधकमेवेति भावः ।
वाक्यार्थमञ्जरी
अदर्शनाद् लोके ॥ ॐ निर्मातारं चैके पुत्रादयश्च ॐ ॥ य एष्वित्येके शाखिनः परमात्मानं स्वाप्नपदार्थानां निर्मातारं कर्तारमाहुः । एके शाखिनः स्वाप्नपुत्रादयश्च तस्मादेव जायन्त इत्याहुरित्यर्थः ॥ अत एवेति ॥ जीवसुप्तिकाले जागरणादिनावगतैश्वर्यादेवेत्यर्थः । एके मायिनः । तर्हि स एव कर्तास्त्वित्यत आह ॥ जीवस्येति ॥ अयोगादिति ॥ तदानीं तथाननुभवादिति भावः । कल्पकत्वम् आरोपकत्वम् । शुक्लं शुद्धम् । ननु य एष्वित्यादिना जीवमनूद्य तदेवेत्यादिना तस्य ब्रह्माभेद उच्यते । अतो यच्छब्दवाच्यो जीव एवेति तस्यैव कर्तृत्वमित्याशङ्क्य निराकरोति ॥ न चेति ॥ दूषितत्वात् पृथगुपदेशादित्यादौ । अन्तरङ्गानुपपत्तिं चाह ॥ तस्मिन्नितीति ॥ तदेवेत्यनेनोक्तब्रह्मणो लोकाधारकत्वेन विशिष्टब्रह्मत्वाद्विशिष्टेन च ब्रह्मणा विरुद्धधर्माधिकरणस्य जीवस्य त्वयैक्यानङ्गीकारादिति भावः । ननु विशिष्टांशत्यागेन चिन्मात्रलक्षणयैक्योक्तिरिय-मस्त्वित्यत आह ॥ लक्षणा चेति ॥ गत्यन्तराभावे हि लक्षणासङ्गतिः । अत्र तु भेदेन मुख्यार्थ-सम्भवान्न गत्यन्तराभाव इति भावः ॥ प्रकरणप्राप्तत्वादिति ॥ यथा भुंजान इति भोजनप्रकरणा-द्वागुत्सर्जनाभावस्य भोजनसमानकालीनत्वलाभस्तथेहापि सुप्तेष्विति सुप्तप्रकरणान्निर्माणस्य स्वाप्नसमानकालीनत्वलाभेन स्वाप्नपदार्थनिर्मातृत्वस्यैव प्राप्तत्वादित्यर्थः ।