ॐ नातिचिरेण विशेषात् ॐ
१७. नातिचिरेणाधिकरणम्
सूत्रभाष्यम्
बहुस्थानगमनात्कल्पान्तमप्येवं स्यादित्यत आह—
॥ ॐ नातिचिरेण विशेषात् ॐ ॥ २५ ॥
‘तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्यन्त’ (छ. उ. ५-१०-७) इति विशेषान्नातिचिरेण ।
‘स्वर्गाल्लोकादवाक् प्राप्तो वत्सरात्पूर्वमेव तु ।
मातुः शरीरमाप्नोति पर्यटन्यत्र तत्र च’ इति च नारदीये ॥
तत्त्वप्रदीपिका
एवं तर्ह्याकाशादिषु बहुस्थानेषु प्रविश्य गमनादियता कालेन जायत इति विशेषा-श्रवणादतिचिरमप्येवं सञ्चरणमेव स्यादित्यत आह– नातिचिरेण विशेषात् ॥ तत् तेषां मध्ये, इह लोके संसारे, अभ्याशो ह यद् यथा योन्यापत्तौ कालतः सन्निकर्षो भवति तथा योनिमापद्यन्त इति विशेषश्रवणान्नातिचिरेणेमं लोकमाप्नोति ।
तत्त्वप्रकाशिका
अत्रेश्वरप्राप्तिसाधनवैराग्याय स्वर्गादवरूढस्य कर्मिणोऽचिरेण गर्भवासादिप्राप्तिसमर्थनादस्ति शास्त्रादिसङ्गतिः । यदि चिरेण गर्भप्राप्तिस्तर्हि बहुकालं मध्येमार्गमतिसुखस्य लाभान्न कर्मणि विरज्येतातः सा प्रतिषेद्धव्या । प्रकृताः कर्मिणो विषयः । स्वर्गान्निर्गत्य किं चिरेण गर्भवासं प्राप्नुवन्त्युताचिरेणेति सन्देहः । द्विविधपान्थदर्शनं सन्देहबीजम् । पूर्वपक्षयति ॥ बहुस्थानेति ॥ कर्मी स्वर्गान्निर्गतश्चिरेणैव देहं प्राप्नोति । ‘यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति अभ्रं भूत्वा मेघो भवति’ इत्यादौ बहुस्थानप्राप्तिश्रवणात् । बहुस्थानगमनं च नाचिरेण सम्भवति तत्र तत्र तत्तत्स्वाभाव्येनातिसुखे सम्भवति तद्विहायागमने प्रयोजनाभावात् । एवं च सकृदनुष्ठितयज्ञस्य स्वर्गभोगावसाने मध्येमार्गं कल्पान्तमपि तत्तद्देवतास्वाभाव्यं स्यात् । कल्पावसाने देवानां पदपर्यवसानात् । अतः किं कर्मणि तत्फले च वैराग्येणेति भावः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ कर्मिणो न चिरेणागमनं किं त्वचिरेणैव । ‘तद्य इह रमणीयचरणाः’ इति विशेषश्रुतेः । न च बहुस्थानगमनविरोधः । अतिचिरेणागमनस्यैव निषेधादिति भावः । तत्र कर्मिषु ये रमणीयचरणास्त इह भूमौ रमणीयां ब्राह्मणादियोनिमापद्यन्ते । आपद्यन्त इति यत्तच्चाभ्याशः कालसामीप्येनेत्यर्थः । कल्पान्तकालस्याप्यापेक्षिकसामीप्यान्नेयं श्रुतिर्बाधिकेत्यत आह ॥ स्वर्गादिति ॥ न चेष्टत्वविरोधः । इष्टत्वेऽपि क्लृप्तकालाधिककालावस्थाने कारणाभावाद् अन्यथा दुःखाभावप्रसङ्गात्सर्वेषाम् । अतः कर्मिणोऽचिरेणैव गर्भवासादिदुःख प्राप्तिसद्भावाद्भवितव्यं कर्मादौ विरक्तेनेति सिद्धम् ।
भावबोधः
मध्येमार्गमतिसुखलाभादिति । तथा च पूर्वाधिकरणे कर्मिणां धूमादिदेवतास्वाभाव्या-पत्त्युक्तावेव बहुस्थानगमनादित्यादिपूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ॥ स्वर्गान्निर्गत्येति ॥ अत्र कर्मिणः स्वर्गान्निर्गत्य चिरेण गर्भवासं प्राप्नुवन्त्युताचिरेणेति चिन्ता । तदर्थं बहुस्थानगमनं किं चिरकालेनोताचिरकालेनेति । तदर्थं तत्तत्स्वाभाव्यापत्त्या जायमानसुखस्यानुभवे इष्टत्वं प्रयोजकं न वेति । तैस्तैः सहावस्थानादतिचिरत्वमिति न्यायविवरणाभिप्रायमाह ॥ तत्र तत्रेति ॥ ननु भाष्ये सदाप्येवं स्यादित्यनुक्त्वा कल्पान्तमिति किमर्थमुक्तमित्यत आह ॥ कल्पावसानमिति ॥ तथा च यावद्देवतापदं तावदेव तत्स्वाभाव्यापत्तिनिमित्तकं सुखमिति न सर्वदेत्युक्तमिति भावः ॥ आगमनस्यैवेति ॥ न तु बहुस्थानगमनस्येत्यर्थः । ‘पर्यटन् यत्र तत्र च’ इति बहुस्थानगमन पूर्वकमचिरेणैवागमनस्योक्तेरिति भावः । कुतो नेष्टत्वविरोध इत्यतो वत्सरात् पूर्वमेव चेति क्लृप्तकालादधिकावस्थाने कारणाभावादिति न्यायविवरणोक्तं हेतुमाह ॥ इष्टत्वेऽपीति ॥ इष्टत्वस्यैव प्रयोजकत्वेऽतिप्रसङ्गमाह ॥ अन्यथेति ॥ दुःखाभावस्य सर्वेषामिष्टत्वादिति भावः ।
भावदीपः
अचिरेण गर्भवासादीति ॥ मध्ये मार्गं चिरकालावस्थाननिवारणेनेति भावः । एतेन कर्मिणस्तदैक्यतत्पदप्राप्त्योरभावेऽपि चिरकालं महासुखहेतुभूततत्स्वाभाव्यापत्तिभावेन न कर्म-तत्फलयोर्हेयत्वमिति शङ्कनादवान्तरसङ्गतिः सूचिता । गर्भवासादीत्यादिपदेन गर्भवासादन्यत्र यन्नानाविधजन्म तद्ग्रहः । अस्फुटत्वात्फलफलिभावं व्यनक्ति ॥ यदीति ॥ मध्येमार्गमिति ॥ पारे मध्ये षष्ठ्या वेत्यव्ययीभावः । मार्गमध्य इत्यर्थः । भाष्ये बहुस्थानगमनादित्यत्र साध्यं पूरयन् गमनपदं गमनश्रवणपरं व्याचष्टे ॥ कर्मीति ॥ तैस्तैस्सहावस्थानादतिचिरत्वमित्यन्यत्रोक्त्यनुरोधेन साध्यसाधनभावमुपपादयति ॥ बहुस्थानेति ॥ तत्तत्स्वाभाव्येन तैस्तैस्सहावस्थानरूपेणेत्यर्थः । सौत्रातिपदव्यावर्त्योक्तिपरं कल्पान्तमप्येवं स्यादित्येतद्व्याचष्टे ॥ एवं चेति ॥ बहुस्थानगमने सतीति वा शीघ्रमागमने प्रयोजनाभावे सतीति वार्थः । अभ्याशश्रुतिस्तु बहुस्थानगमनश्रवणविरोधेन गौणी नेयेति भावः । कल्पान्तमित्यवध्युक्तेर्भावमाह ॥ कल्पेति ॥ अत इति ॥ चिरकालीन-देवतास्वाभाव्यापत्तिहेतुत्वादित्यर्थः । भाष्यादावतिपदकृत्यं पश्चाद्विवृण्वानो भाष्यं व्युत्क्रमेण व्याकुर्वन् सूत्रार्थमाह ॥ कर्मिण इति ॥ आगमननिषेधभ्रान्तिं निरस्यन् अचिरेणेत्यनुक्त्वा न चिरेणेत्युक्तेर्भावमाह ॥ किं त्वचिरेणैवेति ॥ श्रुतावभ्याश इत्युक्त्या धूमादिस्थानमप्राप्यैवायातीति भ्रान्तः शङ्कते ॥ न चेति ॥ विरोध इति ॥ उक्तविशेषश्रुतेरित्यर्थः ॥ निषेधादिति ॥ अभ्याशश्रुतावभ्याशपदेनेत्यर्थः । एतेन सूत्रादावतिपदकृत्यं व्यक्तीकृतं श्रौतपदानामर्थमाह ॥ तत्रेति ॥ तदित्यस्य प्रतिपदमेतत् । तस्य व्याख्या कर्मिष्विति ॥ अथ य इमे ग्रामा इति पूर्ववाक्ये तेषां प्रकृतत्वादिति भावः ॥ आपेक्षिकेति ॥ ततोऽपि स्थूलकालापेक्षया कल्पान्त-कालस्य सामीप्यादित्यर्थः । तत्र तत्रेत्यादिना प्रागुक्तयुक्तिविरोधनिवर्तकतया वत्सरात्पूर्वमेव त्विति क्लृप्तकालादधिकावस्थाने कारणाभावादित्यन्यत्रोक्तयुक्तिं व्यनक्ति ॥ न चेत्यादिना ॥ इष्टत्वमेव कारणमित्यत आह ॥ अन्यथेति ॥ सूत्रार्थस्य हेतुत्वं व्यञ्जयन् फलोक्त्योपसंहरति ॥ अत इति ॥ विशेषश्रुतिस्मृतिभावात् स्मृत्युक्तक्लृप्तकालादधिकावस्थाने हेत्वभावाच्चेति विशेषादित्यस्यार्थः । नातिचिरेणेत्यस्यार्थः कर्मिणोऽचिरेणैवेत्यादि ।
अभिनवचन्द्रिका
अतिसुखस्य भावादिति ॥ समानाधिकरणदुःखापेक्षयाऽतिसुखस्य भावादित्यर्थः । एतेन वैराग्यार्थं गतागतक्लेशस्य प्राक् समर्थितत्वात् तत्राऽतिसुखाऽङ्गीकारे तद्विरोध इति परास्तम् । दुःखादतिशयस्यैवाऽङ्गीकृतत्वेन दुःखाऽसंभिन्नत्वाऽनङ्गीकारात् । आगमने प्रयोजनाभावादिति ॥ ननु सुखमपहाय आगमने प्रयोजनाभावाच् चिरेणाऽऽ यातीत्ययुक्तम् । जीवस्याऽस्वतन्त्रत्वात् । स्वतन्त्रस्य हि प्रवृत्तिनिवृत्ती प्रयोजनाधीने नाऽस्वतन्त्रस्य । प्रयोजनाभावेऽपि सुखमपहायैव विष्टिगृहीतीनां प्रवृत्तिदर्शनात् । जीवाऽस्वातन्त्र्यं ‘यथेतमनेवं च’ (ब.३.१.१२) इत्यत्रोक्तम् । किं च यदि जीवस्य प्रयोजनवशात् प्रवृत्तिस् तदभावे च निवृतिस् तर्हि स्वर्गादागमनमेव न स्यात् । अथ प्रयोजनाऽभावेऽप्यस्वातन्त्र्यात् स्वर्गान्निवृत्तिस् तर्हि तत एव मार्गेऽप्यस्तु अविशेषादितिचेत् सत्यं जीवोऽस्वतन्त्रः, तथापि मार्गे तत्तत्स्वाभाव्यं प्राप्तस् तत्र देवताराधनेन तत्प्रसादात् तत्र तत्र बहुकालं तिष्ठेदेव । देवताप्रसादस्य सुखाऽवाप्तिहेतुत्वात् । अन्यथा ज्योतिष्टोमादपि स्वर्गादिप्राप्तिर्न स्यात् । न हि पे्रक्षावान् सुप्रसन्नदेवतामवाप्यापि स्वेष्टं न लभत इति युक्तम् । न च स्वर्गाद् आगमनानुपपत्तिर् मार्गवत्तद्देवतास्वाभाव्याभावेन कर्मसमाप्त्यनन्तरं पुनःप्रसादाऽऽर्जनाऽ-योगेने तत्र स्थातुमशक्यत्वात् । न हि महाराजपुरे निवसन्नपि पे्रक्षावान् राजदर्शनवर्जितो राजभृत्येषु निवारयत्सु स्थातुमीष्ट इति दृष्टम् । येनाऽसौ कर्माऽवसाने स्वर्ग एव तिष्ठेत्, कल्पावसाने तु देवानां मुक्तत्वात् तत्सान्निध्याभावेन पुनःप्रसादाऽऽर्जनाऽसम्भवान् मातृशरीरं प्राप्नुयादिति । अधिकावस्थाने कारणाभावादिति । आधिककालावस्थाने कारणस्य देवताप्रसादस्य कर्मभूमौ ईश्वरप्रेरणादौ सत्येव संपाद्यत्वेन तत्र संपादनासम्भवादिति भावः ।
पूर्वपक्षस्तु कर्मी स्वर्गान्निर्गतः कल्पान्ते देहं प्राप्नोति । ‘यथेतमाकाशम्’ इत्यादौ आगमन-वेलायां बहुस्थानप्राप्तिश्रवणात् । बहुस्थानगमनं च नाऽचिरेण सम्भवति । तत्र तत्र तत्तत्स्वाभाव्येन अतिमहासुखे सम्भवति तद्विहायाऽऽगमने प्रयोजनाऽभावात् । न च पुण्यस्याऽल्पत्वाद् बहुकालावस्थानानुपपत्तिः । देवतासान्निध्यसद्भावेन तत्रावस्थानकारणदेवताप्रसादाऽर्जनोपपत्तेः । न हि प्रेक्षावान् वदान्यमहाप्रभुसान्निध्ये सति अनाराध्य स्वाभीष्टं न प्राप्नोतीति सम्भवति । न च तथा सति कल्पान्तेऽपि न मातृशरीरप्राप्तिरिति वाच्यम् । कल्पान्ते स्वपरिचितदेवतायामुक्तत्वेन देवतान्तरस्य च परिचयाऽभावेनाऽऽराधनायोगात् । ततश्च कर्मानुष्ठानेनैव आकल्पं सुखसद्भावात् किं कर्मणि तत्फले च वैराग्येणेति ।
सिद्धान्तस्तु अचिरेणैव संवत्सरादर्वाक् देहं प्राप्नोति । ‘तद्य इह रमणीयचरणा अभ्याशोहयत्ते रमणीयां योनिमपाद्यन्त’ इति श्रुतेः, ‘स्वर्गाल्लोकादवाक्प्राप्तो वत्सरात्पूर्वमेव तु । मातुः-शरीरमाप्नोति पर्यटन् तत्र तत्र च’ इति स्मृतेश्च । कर्मफलस्य क्लृप्तकालत्वेन अधिकाव स्थानानु-पपत्तेश्च । इह लोक एव पुण्यार्जनमिति भगवता क्लृप्तत्वेन तत्रैव पुनर्देवताऽऽराधनाऽनुपपत्तेश्च । अतः कर्मिणोऽचिरेणैव गर्भवासादिदुःखसद्भावाद् भवितव्यं कर्मादौ विरक्तेनेति सिद्धम् ।
वाक्यार्थमुक्तावली
अत्र स्वर्गान्नातिचिरेण गमनमिति पूर्वपक्षे तत्स्वाभाव्यापत्तेर्हेतुत्वेनोपन्यासादनन्तरसङ्गतिः । अत्र कर्मिणः स्वर्गान्निर्गत्य किं चिरेण गर्भवासं प्राप्नुवन्त्युताचिरेणेति चिन्ता । तदर्थं बहुस्थानगमनकाले तत्स्वाभाव्यापत्त्या जायमानसुखस्येष्टत्वं विलम्बप्रयोजकत्वं न वेति । अत्र सहस्थानमित्युक्तन्यायं बहुस्थानगमनेन तैस्तैर्बहुकालसुखानुभवाय सहस्थानादचिरत्वमिति प्रदर्शकं भाष्यं व्याचष्टे ॥ कर्मी स्वर्गादित्यादिना ॥ बहुस्थानगमनादित्यस्य बहुस्थानगमनश्रवणादित्यर्थ उक्तः । बहुस्थानगमनान्यथानुपपत्त्येत्यर्थान्तरमाह ॥ बहुस्थानगमनं चेति ॥ ननु वैराग्यार्थं गतागतक्लेशस्य समर्थितत्वात् कथमिति महासुखत्वमिति चेत् तत्स्वाभाव्येन तस्याप्याक्षेपात् ।
ननु विद्याकर्मणोरित्यत्र गतागतादावस्वातन्त्र्यस्य समर्थितत्वात् प्रयोजनाधीनप्रवृत्तिर्नापि निवृत्तिः सम्भवतीति चेन्न । ब्रूमो वयं गतिस्वातन्त्र्यात् सुखमपहाय न गच्छन्तीति । किन्तु गतागतादावस्वातन्त्र्येऽपि ईशेच्छयाकाशादिषु बहुस्थानेषु प्रविश्य तत्स्वाभाव्यमनुभूयागच्छ-मानस्याचिरेणैव गमने ईशेच्छया वैषयिकसुखमनुभवतोऽपि तदिच्छयैव वैराग्योत्पादनेन तत्त्यागवद् वैराग्यं वा कारणं स्यादुत ईश एवाविरक्तस्याप्याशां विच्छिद्य तस्मात्स्थानान्निस्सारयतीति ईश्वरेच्छा वा कारणं स्यात् । न चोभययमपि । तत्र वैराग्यग्राहकप्रमाणाभावात् । प्रत्युत कामिनो महासुखे सम्भवति तद्विहाय गमनस्य प्रयोजनाभावेनासम्भावितत्वात् । ईश्वर एवातिशीघ्रं निस्सारयतीत्यत्र विशेषप्रमाणाभावाच्चेति । उक्तं च तत्त्वप्रदीपे । आकाशादिषु बहुस्थानेषु प्रविश्य गमनमियता कालेन जायत इति विशेषश्रवणात् । अतिचिरमप्येवं सञ्चरणं स्यादिति कल्पान्तमेवं स्यादित्येतदक्षरार्थमाह ॥ एवं चेदित्यादिना ॥ मध्येमार्गं मार्गस्य मध्ये ।
ननु भाष्ये अस्याप्येवमित्यनुक्त्वा कल्पान्तमिति किमर्थमुक्तमित्यत आह ॥ कल्पावसान इति ॥ सूत्रे यथेतमनेवमित्युक्तत्वादागमनमपि वर्तते । इष्टादिकारिणामित्यस्ति । नेति भिन्नं पदमित्यभिप्रेत्य व्याचष्टे ॥ कर्मिण इति ॥ न समासमभ्युपेत्याह । किन्त्वचिरेणैवेति ॥ विशेषाद् विशेषवचनादित्यभिप्रेत्याह ॥ तद्य इहेति ॥ सूत्रे इतिशब्दं तद्व्यावर्त्यशङ्कां दर्शयन् व्याचष्टे ॥ न च बहुस्थानेति ॥ आगमनसमये यथेतमाकाशमाकाशाद्वायुमित्यादिबहुस्थानगमनेत्यर्थः ॥ अतिचिरेणेति ॥ अतिचिरेण गमनस्यैव निषेधाद् वत्सररूपचिरकालस्याङ्गीकारात् तावत्यपि काले बहुस्थानगमनोपपत्तेरित्यर्थः । भावबोधे तु आगमनस्यैवेति । न तु बहुस्थाने गमनस्यैवेत्यर्थः । पर्यटन् तत्र तत्र चेति बहुस्थानगमनपूर्वकमचिरेणैवागमनस्योक्तेरिति भाव इत्युक्तम् । तद्य इह रमणीयचरणा इत्यत्र तदित्यस्य तत्रेत्यर्थः । इति यत् तच्चेत्यप्यर्थ इति भावेन व्याचष्टे ॥ तत्रेत्यादिना ॥ आपेक्षिकेऽस्मिन्कोटिकल्पापेक्षया समीपत्वादित्यर्थः । आगमनसमये यत्र तत्र पर्यटनमपि वत्सरात् पूर्वमेव मातुश्शरीरं प्राप्नोतीति कालक्लृप्त्युक्त्या सूचितम् । क्लृप्तकाला-दधिकावस्थाने कारणाभाव इत्युक्तन्यायं विशदयितुमाशङ्क्य निषेधति ॥ न चेष्टत्व इति ॥ तत्र तत्र मार्गे बहुकालमवस्थानस्य सुखानुभवायेष्टत्वात्तद्युक्तिविरोध इत्यर्थः ॥ इष्टत्वस्यैव प्रयोजकत्व इति ॥ प्रसङ्गमाह ॥ अन्यथेति ॥ दुःखाभावस्य सर्वेषामिष्टत्वादिति भावः ।
तत्त्वसुबोधिनी
मध्येमार्गमतिसुखस्य लाभादिति ॥ तथा च पूर्वाधिकरणोक्तकर्मिणां धूमादिदेवतास्वाभाव्या-पत्त्युक्तावेव बहुस्थानगमनादित्यादिपूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः । कुत इत्यतस्तत्र प्रमाणमाह ॥ यथेतमिति ॥ अस्तु बहुस्थानप्राप्तिः, ततः किमित्यत आह ॥ बहुस्थानेति ॥ कुतो नेत्यत आह ॥ तत्र तत्रेति ॥ ननु भाष्ये सर्वदाप्येवं स्यादित्यनुक्त्वा कल्पान्तमिति किमर्थ-मुक्तमित्यत आह ॥ कल्पावसान इति ॥ तथा च यावद्देवतापदं तावदेव तत्स्वाभाव्या-पत्तिनिमित्तकं सुखमिति न सर्वदेत्युक्तमिति भावः ॥ आगमनस्येति ॥ न तु बहुस्थान-गमनस्यैवेत्यर्थः । पर्यटन् यत्र तत्र चेति बहुस्थानगमनपूर्वकमचिरेणैवागमनस्योक्तेरिति भावः । कुतो नेष्टत्वविरोध इत्यत आह ॥ इष्टत्वेऽपीति ॥ इष्टत्वस्यैव प्रयोजकत्वेऽतिप्रसङ्गमाह ॥ अन्यथेति ॥ दुःखाभावस्य सर्वेषामिष्टत्वादिति भावः ।
वाक्यार्थविवरणम्
अचिरेण ॥ शीघ्रम् ॥ मध्येमार्गमिति ॥ पारे मध्ये षष्ठ्या वा । पारे मध्ये शब्दौ षष्ठ्या वा समस्येते सोऽव्ययीभावः । षष्ठीसमासापवादः । एदन्तत्वं चानयोर्निपात्यते । पारे गङ्गायाः पारेगङ्गम् । मध्ये गङ्गाया मध्येगङ्गम् इतिवद् अव्ययीभावे नपुंसकत्वे च सति मध्ये मार्गस्य मध्येमार्गमिति भवतीति द्रष्टव्यम् । अव्ययीभावश्च । अव्ययीभावोऽप्यव्ययं स्यादित्यव्ययत्वेऽ-व्ययस्य चाम्भावे च सति मध्येमार्गमिति भवतीति ध्येयम् । एवमित्यस्यार्थस्तत्तद्देवतेति । सदैवं स्यादित्यनुक्त्वा कल्पान्तपदकृत्यमाह ॥ कल्पेति ॥ अतो न सदेत्युक्तमिति भावः ॥ अतिचिरेणाप्यागमनस्यैवेति ॥ तद्य इति श्रुतावभ्याश इति पदेनातिचिरेणागमनस्यैव निषधेन बहुस्थानगमनं न निषिद्धमित्यतिचिरेणागमनाभावो बहुस्थनागमनं चेति द्वयमप्यङ्गीक्रियत एवातो न तद्विरोध इत्यर्थः ॥ आपेक्षिकेति । कल्पद्वयापेक्षयेत्यर्थः । अचिरेणागमनाङ्गीकारे बहुस्थानागमनं च नाचिरेण सम्भवतीत्याद्युक्तरीत्या सुखस्येष्टत्वेन तद्विरोध इत्याशङ्क्य निषेधति ॥ न चेति ॥ अधिकेति ॥ अधिककालेत्यर्थः ॥ अन्यथेति ॥ इष्टत्वस्यैवातिचिरेणागमने प्रयोजकत्वे ॥ सर्वेषाम् ॥ शीघ्रगामिनां केषाञ्चित् ॥ दुःखाभावेति ॥ तस्यापि सर्वेषामिष्टत्वादिति भावः ।
वाक्यार्थमञ्जरी
पान्थ इति ॥ मार्गजनेत्यर्थः ॥ मध्येमार्गमिति ॥ मार्गस्य मध्य इत्यर्थः । पारे मध्ये षष्ठ्या वा । पारे मध्येशब्दौ षष्ठ्या वा समस्येते सोऽव्ययीभावः । पारेगङ्गायाः पारेगङ्गं मध्येगङ्गाया मध्ये गङ्गमित्युदाहरणम् । ननु भाष्ये सदाप्येवं स्यादित्यनुक्त्वा कल्पान्तमिति किमर्थमुक्तमित्यत आह ॥ कल्पावसान इति ॥ तथा च यावद्देवतापदं तावदेव तत्स्वाभाव्यापत्तिनिमित्तसुखमिति किमर्थ-मुक्तमिति भावः ॥ ॐ नातिचिरेण विशेषात् ॐ ॥ गर्भादिप्राप्तिरतिचिरेणातिबहुकालेन न भवति किंत्वचिरेणैव । कुतः ? विशेषात् । तद्य इहेति विशेषश्रवणादित्यर्थः ॥ आगमनस्यैवेति ॥ न तु बहुस्थानगमनस्यापीत्येवकारार्थः । पर्यटन्यत्र तत्र चेति बहुस्थानगमनपूर्वकमचिरेणैव गमनस्योक्ते-रिति भावः ॥ आपेक्षिकेति ॥ तस्योत्तरकल्पापेक्षयेत्यर्थः ॥ इष्टत्वविरोध इति ॥ तत्र तत्रेत्युक्तरीत्येत्यर्थः ॥ कारणेति ॥ अदृष्टविशेषेत्यर्थः ॥ इष्टत्वस्यैव प्रयोजकत्वं न कारणस्येत्यङ्गीकारेऽतिप्रसङ्गमाह ॥ अन्यथेति ॥ दुःखाभावस्य सर्वेषामिष्टत्वादिति भावः ।
॥ इति नातिचिरेणाधिकरणम् ॥ १७ ॥