ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ
१८. अन्याधिष्ठिताधिकरणम्
सूत्रभाष्यम्
‘त इह व्रीहियवा ओषधिवनस्पतयस्तिला माषा इति जायन्त’(छां.उ.५-१०-६) इति श्रवणादनर्थफलत्वं यज्ञादेरित्यतो वक्ति–
॥ ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ ॥ २६ ॥
अन्याधिष्ठिते व्रीह्यादिशरीरे प्रवेशः । न तु भोगोऽस्य । ‘धूमो भूत्वाऽभ्रं भवति’ (छां. उ.५-१०-५) इत्यादिपूर्वोक्ति(क्त)वत् ।
‘सोऽवाग्गतः स्थावरान्प्रविश्याभोगेनैव व्रजन् स्थूलं शरीरमेति स्थूलाच्छरीरा द्भोगाननुभुङ्क्त’ इत्यभिलापात्कौषारवश्रुतौ ।
‘स्वर्गादवाग्गतौ देही व्रीह्यादीतरदेहगः ।
अभुञ्जंस्तु क्रमेणैव देहमाप्नोति कालत’ इति वाराहे ॥
तत्त्वप्रदीपिका
‘त इह व्रीहियवा’ इत्यादौ योनिप्रवेशात्पूर्वमेव जननं श्रूयते । भुक्तपुण्या आगच्छन्तो मेघपर्यन्तेन पथा वर्षेण सहावनिमवाप्ता व्रीह्यादिरूपेण जायन्त इति । अतः स्थावरजाति-हेतुत्वादन्ततो दुःखफलत्वं यज्ञादेः । ‘ततो वै खलु दुर्निष्प्रपतनम्’ इति दुर्निर्गमत्ववचनेन दुःखानु-भवसूचनाच्चेत्यत आह ॥ ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ ॥ अन्येन व्रीह्यादि-शरीराभिमानिजीवेन भोक्तृतयाऽधिष्ठते व्रीह्यादिशरीरे प्रवेशस्तत्रोच्यते । न तु भोगो विवक्षितः । यथा धूमादिषु पूर्वोक्तेषु तद्भावोक्त्या प्रवेशादिरेव विवक्षितः । अतश्चैतत्स्पष्टीकृतं भवति धूमादि-समानदेशत्वादिसादृश्यापत्तिरेवास्येति यत्पूर्ववदिति प्रसिद्ववदुपादत्त दृष्टान्तत्वेन । न च व्रीह्यादिस्थितेर्दुःखानुभवः सूच्यते । ‘ततो वै खलु दुर्निष्प्रपतनम्’ इति पूर्ववत्क्षिप्रनिर्गमना-भावसूचकत्वात्तस्य । रेतस्सेकादूर्ध्वं देहाभिमानेन दुःखानुभवोपपत्तेश्च ।
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनवैराग्याय कर्मिणो व्रीह्यादिभावनिरासादस्ति शास्त्रादिसङ्गतिः । सुखसाधनतया वेदोपदिष्टकर्मिणां व्रीह्यादिभावेन दुःखित्वे वेदविहितवैराग्यादावपि तच्छङ्का स्यादतस्तन्निराकरणीयम् । कर्मिणो विषयः । किमागमने दुःखवन्तो न वेति सन्देहः । लोकदृष्टिः पुरुषार्थत्वं च सन्देहबीजम् ॥ त इति ॥ अस्त्येव कर्मिणामागमने दुःखम् । ‘त इह व्रीहियवा’ इति श्रुतेस्तेषां व्रीह्यादिभावदर्शनात् । तद्भावे छेदादिना दुःखनियमात् । न चेयं श्रुतिर्धूमादिभावश्रुतिवद्व्याख्येया । तद्वदिह बाधकाभावात् । न हि बाधकं विनाऽमुख्यार्थकल्पना युक्ता अनुपयुक्ता च । दुःखप्राप्त्यनिवारकत्वात् । व्रीह्यादिजीवैः सहावस्थानेऽपि दुःखनियमात् । न हि दुःखिना सहावस्थानेऽपि दुःखाप्राप्तावीश्वरवत्स्वातन्त्र्यमस्ति । तच्च दुःखं यज्ञादि कर्मफल-मेवागमनादेर्यज्ञादिफलत्वस्य प्रतिपादितत्वात् । अतः सुखसाधनतया वेदोदितस्यापि कर्मणो दुःखसाधनत्वे मोक्षहेतुत्वेनोपदिष्टवैरग्यादावपि विश्वासाभावादननुष्ठेयत्वं तस्येति भावः । इतिशब्दोऽन्योपलक्षणार्थः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ नागतौ कर्मिणां व्रीह्यादिभावेन दुःखं मन्तव्यम् । तत्रैव मानाभावात् । न चोक्तश्रुतिर्मानम् । यतोऽस्यां श्रुतौ कर्मिणां व्रीह्यादिशरीरप्रवेश एवोच्यते न तु तच्छरीराभिमानित्वम् । यतश्चास्य न व्रीह्यादिभावोऽतो नैव छेदादिजातदुःखभोग इति भावः । व्रीह्यादिजीवैः सहावस्थानेऽपि दुःखं स्यादित्यत आह ॥ न त्विति ॥ सहावस्था-नेऽपि दुःखकारणपापफलानुभवस्थानावसरप्राप्तत्वान्न दुःखभोगोऽस्येति भावः । यदि कर्मिणो व्रीह्यादिदेहप्रवेश एव न तु तद्भावस्तर्हि कथं सामानाधिकरण्यमित्यत आह ॥ धूम इति ॥ कर्मिणो व्रीह्यादिदेहप्रवेश एव न तु तद्भावः । प्रवेशेऽपि न भोग इत्येतत्कुतः येन श्रुतेरर्थान्तरकल्पनेत्यत आह ॥ स इति ॥ अभोगेन व्रजन्नित्यस्य सहावस्थानेऽपि दुःखाननुभवेन वर्तमान इत्यर्थः ।
गुर्वर्थदीपिका
दह्यमानगेहप्रवेशस्येव छिद्यमानव्रीहिप्रवेशस्यापि दुःखदत्वेन तत्प्रवेशकल्पनाऽपि व्यर्थेत्याह ॥ अनुपयुक्ता चेति ॥ ‘तिलमाषा जायन्त’ इत्येतावतैव पूर्तेर्मध्ये इतिशब्दो व्यर्थ इति न शङ्कनीयम् । माषादिसमानप्रकारगोधूमादिधान्यान्तरसङ्ग्राहकत्वसम्भवादित्याह इतिशब्द इति ॥ ननु व्रीह्यादिषु प्रवेशे तत्कृतकर्मफलरूपच्छेदजदुःखभोगाभावेऽपि स्वकृतपापनिमित्तदुःखभोगः कुतो नेति चेद् यज्ञादिपुण्यफलकृतो मातुरुदरप्रवेशपर्यन्तमागमनहेतुभूतस्वकृतयज्ञजनितपुण्यफलस्यैवानुभूयमानत्वेन पापफलानुभवस्यावसराभावादित्याह सहावस्थानेऽपि दुःखकारणेति ॥ एतच्च प्रायिकम् । दैत्योप-द्रवादिप्रबलनिमित्तेन पतनचिन्तया मध्येमार्गमपि कदाचिद्दुःखमस्त्येव । तदुक्तं भारते ‘यदा समन्तात्पथि तांस्तुदन्ति वयांसि गृध्राः पिशिताशनाश्च’ इत्यादि ।
भावबोधः
व्रीह्यादिभावनिरासादिति ॥ निरन्तराधिकरणद्वयेन ‘यथेतम्’ इत्याद्यागमनप्रतिपादकवाक्ये ‘मेघो भूत्वा प्रवर्षति’ इत्यन्ते सविशेषं विचारिते ‘त इह व्रीह्ये वा ओषधिवनस्पतयस्तिला माषा इति जायन्ते’ इति तदनन्तरवाक्यविचारोऽत्र क्रियत इत्यनन्तसङ्गतिरिति भावः ।
ननु वैराग्यार्थं दुःखहेतुगत्यादिनिरूपणार्थं प्रवृत्तेऽस्मिन् पादे कर्मिणां व्रीह्यादिभावेन दुःखाभावसमर्थनपरस्यास्याधिकरणस्य कथमन्तर्भाव इत्यतोऽन्तर्भावं सूचयन् तत्प्रतिपादनस्यावश्य-कत्वमाह ॥ सुखसाधनतयेति ॥ किमागमने दुःखवन्त इति ॥ अत्र कर्मिणः किमागमने दुःखवन्तो न वेति चिन्ता । तदर्थं तेषां व्रीह्यादिभावोऽस्ति न वेति । तदर्थं ‘तिला माषा इति जायन्ते’ इति व्रीह्यादिभावप्रतिपादिका श्रुतिर्मुख्यार्था न वेति । तदर्थं मुख्यार्थत्यागे बाधकोपयोगौ न स्त उत स्त इति । तदर्थं व्रीह्यादिजीवैः सहावस्थाने कर्मिणां दुःखं भवत्युत नेति । तदर्थं तेषां दुःखकारणं पापमस्ति न वेति । तदर्थं यागीयहिंसायाः पापसाधनत्वमस्त्युत नेति । तथा च यागीयहिंसायाः पापसाधनत्वपापलक्षणदुःखकारणसद्भावे न व्रीह्यादिजीवैः सहावस्थितानां कर्मिणां दुःखनियमाद्व्रीह्यादिभावप्रतिपादकश्रुतेर् व्रीह्यादिशरीरप्रवेशमात्ररूपामुख्यार्थकल्पनस्य दुःखानिवारकत्वेनोपयोगाभावाद्बाधकाभावाच्च । तच्छ्रुतेर्मुख्यार्थत्वे तेषां व्रीह्यादिभावस्य सत्त्वात्तच्छेदनादिनिमित्तकदुःखमागमन इति पूर्वपक्षे वेदविहितत्वेन यागीयहिंसायाः पापसाधनत्वा-भावे तन्निमित्तकपापाख्यदुःखकारणाभावात् पापान्तरस्य चैतदकारणत्वाद् दुःखिव्रीह्यादिजीवैः सहावस्थानेऽपि कर्मिणां दुःखाभावेन दुःखनिवारणलक्षणोपयोगसद्भावात् ‘सोऽर्वाक् गतः’ इत्यादिबाधकसद्भावाच्च व्रीह्यादिभावप्रतिपादकश्रुतेस्तच्छरीरप्रवेशमात्ररूपामुख्यार्थत्वे रूपादि भावाभावेनागमने न तेषां छेदनादिनिमित्तकं दुःखमिति सिद्धान्ते च फलफलिभावो ज्ञातव्यः ॥ तद्वदिति ॥ कर्मिणां धूमादिदेवतैक्येऽन्यस्यान्यभावायोगलक्षणस्य बाधकस्य सत्त्वात् सा श्रुतिः स्वाभाव्यापत्तिपरत्वेन व्याख्यातुं शक्यते । इह तु कर्मिणां जीवैरैक्यं न श्रुत्यर्थः । किं तु तेषामेव व्रीह्यादिशरीरकत्वेन भवनरूपव्रीह्यादिभावः । अत्र च बाधकाभावादियं श्रुतिस्तद्वन्न व्याख्येयेति भावः । व्रीह्यादिजीवैः सहावस्थाने तु दुःखप्राप्तिरिति न्यायविवरणं संयोजयितुं मुख्यार्थकल्पक-प्रयोजकाभावं चाह ॥ अनुपयुक्ता चेति ॥ न्यायविवरणाभिप्रायमाह ॥ व्रीह्यादिजीवैरित्यादिना ॥
नन्वेवमागमने दुःखं तस्यापि वैराग्यहेतुत्वादित्यत अनर्थफलत्वं यज्ञादेरिति पूर्वपक्षफल-प्रतिपादकभाष्याभिप्रायमाह ॥ तच्च दुःखमिति ॥ इतिशब्द इति ॥ ‘इति जायन्ते’ इति श्रौत‘इति’ शब्दः प्रियङ्ग्वाद्युपलक्षक इत्यर्थः ॥ यथोऽस्यामिति ॥ अनेनान्याधिष्ठिते व्रीह्यादि-शरीरे प्रवेश इति भाष्ये यतोऽस्यां श्रुतावुच्यत इत्यध्याहारः । प्रवेश एव इति सावधारणम् । तद्व्यावर्त्त्यं च तच्छरीरत्वाभिमानित्वमित्युक्तं भवति । कर्मिणो व्रीह्यादिशरीराभिमानित्वानङ्गीकारे यद्बाधकं तत्परिहारार्थं सूत्रभाष्ययोरन्याधिष्ठित इत्युक्तमित्यभिप्रेत्य तद्बाधकशङ्काप्रतिषेधपूर्वक-मन्याधिष्ठित इति पदाभिप्रायमाह ॥ न च तस्येत्यादिना ॥ अतःशब्दाध्याहारं विना न तु भोगोऽस्येति भाष्यान्वयाभावाद् व्रीह्यादिशरीरे प्रवेशमात्रप्रतिपादकत्वस्य साक्षाद्धेतुत्वायोगेन तेन तत्परामर्शायोगाच्च प्रमाणाभावेनार्थतः सिद्धमर्थाभावं तत्परामृश्यं कथयन् न त्विति भाष्यं व्याचष्टे ॥ यतश्चेति ॥
भावदीपः
व्रीह्यादीति ॥ व्रीह्यादिश्रुतेर्व्रीह्याद्यभिमन्तृजीवाधिष्ठितदेहप्रवेशमात्रार्थत्वोक्त्येति भावः । एतेन पूर्वमचिरेणैव योनिमापद्यन्त इत्युक्तमयुक्तम् । योनिप्रवेशात्पूर्वमेव भुक्तपुण्यानां मेघपर्यन्तेन पथा वर्षेण सहावनिमाप्तानां व्रीह्यादिरूपेण बहुधा जन्मोक्तेरिति शङ्कोदयाद्वा तैस्तैर्धूमादिदेवैः सहावस्थानेन सुखवद् व्रीह्यादिदुःखिजीवैः सहावस्थानेन दुःखमपि स्यादिति शङ्कनाद्वा धूमो भूत्वेत्यादेर्बाधकवशादन्यथा व्याख्यानेऽपि तथा धूमो भवतीत्यादिबहुस्थानगमन श्रुतिविरोधे-नाभ्याशश्रुतेरतिचिरगमनमात्रनिषेधपरत्वार्थत्वव्याख्यानेऽपि न व्रीह्यादिश्रुतेरन्यथा व्याख्याबाधका-भावादिति वा शङ्कनात्सङ्गतिः सूचिता । फलफलिभावं व्यनक्ति ॥ सुखेति ॥ ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादिना स्वर्गादिरूपसुखेत्यर्थः ॥ वेदविहितेति ॥ ‘ब्राह्मणो निर्वेदमायात्’ ‘नाविरतो दुश्चरितात्’ ‘श्रोतव्यो मन्तव्य’ इत्यादिवेदविहितेत्यर्थः । प्राक्पादसङ्गतिस्फोरणाय वैराग्यायेत्येवोक्तावपि तुल्यन्यायतया सर्वसाधारण्याय वैराग्यादावित्युक्तम् । सर्वप्रयोजकमपि वैराग्यप्रयोजकं च भवतीति भावः । व्युत्क्रमेण भाष्यं व्याकुर्वन् अनर्थफलत्वं यज्ञादेरित्युक्ति-लब्धार्थमाह ॥ अस्त्येवेति ॥ त इहेति ॥ ते पूर्वत्र प्रकृताः कर्मकृत इह भूमौ व्रीह्याद्यात्मना जायन्त इत्यर्थः । श्रुतावितिशब्द आद्यर्थः । श्रुतेर्धूमादिभवनमश्रुतिवत्तत्स्वाभाव्यार्थकत्व-मात्रपरत्वप्रतीतिनिरासाय तदर्थं व्यनक्ति ॥ तेषामिति ॥ तावता कुतो दुःखमित्यतो हेतुसाध्यभावं व्यनक्ति ॥ तद्भाव इति ॥ तत्स्वाभाव्यसूत्रेण गतार्थत्वमाशङ्क्य वैषम्यमाह ॥ न चेति ॥ तद्वदिति ॥ तत्रान्यभावादृष्ट्यादिरूपबाधकवदिह व्रीह्यादिवाक्ये जीवस्य व्रीह्यादिशरीराभिमानि-रूपेण जन्मसम्भवेन बाधकाभावादित्यर्थः । नन्वत्रापि व्रीह्याद्याधिष्ठातृजीवैक्यायोग एव बाधक इत्यतोऽभ्युपेत्याधिष्ठातृजीवान्तरं दोषान्तरमाह ॥ अनुपयुक्ता चेति ॥ अमुख्यार्थत्वकल्पनेत्यनु-षङ्गः । कर्मणः सुखहेतुताबोधकवेदेऽनाश्वासनिरासाय कर्मफलरूपव्रीह्यादिभवनश्रुतेर्व्रीह्यादि-जीवस्वाभाव्यापत्तिरूपगौणार्थकत्वं वाच्यम् । तादृशार्थोक्तावपि यथा व्रीह्याद्यात्मना जन्मरूप-मुख्यार्थत्वे तस्य दुःखरूपत्वेन कर्मणो दुःखहेतुत्वमनिवार्यम् एवं तत्स्वभाव्यापत्त्यर्थत्वेऽपि दुःख-प्राप्त्यनिवारणमित्यर्थः । कुत इत्यतो व्रीह्यादिजीवैः सहावस्थानाद् दुःखप्राप्तिरित्यन्यत्रोक्तं सङ्गमयति ॥ व्रीह्यादीति ॥ एतेन इति श्रवणादिति भाष्यस्य इति व्रीह्यादिजीवैः सहावस्थान-श्रवणादित्यप्यर्थो दर्शितः । सूत्रे अन्याधिष्ठित इत्यनेन तद्भावापत्तेः पूर्ववदित्यनेन तत्स्वाभाव्य-पत्तिविशेषशङ्कायाश्च निरासस्य सूचनादिति भावः ।
ननु तत्रापि च तद्व्यापारादित्यत्रोक्तदिशा ईश्वरस्येवास्तु कर्मिणो दुःखाभाव इत्यत आह ॥ न हीति ॥ जीवास्वातन्त्र्यस्य बहुधा पूर्वमुक्तत्वादिति भावः । तावता कथमनर्थफलत्वं यज्ञादेरित्यतो भाष्योक्तं तद्घटयति ॥ तच्चेति ॥ प्रतिपादितत्वादिति ॥ चरणादिति चेदिति भावः । ततश्च किमित्यतः फलोक्त्या पूर्वपक्षभाष्यमुपसंहरति ॥ अत इति ॥ दुःखहेतु-व्रीह्यादिभावश्रवणान् मुख्यार्थत्यागे बाधकाभावाद् अमुख्यार्थत्वकल्पनेऽपि कर्मिणो दुःख-प्राप्त्यनिवारणाच्चेत्यर्थः । श्रुतावितिशब्दः ‘इतिहेतुप्रकरणप्रकारादिसमाप्तिषु’ इत्यमरोक्तेः प्रभृत्यर्थक इति भावेनाह ॥ इतिशब्द इति ॥ श्रुतेरन्यार्थत्वोक्तिपरतया सूत्रभाष्ये व्याकुर्वन् पूर्वपक्षं निराह ॥ नागताविति ॥ भाष्यं सावधारणं व्याख्याय तद्व्यावर्त्यस्य न तु तच्छरीराभिमानित्वमित्यस्योक्त्या व्रीह्यादिदेहाभिमतिरूपतद्भावाख्यकारणाभावादिति हेतुरुक्तो भवति । अन्याधिष्ठित इत्युक्तेरुपयोग-माह ॥ न च तस्येति ॥ न तु भोगोऽस्येति भाष्यं व्यनक्ति ॥ यतश्चेति ॥ व्रीह्यादिशरीराभिमतिः ॥ नैवेति ॥ तुरेवेति भावः । अनुपयुक्ता चेत्यादिनोक्ता दोषनिवर्तकतया । न तु भोगोऽस्येति भाष्यं प्रकारान्तरेण व्याचष्टे ॥ व्रीह्यादीति ॥ कुतो न भोगो ईश्वरवत्स्वातन्त्र्याभावा-दित्युक्तत्वादित्यतः पापाख्यकारणाभावादित्यन्यत्रोक्तहेतुं तदानीं दुःखभोगहेतुपापाख्यकारणा-भावादित्यर्थकमुपेत्य तात्पर्योक्त्या व्यनक्ति ॥ सहावस्थानेऽपीति ॥ अनवसरेति ॥ रेतस्सेका-दूर्ध्वमेव देहाभिमत्या अवसरात् स्थूलाच्छरीराद्भोगाननुभुङ्क्त इति श्रुतेरिति भावः ॥ तद्भाव इति ॥ व्रीह्यादिदेहाभिमतिरित्यर्थः ॥ इत्येतत्कुत इति ॥ कुतो मानादित्यर्थः । कारणाभावस्य सहावस्थानेऽपीत्यादिना प्रागेव प्रतिपादनादिति भावः ।
अभिनवचन्द्रिका
वैराग्यायेति ॥ ननु कर्मिणो व्रीह्यादिभावनिरासेनाऽदुःखित्वाभिधाने न कर्मणि विरज्येत किंत्वनुरज्येत दुःखाभावात् । किं चैवं सति प्राचीनं गतागतक्लेशस्य कर्मफलत्वसाधनमयुक्तं स्यात् । अपि च ‘तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्त’ इति श्रुत्युक्तरमणीयचरणफलस्यापि अतिदुःखरूपत्वेन तत्फलत्वं निषेध्यं स्यात् । अन्यथा श्रुत्युक्तसुखसाधनस्यापि दुःखहेतुत्वे श्रुत्युक्तवैराग्येऽपि तच्छङ्का स्यात् । अथ गतागतादिक्लेशस्य कर्मफलत्वं, वैराग्योपयोगीति, प्राचीनं तत्समर्थनमुपपन्नं हन्त तर्हि व्रीह्यादिभावस्यापि कर्मफलत्ववैराग्योपयोगीति तन्निषेधो व्यर्थः स्याद् अविशेषादिति चेत्, न वैषम्यात् । युक्तं गतागतक्लेशस्य कर्मफलत्वव्युत्पादनम् । तस्य क्लेशस्य सुखोत्पत्तिनान्तरीयकत्वेन वेदोक्तकर्मजन्यत्वे वेदाप्रामाण्यप्रसक्त्यभावेन वैराग्यविधायकशास्त्राऽऽ-श्वासाऽविघातात् । न हि ज्योतिष्टोमादिकर्मण इष्टोत्पत्तिनान्तरीयक दुःखजनकत्वमात्रेण इष्टसाधनत्वं विहन्यते । नापि तच्छास्त्रप्रामाण्यं विहन्यते । शास्त्रार्थस्य बलवदनिष्टाननुबन्धीष्ट-साधनत्वस्य सत्वात् । व्रीह्यादिभावस्य कर्मफलत्वे तु ज्योतिष्टोमादिशास्त्राऽप्रामाण्यमापतति । व्रीह्यादिभावापदितस्य दुःखस्य बलवत्त्वात् । ततश्च वैराग्य विधायकशास्त्राऽप्रामाण्यशङ्कया वैराग्याऽनुष्ठानमपि न स्यादिति निरसनीयमेव व्रीह्यादिभावस्य कर्मफलत्वम् । यदत्रोक्तं योनिप्राप्ते रमणीयचरणफलत्वं निवारणीयमिति । इष्टमेवैतत् । अस्माभिरपि दुष्कर्मसाध्ययोनिप्राप्तौ रमणीयत्वमात्रस्य रमणीयचरणफलत्वाङ्गीकारात् । ‘तद्य इह रमणीयचरणा’ इति श्रुतिरपि रमणीयचरणस्याऽन्यतो जायमानायां योनिप्राप्तौ रमणीयत्वाधायकत्वमात्रमाचष्टे न पुनस्तद्धेतुत्व-मिति । दुःखवन्तो न वेति ॥ इष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखवन्तो न वेति सन्देह इत्यर्थः । एतेन गतागतक्लेशस्य समर्थितत्वात् सन्देहानुपपत्तिरिति परास्तम् ॥ दुःखिना सहावस्थानेऽ-पीति ॥ दुःखिना एकदेहावस्थानेऽपीत्यर्थः ॥ एतेन ताड्यताडकयोः सहावस्थितत्वेऽपि ताडकस्य दुःखाभावाद् अयुक्तमिदमिति परास्तम् । ‘व्रीहियवा, ओषधिवनस्पतयः, तिला, माषा, जायन्त’ इत्येतावतैव पूर्णत्वाद् इति शब्दो व्यर्थ इत्यत आह– इति शब्द इति ॥ व्रीह्यादिशब्दा न स्वार्थमात्रपराः, अपि तु प्रियङ्ग्वाद्युपलक्षका इति सूचनार्थ इत्यर्थः । एतेन व्रीह्यादिशब्देनैव उपलक्षणसम्भवात् प्रियङ्ग्वादीनामितिशब्दशक्यसम्बन्धाऽभावाच्च न तेन लक्षणा युक्तेति परास्तम् । दृष्टं हिंसात्वेनेति ॥ ब्रह्महिंसायाः पापहेतुत्वं हिंसात्वेनोपाधिना ‘ब्राह्मणो न हन्तव्य’ इत्यादौ श्रुतमित्यर्थः । हरिणा दृष्टत्वेन श्रुतीनां दृष्टशब्दवाच्यत्वात् । तदुक्तम् ‘यतस्ता हरिणा दृष्टाः श्रुता एव परैर्जनैः । श्रुतयो दृष्टयश्चेति तेनोच्यन्ते पुरातनैः’ इति ॥ अतो हेतुत्वाभावादिति ॥ हिंसात्वेन हेतुना यागीयहिंसाया अपि पापसाधनत्वसिध्द्या दुःखहेतुत्वसद्भावादित्यर्थः ।
पूर्वपक्षस्तु अस्त्येव कर्मिणामिष्टोत्पत्तिनान्तरीयकदुःखातिरिक्तबलवद्दुःखं तेषां ‘त इह व्रीहियवा’ इति व्रीह्यादिभावश्रवणात् । तद्भावे च छेदनादिना दुःखावश्यंभावात् । न चेयं श्रुतिर् व्रीह्यादिप्रवेशमात्रपरा न तद्भावपरेति वाच्यम् । बाधकाभावे मुख्यार्थत्यागायोगात् । व्रीह्यादिप्रवेश-मात्राङ्गीकारेऽपि दुःखाऽनिवारणात् । न हि दुःखिसहावस्थानेऽपि दुःखाऽभोगे कारणमीश्वर-वत्स्वातन्त्र्यमस्ति । येन दुःखभोगो न स्यात् । तच्च दुःखं यज्ञादिकर्मफलमेव । अतः सुखसाधन-तया वेदोपदिष्टकर्मणो दुःखजनकत्वे मोक्षहेतुत्वेनोपदिष्टवैराग्यादावपि आश्वासाऽभावाद् अननुष्ठेयताऽस्येति ।
सिद्धान्तस्तु न कर्मिणां व्रीह्यादिभावेन दुःखं मन्तव्यम् । तत्रैव मानाभावात् । अस्यां श्रुतौ कर्मिणो व्रीह्यादिशरीरप्रवेशमात्राऽभिधानात् । न च दुःखिसहाऽवस्थानाद् दुःखप्राप्तिः । सहावस्थानस्याऽप्रयोजकत्वात् । तत्प्रयोजकस्य पापस्याऽभावात् । ननु व्रीह्यादिशरीरप्रवेश एव श्रुत्यर्थः, न तु तद्भाव इति कुतो निश्चेयमिति चेत्, ‘सोऽवाग्गतस्थावरान् प्रविश्याऽभोगेनैव व्रजन् स्थूलं शरीरमेति’ इति समाख्यानादिति गृहाण । ननु ज्योतिष्टोमादेर्हिंसाविशिष्टत्वेन पापमिश्रत्वाद् व्रीह्यादिभावेन दुःखमवर्जनीयमिति चेत्, न व्रीह्यादि हिंसायाः पापहेतुत्वेऽपि ‘वायव्यं श्वेतमालभेत भूतिकाम’ इत्यादिना विहितहिंसायाः पुण्यहेतुत्वेन यज्ञादेः पापमिश्रत्वाभावात् । तदुक्तं हिंसात्ववैदिकी या ‘तु तयाऽनर्थो ध्रुवं भवेत् । वेदोक्तया हिंसया तु नैवाऽनर्थः कथंचन’ इति । अतो यज्ञादेः सुखसाधनतया उपदिष्टस्य दुःखकारणत्वाऽभावाद् युक्तं वैराग्याद्यनुष्ठानमिति सिद्धम् ।
वाक्यार्थमुक्तावली
व्रीह्यादिभावनिरासादिति ॥ निरन्तरातीताधिकरणद्वयेन यथेतमाकाशमित्याद्यागमन-प्रतिपादकवाक्ये ‘मेघो भूत्वा प्रवर्षतीत्यन्ते सविशेषं विचारिते अत्र त इह व्रीहियवा ओषधयो वनस्पतयस्तिला माषा इति जायन्त’ इति तदनन्तरवाक्यविचारः क्रियत इत्यनन्तरसङ्गतिरिति भावः । ननु दुःखसाधनीभूतव्रीह्यादिभावनिरासो वैराग्यविरोधीति कथं तन्निरासस्य पादसङ्गतित्व-मित्यत आह ॥ सुखसाधनतयेति ॥ किमिति ॥ कर्मिणः किमागमनवन्तो न वेति चिन्ता । तदर्थं तिला माषा जायन्त इति व्रीह्यादिभावप्रतिपादिका श्रुतिर्मुख्यर्था उत तैस्सहावस्थानमादाया-मुख्यार्थेति । तदर्थं मुख्यार्थस्वीकारेऽपि दुःखमस्ति न वेति । तदर्थं दुःखकारणमस्ति न वेति । तदर्थं यागीयहिंसा पापकारणं न वेति । याज्ञीयहिंसायाः पापकारणत्वे सामग्रीसद्भावात् तेषां दुःखसद्भावे ‘भक्षितेऽपि लशुने न शान्तो व्याधिः’ इत्यमुख्यार्थग्रहणवैय्यर्थ्यान्मुख्यार्थत्वमिति । कर्मिण आगमने दुःखमिति पूर्वपक्षे फलफलिभावस्तद्वैपरीत्येन सिद्धान्तेऽनुसन्धेयः ॥ लोकदृष्टि-रिति ॥ लोके भोगदेशादागमनकाले दुःखदर्शनादिति भावः ॥ पुरुषार्थत्वमिति ॥ ‘रमणीय-चरणा रमणीयां योनिमापद्यन्त’ इति योनिप्राप्तिपर्यन्तस्य धर्मफलत्वोक्त्यागमनस्य पुरुषार्थत्वमिति भावः । अनर्थफलत्वं यज्ञादेरित्यस्यार्थमाह ॥ अस्त्येव कर्मिणामिति ॥ व्रीह्यादिभावदर्शना-दिति ॥ व्रीह्यादिरूपेण जायन्त इति स्थावरभावदर्शनादित्यर्थः । तत्स्वाभाव्यापत्तिरित्यनेन गतार्थतामाशङ्क्य परिहरति ॥ न चेयमिति ॥ बाधकाभावादिति ॥ अस्यां हि श्रुतौ व्रीह्यादिदेहवत्त्वेन जननमुच्यते । जायन्त इत्युक्तत्वात् । न तु व्रीह्यादिषु प्रागेव विद्यमान-जीवान्तरमुच्यते । भिन्नयोरैक्यायोगात् । एकस्थानगतत्वमेवोच्यत इति भावः ।
एवं व्रीह्यादिभावश्रवणादनर्थफलत्वं यज्ञादेरिति व्याख्याय तद्विहाय सहावस्थानाङ्गी-कारेऽप्यनर्थफलत्वं यज्ञादेरवर्जनीयम् । ततो वरं मुख्यार्थत्वमिति सहस्थानमित्युक्तन्यायप्रदर्शकतया तदेव भाष्यं व्याचष्टे ॥ अनुपयुक्ता चेति ॥ नन्वस्त्वेवमागमने दुःखं, तच्च न यज्ञादिहेतुकं, किन्तु प्राक्तनपापफलमेवातः सुखसाधनतया वेदोक्तकर्मणो दुःखसाधनत्वाभावात् सुखसाधनत्वेनोपदिष्टे वैराग्ये नानाश्वासः । अशुद्धमिति चेदित्युक्तपूर्वपक्षप्रदर्शकत्वेनाप्यनर्थफलत्वं यज्ञादेरिति भाष्यं व्याचष्टे ॥ तच्च दुःखमिति ॥ एवेति न प्राक्तनपापफलम् आगमनस्य यज्ञादिपापफलत्वस्योक्तत्वात् । तत्फलानुभवकाले क्रियान्तरफलानुभवावसराभावात् । यज्ञादेर्हिंसारूपत्वेन तत्फलस्यौचित्याच्चेति भावः ॥ इतिशब्द इति ॥ ‘तिला माषा जायन्त’ इति श्रुत इतिशब्द इत्यर्थः । इतिशब्दो हि तिलमाषरूपेण जायन्त इति तन्नियमस्यावरत्वादिरूपप्रकारवाचीति तत्प्रकारावच्छिन्नप्रियङ्ग्वाद्युप-लक्षकः । व्रीह्यादिशब्देष्वेकस्य विनिगमनाविरहान्नोपलक्षकत्वम् । वैय्यर्थ्यान्न सर्वेषामुपलक्षकत्व-मिति भावः । अत एव इतिशब्द आद्यर्थ इति तत्र तत्रोक्तिः । केचित्तु व्रीह्यादिशब्दा अन्योपलक्षका इति सूचनार्थ इतिशब्द इत्यर्थमाहुः । श्रुतिगतिप्रदर्शकतया सूत्रं व्याख्यातुं पूर्वपक्षं तावत्प्रतिक्षिपति ॥ नागताविति ॥ सत्कर्मिणो व्रीह्यादिभावस्तेन च न दुःखमिति न मन्तव्यमित्यर्थः ॥ तत्रैवेति ॥ सत्कर्मणा व्रीह्यादिभाव इति तयोः कार्यकारणभाव एवेत्यर्थः । तथा च प्रसक्तस्य कारणत्वाभावात्प्रागर्जितपापपुण्यभोगकालेऽनवसरप्राप्तत्वात् कारणाभावान्न कर्मिणो व्रीह्यादिभाव इति भावः । एतेन कारणाभावन्यायोऽपि विवृतः ॥ न चोक्तश्रुतिरिति ॥ ‘त इह व्रीहियवा’ इत्यत्र इष्टादिकारिणो व्रीह्यादिरूपेण जायन्त इति कर्मव्रीह्यादिभावयोः कार्यकारणभावमानायितेनेत्यर्थः । सूत्रे अन्याधिष्ठिते इत्यधिकरणसप्तमीबलात् प्रवेश इति लभ्यते । तच्च सावधारणं विवक्षितम् । ‘त इह व्रीहियवा’ इति श्रुतावुच्यत इति शेष इति भावेन प्रवृत्तं भाष्यं व्याचष्टे ॥ यतोऽस्यामिति ॥ एवकारव्यवच्छेद्यप्रदर्शकं न त्वित्येतदध्याहारेण व्याचष्टे ॥ न तु तच्छरीरीति ॥ मानित्वमिति ॥ व्रीह्यादिदेह इत्यनुक्त्वा अन्याधिष्ठित इति विशेषणोक्तेः प्रयोजनमाह ॥ न चेति ॥ इदानीं न तु भोगोऽस्येति समग्रं यतोऽत इति पदद्वयाध्याहारेण व्याचष्टे ॥ यतश्चास्येति ॥ एतेन दुःखं प्रति शरीराभिमानाख्यकारणाभावान्न भोगस्येति कारणाभाव इत्युक्तन्यायः प्रकारान्तरेण भाष्यारूढो दर्शितः । न तु भोगस्येत्येतत्प्रकारान्तरेण व्याचष्टे ॥ व्रीह्यादीति ॥ दुःखमिति ॥ छेदादिजातदुःखमित्यर्थः । एवमुत्तरत्रापि । अनवसरप्राप्तत्वा-दिति ॥ यज्ञफलभोगकाले क्रियान्तरभोगस्यानवसरप्राप्तत्वात् पापाख्यकारणाभावात् सहावस्थान-मात्रस्याप्रयोजकत्वादिति भावः । पूर्वोक्तिवदिति भाष्यस्य यथा धूमो भूत्वाभ्रं भवतीति पूर्वोक्ति-र्धूमादिदेवतादेहप्रवेशे स्थानैक्याभिप्राया । तथा ‘त इह व्रीहियवा’ इति सामानाधिकरण्योक्ति-रपीत्यर्थः ।
ननु स्थानैक्यतत्स्वाभाव्यपदेन कथं लाभ इति चेन्न । धूमादिदेवतावत्कर्मिणामपि तच्छरीर-स्थत्वेन तत्स्वभाव इव स्वभावो यस्येत्यनेनैव तल्लाभात् । तदुक्तं तत्वप्रदीपे । धूमादिसुखस्थान-देशत्वादिसादृश्यापत्तिरेवास्येति पूर्ववदिति दृष्टान्तत्वेनोपादत्त इति । विष्णुतत्त्वनिर्णये च देहात्मनोरप्येकदेशस्थत्वादिसादृश्यमस्त्येवेति । ननु तर्ह्येकदेशस्थत्वसादृश्येन सामानाधि-करण्योक्तिर्गौणी स्यान्न लाक्षणिकी । तथा च तत्प्रवेशेन स्थानैक्याभिप्रायं वा एतद्वाक्यमिति प्राचीनटीकाविरोधः । तत्र लघुत्वादिसदृशगुणयोगेन गौण्याः स्थानैक्येन लक्षणायाश्च उक्तत्वादिति चेत्सत्यमेतत् । लघुत्वादिवदेकदेशगतत्वस्य गुणत्वाभावात् । केवलं तत्स्वाभाव्यपदेन तल्लाभोपपादनमात्रस्य तत्त्वप्रदीपे कृतत्वाद् लक्षणाश्रयणस्यैव युक्तत्वात् । अन्यथा ‘स्वातन्त्र्यं च विशिष्टत्वं स्थानमत्यैक्ययोरपि । सादृश्ये चैक्यवाक्सम्यक्सावकाशा यथेष्टत’ इति स्थानैक्येन लक्षणोक्तेरयुक्तत्वप्रसङ्गादित्यलम् ।
तत्त्वसुबोधिनी
व्रीह्यादिभावनिरासादिति ॥ निरन्तरातीताधिकरणद्वयेन यथेतमित्याद्यागमनप्रतिपादकवाक्ये मेघो भूत्वा प्रवर्षतीत्यन्ते सविशेषं विचारिते ‘त इह व्रीहियवा ओषधिवनस्पतय’ इति तदनन्तर-वाक्यविचारोऽत्र क्रियत इत्यनन्तरसङ्गतिरिति भावः । ननु वैराग्यार्थं दुःखहेतुगत्यादिनिरूपणार्थं प्रवृत्तेऽस्मिन्पादे कर्मिणां व्रीह्यादिभावेन दुःखाभावसमर्थनपरस्यास्याधिकरणस्य कथमन्तर्भाव इत्यतोऽन्तर्भावं सूचयन् तत्प्रतिपादनस्यावश्यकत्वमाह ॥ सुखसाधनतयेति ॥ अस्तु व्रीह्यादि-भावस्ततः किमित्यत आह ॥ तद्भाव इति ॥ व्रीह्यादिभाव इत्यर्थः ॥ तद्वदिति ॥ कर्मिणां धूमादिदेवतैक्ये अन्यस्यान्यभावायोगलक्षणबाधकस्य सत्त्वात् सा श्रुतिः स्वाभाव्यापत्तिपरत्वेन व्याख्यातुं शक्यते । इह तु कर्मिणां न व्रीह्यादिजीवैक्यं श्रुत्यर्थः । किन्तु तेषामेव व्रीह्यादि-शरीरवत्त्वेन भवनरूपो व्रीह्यादिभावः । अत्र च बाधकाभावादियं श्रुतिस् तद्वन्न व्याख्येयेति भावः ।
ननु बाधकाभावेऽप्यमुख्योऽर्थः किं न स्यादित्यत आह ॥ न हीति ॥ दुःखप्राप्ति-मेवोपपादयति ॥ व्रीह्यादीति ॥ दुःखिना सहावस्थानेऽपीश्वरवत्तदभावः किन्न स्यादित्यत आह ॥ न हीति ॥ नन्वस्त्येवागमने दुःखम् । ततः किमित्यत आह ॥ तच्च दुःखमिति ॥ आगमनादौ जातस्य दुःखस्य कर्मफलत्वं कुत इत्यत आह ॥ आगमनादेरिति ॥ इतिशब्द इति ॥ ‘इति जायन्त’ इति श्रौतेतिशब्दः प्रियङ्ग्वाद्युपलक्षक इत्यर्थः ॥ तत्रैवेति ॥ व्रीह्यादिभावे इत्यर्थः ॥ यतोऽस्यामिति ॥ अनेनान्याधिष्ठिते व्रीह्यादिशरीरे प्रवेश इति भाष्ये यतोऽस्यां श्रुतावुच्यत इत्यध्याहारः प्रवेश इति सावधारणम् । तद्व्यावर्त्यं च तच्छरीराभिमानित्वमित्युक्तं भवति । कर्मिणो व्रीह्यादिशरीराभिमानित्वानङ्गीकारे प्राप्तबाधकपरिहारार्थं सूत्रभाष्ययोरन्याधिष्ठित इत्युक्तमित्यभिप्रेत्य तद्बाधकशङ्कानिषेधपूर्वकमन्याधिष्ठित इति पदाभिप्रायमाह ॥ न च तस्ये-त्यादिना ॥ अतःशब्दाध्याहारं विना न तु भोगोऽस्येति भाष्यस्यान्वयाभावात् श्रुतेर् व्रीह्यादिशरीरे प्रवेशमात्रप्रतिपादकत्वस्य साक्षाद्धेतुत्वायोगेन तेन तत्परामर्शायोगाच्च प्रमाणाभावेनार्थतः सिद्धमर्थाभावं परामृश्य न त्विति भाष्यं व्याचष्टे ॥ यतश्चेति ॥ कथमेतावता दुःखप्राप्तिः-परिहृतेत्यत आह ॥ सहावस्थानेऽपीति ॥ अभोगेनैवेत्यत्र भोगाभावमात्रं प्रतीयतेऽतो व्याचष्टे ॥ अभोगेनेति ॥
वाक्यार्थविवरणं
व्रीह्यादिभावः व्रीह्यादिदेहाभिमानित्वं वेदोपदिष्टकर्मिणाम् । वेदोक्तकर्मानुष्ठातॄणाम् । तच्छङ्का दुःखहेतुत्वशङ्का ॥ धूमादिभावश्रुतिवदिति ॥ व्रीह्यादिस्वाभाव्यापत्तितत्प्रवेशाभ्या-मित्यर्थः । अमुख्यार्थकल्पना कुतो न युक्तेत्यत आह ॥ दुःखप्राप्तीति ॥ तदुपपादयति ॥ व्रीह्यादीति ॥ धूमादिदेवतासहावस्थाने तु न दुःखम् । तासां निर्दुःखत्वादिति हृदयम् । अस्त्वेवं व्रीह्यादिभावेन दुःखं तथापि यज्ञादेः कुतोऽनर्थफलत्वमित्यत आह ॥ तच्चेति ॥ अन्येति ॥ प्रियंग्वादीनामित्यर्थः ॥ तत्रैवेति ॥ व्रीह्यादिभाव एवेत्यर्थः ॥ तस्य कर्मिणः ॥ वृद्ध्यादीति ॥ शरीररूपव्रीह्यादेरित्यर्थः । तदन्येन कर्मभिन्नजीवेनेत्यर्थः ॥ दुःखं स्यादिति ॥ दुःखिना सहावस्थानादित्यर्थः ॥ अनवसरेति ॥ यतः पुण्यफलभोगस्यैव ह्ययमवसरो नान्यस्येति भावः । तद्भावस् तच्छरीराभिमानित्वम् । व्रीहियवा इति सामानाधिकरण्यं भाष्ये पूर्वोक्तिवदित्येव पाठः । तथा तत्र प्रवेशमङ्गीकृत्य स्थानैक्येन तद्व्यपदेशो यथा व्याख्यायते तथाऽयमपि व्यपदेशो व्रीह्यादौ प्रवेशेन व्रीह्यादिरूपस्थानैक्येन निमित्तेन व्याख्येय इत्यर्थः ॥ सहेति ॥ दुःखिनेति शेषः । भाष्ये इतरः कर्मापेक्षया । तथा व्रीह्यादीतरदेहगः व्रीह्यादिरूपेतरकर्मनिर्मितदेहग इत्यर्थो द्रष्टव्यः ।
वाक्यार्थमञ्जरी
व्रीह्यादिभावः व्रीह्यादिशरीरकत्वेन भवनम् ॥ सुखसाधनतयेति ॥ स्वर्गादिसुखसाधनं यज्ञादिकर्मेति श्रुतिविहितयज्ञादिकर्म कुर्वतामित्यर्थः । तच्छङ्का दुःखसाधनशङ्का । श्रुति-विहितत्वादविशेषादिति भावः ॥ पुरुषार्थत्वमिति ॥ तत्रापि दुःखसत्त्वे पुरुषैरर्थ्यत्वं न स्यादिति भावः । व्याख्येया तत्प्रवेशादिमात्रार्थत्वेन ॥ तद्वदिति ॥ कर्मिणा धूमादिदैवतैक्येऽन्यस्यान्यभावा-योग्यतालक्षणस्य बाधकस्य सत्त्वात्सा श्रुतिः प्रवेशादिमात्रार्थत्वेन व्याख्यातुं शक्यते । इह तु कर्मिणो न व्रीह्यादिजीवैक्यं श्रुत्यर्थः । किंतु तेषामेव व्रीह्यादिशरीरकत्वेन भवनरूपो व्रीह्यादिभावः । न च तत्र बाधकमस्ति । अतो नेयं श्रुतिस्तद्व्याख्येयेति भावः । ईश्वरे व्यभिचारान्नायं नियम इत्यत आह ॥ न हीति ॥ तथा चौत्सर्गिकोऽयं नियम इति भावः । नन्वस्त्वेवमागमेन दुःखं तस्यापि वैराग्यहेतुत्वादित्यत आह ॥ तच्च दुःखमिति ॥ प्रतिपादितत्वादिति ॥ चरणादित्यत्रेति शेषः ॥ इतिशब्द इति ॥ ‘इति जायन्त’ इति श्रुतौ इतिशब्दः प्रियंग्वाद्युपलक्षक इत्यर्थः ॥ ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ ॥ व्रीह्यादिभावो नामान्येन जीवेनाधिष्ठितेऽभिमानित्वेनाश्रिते व्रीह्यादिदेहे प्रवेश एव । न तु तदाभिमानित्वम् । कथम् ? पूर्ववद् धूमो भूत्वेत्यादिपूर्वोक्तवत् । कुतः? अभिलापात् । ‘सोऽवाग्गतः स्थावरान्प्रविशति’ इति श्रुतौ तथोक्तत्वादित्यर्थः । तत्रैव व्रीह्यादिभाव एव ॥ अनवसरप्राप्तत्वादिति ॥ कारणाभावेन तस्मिन्कालेऽप्राप्तत्वादित्यर्थः । सामानाधिकरण्यं कर्मिणो व्रीह्यादयो जायन्त इत्यादि ।