ॐ तत्स्वाभाव्यापत्तिरुपपत्तेः ॐ
१६. तत्स्वाभाव्याधिकरणम्
सूत्रभाष्यम्
‘धूमो भूत्वाऽभ्रं भवति’ (छां.उ.५-१०-५) इत्याद्यन्यभावः श्रूयते । स कथमित्यतो ब्रवीति—
ॐ तत्स्वाभाव्यापत्तिरुपपत्तेः ॐ ॥ २४ ॥
धूमादिषु प्रविश्य तद्गतौ गतिः (तत्)स्थितौ स्थितिरित्यादिरेव तद्भावापत्तिः । न ह्यन्यस्यान्यभावो युज्यते । न च तत्पदप्राप्तिः । गारुडे च—
‘धूमादिभावप्राप्तिश्च तद्गतौ गतिरेव तु ।
स्थितौ स्थितिः प्रवेशश्च लघुत्वादिस्तथैव च ॥
न ह्यन्यस्यान्यथाभावो न च तत्पदमिष्यते ।
विद्यागम्यं पदं यस्मान्न तत्प्राप्यं हि कर्मणा ॥
एकदेशस्वभावेन वागभेदाऽपि युज्यते ।
यथा जीवः परं ब्रह्म ब्रह्मेदं जगदित्यपीति’ ॥
तत्त्वप्रदीपिका
अवसितोऽवाग्गतिविशेषविचारः । या पुनरसौ पुण्यवतां पुनरागतिरगादि तत्प्रकारोऽयमतः प्रपञ्च््यते । ‘तस्मिन्यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्न निवर्तन्ते यथैतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति’ इत्यादिना विचार्यते । किं मुख्यत एव किंवा तत्पदाप्तिरथवा तत्सादृश्या-पत्तिरिति । तत्र तावन्मुख्यत इति प्राप्तम् । तथा श्रुतेरेव । न च युक्तिविरोधमात्रेण श्रुतपरित्यागो युक्तः श्रुतिशरणानाम् । विरोधे युक्तेर्दुर्बलत्वात् । अथाप्यदृष्टत्वान्न साक्षादन्यस्यान्यभाव इत्याग्रहिष्ट । अस्तु तर्हि सञ्चितपुण्यस्य तस्य यथाक्रमं चरतो धूमाद्यभिमानिदेवतापदप्राप्तिर्धूमादिभावः । अन्यथा श्रुतिवैयर्थ्यात् । न च तत्सादृश्यभावमात्रेण तद्भावापत्तिश्रुतेरर्थवत्त्वं कल्प्यम् । अगतिकत्वा-त्तत्कल्पनाया इत्यत आह ॥ ॐ तत्स्वाभाव्यापत्तिरुपपत्तेः ॐ ॥ धूमादिषु प्रविश्य तद्गतौ गतिः स्थितौ स्थितिरादिशब्दाल्लघुत्वं पृथगभिमानाभावश्चेति तत्स्वाभाव्यापत्तिरेव तद्भावापत्तिः । तस्य धूमादेः स्वभावसदृशः स्वभावो यस्य स ‘तत्स्वभावः’ । गजमुख इतिवत् । तत्स्वभावता ‘तत्स्वाभाव्यं’ तदापत्तिस्तत्सादृश्यापत्तिरित्यर्थः । न ह्यन्यस्यान्यभावो युज्यते । न च मृदो घटभावेऽप्यमृद्भावः, मृद्घट इति प्रतीतेः । न च मृदन्यो घटो भवति । न चान्यस्यान्यभाव श्रुतः । न च तत्पदप्राप्तिस्तस्य कर्मिणो युज्यते । विद्यागम्यत्वात्तस्य । ब्रह्मदर्शिनां हि जीवन्मुक्तानां पदप्राप्तिर्गम्यते । तत्परतो मुक्तिश्रवणात् । ईषत्सादृश्येऽप्यभेदोक्तिर्युज्यते । तदाह– ‘एकदेश’ इत्यादि । एकदेशस्वभावसादृश्येन भेदरहिता वाग्युज्यते । यथाऽत्यन्तविलक्षणो जीवः किञ्चित्सादृश्यात्परमात्मेत्युच्यते । श्रुतियुक्त्यनुभवसम्प्रतिपत्तिबलादयं दृष्टान्त उपात्तः ।
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनवैराग्यसिद्ध्यर्थं कर्मिणां धूमादिभावनिवारणादस्ति शास्त्रादिसङ्गतिः । कर्ममात्रेण महासुखे धूमादिभावे लभ्यमाने नायं तत्र विरज्येत अतोऽसौ निवारणीयः । तत्र विषयं दर्शयति ॥ धूम इति ॥ कर्मिणः स्वर्गादवतीर्णा यथा गतमन्यथा चागच्छन्तीत्युक्तम् । तेषामागतौ धूमादिदेवताभावः श्रूयते ‘धूमो भूत्वा’ इति । स धूमादिभावोऽत्र विषय इत्यर्थः । सन्देहप्रकारं दर्शयति ॥ स इति ॥ स धूमादिभावो धूमादिदेवतैक्यं वा कर्मिणस्तत्पदप्राप्तिर्वा प्रकारान्तरं वेत्यर्थः । शब्दस्यानेकवृत्तयः सन्देहबीजम् । ऐक्यं तत्पदप्राप्तिर्वेति पूर्वः पक्षः । सामानाधिकरण्यश्रुतेः । सा ह्युभयथोक्तरीत्या युज्यते । अन्यथा तद्विरोधः । न च श्रुतेरन्यार्थत्वं कल्पनीयम् । बाधकमन्तरेण मुख्यार्थत्यागायोगात् । न च कर्मिणो देवतापदप्राप्तिरसम्भाविता । धूमादिदेवताभिः सहावस्थानात् । स्नेहादिवशेन ताभिरेव स्वपदस्य दातुमपि शक्यत्वात् । अतः प्रकारद्वयेऽपि सकृदनुष्ठित यज्ञानामाकल्पसमाप्तिपरमसुखसम्भवाद्व्यर्थं कर्मणि तत्फले च वैराग्यमिति ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अत धूमादिभावप्राप्तिर्नाम कर्मिण-स्तत्स्वभावत्वप्राप्तिरेव । न चैतावता पदप्राप्तिपर्यायत्वम् । तद्गतौ गतिरित्याद्येकदेशस्वभावत्वात् । तादृशे सादृश्ये च सामानाधिकरण्यदर्शनात् । तत्प्रवेशेन स्थानैक्याभिप्रायं वैतद्वाक्यं तथा प्रयोग-दर्शनादिति भावः । कुतोऽर्थोऽयं स्यादित्यत आह ॥ न हीति ॥ प्रागन्यस्य कर्मिणो धूमादि-देवतैक्यं तावदनुपपन्नम् । अन्यस्यान्यभावादर्शनात् । नापि तत्पदप्राप्तिर्युक्ता । तस्य नियताधि-कारिभिर्विद्ययैव गम्यत्वात् । युगपदनेककर्मिसमवायेऽनेकेषामेकपदप्राप्त्ययोगाच्च । अतो मुख्यतः प्रतीयमानार्थासम्भवेनोक्तार्थस्यैवोपपत्तेरयमेव श्रुत्यर्थ इति भावः । एवं न्यायप्राप्तेऽर्थे स्मृतिं चाह ॥ गारुडे चेति ॥ अभेदा अभेदवादिनी । अतो धूमाद्यैक्याद्यभावाद्युक्तमेव कर्मतत्फलयो-र्वैराग्यमिति सिद्धम् ।
गुर्वर्थदीपिका
महासुखे धूमादिभावे इत्यत्र महासुखप्रदे धूमादिदेवतात्वे तदैक्य इत्यर्थः । ऐक्यप्राप्तौ देवताया अनिष्टाभावात् पदप्राप्तौ च स्वस्या अन्यत्र गमनप्रसङ्गेनानिष्टत्वात्तत्रैवासम्भवं शङ्कते ॥ न चेति ॥ तत्प्रवेशेन स्थानैक्याभिप्रायमित्यत्र तत्प्रवेशे सति स्थानैक्यं नामोभयोरेकदेहगतत्वम् । यद्यप्येकलोकगतत्वेनापि स्थानैक्यं वक्तुं शक्यते । तथापि धूमो भूत्वेत्यस्य स्वारस्यायैवमुक्तम् । तथा प्रयोगदर्शनादित्यस्य तप्तायःपिण्डेऽयमग्निरिति प्रयोगदर्शनादित्यर्थः ।
भावबोधः
यथागतमन्यथा चागच्छन्तीत्युक्तमिति ॥ ‘यथेतमनेवं च’ इत्यत्रेत्यर्थः । तथा च धूमादिभाव-रूपविषयस्मारकागत्युपक्षेपकतया तेनास्य सङ्गतिरिति भावः ।
ननु तर्हि तदानन्तर्यमेवास्य स्यादिति चेन्न साक्षात्तदुपक्षिप्तगतागतविचारस्य तदनन्तरमेवास्य कर्तव्यत्वेन तत्परस्य ‘चरणात्’ इत्यस्य तदानन्तर्ये स्थिते इतरेषां विचाराणां तूक्तरीत्या तत्त-त्प्रसङ्गेन तदनन्तरमेवावश्यकर्तव्यतया तत्परैरधिकरणैर्व्यवधानस्यादोषत्वात् ॥ धूमादिदेवतैक्यं वेति ॥ अत्र धूमादिभावः किं धूमादिदेवतैक्यतत्पदप्राप्त्योरन्यतर उत तद्गतौ गतिरित्याद्येकदेश-स्वभावत्वादिरूपो वेति चिन्ता । तदर्थं धूमो भूत्वेत्यादिसामानाधिकरण्यश्रुतिर्मुख्यार्थोतामुख्यार्थेति । तदर्थं मुख्यार्थत्यागे कारणं नास्त्युतास्तीति । न ह्यन्यस्यान्यभावो युज्यत इति सिद्धान्त-भाष्यानुसारेणाह ॥ ऐक्यमिति ॥ न च तत्पदप्राप्तिरिति भाष्यस्य कर्मिणोऽपि तत्पदप्राप्तिरिति न्यायविवरणस्य चानुसारेणाह ॥ तत्पदप्राप्तिर्वेति पूर्वपक्ष इति ॥ तद्विरोध इति ॥ श्रौत-सामानाधिकरण्यविरोध इत्यर्थः । धूमादिदेवतासहावस्थानकर्मिणोऽपि तत्पदप्राप्तिरिति न्यायविवरणं तन्निवर्तनीयाशङ्काप्रतिषेधपूर्वकं योजयति न च कर्मिणामित्यादिना ॥ तद्गतौ गतिरित्यादीति ॥ अत्रादिशब्देन ‘स्थितिः स्थितौ प्रवेशश्च लघुत्वात्’ इति स्मृत्युक्तं ग्राह्यम् ॥ सादृश्येति ॥ ‘तत्त्वमसि’ इत्यादावित्यर्थः । उपलक्षणमेतत् । तदधीनत्वे चेत्यपि ग्राह्यम् । ‘सर्वं खल्विदं ब्रह्म’ इति तत्रापि प्रयोगदर्शनात् । अत एवोक्तं स्मृतौ–
‘यथा जीवः परो ब्रह्म ब्रह्मेदं जगदित्यपि’ इति भावः ।
इत्यादिरिति भाष्यगता‘दि’शब्दार्थमाह ॥ स्थानैक्याभिप्रायं वेति ॥ तथा प्रयोगदर्शना-दिति ॥ ‘परेऽव्यये सर्व एकीभवन्ति’ इत्यादावित्यर्थः ॥ प्रागन्यस्येति ॥ अनेन प्रागन्यस्य सतः कर्मिण अन्यभावः, धूमादिदेवतैक्यं न युज्यत इति भाष्यं व्याख्यातं भवति । कुत इत्यत-स्तद्धेतुप्रदर्शनपरत्वेन तदेव भाष्यं व्याचष्टे ॥ अन्यस्येति ॥ कुतस्तत्पदप्राप्तिर्न युक्तेत्यतः ‘विद्या-गम्यं पदं यस्माद् इति’ स्मृत्युक्तं हेतुमाह ॥ तस्येति ॥ अनेन तन्निमित्तविद्याख्यकारणाभावादिति न्यायविवरणमपि व्याख्यातं भवति । ‘न तत्प्राप्यं हि कर्मणा’ इति स्मृतिसूचितं युक्त्यन्तरमाह ॥ युगपदिति ॥
भावदीपः
एवं यथेतमनेवं चेत्यन्तेन पुण्यकृतां पुण्यलोकादिगत्यागतिप्रकारान्निरूप्य गत्यादेः कर्मफलत्वं चोक्त्वा तत्प्रसङ्गागतदुष्कृतफलभूतदुर्गतिविचारं च समाप्य अधुना आपादसमाप्ति यथेतमित्यत्र प्रस्तुतागतिचिन्ता प्रस्तूयत इति भावेन पूर्वसङ्गतिं सूचयन् अन्तर्भावसङ्गतिमाह ॥ अत्रेति ॥ धूमादिभावेति ॥ धूमादिदेवतैक्यं वा तत्पदप्राप्तिर्वेत्यर्थः । एतेन पूर्वत्र दुःखसहावस्थायित्वा-त्सुखस्य तमस्यपि दुःखस्येव सुखस्यापि सत्त्वं स्यादित्यस्यानेकमानबाधेनायोगेऽपि धूमादिदेवता-सहावस्थायित्वात्पुण्यकृतामपि धूमादिदेवताया इव तत्पदभाक्त्वं स्यादेवेति शङ्कनाद्वा पूर्वत्र वैराग्यार्थं सुखनिरासवदत्रापि देवादिभवनरूपसुखनिवारणाद्वा पूर्वोक्तदिशा दुःखयुक्तदुर्गतौ तत्साधने महादुःखयुक्ते तमसि तत्साधने च वैराग्ययोगेऽपि न देवतैक्यादिरूपमहासुखहेतौ कर्मणि तत्फले वेति शङ्कानिवारणाद्वाऽनन्तरसङ्गतिः सूचिता । फलफलिभावं व्यनक्ति ॥ कर्मेति ॥ उक्तमिति ॥ ‘यथेतमनेवं च’ इति सूत्रे तस्मिन्यावत्संपातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतम्’ आकाशाद्वायुं वायुर्भूत्वा’ इत्यादिश्रुतौ छान्दोग्ये पञ्चमे उक्तम् । तत्र वायुर्भूत्वेत्यादिना धूमादिभावः श्रूयत इत्यर्थः । अभिमानिनयन्यायेन सिद्धत्वाद्देवतेत्युक्तम् ॥ प्रकारान्तरं वेति ॥ सादृश्यापत्तिरूपं वेत्यर्थः ॥ अनेकेति ॥ मुख्यामुख्यरूपानेकवृत्तय इत्यर्थः । न ह्यन्यस्येत्यादि-भाष्यदिशा द्वेधा पूर्वपक्षमाह ॥ ऐक्यमिति ॥ भोक्त्रापत्तेरित्यत्रोक्तयुक्तिविरोधनिरासाय तत्पदे-त्युक्तिः ॥ सामानाधिकरण्येति ॥ समानमेकमधिकरणं प्रतिपाद्यं यस्य तस्य भावः सामानाधि-करण्यं तद्बोधकश्रुतेरिति वा भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकार्थनिष्ठत्वरूपसामानाधिकरण्य-श्रुतेरिति वार्थः । तथा च घटो द्रव्यं भवति वायुर्ब्रह्मा भवतीत्यादौ यथा तदैक्यं तत्तत्पदप्राप्तिर्वा प्रतीयते तथेहापीति । उपपादयति ॥ सा हीति ॥
ननु ‘तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्’ इत्यत्रोक्तन्यायेन तत्त्वमसि सर्वं खल्विदं ब्रह्मेत्यादिसामानाधिकरण्यश्रुतिवदियं श्रुतिः सादृश्यरूपार्थान्तरपरा स्यादेवेत्यतस्तत्रेवात्र सोपपत्तिकश्रुत्यादिरूपबाधकस्याभावेन तन्न्यायाविषयत्वेन पूर्वपक्षोत्थानमाह ॥ न च श्रुतेरिति ॥ न च स्याल्लोकवदित्यत्रोक्तयुक्तिविरोध एव बाधकमत्रेति वाच्यम् । श्रुतितो युक्तेर्दुर्बलत्वात् । ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’ इत्युक्तेः । तत्पदप्राप्तौ बाधकाभावाच्च । अद्यापि देवतापदं विद्याप्राप्यं न तु कर्मलभ्यमित्यस्यासिद्धेरिति भावः । ननु तत्राप्यनेकयत्नसाध्यपदस्य कर्ममात्रलभ्यत्वस्यासम्भावितत्वमेव बाधकमित्याशङ्क्य तन्निवर्तकतया धूमादिदेवतासहाव-स्थानात्कर्मिणोऽपि तत्पदप्राप्तिरित्यन्यत्रोक्तयुक्तिं व्यनक्ति ॥ न चेत्यादिना ॥ अत इति ॥ धूमो भवतीत्यादिनिर्बाधसामानाधिकरण्यश्रुतिसद्भावादुक्तदिशा तत्पदप्राप्तेरसम्भावितत्वाच्चेत्यर्थः ॥ प्रकारेति ॥ देवतैक्यदेवतापदप्राप्तिरूपप्रकारद्वय इत्यर्थः । सकृदनुष्ठितयज्ञानामिति बहुव्रीहिः । कर्मणोऽदृष्टार्थत्वेन दृष्टार्थावघातादिवत् तादृशश्रवणादिवच्च आवर्तनानपेक्षत्वात्सकृदित्युक्तम् । देवानामाकल्पं स्थायित्वादाकल्पसमाप्तीत्युक्तम् । भाष्यस्य सूत्राविसंवादाय इत्यादिरेवेत्यन्तं तत्स्वाभाव्यापत्तिरित्यस्य व्याख्या । तद्भावापत्तिरिति तु शेषोक्तिरिति भावेन सूत्राक्षरार्थमाह ॥ अत्रेत्यादिना ॥ श्रुतावित्यर्थः ॥ तत्स्वभावत्वेति ॥ तत्स्वभावसदृशस्वभाववत्त्वमित्यर्थः । गजमुख इत्यादिवत् ‘सप्तम्युपमानपूर्वपदस्य बहुब्रीहिर्वाच्यो वाचोत्तरपदलोपश्च’ इति वचनादेक-स्वभावपदस्य लोपः । न तु तदैक्यं तत्पदप्राप्तिर्वेत्येवार्थः । कृत्स्नतत्स्वभावसादृश्यं मत्वा शङ्कते ॥ न चैतावतेति ॥ भाष्ये तत्स्वाभाव्यापत्तिरेव तद्भावापत्तिरित्यनुक्त्वा यद्धूमादिष्वित्यादिना तद्विवरणं कृतं तस्योक्तशङ्कानिवर्तकत्वतात्पर्यमाह ॥ तद्गताविति ॥ तद्गतिस्थितिभ्यां गतिस्थिति-मत्त्वं तद्वल्लघुत्वं तदभिमानापेक्षया पृथगभिमानशून्यत्वमित्येवं रूपेषत्सदृशस्वभावत्वादित्यर्थः । भाष्यस्थादिपदेन लघुत्वं पृथगभिमत्यभावश्च ग्राह्य इति तत्वप्रदीपे । कथं तर्हि सामानाधिकरण्य-श्रुतिरित्यत आह ॥ सादृश्ये चेति ॥ सिंहश्चैत्र इत्यादौ वा यथा जीवः परं ब्रह्मेत्यादिस्मृत्युक्त-स्थले वा दर्शनादित्यर्थः । विवृतमेतत्तद्गुणसारत्वादित्यत्रेति भावः । एवं धूमो भवतीत्यादि-श्रुतेर्धूमसदृशो भवतीति गौणार्थोक्तिपरतया भाष्यं व्याख्यायेदानीं ‘स्याल्लोकवत्’ इत्यत्र भाष्योक्तदिशा धूमादिष्वित्यादिभाष्यं प्रकारान्तरेण व्याचष्टे ॥ तत्प्रवेशेनेति ॥ एतेन तत्स्वा-भाव्यापत्तिरित्यस्य तत्प्रविष्टत्वरूपतत्स्वभावत्वप्राप्तिरित्यर्थो दर्शितः ॥ तथा प्रयोगेति ॥ जीवः परं ब्रह्मेत्यादिप्रयोगदर्शनादित्येवार्थः ॥ कुतोऽर्थोऽयमिति ॥ अमुख्योऽर्थ इत्यर्थः ॥ अन्यभावा-दर्शनादिति ॥ घटे मृत्त्वस्यापि सत्त्वेन तदन्यत्वाभावान् मृदो घटभावदर्शनेऽपि न व्यभिचार इति भावः ॥ नापीति ॥ भाष्ये चोऽप्यर्थ इति सूचितम् । कुत इत्यतस्तन्निमित्तविद्याख्यकारणा-भावादित्यन्यत्रोक्तं हेतुं सूचयन् भाष्योक्तस्मृत्यनुरोधेन तन्निमित्तत्वं विद्याया व्यनक्ति ॥ तस्येति ॥ विद्ययैव न कर्मणेत्येवकारेण कर्मकृतां च विद्यरूपकारणाभावादिति सूचितम् । युक्त्यन्तरं स्वयमाह ॥ युगपदिति ॥ तथात्वे चान्योन्यानुरोधायोगेन तत्पदकार्यनियमनप्रतिहृतिरिति भावः । बाधकमन्तरेणेति पूर्वपक्ष्युक्तहेतुं निरस्यन्न हीत्यादिभाष्यं सूत्रशेषविवरणपरमिति दर्शयन्नुक्तश्रुत्यर्थ-मुपसंहरति ॥ अत इति ॥ क्वाप्यदृष्य््यान्यस्यान्यभावायोगाद्विद्यारूपकारणाभावेन तत्पद-प्राप्त्ययोगाच्च बाधकादित्यर्थः । सहावस्थानयुक्तिस्तु सम्भाविकैव न तु तत्पददाननिर्णायिकेति भावः । अयमेव तत्स्वाभाव्यापत्तिपदोक्तगौणलाक्षणिकरूपद्विविधामुख्यार्थ एवेत्यर्थः ॥ एवमिति ॥ मुख्यार्थासम्भवरूपन्यायप्राप्तेऽमुख्यार्थे इत्यर्थः । वागभेदेत्येतद्घटयति ॥ अभेदेति ॥ स्मृतौ पृथगुपदेशादित्यत्रोक्तदिशा श्रुतियुक्त्यनुभवसंप्रतिपत्तिबलाद्यथा जीव इति दृष्टान्तोक्तिः सूत्रार्थस्य हेतुत्वं दर्शयन् फलोक्त्योपसंहरति ॥ अत इति ॥ धूमो भवतीत्यादिसामानाधिकरण्य-श्रुतेस्तत्स्वाभाव्यापत्तिरूपामुख्यार्थत्वस्यैवोपपत्तिमत्वादित्युपपत्तेरित्यस्यार्थः । तत्स्वाभाव्या-पत्तिरित्यस्य भावार्थो धूमादीति ।
अभिनवचन्द्रिका
धूमादिदेवताभिरिति ॥ यद्यपि धूमादिपदमाकल्पस्थायि, तथापि अन्यस्य तत्पदप्राप्तिर्युज्यते । तद्यथा आमरणभाव्यपिराजपदं किञ्चित् कालं स्वयमनुभूय पुत्रस्नेहवशात् पुत्राय दत्वा, महाराजस्तपसे वनं गच्छति, तथा धूमादिदेवता अपि स्वपदं स्नेहात् कर्मिणे दत्वा, स्वयमन्यत्र गच्छन्तीत्यङ्गीकारे बाधकाभावादिति भावः ॥ न चैतावतेति ॥ तत्स्वभावप्राप्त्युक्त्या तत्पदप्राप्तिरेव शब्दान्तरेणोक्तेति न मन्तव्यमित्यर्थः ।
पूर्वपक्षस्तु कर्मिणो धूमादिपदप्राप्तिर्वा, तदैक्यं वा भवतीत्यभ्युपेयम् । ‘धूमो भूत्वाऽभ्रं भवति’ इति वचनात् । अनेन वाक्येन सामानाधिकरण्यबलाद् धूमादिभावतत्पदप्राप्त्योः प्रतीतेः । स्नेहवशाद् राजपुत्रस्य राजपदप्राप्तिवद् अर्जुनस्येन्द्रतादात्म्यवच्च, उभयोरप्युपपन्नत्वात् । अतः प्रकारद्वयेऽपि सकृदनुष्ठितयज्ञानामाकल्पसमाप्तिपरमसुखसम्भवात् । व्यर्थं कर्मणि तत्फले च वैराग्यमिति ।
सिद्धान्तस्तु न कर्मिणस् तत्तादात्म्यं तत्पदप्राप्तिर्वा सम्भवति । अन्यस्याऽन्यभावासम्भवात् । तत्पदस्य नियताधिकारिभिर् ज्ञानेनैव प्राप्यत्वात् । युगपदनेककर्मिसमवायेऽनेकेषामेकपदप्राप्त्य-योगाच्च । तस्मात् तद्गतौ गतिस् तत्स्थितौ स्थितिरित्यादिरूपतत्स्वाभाव्यापत्तिरेव श्रुत्यर्थः । अतो धूमाद्यैक्याद्यभावाद् युक्तं कर्मतत्फलयोर्वैराग्यमिति सिद्धम् ।
वाक्यार्थमुक्तावली
यथागतमन्यथा चागच्छन्तीत्युक्तमिति ॥ ‘यथैतमनेवं च च’ इत्यत्रेत्यर्थः । तथा च धूमादिभावविषयस्मारकगत्युपक्षेपकतया तेनास्य सङ्गतिरिति भावः । नैवास्यानन्तरसङ्गतिः । अनिष्टादिकारिणामपि श्रुतमित्यादीनां तत्प्रसङ्गेनावाग्गतिपरत्वेन प्रासङ्गिकत्वेन व्यवधायकत्वात् । तदुक्तं तत्त्वप्रदीपे । अवसितोऽवाग्गतिविशेषविचारः । या पुनरसौ पुण्यवतां पुनरागतिरवादि तत्प्रकारोऽयमतः प्रपञ्च्यत इति । यद्वास्याधिकरणस्य विषयतस्तच्छेषत्वेऽपि सहस्थानकारणा-भावरूपपूर्वपक्षसिद्धान्तन्यायैक्येन पूर्वाधिकरणानन्तर्यं ज्ञेयम् । धूमादिदेवतैक्यं वेति । अत्र धूमादिभावः किं धूमादिदेवतैक्यतत्पदप्राप्त्योरन्यतर उत तद्गतौ गतिरित्याद्येकदेशस्वभावरूपत्वादीति चिन्ता । तदर्थं धूमो भूत्वेत्यादिसामानाधिकरण्यश्रुतेर्मुख्यार्थत्यागे कारणं नास्त्युतास्तीति ॥ अनेकवृत्तय इति ॥ पूर्वपक्षे मुख्यवृत्तिः सिद्धान्ते स्थानैक्यलक्षणा गौण्याख्यवृत्तिद्वयमित्यनेकवृत्तय इत्यर्थः । न ह्यन्यस्यान्यभावो युज्यते न च तत्पदप्राप्तिर्वेति सिद्धान्तभाष्यानुसारेण पूर्वपक्षमाह ॥ ऐक्यं तत्पदप्राप्तिर्वेति ॥ सा ह्युभयथेति ॥ सामानाधिकरण्यश्रुतिर्वायुर्भीम इत्यादावैक्येन वायुर्ब्रह्मेत्यादावस्यैव ब्रह्मपदप्राप्तेर्भाविगत्या पदप्राप्त्या मुख्यार्थवती दृष्टेति प्रकृतेऽप्युक्तरीत्या द्वेधा मुख्यता युज्यते इति भावः ॥ अन्यार्थत्वमिति ॥ धूमादिदेवतागुणैकदेशसदृशगुणयोगेन गौणार्थत्वं स्थानैक्यार्थत्वं वेत्येकार्थत्वमित्यर्थः ॥ मुख्यार्थेति ॥ ऐक्यपदप्राप्तिरूपमुख्यार्थत्यागा-योगादित्यर्थः ।
केचित्तु यद्यप्यभेदोक्तेरैक्यं मुख्यार्थः । तत्पदप्राप्तौ तु लक्षणा । तथापि गौण्यपेक्षया तत्पद-प्राप्तेर्मुख्यत्वं विवक्षितम् । तत्पदप्राप्तौ तु तद्गतयावद्गुणलाभाद्गौणार्थत्वे त्वेकदेशसादृश्यमात्रलाभा-दित्याचक्षते । ऐक्यपक्षस्य पृथगुपदेशादित्यन्तैर्बहुभिरधिकरणैर्निराकृतत्वात्पदप्राप्तिपक्ष एव पूर्वपक्षिणोऽभिप्रेत इत्याशयेन तत्र मुख्यार्थानुपपत्तिमाशङ्क्य परिहरति ॥ न च कर्मिण इति ॥ कुतो न वाच्यमित्यतो भाष्योपात्तश्रुत्युपक्रमे ‘ते धूममभिसम्भवन्ति’ इति धूमप्राप्त्युक्या सूचितं सहस्थानमित्युक्तन्यायं विशदयति ॥ धूमादिदेवताभिरिति ॥ साकल्येति ॥ तत्पदानां कल्पान्तत्वादिति भावः । सूत्रे तदिति भिन्नं पदं समस्तं च । तत्स्वाभाव्यापत्तिरिति सावधारणं विवक्षितम् । तथा च तस्य कर्मिणस् तद् धूमादिभवनं तत्स्वाभाव्यापत्तिरेव । तस्य धूमादेः स्वभाव इव स्वभावो यस्य तत्स्वभावः । अश्वमुख इत्यादिवत् । तत्स्वभावस्य भावस् तत्स्वाभाव्यम् । तस्यापत्तिः । धूमादिदेवतास्वाभावसदृशस्वभावप्राप्तिर्न तु तदैक्यं तत्पदप्राप्तिर्वेत्यभिप्रेत्य प्रतिज्ञाभागं व्याचष्टे ॥ अत्रेति ॥ न चैतावतेति ॥ धूमादिदेवतास्वभावसदृशस्वभावप्राप्तिरित्येतावता याव-त्सादृश्यमादाय पदप्राप्तिपर्यायत्वमस्य शब्दस्येति न वाच्यम् । तद्गतिस्थित्यादौ स्वस्यापि गतिस्थित्यादिरूप स्वभावैकदेशसदृशस्वभावत्वस्य धूमादिभावपदेन विवक्षितत्वादित्यर्थः ॥ दर्शनादिति ॥ तत्त्वमसीत्यादौ तदिव त्वमिति दर्शनादित्यर्थः ।
धूमादिप्रविश्येत्येतदनुसारेण पक्षान्तरमाह ॥ तत्प्रवेशेनेति ॥ धूमाद्यभिमानिनः कर्मिणां ग्रामे उभयोरप्येकदेशस्थितत्वेन स्थानैक्यमित्यर्थः ॥ तथा प्रयोगेति ॥ ‘गाव एकीभवन्ति’ इत्यादाविति भावः । एतेन प्रयोगदर्शनेनैक्यवाक्यस्य सादृश्यस्थानैक्याभ्यामुपपत्तेरिति हेत्वंशो विवृतः । यद्वक्ष्यति एकदेशस्वभावेन वागभेदोऽपि युज्यते इति । मुख्यार्थानुपपत्तिरूपबाधकोपपत्ते-र्विद्यमानत्वाच्चेति भावेन न ह्यन्यस्येत्येतद्व्याचष्टे ॥ कुत इत्यादिना ॥ ह्यन्यस्येति हिशब्दसूचितं विद्यागम्यमित्युत्तरत्र स्पष्टं कारणाभव इत्युक्तन्यायं विशदयति ॥ तस्य नियताधिकारिभिरिति ॥ न च तत्पदमिष्यत इत्येकवचनसूचितानुपपत्तिमाह ॥ युगपदिति ॥ ‘यथा जीवःपरं ब्रह्म’ इति भाष्यस्यायमर्थः । तत्त्वमसीत्यादौ ज्ञानानन्दाद्येकदेशसादृश्येन जीवः परं ब्रह्मेत्युच्यते । ‘सर्वं खल्विदं ब्रह्म’ इत्यत्र सकलजगद्गुणसदृशगुणात्मकत्वेन ब्रह्म जगदित्युच्यते । सर्वभूतगुणैर्युक्तं देवमाज्ञातुमर्हसीत्यादेः । सकलजगद्दोषानुषङ्गाभावाद् एकदेशस्वभावेनेत्युक्तम् । स्पष्टं चैतत् ‘तद्गुणसारत्वात्तद्व्यपदेशः प्राज्ञवत्’ इत्यत्र । भावबोधे तु सादृश्ये चेति । तत्त्वमसीत्यादा-वित्यत्रेत्यर्थः । उपलक्षणमेतत् । तदधीनत्वे चेत्यपि ग्राह्यम् । ‘सर्वं खल्विदं ब्रह्म’ इति तत्रापि प्रयोगदर्शनादिति । अत एवोक्तं स्मृतौ ‘यथा जीवः परं ब्रह्म ब्रह्मेदं जगदित्यपि’ इति भाव इत्यपि व्याख्यातम् ।
तत्त्वसुबोधिनी
यथागतमिति ॥ यथेतमनेवं चेत्यत्रेत्यर्थः । तथा च धूमादिभावरूपविषयस्मारकगत्यु-पक्षेपकतया तेनास्य सङ्गतिरिति भावः । तर्हि तदानन्तर्यं स्यादिति न वाच्यम् । साक्षात्तदुपक्षिप्त-गतागतविचारस्य तदनन्तरमेवावश्यं कर्तव्यत्वेन तत्परस्य चरणादित्यस्य तदानन्तर्ये स्थिते इतरेषां विचाराणां तूक्तरीत्या तत्तत्प्रसङ्गेन तत्तदनन्तरमेवावश्यं कर्तव्यतया तत्परैरधिकरणैर्व्यवधानस्या-दोषत्वादिति भावः । न ह्यन्यस्यान्यभावो युज्यत इति सिद्धान्तभाष्यानुसारेणाह ॥ ऐक्यमिति ॥ कुत इत्यतस्तत्र प्रमाणमाह ॥ सामानाधिकरण्येति ॥ ऐक्ये तत्पदप्राप्तौ वा सामानाधिकरण्यश्रुतिः कथं मानमित्यत आह ॥ सा हीति ॥ उक्तरीत्या ऐक्यतत्पदप्राप्तिरूपोक्तरीत्या ॥ अन्यथेति ॥ ऐक्यतत्पदप्राप्तिरूपार्थानङ्गीकारे । तद्विरोधः धूमो भूत्वेत्यादिश्रौतसामानाधिकरण्यविरोध इत्यर्थः । नन्वस्त्येव बाधकं कर्मिणो देवतापदप्राप्त्यसम्भवरूपमित्याशङ्क्य निषेधति ॥ न चेति ॥ युक्त्यन्तरं चाह ॥ स्नेहादिति ॥ पदप्राप्तिपर्यायत्वमिति ॥ धूमादिभावप्राप्तिर् देवतापदप्राप्तिरिति पदयोः पर्यायत्वमित्यर्थः ॥ तद्गतौ गतिरित्यादीति ॥ अत्रादिशब्देन स्थितौ स्थितिः प्रवेशश्च लघुत्वादिरिति स्मृत्युक्तं ग्राह्यम् । तर्हि सामानाधिकरण्यश्रुतेः का गतिरित्यत आह ॥ सादृश्ये चेति ॥ तत्त्वमसीत्यादावित्यर्थः । उपलक्षणमेतत् । तदधीनत्वे चेति ग्राह्यम् । ‘सर्वं खल्विदं ब्रह्म’ इति तत्रापि प्रयोगदर्शनात् । अत एवोक्तं ‘यथा जीवःपरं ब्रह्म ब्रह्मेदं जगदित्यपि’ इति भावः । इत्यादिरिति भाष्यगतादिशब्दार्थमाह ॥ स्थानैक्येति ॥ तथा प्रयोगदर्शनादिति ॥ ‘परेऽव्यये सर्व एकीभवन्ती’त्यादावित्यर्थः । प्रागन्यस्येति ॥ अनेन प्रागन्यस्य सतः कर्मिणो ऽन्यभावः धूमादिदेवतैक्यं न युज्यत इति भाष्यं व्याख्यातं भवति । कुत इत्यतस्तद्धेतुप्रदर्शनपरत्वेन तदेव भाष्यं व्याचष्टे ॥ अन्यस्येति ॥ कुतो न तत्पदप्राप्तिर्युक्तेत्यतो विद्यागम्यमिति स्मृत्युक्तं हेतुमाह ॥ तस्या इति ॥ न तत्प्राप्यं हि कर्मणेति स्मृतिसूचितं युक्त्यन्तरमाह ॥ युगपदनेकेति ॥ वाचोऽभेदरूपत्वाद्यनुपपत्तेस्तद्व्याचष्टे ॥ अभेदेति ॥
वाक्यार्थविवरणं
धूमादिभावः ॥ धूमादिदैवतैक्यम् । तत्पदप्राप्तिश्चेत्यर्थः ॥ सामानाधिकरण्येति ॥ धूमो भूत्वेति सामानाधिकरण्यश्रुतेरित्यर्थः ॥ उभयथेति ॥ ऐक्येन वा तत्पदप्राप्त्या वेत्यर्थः ॥ तदिति ॥ सामानाधिकरण्यश्रुतीत्यर्थः ॥ अन्यार्थत्वमिति ॥ धूमादिश्रुतेर्लोकान्तर्विद्यमानत्वरूपमित्यर्थः । सहावस्थानाज् जातस्नेहादिति योज्यम् ॥ प्रकारद्वयेऽपीति ॥ ऐक्यपक्षे तत्पदप्राप्तिपक्षे चेत्यर्थः ॥ आकल्पसमाप्ति ॥ कल्पसमाप्तिपर्यन्तम् ॥ न चैतावतेति ॥ कर्मिणो धूमादिदेवतास्वाभाव्योक्तौ तत्पदप्राप्तेरेव तत्स्वभावत्वेन तत्पदप्राप्तिरेवोक्ता स्यादित्यर्थः ॥ तद्गताविति ॥ धूमादि-देवताशरीरान्तर्गतस्य कर्मिणो धूमादिदेवताया गतौ तदन्तर्गतस्यापि गतिरित्यर्थः । एकदेश-स्वभावत्वसादृश्येन सामानाधिकरण्यव्यपदेश इत्येद्दृष्टमित्यत आह ॥ सादृश्ये चेति ॥ सिंहो देवदत्त इत्यादाविति शेषः । आदिपदोक्तमर्थान्तरं चाह ॥ तत्प्रवेशेनेति ॥ धूमादिदेवता-शरीरान्तःप्रवेशेनेत्यर्थः । स्थानैक्येनैक्यव्यपदेशस्तु सायं गोष्ठे गाव एकीभूता इत्यादौ दृष्ट इत्याह ॥ तथेति ॥ धूमादिदेवताशरीरान्तर्गतत्वं कर्मिणामङ्गीकृत्य धूमो भूत्वेति व्यपदेशस्य तद्गतौ गतिरित्यादिसादृश्येनैकार्थमुक्त्वा प्रवेशश्चेत्यनेन धूमादिदेवताशरीररूपैकस्थानस्थत्वमङ्गीकृत्य स्थानैक्येनार्थान्तरमुच्यत इति ज्ञेयम् ॥ समवाये ॥ सम्मेलने । भाष्ये लघुत्वादिस् तद्देवताशरीर-प्रवेशे तच्छरीरस्य गुरुत्वानापादकत्वतया लाघवमित्यर्थः । भाष्ये ॥ यथेति ॥ तत्त्वमसीत्यादौ जीवो ज्ञानादिसादृश्येन ब्रह्मेत्युच्यते । यथा वा ‘सर्वं खल्विदं ब्रह्म’ इत्यादौ ‘गामाविश्य च भूताति’ इति भूतधारकत्वादिरूपपृथिव्यादिगुणसदृशगुणवत्त्वेन भगवतो यथा पृथिव्यादिसर्वा-भेदव्यपदेशस्तद्वदित्यर्थः ।
वाक्यार्थमञ्जरी
धूमादिभावेति ॥ धूमादिदेवतैक्यतत्पदप्राप्त्योर्निरासादित्यर्थः । अवतीर्णा अवरूढाः । उक्तं यथेतमनेवं चेत्यनेन प्रकारन्तरं सादृश्यादि ॥ शब्दस्यानेकवृत्तय इति ॥ धूमादिशब्दस्य मुख्यवृत्त्या आद्यपक्षद्वयप्रतीतिः । स एव धूमो भूत्वेति वा धूमान्तरो भूत्वेति वा प्रतीतेः । गौण्याद्यमुख्यवृत्त्या सादृश्यादिप्रतीतिरिति भावः ॥ सामानाधिकरण्येति ॥ कर्मी धूमो भूत्वेवं रूपाया इत्यर्थः । उक्तरीत्या शब्दस्यानेकेत्युक्तरीत्या मुख्यवृत्त्येति यावत् । तद्विरोधः श्रौतसामानाधिकरण्यविरोधः । अन्यार्थत्वं सादृश्यादिरूपम् ॥ ॐ तत्स्वाभाव्यापत्तिरुपपत्तेः ॐ ॥ कर्मिणस्तत्स्वाभाव्यापत्तिस् तस्य धूमादेः स्वभाव इव स्वभावो यस्य स तत्स्वभावस् तस्य भावस्तत्स्वाभाव्यम् । धूमादि-देवतास्वभावसदृशस्वभावत्वस्यापत्तिः प्राप्तिः । न त्वैक्यादेः । कुतः ? उपपत्तेः । अर्थान्तरानु-पपत्त्यास्यैवार्थस्योपपत्तेरित्यर्थः ॥ सादृश्ये चेति ॥ तत्त्वमसीत्यादावित्यर्थः । आदिशब्दार्थमाह ॥ स्थानैक्येति ॥ तथा प्रयोगेति ॥ ‘परेऽव्यये सर्व एकीभवन्ति’ इत्यादावित्यर्थः ॥ कुतोऽर्थ इति ॥ श्रुतेरयमेवार्थः कुतः स्यादित्यर्थः । समवाये सम्मेलने ॥
॥ इति तत्स्वाभाव्याधिकरणम् ॥ १६ ॥