ॐ रेतःसिग्योगोऽथ ॐ
१९. रेतोऽधिकरणम्
सूत्रभाष्यम्
‘स्वर्गादवाग्गतश्चापि मातुरेवोदरं व्रजेत्’ इति वचनात् ‘य एव गृही भवति यो वा रेतः सिञ्चति तमेवानुविशति’ इति श्रुतिः कथमित्यत आह—
॥ ॐ रेतःसिग्योगोऽथ ॐ ॥ २८ ॥
‘ततो रेतस्सिचमेवानुप्रविशत्यथ मातरमथ प्रसूयते स कर्म कुरुत’ इति कौण्ठरव्यश्रुतेः पितरमेव प्रथमतो प्रविशति । मातृप्राप्तेः पश्चादपि भाव्यत्वात् ॥
तत्त्वप्रदीपिका
‘य एव गृही भवति यो वा रेतस्सिञ्चति तमेवानुविशति’ति श्रुतिस् तस्य स्थास्नुषु प्रविष्टस्य स्वकर्मणा निर्मीयमाणं शरीरं भोगायतनं प्राप्स्यतस्तावद्रेतःसिक्प्रवेशार्था ‘यो यो ह्यन्नमत्ति यो वा रेतः सिञ्चति तद्भूय एव भवति’ इत्यादिकया समानप्रकरणपठितया च सह कथं युज्यत इत्यत आह ॥ ॐ रेतस्सिग्योगोऽथ ॐ ॥ स व्रीह्यादिस्थो जीवोऽन्नेन सह प्रथमतो रेतस्सिंच पितरमेव प्रविशति, अथ मातरम् । मातृप्राप्तेः पश्चादपि भाव्यत्वेन ‘मातुरेवोदरं व्रजेत्’ इति वचनस्य सावकाशत्वात् ।
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनवैराग्याय स्वर्गादवतीर्णस्य पितृप्रवेशसमर्थनादस्ति शास्त्रादिसङ्गतिः । यदि न कर्मिणः पितृप्राप्तिस्तदा नातिविरक्तिः स्यादतः सा साधनीया । कर्मी व्रीह्यादिशरीरं प्रविश-तीत्युक्तम् । तस्यैव पितृप्रवेशः श्रुत्योच्यते ‘य एव गृही भवति’ इति । स कर्म्यत्र विषयः । किं पितरं प्रविशति न वेति सन्देहः । श्रुतिः प्रयोजनादर्शनं च सन्देहबीजम् । पूर्वपक्षयति ॥ स्वर्गादिति ॥ न जीवस्य पितृप्रवेशोऽस्ति । ‘स्वर्गादवाग्गतश्च’ सति वचनात् । न चास्य वचनस्य पितृप्रवेश-श्रुतिविरोधः । युक्तिसाहित्येन बलवत्त्वात् । न हि पितृशरीरगमने किञ्चित्प्रयोजनं पश्यामः । अतः श्रुतिरेव वचनविरुद्धा न प्रतीतार्थे प्रमाणम् । न च निरर्थता युक्ता । प्रामाण्यस्य सिद्धत्वात् । अतः प्रतीतार्थायोगादर्थान्तरस्यावश्यम्भावात्सा कथं किमर्थेति वक्तव्यम् । एवं च महायासाभावेन नातिवैराग्यं कर्मादावपेक्षितमिति भावः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अस्त्येव पितृप्रवेशः प्रथमं जीवस्य ‘ततो रेतःसिचमेव’ इति श्रुतेः । न च पितृप्रवेशस्य व्यर्थत्वात् श्रुतेदौर्बल्यम् । किमुत्पत्तौ पितुरेवानुप-योगात्तत्प्रवेशस्य वैयर्थ्यमुच्यते उत प्रवेशमात्रस्य । नाद्यः । शरीरपरिणामाय रेतसोऽपेक्षितत्वेन रेतःसेचकस्योपयोगित्वात् । न द्वितीयः । तत्प्रवेशस्येश्वरकल्पितत्वात् । ‘ईशक्लृप्त्यैव पितरं प्रविश्या-याति मातरम्’ इत्यादेरिति भावः । एवं चेन्मातुरेवोदरं व्रजेदिति वचनमप्रमाणं प्राप्तमित्यत आह ॥ मातृप्राप्तेरिति ॥ मातृप्राप्तेः प्रथममेवाभावेऽपि रेतः सिग्योगानन्तरमपि विद्यमानत्वान्न वचनस्याप्रामाण्यम् । एवकारस्त्वयोगव्यावर्तक इति भावः । अतः पितृप्राप्तेर्विद्यमानत्वाद्भवितव्यं कर्मादावतिवैराग्येणेति सिद्धम् ।
गुर्वर्थदीपिका
कथं किमर्थेति वक्तव्यमित्यत्र कथमित्यस्य किमर्थेत्यर्थकथनम् । को ऽर्थो यस्या इति किमर्था इति शब्दोपरि वक्तव्यमित्यध्याहृत्य इत्येतत्प्रमेयं वक्तव्यमत आहेति योजनीयमिति भावः । वस्तु-तस्तु सा श्रुतिः कथं घटत इत्यत आहेति यथास्थितैव योजना । ननु पितुरुत्पत्तौ प्रयोजकत्वे तत्प्रवेशस्याप्यावश्यकत्वात् प्रवेशमात्रस्येति कथं कोट्यन्तरोत्थापनमिति चेन्न । मातापित्रोरन्योन्य-रेतस्संयोगकाले तत्रैव प्रवेशेन देहोपचयसम्भवादिति शङ्कितुरभिप्रायोपपत्तेः । मातुरेवोदरं व्रजेदित्यत्रोक्तैवकारस्य व्रजेदेवेति क्रियायोगस्यापि सम्भवान्न बाधकतेत्याह ॥ एवकार इति ॥
भावबोधः
अस्त्येव पितृप्रवेश इति ॥ तथा च ‘तिला माषा इति जायन्त’ इति पूर्वाधिकरण-विचारितवाक्यानन्तरं प्राप्तेन ‘अतो वै खलु दुर्निष्प्रयतनं यो यो ह्यन्नमत्ति यो वा रेतः सिञ्चति तद्भूय एव भवति इति’ वाक्येन समानार्थकस्य ‘य एव भवति यो वा रेतः सिञ्चति तमेवानुविशति इति’ वाक्यस्यात्र विचारादनन्तरसङ्गतिरिति भावः ॥ किं पितरमिति ॥ अत्र कर्मी किं पितरं न प्रविशत्युत प्रविशतीति चिन्ता । तदर्थं तत्प्रतिपादिका ‘य एव गृही भवति’ इति श्रुतिः ‘मातुरेवोदरं व्रजेत्’ इति वचनबाधिता न वेति । तदर्थं मातुरेवोदरं व्रजेदिति वचनमवधारणार्थ-स्यान्ययोगव्यवच्छेदकत्वेन निरवकाशमुतायोगव्यवच्छेदकत्वेन सावकाशमिति । तदर्थं ‘य एव गृही भवति’ इति श्रुतिः किं दुर्बलोत नेति । तदर्थं ‘मातुरेवोदरं व्रजेत्’ इति वचनस्य प्राबल्यसम्पादकं पितृप्रवेशवैयर्थ्यमस्त्युत नेति । तथा च पितृप्रवेशवैयर्थ्ये मातुरेवेति श्रुतेस्तद्रूपयुक्त्युपेतत्वेन प्रबल-त्वात्, पितृप्रवेशप्रतिपादिकया ‘य एव भवति’ इति श्रुत्या पितृप्रवेशो न सिध्यतीति पूर्वपक्षे पितृप्रवेशस्यावश्यकत्वेन वैयर्थ्याभावे मातुरेवेति श्रुतेरुपोद्बलकयुक्त्यभावेन तत्प्रतिपादकश्रुतेर्दौर्बल्या-भावात्तदनुरोधेनावधारणस्यायोगव्यवच्छेदपरत्वकल्पने मातुरेवेति श्रुतेः सावकाशत्वेन तद्बाधका-भावात् ‘य एव गृही भवति’ इति श्रुत्या पितृप्रवेशः सिद्ध्यतीति सिद्धान्ते फलफलिभावः । वैयर्थ्यात् पितृशरीरगमनमिति न्यायविवरणं संयोजयितुमाह ॥ न चेति ॥ श्रुतिसूत्राभ्यां न्यायविवरणेन च निवर्तनीयौ पक्षौ विकल्पयति ॥ किमुत्पत्ताविति ॥ शरीरपरिणामायेति ॥ अत एव श्रुतिसूत्रयोः पितरमेवानुविश्येति पितृयोग इति वक्तव्ये ‘रेतः सिचमेव’ इति ‘रेतः सिग्योगः’ इत्युक्तमिति भावः ॥ तत्प्रवेशस्येति ॥ अनेन ‘ईशक्लृप्त्यैव पितरं प्रविश्यायाति मातरम्’ इतीशक्लृप्तत्ववचनादिति न्यायविवरणं व्याख्यातं भवति । ‘मातुरेवोदरं व्रजेत्’ इति श्रुतेः सावकाशत्वं वक्तुं सूत्रे अथेत्युक्तमित्यभिप्रेत्य प्रवृत्तं मातृप्राप्तेः पश्चादपि भाव्यत्वादिति भाष्यमवतार्य व्याचष्टे ॥ एवं चेदिति ॥ अत एव पश्चादिति भाष्यं रेतः सिग्योगादनन्तरमपीति व्याख्यानम् ॥ अयोगव्यावर्तक इति ॥ अनेन व्रजेदेवेत्यन्वयः सूचित इति भावः ।
भावदीपः
पितृप्रवेशति ॥ प्रयोजनोक्त्येति भावः । तथा च पूर्वोक्तन्यायेन ‘सोऽवाग्गत’ इति श्रुत्या ‘त इह’ इति श्रुतेरिव ‘यो यो ह्यन्नमत्ति यो वा रेतस्सिञ्चति तद्भूय एव भवति’ इति उत्तरश्रुतेरपि ‘य एव गृही भवति’ इति श्रुत्या पूर्वन्यायेन च पितृप्रवेशार्थकत्वे सिद्धे सतीह वैयर्थ्येन तत्प्रवेशा-भावमाशङ्क्य समर्थ्यत इति पूर्वसङ्गतिरिति भावः । फलफलिभावं व्यनक्ति ॥ यदीति ॥ पितृप्रवेशासिद्ध्या विशेषविचारानवसरमाशङ्क्याह ॥ कर्मीति ॥ श्रुत्येति ॥ यो यो ह्यन्न-मत्तीत्यादिसमानार्थकया य एव गृही भवतीति श्रुत्येत्यर्थः । एतावतैव पूर्तौ व्रीह्यादिशरीरं प्रविशतीत्युक्तमित्युक्तिः पूर्वन्यायसिद्धत्वद्योतनाय वा तत्राप्येतच्छंकानुसंधानाय वेति बोध्यम् । मातुरेवेत्येवकारेण सर्वप्रवेशव्यवच्छेदाद् वैयर्थ्येशक्लृप्तिरूपपूर्वोत्तरपक्षन्याययोः साम्याच्चेति । सिद्धान्तभाष्ये विशतीत्युक्तेस्तद्व्यावर्त्य प्रतिज्ञामाह ॥ नेति ॥ सौत्ररेतःसिक्पदव्यावर्त्यां वैयर्थ्यं पितृशरीरगमने इत्यन्यत्रोक्तयुक्तिं भाष्येण शङ्कानिवर्तकतया सङ्गमयति ॥ न चेत्यादिना ॥ किञ्चिदिति ॥ शरीरपरिणामस्य पितृप्रवेशं विनैव मातरं प्रविष्टस्य मात्रुदरे पित्रा सिक्तेन मातृस्थितेनैव वा रेतसोपपत्त्या पितुरेवानुपयोगाद्वेति भावः । यद्यपि वचने मातुरेवेत्येवकारेण अन्यप्रवेशस्य व्यवच्छेदाद्विद्यैव त्वित्यत्र पूर्वपक्षे कर्मणैव त्विति स्मृतेरिव प्राबल्यं सुवचम् । अन्यथा सूत्रेऽथपदेन तस्य सावकाशत्वोक्तिर्न स्यात् । तथापि तस्य स्फुटत्वाद्वा सावकाशत्वमुपेत्य वा रेतस्सिक्पदव्यावर्त्यस्यैवान्यत्रोक्तस्यास्फुटत्वात्तद्व्यक्तीकरणमेतदित्यदोषः । तेन व्रीह्यादि-प्रवेशोऽप्याक्षिप्तो ध्येयः । कथं पदार्थं विवृण्वन् फलोक्त्योपसंहरति ॥ अत इति ॥ सयुक्तिकत्वेन वचनस्य बलवत्त्वादित्यर्थः । सयुक्तिकवचनविरुद्धत्वेन श्रुत्यप्रामाण्यपूर्वपक्षे सति द्वितीये निवेशापत्तेः प्रतीतार्थ इत्युक्तिः ॥ सिद्धत्वादिति ॥ द्वितीये सर्वविरोधनिरासेन कृत्स्नवेदप्रामाण्य-स्योक्तत्वादित्यर्थः । यद्वा देवतानये अत एव च नित्यत्वमित्यत्र वेदस्यानादिनित्यत्वादेवानादि-नित्यवाच्यार्थवत्त्वरूपप्रामाण्यस्य साधितत्वादिति वा ‘न विलक्षणत्वात्’ इत्यत्रानादिनित्यत्वादिना वेदप्रामाण्यस्य सिद्धत्वादित्यर्थः ॥ अत इति ॥ सयुक्तिकवचनविरुद्धत्वाद्वाक्यप्रामाण्याच्चेत्यर्थः ॥ किमर्थेति ॥ लक्षणादिना मातृप्रवेशार्थैव वाच्येति भावः ॥ एवं चेति ॥ श्रुतेः पितृशरीर-प्रवेशाप्रापकत्वे सतीत्यर्थः । व्युत्क्रमेण भाष्यं व्याचष्टे ॥ अस्त्येवेति ॥ प्रागुक्तयुक्तिविरोधमाशङ्क्य श्रुतौ सूत्रे च रेतस्सिक्पदप्रयोगसूचितयुक्त्या विकल्पपूर्वं निरस्यति ॥ न चेत्यादिना ॥ उपयोगि-त्वादिति ॥ न च मातृस्थितेनैव रेतसा उपपत्तिः । वक्ष्यमाणेशक्लृप्तिवचनविरोधेन पितृसिक्तस्यैव जीवदेहपरिणामहेतुत्वकल्पनादिति भावः । द्वितीयकल्पनिवर्तकतया ईशक्लृप्त्यैव पितरं प्रविश्यायाति मातरमितीशक्लृप्तत्ववचनादित्यन्यत्रोक्तयुक्तिं सङ्गमयति ॥ न द्वितीय इत्यादिना ॥ एतेन व्रीह्यादिप्रवेशोऽपि समाहितः । ईश्वरकल्पितत्वादेवेति ॥ रेतस्सिक्पदसूचितयुक्त्या अन्यत्रोक्त-युक्त्या च युक्तिविरोधं निरस्य वचनविरोधनिरसनपरतया भाष्यशेषं व्याचष्टे ॥ एवं चेदिति ॥ भाष्ये पश्चादित्येतत्सौत्राथपदव्याख्यानमिति दर्शयन्नर्थमाह ॥ रेतस्सिग्योगादनन्तरमिति ॥ तेन सूत्रे रेतस्सिक्पदार्थ एव सन्निधानादथपदार्थानन्तर्यप्रतियोगीति सूचितम् ॥ अयोगेति ॥ विद्यैवेत्यत्र कर्मणैवेत्येवकारस्य तृतीयपादे वक्ष्यमाणदिशेति भावः । सूत्रार्थस्य वैराग्यफलकत्वं व्यञ्जयन्नुप-संहरति ॥ अत इति ॥ वचनस्य सावकाशत्वेन पितृप्रवेशश्रुत्यविरोधकत्वात्पितृप्रवेशस्यार्थ-वत्त्वेनेशक्लृप्तत्वेन च साधकभावाद्बाधकाभावाच्चेत्यर्थः ।
अभिनवचन्द्रिका
नाऽतिविरक्तिः स्यादिति ॥ इष्टोत्पत्तिनान्तरीयकदुःखस्याऽल्पत्वादिति भावः । श्रुतिः, प्रयोजनाऽदर्शनं च, सन्देहबीजमिति ॥ श्रुत्या तावत् पितृप्रवेश उच्यते । तत्प्रवेशस्य च प्रयोजनं नोपलभ्यते । ततश्च श्रुतिः प्रतीतार्थे प्रमाणं न वेति सन्देहः सन्देहबीजमिति भावः । एतेन श्रुतिप्रयोजनाऽदर्शनयोः श्रुतेः प्रबलत्वेन निर्णयसम्भवान् न सन्देह इति निरस्तम् । किमर्थेति वक्तव्यमिति ॥ किमो ऽर्थो यस्याः सा किमर्था । काकुस्वरेण पितृप्रवेशाक्षेपार्था श्रुतिरिति वक्तव्यमित्यर्थः । एतेन श्रुतेरर्थान्तरस्यैव वक्तव्यत्वेन तद्विहाय किमर्थेति प्रश्नकरणमयुक्तमिति परास्तम् ॥ किमुत्पत्ताविति ॥ किं पितुरेवानुपयोगात् तत्प्रवेश आक्षिप्यते, उत पितुरुप-योगमङ्गीकृत्य प्रयोजनाभावात् प्रवेशो नेत्याक्षिप्यत इति भावः ॥ तत्प्रवेशस्य ईशक्लप्तत्वादिति ॥ पितृप्रवेशो बीजानां दावदहनमिव जीवानां संस्कारतया ईश्वरेण क्लृप्तत्वात् । प्रयोजनाभावोऽसिद्ध इति भावः ॥ रेतः सिग्योगाऽनन्तरमपीति ॥ साधारणजीवानां रेतःसिग्योगानन्तरं नियमेन मातृशरीरप्रवेशसद्भावान्न वचनस्याऽप्रामाण्यमिति भावः । एवकारस्त्वयोगव्यावर्तक इति । पितृप्रवेशानन्तरं मातृप्रवेशिजीवपरतादशायामेवकारोऽयोगव्यावर्तकः । गर्भस्थितसिद्धदेहप्रेवेशि-जीवपरतादशायां तु अन्ययोगव्यवच्छेदार्थ इत्यपि द्रष्टव्यम् । ‘देहं गर्भस्थितं क्कापि प्रविशेत्स्वर्गतो गत’ इति वचनात् । उक्तं च सुधायाम् ‘क्वचिद् बीजादिसम्बन्धाभावस्यापि विद्यमानत्वेन तद्विषयत्वादिति ।
पूर्वपक्षस्तु न जीवस्य पितृप्रवेशोऽस्ति । ‘मातुरेवोदरं व्रजेत्’ इति वचनात् । न च ‘य एव गृही भवति’ इति पितृप्रवेशवचनविरोधः प्रयोजनाभावयुक्तियुक्ततया बलवदेतच्छ्रुतिविरुद्धत्वेन तच्छ्रुतेः काकुस्वरेण पितृप्रवेशनिषेधपरत्वात् । ततश्च अत्यायासाभावेन नाऽतिवैराग्यं कर्मा-दावपेक्षितमिति ।
सिद्धान्तस्तु अस्त्येव पितरि प्रवेशो जीवस्य । ‘ततो रेतः सिचमेवाऽनुप्रविशत्यथ मातरम्’ इति श्रुतेः । न च पितृप्रवेशो व्यर्थः । पितृप्रवेशस्य उत्पत्स्यमानसाधारण-जीवसंस्कारतया ईशक्लृप्त्या तस्य संस्कारार्थत्वात् । न च मातुरेवोदरं व्रजेत्’ इति स्मृत्यप्रमाण्यम् । पितृप्रवेशानन्तरं मातृप्रवेशस्याप्यङ्गीकारात् । न च ‘मातुरेव’ इत्यवधारणानुपपत्तिः स्मृतेः साधारणजीव-परतादशायाम् अवधारणस्य अयोगव्यवच्छेदार्थत्वाङ्गीकारात् । गर्भस्थितसिद्धशरीरप्रवेशिजीवपरता दशायां तु अन्ययोगव्यवच्छेदस्यापि भावात् । अतः पितृप्राप्ते र्विद्यमानत्वाद् भवितव्यं कर्मादावतिवैराग्येणेति सिद्धम् ।
वाक्यार्थमुक्तावली
अनन्तरसङ्गतिं दर्शयति ॥ कर्मीति ॥ यः कर्मी व्रीह्यादिशरीरं प्रविशतीति ‘त इह व्रीहियवा’ इति श्रुत्यर्थनिर्णयेनोक्तं तस्यैव तदनन्तरभाविन्यायो ह्यन्नमत्ति ‘यो वा रेतःसिञ्चति तत्तद्भूय एव भवति’ इति श्रुत्या तत्समानार्थया स्पष्टया य एव गृहीति श्रुत्या चोच्यते । तद्विचारा-दनन्तरसङ्गतिरिति भावः । अत एव भाष्ये इति च श्रुतिरिति चशब्दः । अत एव तत्त्वप्रदीपे यो यो ह्यन्नमत्तीत्यादिकया समानप्रकरणाद् रूढितया च सहेति चशब्दार्थ उक्तः । कर्मी किं पितरं न प्रविशतीत्युत प्रविशतीति चिन्ता । तदर्थं मातुरेवोदरमिति युक्तिसाहित्येन बलवत्युतैवकारस्या-योगव्यवच्छेदकत्वेन वैय्यर्थ्याद्धेत्वसिद्ध्या च दुर्बलेति ॥ श्रुतिःप्रयोजनादर्शनं चेति ॥ प्राबल्याद्य-विवेकदशायामुभयोः समकक्षतया संशयबीजत्वमिति भावः ॥ न चास्य वचनस्येति ॥ स्मृतेः श्रुत्यपेक्षया दुर्बलत्वादिति भावः । अव्यवधानेनास्योत्पादनायावश्यापेक्षणीयायास्तस्या मातुरेवोदरं व्रजेत् । न तु पितुः सद्भावेऽपि मात्रपेक्षणादिति स्मृत्यैव सूचितं रेतस्सिग्पदव्यावर्त्यं वैय्यर्थ्य-मित्युक्तन्यायं विशदयति ॥ युक्तीति ॥ वचनविरुद्धेति ॥ ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्’ इति वचनाद्व्याख्यानभूतया स्मृत्या युक्त्या विरुद्धम् । प्रतीतार्थेऽप्रमाणमित्यर्थः । सा कथमित्यनुवादः । किमर्थेति व्याख्या । वक्तव्यमिति शेषः । भवद्भिरिति च शेषः । किमर्थे-त्यस्माभिः पृष्ठे भवद्भिरुत्तरं वक्तव्यम् अर्थान्तरमेव चिन्तनीयम् । न प्रतीतार्थः कार्य इति भावः । यद्वा इति श्रुतिः कथमिति काक्वा किमित्याक्षेपे वर्तते इति भाष्यार्थमभिप्रेत्य व्याचष्टे किमर्थे वक्तव्यमिति । किमोऽर्थो यस्याः सा किमर्था । तमो वानुप्रविशतीति किमिति काकुस्वरेण पितृप्रवेशाक्षेपार्था श्रुतिरिति वक्तव्यमित्यर्थः । रेतस्सिग्योग इत्यंशव्याख्यापरं पितरमेव प्रथमतो विशतीति भाष्यं व्याचष्टे ॥ अस्त्येव पितृप्रवेश इति ॥ अथ मातृप्रवेश इत्युक्त्या सूत्रे प्रथम-मित्यादौ लभ्यते इति भावेन प्रथमत इत्युक्तम् । रेतस्सिगिति सौत्रपदसूचितां ततो रेतःसिचमिति श्रुतिमुदाहरद्भाष्यं व्याचष्टे ॥ ततो रेत इति ॥ अन्यथा सूत्रे पितृयोग इत्यवक्ष्यदिति भावः । प्रकारान्तरेण रेतस्सिक्पदप्रयोगप्रयोजनं वक्तुं वैय्यर्थ्यं विकल्पयति ॥ किमुत्पत्ताविति ॥ उत प्रवेशमात्रस्येति ॥ पितुरुपयोगसद्भावेऽपि मातृप्रवेश एवास्तु न पितृप्रवेशः । तदभावेऽपि रेतःसेचकत्वोपपत्तेरिति वैय्यर्थ्यमुच्यते एवेत्यर्थः । आद्योत्तरत्वेन रेतःसिक्पदं घटयति ॥ नाद्य इति ॥ प्रथमं रेतस्सिचमेवानुविशतीति नियमोक्त्या सूचितं क्लृप्तिरित्युक्तन्यायं द्वितीयोत्तरत्वेनाह ॥ न द्वितीय इति ॥ अथेत्यनन्तरं मातृप्रवेश इति शेषः । एतच्च मातुरेवोदरं व्रजेदित्यवधारणस्य सावकाशत्वप्रदर्शनायेत्यभिधायकं मातुः प्राप्तेरिति भाष्यमवतार्य व्याचष्टे ॥ एवं चेदिति ॥ अयोगव्यावर्तक इति ॥ व्रजेदेवेत्येवकारान्वय इति भावः ।
तत्त्वसुबोधिनी
तस्यैव पितृप्रवेश इति ॥ तथा च ‘तिला माषा इति जायन्त’ इति पूर्वाधिकरण-विचारितवाक्यानन्तरं प्राप्तेन ‘ततो वै खलु दुर्निष्प्रपतनं यो यो ह्यन्नमत्ति यो रेतःसिञ्चति’ इति वाक्येन समानार्थकस्य ‘य एव गृही भवति यो वा रेतः सिञ्चति तमेवानुविशति’ इति वाक्यस्यात्र विचारादनन्तरसङ्गतिरिति भावः । युक्तिसाहित्येनेत्युक्तयुक्तिमाह ॥ न हीति ॥ सा किमर्थेतीति ॥ पितृशरीरप्रवेशश्रुतिः किमर्था व्यर्थेत्यर्थः ॥ शरीरपरिणामायेति ॥ अत एव श्रुतिसूत्रयोः पितर-मेवानुप्रविशतीति पितृयोग इति च वक्तव्ये रेतःसिचमेवेति रेतःसिग्योग इति चोक्तमिति भावः । किमत्र प्रमाणमित्यत आह ॥ ईशेति ॥ मातुरेवोदरं व्रजेदिति श्रुतेः सावकाशत्वं वक्तुं सूत्रेऽथेत्युक्तमित्यभिप्रेत्य प्रवृत्तं मातृप्राप्तेः पश्चादपि भाव्यत्वादिति भाष्यमवतार्य व्याचष्टे ॥ एवं चेदिति ॥ अत एव पश्चादिति भाष्यं रेतः सिग्योगानन्तरमपीति व्याख्यातम् ॥ अयोगेति ॥ अनेन व्रजेदेवेत्यन्वयः सूचितो भवतीति भावः ।
वाक्यार्थविवरणं
नातिविरक्तिरिति ॥ पितृशरीरप्राप्तिरूपदुःखस्य न्यूनत्वादिति भावः । वैय्यर्थरूपयुक्तिमेव दर्शयति ॥ न हीति ॥ किमर्थेति ॥ केनार्थेनोपपन्नप्रामाण्यकेत्यर्थः ॥ एवं हीति ॥ वैय्यर्थ्येन पितृशरीरप्रवेशाभावे सिद्धे सतीत्यर्थः ॥ उतेति ॥ पितुरुपयोगमङ्गीकृत्य तत्प्रवेशमात्रस्य वैय्यर्थ्य-मुच्यते इत्यर्थः ॥ आहेति ॥ सौत्रार्थशब्दार्थमाहेत्यर्थः । तर्हि मातुरेवेति पितृशरीरप्रवेशनिषेधका-वधारणविरोध इत्यत उक्तम् ॥ एवकारस्त्विति ॥ तथा च मातुरुदरं व्रजेदेव, न व्रजेदिति नेत्यर्थः ।
वाक्यार्थमञ्जरी
नातिविरक्तिरिति ॥ अत्यायासाभावादिति भावः ॥ वचनादिति ॥ तत्रैवकारेणान्य-प्रवेशनिषेधादिति भावः । सिद्धत्वान्न विलक्षणत्वाधिकरणे । कथमित्यनुवादः ॥ किमर्थेति ॥ कोऽर्थो यस्याःसा किमर्था कीदृशार्थवतीत्यर्थः ॥ ॐ रेतःसिग्योगोऽथ ॐ ॥ कर्मिण आदौ रेतःसिग्योगः रेतःसिंचतीति रेतःसिक् पिता तस्य योगःसम्बन्धो भवति । अथ तस्मादनन्तरं मातृयोगो भवतीत्यर्थः ॥ प्रवेशमात्रस्येति ॥ पितुरुपयोगमङ्गीकृत्य तत्प्रवेशमात्रस्य वैय्यर्थ्यमुच्यत इत्यर्थः ॥ शरीरपरिणामायेति ॥ अनेन श्रुतिसूत्रयोःपितृग्रहणमकृत्वा रेतःसिग्ग्रहणे प्रयोजन-मुक्तमिति ध्येयम् ॥ अयोगव्यावर्तक इति ॥ तथा च व्रजेदेवेत्यन्वय इति भावः ।
॥ इति रेतोऽधिकरणम् ॥ १९ ॥