२० योन्यधिकरणम्

ॐ योनेः शरीरम् ॐ

२०. योन्यधिकरणम्

सूत्रभाष्यम्

‘देहं गर्भस्थितं क्वापि प्रविशेत्स्वर्गतो गत’ इति वचनात्पश्चादेव प्रविशतीत्यत आह—

॥ ॐ योनेः शरीरम् ॐ ॥ २९ ॥

पितृशरीरान्मातृयोनिमनुप्रविश्य तत एव शरीरमाप्नोति ।

‘दिवः स्थास्नून्गच्छति स्थास्नुभ्यः पितरं पितुर्मातरं मातुः शरीरं शरीरेण जायत’ इति सम्मितम् ।

‘अथासम्मितं स्थास्नुभ्यो जायते पितुर्मातुरन्तरे वा गर्भे वा बहिर्वा’ इति पौष्यायणश्रुतेः ।

‘स्थावराणि दिवः प्राप्तः स्थावरेभ्यश्च पूरुषम् ।

पुरुषात्स्त्रियमापन्नस्ततो देहं यथाक्रमम् ॥

देहेन जायते जन्तुरिति सामान्यतो जनिः ।

विशेषजननं चापि प्रोच्यमानं निबोध मे ॥

स्थास्नुष्वथापि पुरुषे प्रमदायामथापि वा ।

गर्भे वा बहिरेवाथ क्वचित्स्थानान्तरेषु च’ इति ब्राह्मे ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये

तृतीयाध्यायस्य प्रथमः पादः ॥ ३, १ ॥

तत्त्वप्रदीपिका

‘देहं गर्भस्थितं क्वापि प्रविशेत्स्वर्गतो गत’ इति वचनाद्रेतोरक्तसंयोगात्पश्चादेव प्रविशतीत्यत आह– ॐ योनेः शरीरम् ॐ ॥ पितृक्रमेण मातृयोनेः प्रवेशानन्तरमेव शरीरं लभते पूर्वोक्तन्यायेन । सम्मितं साधारणं जननम् । अथासम्मितं, असाधारणं विशिष्टमुत्तमानामेव लभ्यम् । स्थास्राभ्यो जायते यथा शुकोऽरण्याम् । पितुर्मान्धाता । मातुरेवाङ्गः । अतश्चैतदाह ‘स्वर्गादवाग्गतो देही मातुरेवोदरं व्रजेत्’ इति । अन्तरे द्रुपदादयः । गर्भे प्रवेशो विरलः । अतः सूत्रावतारकवचन एत-त्सूचनार्थत्वेन च युक्ते क्वापीत्युक्तम् । अतश्चातिविशिष्टविषयं बहिःप्रवेशवचनमवगम्यते । सञ्जाते शरीरे प्रवेष्टुर्गर्भवासादिप्रसूत्यादिदुःखग्रामलेशस्पर्शाद्विनैव यथाकामं देहग्रहणसम्भवात्तस्य च जन्मभाजामतिदुर्लभत्वात् । अतो नारायणपरायणस्य कस्यचित्तत्प्रसादसामग्रीसमुद्भूतप्रभूतप्रभावस्यैव तत्सुलभमुपलभामहे । स्वयं चावोचदनुव्याख्याने–

‘बीजपूरुषयोनीनां सङ्गातिनियमोज्झतिम् अथशब्देन भगवानाह कारणतश्च ताम्’ इति ॥ कारणं च भगवदनुग्रहातिशय एव विवक्ष्यते ॥

॥ इति तत्वप्रदीपिकायां तृतीयाध्यायस्य प्रथमः पादः ॥

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनवैराग्याय जीवस्य पितृद्वारा योनिं प्रविश्य शरीरप्राप्तेः समर्थनादस्ति शास्त्रादिसङ्गतिः । यदि सिद्धदेहप्रवेशाद्येव भवेन्न तर्ह्यतिविरज्येतातस्तत्प्रतिषेद्धव्यम् । जीव एव विषयः । किं पितृद्वारा मातृयोनिमनुप्रविश्याथ शरीरं प्राप्नोति उत नेति सन्देहः । पक्षद्वयेऽप्यनु-पपत्त्यदर्शनं सन्देहबीजम् । पूर्वपक्षयति ॥ देहमिति ॥ पितृशरीरान्मातृयोनिमनुप्रविश्य शरीर-प्राप्तिरिति नियमो नास्ति । योनिप्रवेशस्तावन्न विद्यते । देहं गर्भस्थितमिति वचनात् । न ह्यत्र योनिप्रवेश उच्यते । न च विशेषप्रमाणमस्ति येन कल्पयामः । व्यर्थश्च योनिप्रवेशः । पितुः सकाशादेव तस्मिन् बहिरेवोत्पत्तिसम्भवात् । मातृप्राप्तेरपेक्षितत्वे वा पितुः सकाशात्संस्पर्शद्वारेण मातृप्राप्त्युपपत्तेः । पितृप्रवेशोऽयुक्त उक्तवचनादेव । न चेशक्लृप्तिवचनविरोधः । वैपरीत्यस्यापि वक्तुं शक्यत्वात् । न च पितृप्राप्तिमन्तरेण मातृप्रवेशानुपपत्तिः । अन्यथोऽन्नादेरेव मातृप्रवेशोपपत्तेः । मातृस्थरेतसैव शरीरपरिणामोपपत्तेः पितुरेवानुपयोगः । शरीरप्राप्तिरप्यनुपपन्ना । पूर्वसिद्ध-तत्प्रवेशस्योक्तत्वात् । स च मातुरुदरस्थगर्भस्थिते वा बहिर्निर्गते वोपपद्यते । क्वापीत्युक्तत्वात् । अतोऽत्यायासाभावान्नातिवैराग्येण कृत्यमिति भावः ।

सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अस्त्येव जीवस्य पितृशरीरप्रवेशः । ततो योनिद्वारैव मातृशरीरप्रवेशः । तत्रैव प्रागसिद्धशरीरप्राप्तिरित्यर्थः । नैतद्युक्तम् । अप्रामाणिकत्वा-दित्यत आह ॥ दिव इति ॥ संमितं विशेषकारणमन्तरेण साधारणं जन्म । असाधारणजन्मविषयं प्रागुक्तमिति भावः । स्थास्नुषु शुकादयः । पुरुषे मांधातृमुखाः । प्रमदायामास्तिकप्रभृतयो जरत्कार्वा-द्यनुग्रहात् । गर्भे पूर्वसिद्धमेव शरीरं केचित् । बहिर्द्रुपदादयः पितृसापेक्षाः । स्थानांतरे धृष्टद्युम्नादयः पित्रादिनिरपेक्षाः । एतदेवांतर इति श्रुत्युक्तम् । मातापित्रोर्मध्ये अन्योन्यदर्शनमात्रेण वा । अतः सामान्यजन्मनि पित्रादिप्रवेशस्य नियमेनापवर्गादितरत्र सर्वत्रापि महादुःखाविनाभावात्तत्र विरक्तेन भगवान् भजनीय इति सिद्धम् ।

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां श्रीमज्जयतीर्थमुनिविरचितायां तत्त्वप्रकाशिकायां तृतीयाध्यायस्य प्रथमः पादः ॥

गुर्वर्थदीपिका

न तर्ह्यतिविरज्येतेत्यस्य गर्भवासादिजनितदुःखाननुभवादिति भावः । तस्मिन्बहिरेव वेत्यस्य मान्धातृवत्तस्मिन् पितर्येव द्रोणादिवद्बहिरेव वेत्यर्थः । द्रोणादिदेहस्य पुंरेतोमात्रेणोत्पत्तिवत्केवलं मातृरेतसोऽपि देहोऽस्त्विति शङ्कते ॥ मातृस्थरेतसेति ॥ गर्भे पूर्वसिद्धमेव शरीरं केचिदित्यत्र यथा मध्वावतारे मुख्यवायुरित्युदाहरणमूह्यम् । वायोर्योग्यतया द्वात्रिंशल्लक्षणभरितत्वेन मातुरुदर एव गर्भजदुःखानुभवजनयितृजीवान्तरप्रवेशात्परिणतं प्रसवकाले तन्निष्कास्य वायुः स्वयं प्रविवेशेति भावः । स्थास्नुभ्य इति पञ्चम्येव । पितुर्मातुरिति पञ्चम्यपि । केवलं पितुरुदरजातस्य मातुरुदर-जातस्यापि सङ्गतत्वादन्तरेवायातीति श्रुत्युक्तमन्तरपदं मातापितरौ विहाय केवलाग्न्यादि-स्थानान्तरेजातधृष्टद्युम्नादि सङ्ग्राहकमेवेति भावेनोक्तम् एतदेवेति ।

॥ इति श्रीमद्वादिराजपूज्यचरणविरचितायां गुर्वर्थदीपिकायां

तत्त्वप्रकाशिकाटिप्पण्यां तृतीयाध्यायस्य प्रथमः पादः ॥

भावबोधः

पितृद्वारा योनिं प्रविश्येति ॥ तथा च ‘ततो रेतः सिञ्चमेवानुविश्याथ मातरमथ प्रसूय’ इति श्रुत्यनुसारेण पूर्वाधिकरणविषयवाक्यानन्तरं प्राप्तं ‘तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्त’ इति यद्वाक्यं तत्रोक्तो मातृप्रवेशो विचार्यत इत्यनन्तरसङ्गतिरिति भावः ॥ किं पितृद्वारेति ॥ अत्र जीवः किं पितृद्वारा मातृयोनिमनुप्रविश्याथ शरीरं प्राप्नोत्युत नेति चिन्ता । तदर्थं ‘देहं गर्भस्थितं क्वापि’ इति वचनं सकलजीवसामान्यजन्मविषयकं वोत ज्ञानतपःकारणकजीवविशेषजन्मपरं वेति । तदर्थं पितृप्रवेशादिनियमप्रमाणप्रयोजने न स्त उत स्त इति । योनिप्रवेशस्तावदिति पितृप्रवेशोऽ-प्युक्त इति वक्ष्यमाणापेक्षया तावच्छब्दः । पितुः सकाशादन्यतो वौदर्यगर्भस्थशरीरमेव प्रवेष्टुमुपपत्तेर् योनिप्रवेशाभाव इति न्यायविवरणं मनसि निधायाह ॥ व्यर्थश्चेत्यादि ॥ पितुः सकाशादेवेत्यनेन पितुः सकाशाच्छरीरमेव प्रवेष्टुमुपपत्तेरित्यन्वयमभिप्रेत्य तावानंशो व्याख्यातः । तस्मिन्निति पितरि मान्धात्रादिवदित्यर्थः ॥ बहिरिति ॥ द्रुपदादिवदित्यर्थः । पितुः सकाशादौदर्यगर्भस्थशरीरमेव प्रवेष्टुमुपपत्तेरिति न्यायविवरणं प्रकारान्तरेण व्याचष्टे ॥ मातृप्राप्तेरिति ॥ योनिप्रवेशनिरासार्थं संस्पर्शद्वारेणेति शेषोक्तिः ॥ वैपरीत्यस्यापीति ॥ अस्यापि प्रामाणिकत्वेनेशक्लृप्तिमूलकत्वा-दित्यर्थः । अन्यत औदर्यगर्भस्थशरीरमेव प्रवेष्टुमुपपत्तेरिति न्यायविवरणं प्रकारान्तरेण व्याचष्टे ॥ अन्यत इति ॥

नन्वन्नादिद्वारा मातृप्रवेशोपपत्तावपि शरीरपरिणामार्थं रेतसोऽपेक्षितत्वेन पितृप्रवेश आवश्यक इति पूर्वाधिकरणेऽभिहितमित्यत अन्यत इति न्यायविवरणं प्रकारान्तरेण व्याचष्टे ॥ मातृस्थरेत-सैवेति ॥ औदर्यगर्भस्थशरीरमेव प्रवेष्टुमुपपत्तेरिति न्यायविवरणांशं व्याचष्टे ॥ स चेति ॥ योनिप्रवेशस्तावन्न विद्यते । पितृप्रवेशोऽप्ययुक्तः । शरीरप्राप्तिरत्यनुपपन्नेति वाक्यत्रयेण योनि-प्रवेशाभाव इति न्यायविवरणांश उपलक्षणपर इति योजितो भवति ॥ अस्त्येव जीवस्य पितृप्रवेश इति ॥ अनेन सूत्रे योनिशब्द उपलक्षक इत्यभिप्रेत्य पितृशरीरान्मातृयोनिमनुप्रविश्य तत एवं शरीरं प्राप्नोतीति भाष्यं प्रवृत्तमित्युक्तं भवति । तदुक्तं सुधायाम्– ‘यद्यप्यत्र योनिशब्दो जीवाद्युपलक्षणपरः शक्यो व्याख्यातुम्’ इति ।

ननु तर्हि ‘देहं गर्भस्थितं क्वापि’ इति प्रागुदाहृतवचनस्य का गतिरित्यत आह ॥ असाधारणजन्मविषयमिति ॥ तथा च–

‘बीजपूरुषयोनीनां सङ्गतिं नियमोज्झिताम् ।

अथशब्देन भगवानाह कारणतश्च ताम् ॥’

इत्यनुव्याख्यानोक्तरीत्या ‘रेतः सिग्योगोऽथ’ इति पूर्वसूत्रादनुवर्तमानेन ‘योनेः शरीरम्’ इत्यनेनाऽन्वितेनाथशब्देन यत्तपोज्ञानादिविशेषकारणकजीवजन्मलक्षणं पक्षान्तरं तद्रूपासाधारण-जन्मविषयं प्रागुदाहृतं वाक्यमित्यर्थः । अत एव भाष्ये‘ऽथासंमिताम्’ इति ‘विशेषजननं च’ इति श्रुतिस्मृतिविशेषस्य न्यायविवरणे विशेषकारणादेवेत्यस्य चोदाहरणमिति भावः । ननु ‘उत्पत्त्यसम्भवात्’ इत्यधिकरणे ‘केवलाभ्यो न हि स्त्रीभ्यः’ इत्युक्तत्वात् कथं प्रमदायामित्युक्त-मित्यत आह ॥ जरत्कार्वादीति ॥ एतदेवेति ॥ अनेन ‘पुरुषे प्रमदायां स्थानान्तरेषु च’ इति स्मृत्यनुसारेण पितुर्जायते मातुर्जायते अन्तरे स्थानान्तरे जायत इति श्रुतिवाक्यं प्रत्येकं व्याख्यातं भवति । मातापित्रोर्मध्य इति पितुर्मातुरन्तर इत्येकवाक्यतया व्याख्यातं भवति ॥ सामान्य-जन्मनीति ॥ अनेन सामान्यतो गत्यन्तराभावादिति न्यायविवरणमुक्ततात्पर्यकं भवति ।

अत्राद्यपादे आद्याधिकरणषट्कं भूतवियोगाभावप्रतिपादकत्वेनैका पेटिका । तत्राद्ये– सामान्यतो भूतवियोगाभावे प्रश्नव्याख्यानरूपप्रमाणोक्तिः । द्वितीये– सर्वभूतगमने आर्थिककल्पना । तृतीये– तन्मूलभूतप्रमाणगतिलक्षणानुमानरूपविशेषप्रमाणोक्तिः । चतुर्थे– तस्य स्वरूपासिद्ध्या-शङ्कापरिहारः । पञ्चमे आर्थिककल्पनायां कल्पकाभावमाशङ्क्य तत्परिहारः । षष्ठे तु– सर्वगमने प्रत्यक्षाश्रवणमाशङ्क्य विशेषश्रुत्युक्तिरिति । सप्तमाष्टमयोः– वैराग्यादिसाधनावश्यकताप्रतिपाद-कत्वेन तदधिकरणद्वयमेका पेटिका । तत्राद्ये– मोक्षस्य कर्मसाधनत्वान्न ज्ञानसाधनवैराग्यसाध्यत्व-मित्याक्षेपपरिहारः । द्वितीये तु भोगेनैव कर्मक्षयसम्भवेन तन्मूलसंसारोच्छेदः स्वयमेव सिध्यतीत्याक्षेपपरिहारः । नवमदशमैकादशसु पुनरावृत्तिलक्षणैकविषयप्रतिपादकत्वेन तदधिकरण-त्रयमेका पेटिका । तत्राद्ये– गमनमार्गस्य स्मरणविषयत्वेनागमनं गतिप्रकारेणैवेति प्राप्ते गतिप्रकारेणान्यथा चेति समर्थनम् । द्वितीये– पुनरावृत्तेश्च चरणफलत्वाशङ्कापरिहारपूर्वकं करणफलत्वसमर्थनम् । तृतीये अनिष्टादिकारिणामपि तत्समर्थनम् । यद्वा स्यादनिष्टादिकारिणां गतागतव्यतिरिक्तनरकादिदुःखप्रतिपादकत्वेनोत्तरपेटिकायामन्तर्भावः । द्वादशत्रयोदशयोः– नरकरूपैकविषयप्रतिपादकत्वेनाधिकरणद्वयमेका पेटिका । तत्राद्ये– नरकाणां नित्यत्वविभागोक्तिः । द्वितीये– दुःखत्वसमर्थनम् । चतुर्दशे जीवानां गतिस्वातन्त्र्यनिरासः । पञ्चदशे– अन्धे तमसि दुःखमात्रसमर्थनम् । इतः परमापादसमाप्तेरधिकरणपञ्चकमागमनरूपैकविषयप्रतिपादकत्वेनैका पेटिका । तत्राद्ये– कर्मिणामागमने धूमादिदेवतैक्यतत्पदप्राप्तिनिरासार्थं धूमो भवतीत्यादिश्रुत्यर्थतया तद्गतौ गतिरित्यादितत्स्वाभाव्यापत्त्युक्तिः । द्वितीये कर्मिणः स्वर्गादवाग्गतस्याचिरेण गर्भवासादि-प्राप्तिसमर्थनम् । तृतीये– कर्मिणः स्वर्गादवाग्गतस्य ‘त इह व्रीहियवाः’ इत्यादिना प्राप्तव्रीह्यादि-भावनिरासार्थमन्याधिष्ठिते व्रीह्यादिशरीरे प्रवेशोक्तिः । चतुर्थे अस्य पितृप्रवेशसमर्थनम् । पञ्चमे– तस्य मातृयोनिप्रवेशानन्तरं तत्र प्रागसिद्धशरीरप्राप्तिसमर्थनमिति ।

॥ श्रीमद्रघुवर्यतीर्थपूज्यपादशिष्यरघूत्तमयतिकृते तत्वप्रकाशिका

भावबोधे तृतीयाध्यायस्य प्रथमः पादः ॥

भावदीपः

प्रविश्येति ॥ स्थितस्येति शेषः । तेन ल्यबन्तोपपत्तिः ॥ शरीरेति ॥ प्रागसिद्धेति योज्यम् ॥ समर्थनादिति ॥ पितृद्वारकत्वादस्य प्राक्समर्थनेऽपीह विशेषाशङ्कायां क्वाचित्कान्यथाभावस्य बलवत्कारणरूपापवादायत्तत्वकथनेन समर्थनमिति भावः । एतेन प्रागथपदेनाथ मातरमित्युक्त-मातृप्रवेशाक्षेपेण वा मातृप्रवेशमुपेत्य योनिप्रवेशाक्षेपेण वा ततो रेतस्सिचमित्यादिनोक्तस्य पितृक्रमेण मातृयोगरूपस्य कृत्स्नपूर्वसूत्रार्थस्याक्षेपेण वेह शङ्कोदयात्पूर्वसङ्गतिरिति सूचितम् । अस्फुटत्वा-त्फलफलिभावं व्यनक्ति ॥ यदीति ॥ अत इति ॥ तत्प्रतिषेधस्यातिविरागापादकत्वादित्यर्थः । पश्चादेवेति भाष्यस्थैवकारव्यवच्छेद्यं व्यनक्ति ॥ पितृशरीरादिति ॥ शरीरेति ॥ प्रागसिद्धशरीरेत्यर्थः । कथमित्यतः योनिप्रवेशाभाव इत्यन्यत्रोक्तरीत्या पश्चात्प्रविशतीति भाष्यं योनिप्रवेशाभावोक्तिपरतया व्याचष्टे ॥ योनीति ॥ तत्र भाष्यस्थं हेतुमाह ॥ देहमिति ॥ अत्र वचने । अत्र पितुः सकाशादेवान्यतो वौदर्यगर्भस्थशरीरमेव प्रवेष्टुमुपपत्तेर्योनिप्रवेशाभाव इति न्यायविवरणम् । तत्र योनिप्रवेशाभावरूपे साध्ये पूर्वन्यायविवरणाद्वैयर्थ्यहेतुमनुवर्त्य तदुपपादकतया पितुः सकाशाच्छरीरमेव प्रवेष्टुमुपपत्तेरित्यन्वयम् एवकारस्य सकाशादित्यन्यत्रान्वयं चोपेत्य सकाशादेवेत्यंशं द्वेधा व्याचष्टे ॥ व्यर्थश्चेति ॥ तस्मिन् पितरि । युवनाश्वादौ मांधात्रादेः । बहिरेव द्रुपदद्रोणादेरुत्पत्तिदर्शनादिति भावः । शरीरं प्रवेष्टुमुपपत्तेरित्यस्य तात्पर्यार्थ उत्पत्तिसम्भवादिति । पूर्वं गर्भस्थशरीरमिति विशेषणोक्त्यनुरोधेन पश्चादेव प्रविशतीति भाष्यस्य पितुः सकाशाच्छरीरमेव प्रवेष्टुमुपपत्तेरित्यन्वयेनैवकारस्य सकाशादित्यन्यत्रान्वयमुपेत्य शरीर-मित्यादेर् जीवभोग्यशरीरार्थत्वमुपेत्योत्पत्तिसम्भवादित्यर्थ उक्तः । अधुना शरीरशब्दस्य मातृ-शरीरार्थत्वम् एवकारस्य यथान्यासान्वयं चोपेत्यार्थमाह ॥ मातृप्राप्तेरिति ॥ संस्पर्शेति ॥ जरत्कारुनामिकायां योषिति जरत्कारोः पुंसः सकाशादास्तिकस्य योनिप्रवेशं विनैव मातृप्रवेशेन जन्मदर्शनादिति भावः । एतेन पश्चादेव प्रविशतीति भाष्यस्य रेतस्सेककालीनप्रवेशं विनाऽन्यकाल एव प्रविशति मातरमित्यर्थ उक्तो भवति । एवं देहं गर्भस्थितमिति वचनाद् अन्यथोत्पत्त्युपपत्त्या योनिप्रवेशवैयर्थ्याच्च पश्चादेव प्रविशति योनिप्रवेशं विनैव मातरं प्रविशतीति भाष्यव्याख्यया योनिप्रवेशाभावोपपादनेन नातिचिरेणेत्यत्रोक्तयोनिमापद्यन्त इति श्रुतिविरोधो भाष्योक्तवचनस्येति शङ्काऽपोढा । पूर्वतनपूर्वपक्ष इव सयुक्तिकत्वेन बलवद्वचनविरोधेन योनिप्राप्तिश्रुतेः प्रतीतार्थे प्रामाण्यायोगादिति तात्पर्यात् । एवं योनिमनुप्रविश्येत्येतन्नास्तीत्युक्तमुपपाद्येदानीं पश्चादेव पितृप्रवेशं विनैव मातरं प्रविशतीत्यर्थं भाष्यस्योपेत्य पितृशरीरान्नास्तीत्येतदंशं प्राक्प्रतिज्ञात-मुपपादयति ॥ पितृप्रवेशोऽपीति ॥ भाष्योक्तमेव हेतुमाह ॥ उक्तेति ॥

नन्वेवं पूर्वनयोक्तेशक्लृप्तिवचनार्थवत्त्वरूपयुक्तिभ्यां रेतस्सिचमिति श्रुत्या च विरोध इत्याशङ्क्येशक्लृप्तिवचनं तावन्निराह ॥ न चेति ॥ वैपरीत्यस्यापीति ॥ देहं गर्भस्थितमित्यस्यापि वचनत्वेनानेनेशक्लृप्त्यैव पितरमिति वचनस्य बाधोऽस्त्वित्यर्थः । वचनस्यान्यथानुपपत्तियुक्त्याऽर्थ-वत्त्वयुक्त्या च साहित्येन बलवत्त्वमाशङ्क्य अन्यतो वा शरीरमेव प्रवेष्टुमुपपत्तेरिति न्यायविवरणा-न्वयं शरीरशब्दस्य मातृशरीरार्थत्वमुपेत्यान्यत इत्यस्यापि पितृशरीरादन्यतः पितृशरीरस्थरेत-सोऽन्यत इत्यर्थद्वयमभिप्रेत्य शङ्कां निराह ॥ न चेति ॥ मातृस्थेति ॥ आस्तिकशरीरमेव दृष्टान्त इति भावः । एतेन देहमिति भाष्योक्तवचनस्य देहोत्पत्तेरन्यथोपपत्त्या पितृप्रवेशवैयर्थ्यरूपयुक्त्यु-पेतत्वेन प्राबल्यं सूचितम् । तेन रेतस्सिचमनुप्रविशतीति प्रागुक्तश्रुतिविरोधोऽप्यपोढः । वैपरीत्यस्यैव सम्भवादिति । अथेदानीमन्यतो वौदर्यगर्भस्थशरीरमेव प्रवेष्टुमुपपत्तेरित्यन्यत्र भाष्ये च गर्भस्थितमिति क्वापीति च शरीरविशेषणोक्त्यनुरोधेन संयुक्तरेतोरक्तपरिणामात्पश्चादेवेति वा प्रसवात्पश्चादेवेति वा प्रविशति शरीरमित्यर्थं भाष्यस्योपेत्य प्रागुक्तं शरीरप्राप्तिर्नास्तीतीममंशमुपपादयति ॥ शरीरेति ॥ प्रागसिद्धशरीरप्राप्तिरित्यर्थः ॥ उक्तत्वादिति ॥ संस्पर्शद्वारेणेत्यत्रोक्तप्रायत्वादित्यर्थः । यद्वा देहं गर्भस्थितमिति वचनेनोक्तत्वादित्यर्थः । तद् द्वेधा व्यनक्ति ॥ स चेति ॥ पूर्वसिद्धशरीरप्रवेश इत्यर्थः ॥ बहिरिति ॥ एतेनान्यतो वेत्यस्यान्यत्र बहिस्थितं वा शरीरमिति न्यायविवरण-स्थान्यशब्दार्थ उक्तो भवति । पूर्णप्रज्ञप्रभृतिरेव दृष्टान्तः । यथोक्तम् । ‘संपूर्णलक्षणचणं नवराजमानद्वारान्तरं परमसुन्दरमन्दिरं तत् । राजेव सत्पुरवरं भुवनाधिराजो निष्कासयन् परमसौ भगवान्विवेश’ इति ।

ननु भाष्योक्तवचने बहिर्निर्गतं वा प्रविशेदित्यनुक्तेर् इति वचनात्पश्चादेव प्रविशतीति कथं भाषणमित्यत आह ॥ क्वापीत्युक्तत्वादिति ॥ क्वापि बहिस्थितं देहमित्यन्वयादिति भावः । फलोक्त्या भाष्यार्थमुपसंहरति ॥ अत इति ॥ पितृशरीरान्मातृयोनिं प्रविश्य शरीरमाप्नोतीत्ये-तदभावस्य वचनयुक्तिसिद्धत्वादित्यर्थः ॥ भाष्ये शरीरप्राप्त्यंश एव विधिरन्यांशेऽनुवाद इति भ्रमनिरासायाक्षिप्तसर्वांशविधिपरत्वेन तद् व्याचष्टे ॥ अस्त्येवेति ॥ एतेन रेतस्सिग्योगोऽथेत्यनुवृत्तिं सूचयति । अथेत्यस्यार्थस्तत इति । भाष्योक्तश्रुतौ स्मृतौ च पुरुषान्मातृप्रवेशमात्रस्योक्तेस्तस्य च योनिप्रवेशं विनैव संस्पर्शद्वारेण प्रागुक्तदिशोपपत्तेर्योनिमनुप्रविश्येति भाषणस्याप्रामाणिकत्वशङ्का-व्युदासाय योनिद्वारेण देहं च प्राप्नोति प्रायशो नर इति वचनात्सामान्यतो गत्यन्तरा-भावादित्यन्यत्रोक्तप्रमाणसूचनाय योनिद्वारैवेत्युक्तम् । तेन योनेरिति सौत्रपञ्चम्यर्थो विवृतः । मातृशरीरं प्राप्नोतीति भ्रमनिरासायाह ॥ प्रागसिद्धेति ॥ स्वोपभोग्येत्यर्थः । भाष्ये जायत इत्यन्तोक्त्यैव पूर्तौ इति संमितमित्यादिश्रुतिशेषोक्तिः प्रागुक्तवचनस्य गत्युक्तिपरेति भावेनाह ॥ असाधारणेति ॥ भिन्नविषयत्वान्न विरोध इति भावः ॥ शुकेति ॥ अरणेर्जातत्वात् ॥ आस्तिकेति ॥ व्यक्तमेतत्सम्भवपर्वणि । स्त्रीमात्रादुत्पत्त्यसम्भवस्योक्तत्वादाह ॥ जरत्कार्विति ॥ जरत्कारुर्भर्ता । केचिद् आचार्यप्रभृतयः । प्रागव्याख्यातमन्तर इतिपदं सौकर्यादिह व्यनक्ति ॥ एतदेवेति ॥ अत इति ॥ प्रमाणभावात् । क्वचिदन्यथोक्तेरसाधारणजन्मविषयत्वादित्यर्थः । उत्तरपादोपक्षेपाय फलमाह ॥ भगवान्भजनीय इति ॥

॥ इति श्रीमद्भाष्यटीकाभावदीपे राघवेन्द्रयतिकृते तृतीयाध्यायस्य प्रथमः पादः ॥

अभिनवचन्द्रिका

जीवस्य पितृद्वारेति ॥ अत्र स्वर्गादागतजीवस्य पितृप्रवेशस्ततो योनिप्रवेशः, अथ मातृ-प्रावेशः, ततः कललत्वं, ततो बुब्दुदादिक्रमेण असिद्धदेहप्राप्तिरिति एतावन्ति प्रमेयानि साध्यानि इति ध्येयम् ॥ सिद्धदेहप्रवेशाद्येवेति ॥ आदिशब्देन अन्नद्वारेण मातृप्रवेशः, पितर्येव देहप्राप्तिः, बहिर्वा पितुः सकाशाद् देहप्राप्तिः । स्थानान्तरे पितृनिरपेक्षेण देहप्राप्तिरित्यादयो ग्राह्याः । ‘पश्चादेव प्रविशति’ इति भाष्यमुपलक्षणमिति भावेनाह– पितृशरीरादिति ॥ पितृशरीरान् मातृयोनिमनुप्रविश्य, शरीरप्राप्तिरिति विशिष्टं नाऽस्तीत्यर्थः । स्वर्गादागतेषु कस्यचिद् योनिप्रवेशो नास्ति । अन्यत्सर्वं विद्यते । अन्यस्य तु पितृशरीरप्रवेश एव नाऽस्ति । अपरस्य गर्भस्थसिद्ध शरीरप्राप्तिः । अन्यस्य तु बहिर्निसृतशरीरप्राप्तिः । न तु स्वर्गादागतमात्रस्य सर्वमिति भावः । योनिप्रवेशस्तावदिति ॥ स्वर्गादागतानां केषाञ्चिज्जीवानामिति शेषः ॥ न च विशेषप्रमाण-मिति ॥ सर्वेषां योनिप्रवेश इत्यत्र विशेषप्रमाणं नेत्यर्थः ॥ तस्मिन्निति ॥ पितरीत्यर्थः । मातृप्रवेशिनां योनिप्रवेशाभावमाह – मातृप्राप्तेरिति ॥ केषाञ्चिन् मातृप्राप्तेरपेक्षितत्वेऽपि संस्पर्श-द्वारेण मातृप्राप्त्युपपत्तेर् योनिप्रवेशो न विद्यत इति पूर्वेण सम्बन्धः ॥ पित्रृप्रवेशोऽपीति ॥ केषाञ्चिद् अपेक्षितोऽपि पितृप्रवेशोऽन्येषामयुक्त इत्यर्थः । तत्र हेतुमाह– उक्तवचनादेवेति ॥ ‘देहं गर्भस्थितं क्कापि’ इति वचनात् । पितृप्रवेशमन्तरा सिद्धदेहप्रवेशः कस्यचिद्वक्तव्यः । अन्यथा पितृप्रवेशमनुक्त्वा सिद्धदेहप्रवेशोक्तिरनुपपन्ना स्यादिति भावः ॥ न चेशक्लृप्तीति ॥ पितृप्रवेशा-नङ्गीकार ईशक्लृप्त्यैव पितरं प्रविशत्यथ मातरमिति वचनेन बाध इति न च वाच्यमित्यर्थः ॥ वैपरीत्यस्येति ॥ ‘देहं गर्भस्थितम्’ इति वचनस्य विशेषवचनत्वेन अनेन बाध इति भावः । केषाञ्चिदुत्पत्तौ पितुरेवाऽनुपयोगान् न तेषां पितृप्रवेशादीत्यत्र हेतुमाह ॥ मातृस्थेति ॥ केषाञ्चित् कललबुद्बुदादिक्रमेण शरीरप्राप्तिरप्यनुपपन्नेत्याह– शरीरप्राप्तिरपीति ॥ ननु मातुरुदरस्थसिद्धदेह-प्रवेश इत्युपपन्नं, ‘देहं गर्भस्थितम्’ इति प्रमाणसद्भावात् । बहिरेव निर्गते प्रवेश इत्यनुपपन्नं, प्रमाणाभावादित्यत उक्तम्– क्कापीत्युक्तत्वादिति ॥ तस्मिन्वचने क्कापीत्युक्तिबलाद् बहिस्थितदेह-प्रवेशो लभ्यत इति भावः । स्मृतिं व्याख्याय, सिंहावलोकनन्यायेन ‘पितुर्मातुरन्तेरेव’ इति श्रुति-व्याख्यानं सूचयति– एतदेवेति ॥ अनेन श्रुतेः स्थास्नुभ्यो जायते, पितुर्जायते, अन्तरे स्थानान्तरे जायत, इति व्याख्यानं सूचितमिति बोध्यम् । ‘पितुर्मातुरेव’ इति श्रुत्यंशं प्रकारान्तरेण व्याचष्टे– मातापित्रोर्मध्येति ॥

पूर्वपक्षस्तु स्वर्गादागतस्य पापिवत् पितरं प्रविश्य, योनिद्वारा मातरं प्रविश्य, कलल-बुद्बुदादिक्रमेण देहप्रप्तिर्नास्ति, किंतु कस्यचित् स्वर्गादागतस्य पितरं प्रविष्टस्य पुण्यवशेन योनि-प्रवेशमन्तरा संस्पर्शद्वारेण मातृप्रवेशेन देहलाभः । अपरस्य तु पितृप्रवेशं विनैवाऽन्नादिद्वारा मातृप्रवेशेन देहलाभः । ततोऽप्यतिशयितपुण्यवत्त्वात् । पक्षद्वयेऽपि आदौ कललप्राप्तिस् ततो बुद्बुदस्य ततो देहस्ये क्रमः । अपरस्य मातृप्रवेशमन्तरा पितृदेहमध्ये देहप्राप्तिः । अन्यस्य कललबुद्बुदादिक्रममपहाय मातृदेहस्थजरायुगतसिद्धदेहप्राप्तिः । अन्यस्य तु बहिर्निगतसिद्धदेह-प्राप्तिः । परं तु कस्यापि स्वर्गादागतस्य पापिवत्पितृशरीराद् योनिद्वारा मातृशरीरं प्राप्य, कललबुद्बुदादिक्रमेण देहप्राप्तिरिति नियमो नास्ति । ततश्चाऽत्यायासाभावान् नातिवैराग्येण कृत्यमिति ।

सिद्धान्तस्तु अस्त्येव स्वर्गादागतस्यापि पितृप्रवेशः । अथ योनिद्वारा मातृप्रवेशः । ततः कललबुद्बुदादिक्रमेण देहप्राप्तिश्च । ‘दिवस्थास्नून् गच्छति स्थास्नुभ्यः पितरं, पितुर्मातरं, मातुः शरीरं, शरीरेण जायत’ इति वचनात् । न च ‘देहं गर्भस्थितं क्वापि प्रविशेत् स्वर्गतो गत’ इत्यादिवचनविरोधः । केषाचित् तथाभावस्यापि सत्त्वेन तद्वचनानां तन्मात्रविषयत्वेन यावत्स्वर्गि-विषयत्वाभावात् । तदुक्तम् ‘स्थावराणि दिवः प्राप्तः स्थावरेभ्यश्च पूरुषम् । पुरुषात् स्त्रिय-मापन्नस्ततो देहं तथा क्रमम् । देहेन जायते जन्तुरिति सामान्यतो जनिः । विशेषजननं चापि प्रोच्यमानं निबोध मे । स्थास्नुष्वथापि पुरुषे प्रमदायामथापि वा । गर्भे वा बहिरेवाथ क्कचित् स्थानान्तरेषु च’ इति । अतः सामान्यजन्मनि पित्रादिप्रवेशस्य नियमेन, अपवर्गादितरत्र सर्वत्रापि महादुःखाऽविनाभावात् तत्र विरक्तेन भगवान् भजनीय इति सिद्धम् ।

॥ इति श्रीसत्यनिधितीर्थश्रीचरणाराधकश्रीमत्सत्यनाथयतिविरचितायां श्रीमत्तत्त्वप्रकाशिकाव्याख्याऽभिनवचन्द्रिकायां तृतीयाध्यायस्य प्रथमः पादः ॥

वाक्यार्थमुक्तावली

जीवस्य पितृद्वारेति ॥ तेन रेतस्सिग्पदसूचितप्रयोजनस्य शरीरपरिणामस्य मातृरेतसान्यथा-सिद्धिमाशङ्क्य पितृद्वारत्वस्यापि समर्थनादनन्तरसङ्गतिरपीत्युक्तं भवति । पितृद्वारत्वस्य मातृ-योनिप्राप्तेः शरीरप्राप्तेश्च समर्थनादित्यर्थः ॥ यदि सिद्धेति ॥ मातुरुदर इति शेषः । अत्र जीवः किं पितृद्वारा मातृयोनिमनुप्रविश्याथ शरीरं प्राप्नोतीति नियमो नास्त्युतास्तीति चिन्ता । तदर्थं देहं गर्भस्थितं क्वापीति वचनं सकलजीवविषयमुत पुरुषविशेषविषयमिति ॥ पितृशरीरादिति ॥ पितृशरीरप्रवेशो मातृयोनिप्रवेशः देहेन सह जायत इत्यन्यत्रोक्तदिशा शरीरप्राप्तिरिति त्रिविधोऽपि नियमो नास्तीति भावः । मातृयोनिप्राप्त्यभावश्च द्वेधा । मातृप्राप्तेरनपेक्षितत्वाद्वा तदपेक्षायामपि तद्योनिप्राप्त्यभावाद्वा । मातृप्राप्त्यनपेक्षा च द्वेधा । मातृगर्भस्थदेहमात्रप्राप्तावपि साक्षान्मातृ-प्राप्त्याभावाद्वा सर्वथा मातृनिरपेक्षत्वाद्वा । तत्र मातृदेहस्थगर्भस्थदेहप्राप्तिरेव न तु योनिद्वारा मातृप्राप्तिरिति पक्षप्रदर्शकतया भाष्यं व्याचष्टे ॥ योनिप्रवेशस्तावदिति ॥ पक्षान्तराणि क्रमेण दूषयिष्याम इति तावच्छब्दः । पश्चादेव प्रविशतीति भाष्यस्य शुक्लरक्तयोर्योनौ सम्पर्कात् पश्चादेव तत्परिणतं मातृदेहस्थं गर्भं विशति, न तु योनिद्वारा साक्षान् मातरं प्रविशतीत्यर्थ इति भावः ।

ननु गर्भस्थदेहप्रवेशस्य योनिद्वारा जीवस्य मातृप्राप्त्यैवेति क्लृप्तत्वादत्र योनिप्रवेश उच्यत एवेत्यत आह ॥ न च विशेषेति ॥ योनिद्वारैव गर्भप्रवेश इत्यत्रेति शेषः । योनिद्वारा मातृप्राप्तिं विना पश्चादेव गर्भस्थदेहप्रवेशेन जन्मेति भाष्योक्त्यान्यथागतिरिति न्यायोऽप्यन्यथा योनिप्रवेशं विनैव जन्मनो गतेर्योनिप्रवेशवैय्यर्थ्यमिति सूचित इत्याह ॥ व्यर्थश्चेति ॥ सर्वथा मातृनिरपेक्षया जन्मावगमाद् योनिप्रवेशो न युक्त इति द्वितीयपक्षप्रदर्शकतया तदेव भाष्यं व्याचष्टे ॥ व्यर्थश्चेति ॥ पितुस्सकाशादेव तस्मिन् पितरि मान्धातृवद् बहिर्द्रुपदादिवज्जन्मसम्भवान् मातुरेवानपेक्षितत्वाद् योनिप्रवेशो व्यर्थ इत्यर्थः ॥ उक्तवचनादेवेति ॥ वक्ष्यमाणसम्भवादित्यनन्तरमपि सम्बध्यते । एतेन स्वर्गत गतः क्वापि पितृगर्भस्थितं देहं क्वापि बहिःस्थितं प्रविशेदिति लभेदिति वचनात् पश्चादेव पृथगेव मात्रपेक्षां विनैव देहं लभत इति भाष्यार्थ उक्तो भवति । न्यायोऽपि प्रकारान्तरेणारूढो भवति ।

एवं मातृप्राप्तेरनपेक्षितत्वान्मातृयोनिप्रवेशोऽयुक्त इति पक्षं द्वेधोपपाद्य मातृप्राप्त्यपेक्षायामपि तद्योनिप्रवेशो नास्तीति द्वितीयपक्षप्रदर्शकतयापि तदेव भाष्यं व्याचष्टे ॥ मातृप्राप्तेरिति ॥ अत्राप्युक्तवचनादेवेति वक्ष्यमाणं मत्वेति । एतेन ‘स्वर्गतो गतःक्वापि केनापि संस्पर्शद्वारेणापि मातृप्राप्त्या तद्गर्भस्थं देहं लभत’ इति वचनात्पश्चादेव पृथगेव योनिद्वारमन्तरेण विशतीति भाष्यार्थ उक्तो भवति । पितृप्रवेशनियमानियमपूर्वपक्षान्तरप्रदर्शकतया तदेव भाष्यं व्याचष्टे ॥ पितृ-प्रवेशोऽप्ययुक्त उक्तवचनादेवेति ॥ एतेन ‘स्वर्गतः गतः क्वापि गर्भस्थितं मातृगर्भस्थितं देहं प्रविशेत्’ इति स्वर्गादवाग्गतस्य अन्तरा अन्यथा क्वापि गर्भस्थदेहप्रवेशस्य वचनात् पश्चात् पितरमन्तरैव देहं प्रविशतीत्यर्थ उक्तो भवति ॥ न चेशक्लृप्तीति ॥ ईशक्लृप्त्यैव पितरं प्रविश्यायाति मातरमिति पूर्वाधिकरणोदाहृतन्यायविवरणवचनविरोध इत्यर्थः ॥ वैपरीत्यस्येति ॥ अस्यापि देहं गर्भस्थितं क्वापीत्यादिविशेषवचनसिद्धत्वेनेश्वरक्लृप्तिमूलकत्वादित्यर्थः ॥ न च पितृप्राप्तिमिति ॥ रेतोद्वारा प्रवेशस्य वाच्यत्वादिति भावः ॥ अन्यतो अन्नादेवेति ॥ रेतसोऽन्यस्मादन्नादेवेत्यर्थः । शरीरपरिणामाय शुक्लमपेक्षितमित्यत आह ॥ मातृस्थेति ॥ एतेन ‘पश्चाद्रेतसः परिणतं देहं प्रविशति’ इति भाष्यार्थ उक्तो भवति । तृतीयं पूर्वपक्षमाह । शरीरप्राप्तिरिति ॥ शुक्लान्तर्गतस्य शोणितसम्पर्कानन्तरं कलिलं त्वेकरात्रं स्यादित्युक्तक्रमेण परिणम्यमानशुक्लशोणितसम्बन्धिन एव करचरणाद्यात्मकशरीरप्राप्तिरित्यर्थः ॥ क्वापीत्युक्तत्वादिति ॥ ततश्च गर्भस्थितं देहं क्वापि गर्भे वा बहिर्वा प्रविशतीति वचनात्पश्चाद् गर्भे शरीरसिद्धेः पश्चात् प्रविशति । शरीरस्य बहिर्निर्गमनात् पश्चात् प्रविशतीत्यर्थ उक्तो भवति । शरीरप्राप्तिं विनोक्तरीत्या जन्मनोऽन्यथोपपत्तिरिति न्यायोऽपि भाष्यारूढोऽपि भवति । अस्त्येव जीवस्य पितृशरीरप्रवेश इति । व्रीह्यादिद्वारेति भावः ॥ ततो योनीति ॥ पितृशरीराद्रेतोद्वारा योनिं प्रविश्य योनिद्वारेत्यर्थः । एतेन सूत्रे योनिपदं व्रीह्यादेः पितुस् तद्रेतसश्चोपलक्षणम् ॥ शरीरमिति ॥ मातृशरीरं तत्र प्रागसिद्धशरीरं चेत्यर्थः । तथा च भाष्येऽपि व्रीह्यादेः पितृशरीरमनुप्रविश्येत्यादावुपस्कर्तव्यम् । पितृशरीरान्मातृयोनिमित्यत्र रेतोद्वारेत्यनुसन्धेयम् । अत एव श्रुतौ दिवः स्थास्नून्गच्छति स्थास्नुभ्यः पितरमिति । स्पष्टं च सुधायां योनिशब्दो बीजाद्युपलक्षणपरो, बीजशब्देन व्रीह्यादिकं रेतश्चोच्यत इति । तथा च स्वर्गादवाग्गतो जीवो व्रीह्यादिद्वारा पितृशरीरं प्रविश्य पितृशरीराद्रेतोद्वारा योनिमनुप्रविश्य योनेर्मातृशरीरं प्रविशति । तत्र च कलिलबुद्बुदादिरूपेण जायमानशरीरमाप्नोतीति सूत्रार्थः ।

अप्रामाणिकत्वादिति ॥ प्रमाणशून्यत्वात् । देहं गर्भस्थितमिति पठित्वा प्रमाणविरुद्धत्वा-दित्यनेनोक्तनियमे प्रमाणविरोधव्यवस्थापकं प्रमाणं चाहेत्यर्थः ॥ विशेषकारणमिति ॥ ज्ञानतपोयोगाद्यतिशयलक्षणविशेषकारणमित्यर्थः । समित्यस्य ज्ञानतपोयोगाद्यतिशयलक्षणा-साधारणहेतुकं जन्मोच्यत इत्यर्थमभिप्रेत्यान्या गतिरित्युक्तन्यायमेतदारूढतया दर्शयति ॥ असाधारणेति ॥ एतेन देहं गर्भस्थितमित्यादिप्रागुक्तस्यान्या गतिर्गत्यन्तरं विषयान्तरमिति न्यायार्थ उक्तो भवति । ननु सूत्रे पित्रादिनियम एव प्रतीयते न तु क्वाचित्कस् तदभावोऽपि । तथा च श्रुतिस्मृत्युदाहरणपूर्वं भाष्ये क्रियमाणं व्यवस्थापनमुत्सूत्रमेवेति चेन्न । अस्य चोद्यस्यानुव्याख्याने एव परिहृतत्वात् । ‘बीजपूरुषयोनीनां सङ्गातिनियमोज्झितिम् । अथ शब्देन भगवानाह कारणतश्च ताम्’ इति । सुधायां चायमर्थो द्रष्टव्यः । रेतः सिग्योगोऽथ’ इति सूत्रादथशब्दस्तत्राप्यनुवर्तते । स च प्रकृतार्थादर्थान्तरे वर्तते । तथा च योनेः शरीरमापद्यते, क्वचित्तदभावोऽपीत्यथशब्देन भगवान् सूत्रकारः बीजादिसम्बन्धनियमाभावं सूचितवानित्यतो नोत्सूत्रितत्वपर्यनुयोगो युक्त इति ।

ननु उत्पत्त्यसम्भवादित्यधिकरणे केवलाभ्यो न हि स्त्रीभ्य इत्युक्तत्वात् कथं प्रमदाया-मित्युक्तमित्यत आह ॥ जरत्कार्वादीति ॥ गर्भपूर्वसिद्धशरीरमिति ॥ गर्भ एव वा बहिर्वा केचिद्विशन्तीति शेषः । स्पष्टमेतदन्यत्र । बहिरित्येतद् बहिर्द्रुपदादयः पित्रादीत्यनेनाप्यन्वेति ॥ एतदेवेति ॥ स्थानान्तर इति स्मृत्युक्तमेवान्तर इति श्रुत्याप्युच्यते । स्मृत्यनुसारेण श्रुत्यर्थस्य वाच्यत्वादिति भावः । तथा च श्रुतौ पितुर्जायते मातुर्जायते अन्तरे स्थानान्तरे वा जायते इति वाक्यत्रयमिति भावः । पितुर्मातुश्चान्तरे मध्ये इत्येकवाक्यतया च योजयति ॥ मातापित्रोरिति ॥ नन्वेवं पित्रादिनिरपेक्षया जन्मसद्भावेऽपि पित्रादिप्रवेशनियमोऽयुक्त इत्यतोऽन्यस्य योनिद्वारेण जन्मप्रतिपादकवाक्यस्यावाग्गतेर् गत्यन्तराभावात् सामान्यजन्मनि पित्रादिनियमपरमेव तद्वाक्यं न तु सर्वजन्मनियमपरमिति भावेनान्या गतिरित्युक्तन्यायं प्रकारान्तरेण विशदयन्नुपसंहरति ॥ अत इति ॥ अत्राद्यमधिकरणषट्कं भूतावियोगेन गमनसमर्थनाय प्रवृत्तम् । प्रथमे तु प्राप्यस्य स्वर्गस्य पुनरावृत्तित्वसमर्थनम् । ततः परमधिकरणचतुष्टयं पुनरावृत्तावित्थम्भावप्रतिपादकम् । ततः परमधिकरणचतुष्टयमधोगतिविषयम् । ततः परमधिकरणपञ्चकं स्वर्गादवाग्गतस्य मार्गक्रमेण योनिप्राप्तिनियमपरमिति पेटिका द्रष्टव्या ।

॥ इति श्रीमद्विठ्ठलाचार्यतनूजेन श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेन रचितायां तत्त्वप्रकाशिकावाक्यार्थमुक्तावल्यां तृतीयाध्यायस्य प्रथमः पादः ॥

तत्त्वसुबोधिनी

पितृद्वारा योनिं प्रविश्येति ॥ तथा च ‘ततो रेतःसिचमेवानुप्रविशत्यथ मातरमथ प्रसूयत’ इति श्रुत्यनुसारेण पूर्वाधिकरणविषयवाक्यानन्तरं प्राप्तं ‘तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्त’ इति यद्वाक्यं तत्रोक्तो मातृप्रवेशो विचार्यत इत्यनन्तरसङ्गतिरिति भावः ॥ योनिप्रवेशस्तावन्न विद्यत इति ॥ पितृप्रवेशोऽप्ययुक्त इति वक्ष्यमाणापेक्षया तावच्छब्दः । ननु प्रमाणान्तरबलादेवं कल्प्यत इत्यत आह ॥ न चेति ॥ न केवलं योनिप्रवेशोऽप्रामाणिकः किन्तु व्यर्थश्चेत्याह ॥ व्यर्थश्चेति ॥ विगतप्रयोजन इत्यर्थः ॥ बहिरिति ॥ द्रुपदादिवदित्यर्थः । ननु लोके सर्वत्र मातृप्राप्तेर्दृष्टत्वात् कथं योनिप्रवेशो व्यर्थ इत्यत आह ॥ मातृप्राप्तेरिति ॥ वैपरीत्य-स्यापीति ॥ अस्यापि प्रामाणिकत्वेन ईशक्लृप्तिमूलकत्वादित्यर्थः ।

नन्वन्नादिद्वारा मातृप्रवेशस्योपपत्तावपि शरीरपरिणामार्थं रेतसोऽपेक्षितत्वेन पितृप्रवेश आवश्यक इति पूर्वाधिकरणेऽभिहितमित्यत आह ॥ मातृस्थरेतसैवेति ॥ कुत इत्यत आह ॥ क्वापीति ॥ अस्त्येवेति ॥ अनेन सूत्रे योनिशब्द उपलक्षक इत्यभिप्रेत्य पितृशरीरान्मातृयोनि-मनुप्रविश्य तत एव शरीरं प्राप्नोतीति भाष्यं प्रवृत्तमित्युक्तं भवति । ननु तर्हि ‘देहं गर्भस्थितं क्वापी’ति प्रागुदाहृतवचनस्य का गतिरित्यत आह ॥ असाधारणजन्मेति ॥ तथा च रेतस्सिग्योगेति पूर्वसूत्रादनुवर्तमानेन योनेः शरीरमित्यन्वितेनाथशब्देन ज्ञानादिविशेषकारणकजीव-विशेषजन्मलक्षणं पक्षान्तरमुक्तं तद्रूपासाधारणजन्मविषयं प्रागुदाहृतं वाक्यमित्यर्थः । अत एव भाष्ये अथासम्मितमिति विशेषजननं चेति च श्रुतिस्मृतिशेषोदाहरणमिति भावः । ननु उत्पत्त्य-सम्भवाद् इत्यत्र केवलाभ्यो न हि स्त्रीभ्य इत्युक्तत्वात् कथं प्रमदायामित्युक्तमित्यत आह ॥ जरत्कार्वादीति ॥ एतदेवेति ॥ अनेन पुरुषे प्रमदायां स्थानान्तरेषु चेति स्मृत्यनुसारेण पितुर्जायते मातुर्जायते अन्तरा जायत इति श्रुतिवाक्यं प्रत्येकं व्याख्यातं भवति । मातापित्रोर्मध्य इति पितुर्मातुरन्तर इत्येकवाक्यतया व्याख्यातं भवति ॥ सामान्यजन्मनीति ॥ ज्ञानादिविशेषकारण-शून्य इत्यर्थः ।

॥ इति श्रीतत्त्वप्रकाशिकाविवृतौ पाण्डुरङ्गि श्रीनिवासाचार्यविरचित-

तत्त्वसुबोधिन्यां तृतीयेऽध्याये प्रथमःपादः ॥

वाक्यार्थविवरणम्

॥ अतीति ॥ पितृद्वारा योनिप्रवेशादिदुःखस्य न्यूनत्वादिति भावः । भाष्ये स्वर्गतोगत आगत इत्यर्थः ॥ पितृशरीरादिति ॥ पितृशरीरप्रवेशद्वारेत्यर्थः । पितृशरीरान्मातृयोनिं प्रविश्य शरीरप्राप्तिरिति नास्तीति प्रतिज्ञातं त्रयमप्युपपादयति ॥ योनिप्रवेश इत्यादिना ॥ ननु योनिप्रवेशद्वारा देहं गर्भस्थितमिति कल्प्यत इति चेत्तत्राह ॥ न चेति ॥ पितृशरीरा-न्मातृयोनिप्रवेशप्रतिपादकमिति शेषः ॥ तस्मिन् ॥ पितरि । मान्धातृवत् ॥ बहिः ॥ द्रुपदवत् ॥ मातृप्राप्तेरिति ॥ पितृद्वारेति शेषः ॥ ईशक्लृप्तिवचनेति ॥ ईशक्लृप्त्यैव पितरं प्रविशतीत्यादि-पूर्वाधिकरणोदाहृतेत्यर्थः ॥ वैपरीत्यस्येति ॥ आदौ मातरमेव प्रविशतीत्यपीशक्लृप्तिरस्त्विति श्रुत्युक्तवैपरीत्यस्यापीत्यर्थः ॥ अन्यतः ॥ पितृप्रवेशभिन्नप्रकारतः । तदेव प्रदर्शयति ॥ अन्नादेरिति ॥ मात्रुपभुक्तान्नादेः सकाशात् । तद्द्वारेण’ इति शेषः ।

ननु शरीरपरिणामार्थं रेतसोऽपेक्षितत्वात् तदर्थं पितुरुपयोग इति चेत्तत्राह ॥ मात्रिति ॥ पूर्वसिद्धेति ॥ पूर्वमेव मातृगर्भे सिद्धशरीरेत्यर्थः । ‘पश्चादेव प्रविशतीति भाष्यार्थानुवादः पूर्वसिद्ध्येति । तथा च पश्चाद्देहसिद्धेः पश्चाद्देहसिद्ध्यनन्तरमिति यावत् । प्रविशतीति भाष्य-स्यार्थो ज्ञातव्यः ॥ स चेति ॥ पूर्वसिद्धदेहप्रवेशः । स्थिते । शरीरे । देहं गर्भस्थित-मित्युक्तत्वादिति द्रष्टव्यम् । बहिर्मातुरुदरात् ॥ विशेषकारणम् ॥ तपःप्रभावादि । देहं गर्भस्थितमिति वाक्यस्य तर्हि निर्विषयत्वमापन्नमित्यत आह ॥ असाधारणेति ॥ तपोज्ञानादिरूप-विशेषकारणकजीवविशेषजन्मरूपासाधारणजन्मविषयं प्रागुदाहृतवाक्यमित्यर्थः । भाष्ये ॥ स्थास्नून् ॥ व्रीह्यादीन् । स्मृतौ ॥ स्थावराणि ॥ व्रीह्यादीनि ॥ विशेषजननम् ॥ तपोज्ञानदि-निमित्तकम् ॥ शुकादयः ॥ अरणीमथनेनोत्पन्नत्वात्स्थास्नुषु स्थावरेषूत्पत्तिः शुकादेरित्यर्थः ।

ननु केवलं स्त्रीभ्य उत्पत्त्यभावस्योत्पत्त्यसम्भवादिति निर्णीतत्वादनुपपन्नमेतदित्यत आह ॥ जरत्कार्वादीति ॥ अस्ति त्वदुदरे कश्चिदिति तेषां वाङ्मात्रेणत्यर्थः । तथा च अनुग्राहक-पुरुषसद्भावान्नोक्तविरोध इत्याशयः ॥ केचित् ॥ मध्वाचार्यप्रभृतयः । यथोक्तं ‘सम्पूर्णलक्षणचणं नवराजमानद्वारान्तरं परमसुन्दरमन्दिरं तद् राजेव सत्पुरवरं भुवनाधिराजो निष्कासयन् परमसौ भगवान् विवेश’ इति ॥ बहिर् गर्भात् ॥ पित्रिति द्रुपदादीनां पृषदादेरप्सरस्स्त्रीदर्शनेन प्रस्कन्नरेतसोत्पन्नत्वात् पितृसापेक्षत्वमिति भावः ॥ स्थानान्तरे ॥ यज्ञकुण्डे तत्समीपवर्ति-वेद्यादिरूपे च स्थानान्तरे धृष्टद्युम्नद्रौपद्यादेरुत्पन्नत्वेन पितृनिरपेक्षत्वं तेषामिति भावः ॥ एतदेवेति ॥ ब्राह्मपुराणपौष्यायणश्रुत्योरेकार्थत्वेन पुराणे स्थानान्तर इत्यनेनोक्तमेव प्रमेयं श्रुतावन्तर इत्यनेनो-च्यते । तथा चान्तर इत्यस्य स्थानान्तर इत्यर्थो द्रष्टव्य इति ध्येयम् । एवं ‘पितुर्जायते,’ ‘मातुर्जायते,’ ‘अन्तरे जायत’ इति भिन्नभिन्नवाक्यमङ्गीकृत्यान्तर इत्यस्य पुराणानुसारेण स्थानान्तर इत्यर्थ उक्तः । अधुना पितुर्मातुरन्तरे इत्येकवाक्यमङ्गीकृत्याप्यर्थान्तरमाह ॥ मातापित्रोर्मध्य इति ॥ पितुर्मातुरित्यस्यार्थो मातापित्रोरिति । अन्तर इत्यस्यार्थो मध्य इति । परस्परसम्बन्धशून्ययोर्मात्रापित्रोर् मध्ये कथमुत्पत्तिरित्यत आह ॥ अन्योन्येति ॥ मयूरप्रभृतय एतदुदाहरणमिति सम्प्रदायविदः ॥ सामान्यजन्मनि ॥ दिवः स्थास्नून् गच्छतीत्याद्युक्त-सामान्यजन्मनीत्यर्थः ॥ तत्र ॥ अपवर्गादितरत्र सर्वत्रेत्यर्थः । अत्रायं विवेकः । अतः सामान्यजन्मनि पित्रादिप्रवेशस्य नियमेन महादुःखाविनाभावादित्यन्वयः ॥ नियमेन ॥ नियतत्वेन तत्र वेशस्य महादुःखाविनाभूतत्वादित्यर्थः । अनेनैतदधिकरणार्थसङ्ग्रहः । अपवर्गादितरत्र सर्वत्रापि स्वर्गादौ महादुःखाविनाभावात् तत्र विरक्तेनेति पादार्थकथनम् । भगवान् भजनीय इत्युत्तरपादसङ्गतिकथनम् ।

॥ इति तत्त्वप्रकाशिकावाक्यार्थविवरणे श्रीनिवासवर्यकृते वैराग्यपादः समाप्तः ॥

वाक्यार्थमञ्जरी

योनिप्रवेशस्तावदिति ॥ पितृप्रवेशोऽप्ययुक्त इति वक्ष्यमाणापेक्षया तावच्छब्दः । तस्मिन्निति विपर्यय एवेत्यर्थः । मान्धातृमुखानांऽपितृदेहादेवोत्पत्तिदर्शनादिति भावः ॥ बहिरिति ॥ देहाद्बहि-रित्यर्थः । द्रुपदादीनां तथा दर्शनादित्यर्थः । ननूत्पत्त्यसम्भवादित्यत्र स्त्रीमात्रादुत्पत्तेर्निषिद्धत्वात्कथं प्रमदायामित्युक्तमित्यत आह ॥ जरत्कार्विति ॥ तत्स्पर्श एवानुग्रह इति भावः ॥ संस्पर्श इति ॥ जरत्कारुनायिकायां योषिति जरत्कारोः पुंसः सकाशादास्तिकस्य योनिप्रवेशं विनैव मातृशरीरप्रवेशेन जन्मादिदर्शनादिति भावः ॥ ईशक्लृप्तीति ॥ ईशक्लृप्त्यैव पितरं प्रविशत्यथ मातरमिति वचनविरोधादित्यर्थः ॥ वैपरीत्यस्येति ॥ अस्याप्यर्थस्य देहं गर्भस्थितमिति प्रमाणसिद्धत्वेनेशक्लृप्तिमूलत्वात्तस्यैवेतद्विरोधोऽपि वक्तुं शक्यत इत्यर्थः । अन्यत इत्यस्यैव विवरणमन्नादेरिति । मातृभुक्तान्नादिद्वारेत्यर्थः । शरीरपरिणामाय रेतसोऽपेक्षितत्वेन पितृप्रवेश आवश्यक इत्यत आह ॥ मातृस्थेति ॥ शरीरप्राप्तिरपीति ॥ रेतःकलिलबुद्बुदाद्यवस्था-विशिष्टदेहसम्बन्ध इत्यर्थः ॥ पूर्वसिद्धेरिति ॥ स्वप्रवेशात्पूर्वमेवोक्तक्रमेण परिणतेत्यर्थः । उक्तत्वाद्देहं गर्भस्थितं क्वापीत्यनेनैव । विकल्पे बीजमाह ॥ क्वापीति ॥ ॐ योनेःशरीरं ॐ ॥ कर्मी योनेःप्रवेशानन्तरं शरीरं लभत इत्यर्थः । ततः पितुस्तत्रैव मातृदेहे । विशेषकारणं तपोवरादि ॥ केचिदिति ॥ मध्वाचार्या इत्यर्थः । ‘संपूर्ण लक्षणचणं नवराजमानद्वारान्तरं परमसुन्दरमन्दिरं तत् । राजेव सत्पुरवरं भुवनाधिराजो निष्कासयन् परमसौ भगवान्विवेश’ इति मध्वविजयोक्तेः ॥ पितृसापेक्ष इति ॥ अप्सरादेर्दर्शनेनावस्कन्धितपृषतरेतोमर्दनजन्यत्वादिति भावः । स्थानान्तरे कुण्डादौ ॥ निरपेक्षा इति ॥ याजोपयाजप्रभावेन रेतोनिरपेक्षेण जन्यत्वादिति भावः । तदेव स्थानान्तर इत्येतदेव ॥ अन्योन्य इति ॥ मयूरप्रभृतीनामिदमित्याहुः ।

॥ इति श्रीमत्तत्त्वप्रकाशिकाव्याख्यायां वाक्यार्थमञ्जर्यां तृतीयाध्यायस्य प्रथमः पादः ॥

॥ इति योन्यधिकरणम् ॥ २० ॥