ॐ न तृतीये तथोपलब्धेः ॐ
१५. न तृतीयाधिकरणम्
सूत्रभाष्यम्
‘यत्र दुःखं सुखं तत्र सर्वत्रापि प्रतीयते ।
अपि नीचगतौ किञ्चित्किमु मानुषदेहिनः’ इति ।
वचनान्महातमस्यपि सुखप्राप्तिरित्यत आह—
ॐ न तृतीये तथोपलब्धेः ॐ ॥ १९ ॥
‘अथाविद्वानकर्माऽवाग्गच्छति त्रिधा ह वाऽवाग्ग (च्छ) तिस्तिर्यग्यातना तम इति । द्वे वाव सुखानुवृत्ते, न तमः सुखानुवृत्तं केवलं ह्येवात्र दुःखं भवति’ इति श्रुतेर्न तृतीया वाग्गतौ सुखम् ।
तत्त्वप्रदीपिका
एवं तावदूर्ध्वगती द्वे इत्युक्तम् । ते अपेक्ष्याधोगतिस्त्वान्तरभेदभिन्नाऽपि तृतीयस्थानमित्युच्यते । तच्च तृतीयस्थानं त्रिविधमुक्तं तिर्यङ्नरकं तम इति । तत्र प्रथमं स्पष्टोक्तं ‘जायस्व म्रियस्व’ति । इतरे चोक्ते ‘संयमन’ इत्यादिना । तृतीयं पुनर्विशेषतो वेदयति । न तृतीये तथोपलब्धेः ॥ ‘त्रिधा ह वाऽवाग्गच्छति’ । वाव एव । अवाग्गच्छतीति यत्तत्त्रिधैवेत्यर्थः । ‘समाने लोप’ इति सूत्रादेक-वकारलोपः ॥
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनवैराग्यायान्धन्तमसो दुःखमात्रतासाधनादस्ति शास्त्रादिसङ्गतिः । अन्धे तमस्यपि सुखसद्भावे न तत्रातिशयेन वैराग्यमुत्पद्यतेऽतस्तन्निषेध्यम् । प्रकृतमन्धन्तमो विषयः । सुखयुक्तं न वेति सन्देहः । लोकदृष्टिरलौकिकत्वं च सन्देहबीजम् । पूर्वपक्षयति ॥ यत्रेति ॥ अन्धन्तमोऽपि सुखयुक्तमेव । दुःखयुक्तत्वात् । सुखेन च दुःखस्य व्याप्तत्वात् । न च वक्तव्यं सर्वसुखदुःखयोरप्रत्यक्षत्वाद् व्याप्तिग्रहणानुपपत्तिरिति । ‘यत्र दुःखम्’ इत्यागमेन तद्ग्रहणोपपत्तेः । अतोऽन्धतमस्यपि सुखसद्भावान्न तत्रातिवैराग्यमपेक्षितमिति भावः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अधोगतिषु तृतीये तमसि न सुखमस्तीति मन्तव्यम् । ‘अथाविद्वान्’ इति तथाभिधायकश्रुतेरित्यर्थः ।
भावबोधः
प्रकृतमन्धन्तम इति ॥ ‘अपि सप्त’ इत्यत्रेत्यर्थः । न च तर्हि तदानन्तर्यमेव स्यादिति वाच्यं ‘तत्रापि च’ इत्यनेन सदुःखत्वे सिद्धे सुखाभावविचारस्य प्रवृत्तेः । तर्हि ‘विद्याकर्मणोः’ इत्यनेन व्यवधाने किं कारणमिति चेत् । सत्यम् । सदुःखत्वविचारस्य सर्वनरकविषयत्वम् । अस्य तमोमात्रविषयत्वमिति ज्ञापनमिति भावः । अत्रान्धंतमः सुखयुक्तं न वेति चिन्ता । तदर्थं दुःखं सुखेन व्याप्तं न वेति । तदर्थं व्याप्तिग्राहकं प्रमाणमस्ति न वेति । तदर्थं तत्र बाधकं प्रमाणं नास्त्युतास्तीति । महातमस्यपि सुखप्राप्तिरिति भाष्यव्याख्यानपरेणान्धंतमोऽपीत्यादिना व्याप्तत्वा-दित्यन्तेन दुःखसहावस्थायित्वादन्धंतमस्यपि सुखमिति न्यायविवरणमुक्ततात्पर्यं भवति ।
भावदीपः
अन्धतमस इति ॥ अन्धतमसस्येत्यर्थः । ‘द्वित्रिभ्यां पाद्दन्मूर्धसुबहुव्रीहौ’ इत्यादिनिर्देशेन समासान्तविधेरनित्यत्वादवसमन्धेभ्यस्तमस इति समासान्तो नाश्रितः । एतेन विद्याकर्मरहितानां तिर्यङ्नरकतमोभेदेन यत्त्रेधावस्थानं तत्राद्यं पूर्वत्र स्पष्टमुक्तम् । जायस्व म्रियस्वेति द्वितीयस्वरूपं तु तत्रापि चेत्यत्रोक्तम् । अत्र तु तृतीयस्य तमसः स्वरूपं निरूप्यत इति वा प्राङ्नरकवत्पौनः पुन्येन जननमरणवद्रूपे भतानां तृतीयावस्थाने मिश्राणीति सुखदुःखमिश्रत्वोक्तौ तमोरूपेऽपि तृतीयेऽ-वस्थाने तथास्त्विति शङ्कोदयाद्वाऽवान्तरसङ्गतिः सूचिता । ननु नरकवद्दुःखरूपत्वेऽपि वैराग्यो-पपत्तौ किं दुःखमात्रोक्त्येत्यतः फलफलिभावं व्यनक्ति ॥ अन्धेति ॥ प्रकृतमिति ॥ प्रागवरोहपदादिना प्रस्तुतं तिर्यग्वा नरकं तम इति पूर्वत्र चोपस्थापितं चेत्यर्थः । दुःखसहावस्थायि-त्वादन्धे तमस्यपि सुखमित्यन्यत्रेह भाष्ये च सुखदुःखयोर्व्याप्तिमात्रस्यैवोक्त्या हेत्वनुक्तेरसाङ्गत्य-निरासाय स्वयं हेतुं वदन् महातमसीत्यादि प्रतिज्ञाभाष्यं व्याचष्टे ॥ अन्धन्तमोऽपीति ॥ दुःखसहावस्थायित्वादित्यन्यत्रोक्तहेतुं स्मृत्यनुरोधेन व्यनक्ति ॥ सुखेन चेति ॥ तावतैव पूर्तौ भाष्ये यत्र दुःखं तत्र सुखमिति व्याप्तिवचनोक्तेरुपयोगं व्यनक्ति ॥ न च वक्तव्यमिति ॥ अत इति ॥ सुखव्याप्तदुःखयुक्तत्वादित्यर्थः । न तृतीयावाग्गतौ सुखमिति भाष्यदिशा सूत्रेऽवाग्गताविति शेषोक्तौ तृतीयायामिति निर्देशापत्तेर्न तृतीयेत्यादिभाष्यं फलितोक्तिपरं मत्वा सूत्राक्षरार्थमाह ॥ अधोगतिष्विति ॥ तासां तिसॄणां तिर्यग्वा नरकं तम इति पूर्वं प्रकृतत्वादिति भावः । तथोपलब्धेरित्येतद्विवरणपरतया भाष्यं व्याचष्टे ॥ अथेति ॥ श्रुताववाग्गच्छतीति ॥ यत् तत् त्रिधा ह वाव त्रिधैवेत्यर्थ इति तत्वप्रदीपे एवकारार्थस्य वावेत्यस्य ‘समाने लोपः’ इति सूत्रादेक-वकारलोप इत्युक्तम् ।
अभिनवचन्द्रिका
लोकदृष्टिरलौकिकत्वं चेति ॥ इहापि अलौकिकत्वमेव सन्देहबीजं लौकिकदृष्टिस्तु प्रागुक्तदिशा तस्य साचिव्यमाचरतीति तथोक्तमिति बोध्यम् । एतेन लोकदृष्टेर्लौकिके सुखवत्त्वरूपकोटिप्रापकत्वेऽपि अलौकिके तदप्रापकत्वात् सन्देहबीजत्ववर्णनमयुक्तमिति परास्तम् । एवमेवंजातीयके सर्वत्र द्रष्टव्यम् ॥ अतिवैराग्यमिति ॥ नरकाऽपेक्षयेत्यर्थः ॥ अप्रियत्वादिति ॥ अभिव्यक्ताप्रीतिविषयत्वादित्यर्थः । एतेन एतेषामेव संसारदशायां सुखित्वेनेश्वरेष्टत्वदर्शनाद्व्यभिचार इति परास्तम् । तत्राप्रियत्वसद्भावेऽपि हेतुकृताभिव्यक्ताप्रीतिविषयत्वस्य तत्राभावात् । भाष्यस्थ ‘लोकसिद्धिः’ इति पदमनूद्य व्याचष्टे लोकसिद्धिरिति ॥ लोकसिद्धदृष्टान्तेन तमसः सुखराहित्यसाधकमनुमानं स्मृतिसिद्धमिति भावः । अनेन व्यतिरेकान्वयाविति ॥ ‘विमता न सुखवत्त्वेनेश्वरेष्टास् तदप्रियत्वात्’ इति प्रयोगे ‘अतिप्रिये यथा राजा न दुःखं सहते क्कचित्’ इत्यनेनाऽर्थाद् यो यस्य सुखित्वेनेष्टः नाऽसौ तस्याऽप्रिय इति व्यतिरेकः सूचितः । ‘अत्यप्रिये सुखमपि’ इत्यनेन यो यस्याऽप्रियः, नाऽसौ तस्य सुखित्वेनेष्ट इत्यन्वयो दर्शित इत्यर्थः । अतः परं श्रूयमाणं ‘सदसज्जनानां वा प्रकृतिः’ इति वाक्यं न टीकावाक्यं किंतु प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयं, ‘चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याह’ इति भाष्यविरुद्धत्वात् । अस्मिन् भाष्ये लोकसिद्धदृष्टान्तकानुमानस्य स्मार्तत्वाभिधानेन स्मृतेर् अनुमानाङ्गव्याप्तिनिरूपणपरत्वस्यैव भाष्याऽभिमतत्वाद् अस्य वाक्यस्य पूर्वेणान्वयाभावाच्च । न च सदसज्जनानां वा प्रकृतिर् अनेन दर्शितेत्यन्वय इति वाच्यम् । सदसज्जनस्वभावनिरूपणस्याऽसङ्गतत्वात्, स्मृतौ तदनुपलम्भाच्च ॥ मोहान्यथानुपपत्तेरिति ॥ ननु मोहस्य दुःखविशेषकार्यत्वान् मोहान्यथानुपपत्त्या दुःखातिशय एव तत्र सिध्येत्, न सुखाभावस् तत्कथमुच्यते मोहान्यथाऽनुपपत्तेर्न तत्र सुखलेश इति चेत् सत्यम् । मोहान्यथाऽनुपपत्त्या दुःख एवातिशयः सिध्यति अतिशयश्च निरवधिकत्वमिव सुखलेशाऽ-समानाधिकरणत्वमपीति तथोक्तम् । ननु भाष्ये ‘तृतीयतमसः श्रवणात् संशोकजमोहप्राप्तिः’ इत्येतावतैव पूर्णत्वाद् भाष्ये ‘शब्दानुसारात्’ इति पदं व्यर्थमित्यत आह– शब्दानुसारा-दितीति ॥ इत्यादीत्यतः परं सूचयतीति शेषः । ततश्चैवं योजना शब्दानुसारादितिपदं तृतीयतमसः सम्यग्व्याख्याने अतिमूर्च्छा, अतिसम्यग्व्याख्याने ततोऽप्यतिमूर्च्छेत्यादि सूचयतीति । यथा यथा व्याख्यानं विशिष्यते तथा तथा दुःखं विशिष्यत इति सूचनाय तत्पदं प्रयुक्तमिति भावः ।
पूर्वपक्षस्तु अन्धन्तमोऽपि सुखयुक्तमेव दुःखयुक्तत्वात्, दुःखं हि सुखाविनाभूतम् । ‘यत्र दुःखं सुखं तत्र’ इति वचनात् । अतोऽन्धे तमस्यपि सुखसद्भावान् न तत्र वैराग्यमपेक्षितमिति ।
सिद्धान्तस्तु नाऽन्धे तमसि सुखलेशो वक्तव्यः । ‘अथाऽविद्वानकर्माऽवाग्गच्छति ‘त्रिधा ह वा अवाग्गतिःतिर्यग्यातनातम’ इति, द्वे वा वसुखानुवृत्ते, न तमः सुखानुवृत्तमिति श्रुतेः, ‘तिर्यक्षु नरके चैव सुखलेशो विधीयते । नाऽन्धे तमसि मग्नानां सुखलेशोऽपि कश्चन’ति स्मृतेश्च । ‘विमता न सुखवन्तः, ईश्वरेण तथाऽनिष्टत्वाद् यो यथा नेश्वरेणेष्टः नासौ तथा, तथा शृङ्गित्वेनाऽनिष्टः शशो न शृङ्गि’ इत्यनुमानाच्च । ईश्वरेण तथानिष्टत्वं न तदप्रियत्वहेतुसिद्धम् । तत्र सुखाभावस्य चतुर्मुखप्रत्यक्षसिद्धत्वाच्च । अधरतमःश्रवणमात्रेण तच्छ्राविणां मोहप्राप्त्य न्यथशनुपपत्त्या तत्रत्यदुःखस्य निरवधिकत्वात् सुखलेशाऽसामानाधिकरण्याऽतिशयसिद्धेश्च । न च श्रवणमात्रेण तच्छ्राविणां मोहप्राप्तिरसिद्धेति वाच्यम् । ‘महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाऽधरम् । श्रवणेनैव मूर्च्छादिरधरस्य यतो भवेत्’ इति स्मरणात् । अतोऽन्धे तमसि सुखलेशाभावाद् भवितव्यं तत्र तत्साधने च विरक्तेनेति सिद्धम् ।
वाक्यार्थमुक्तावली
प्रकृतमन्धन्तम इति ॥ सप्तेति सूत्रे प्रकृतमित्यर्थः । यद्वा विद्याकर्मणोरिति सूत्रोपात्तस्मृतौ तिर्यग्वा नरकं तम इति प्रकृतमित्यनन्तरसङ्गतिरिति भावः । अन्धन्तमः सुखयुक्तं न वेति चिन्ता । तदर्थं दुःखं सुखेन व्याप्तं न वेति । तदर्थं व्याप्तिग्राहकप्रमाणस्य बाधकं नास्त्युतास्तीति । अत्रापि सहस्थानमित्युक्तन्यायप्रदर्शकं भाष्यं व्याचष्टे ॥ अन्धन्तमोऽपीति ॥ न तत्रातिवैराग्यमिति ॥ ननु वैराग्यं रागाभावः । कथं तत्र तारतम्यमिति चेन्न । प्रतियोगिनि रागे फलतारतम्येन तारतम्यात् । अभावेऽपि तदनुसारेण फलतारतम्येन तारतम्यस्य विवक्षितत्वात् । सूत्रे सुखमित्यध्याहारः । तृतीये तिर्यग्वा नरकं तम इत्युक्ताधोगतिषु मध्ये तृतीये तमसीति विवक्षित्वा व्याचष्टे ॥ अधोगतिष्विति ॥ तथाभिधायकश्रुतेरिति ॥ स्पष्टश्रुतेरित्यर्थः । तेनापि नीचगताविति व्याप्तिवचनं स्पष्टश्रुतिबला-द्विविधनीचगतिविषयमित्युक्तं भवति । एतेनोपलब्धेरिति पूर्तेस् तथेत्यधिकमिति निरस्तम् ।
तत्त्वसुबोधिनी
प्रकृतमन्धन्तम इति ॥ अपि सप्तेत्यत्रेत्यर्थः । तर्हि तदानन्तर्यं स्यादिति न वाच्यम् । तत्रापि चेत्यनेन सदुःखत्वे सिद्धे दुःखाभावविचारस्य प्रवृत्तेः । तर्हि विद्येत्यनेन व्यवधाने किन्निमित्तमिति न वाच्यम् । सदुःखत्वविचारस्य सर्वनरकविषयत्वम् अस्य तु तमोमात्रविषयत्वमिति ज्ञापनमिति भावः ॥ अन्धन्तमोऽपीति ॥ तमोगता न सुखवन्तः दुःखवत्वादित्यनुमानमुक्तं भवति ।
वाक्यार्थविवरणं
लोकदृष्टिरिति ॥ कारागृहे सुखदुःखयोरुभयोरपि दृष्टत्वादिति भावः । श्रुतौ ‘अकर्मा’ इत्यस्य कर्माकर्ता विरुद्धकर्मकर्ता मिथ्यामानी चेत्यर्थो ‘अनिष्टादि’ इत्यधिकरणोक्तरीत्या द्रष्टव्यः।
वाक्यार्थमञ्जरी
प्रकृतमपि सप्तेत्यनेन लोकदृष्टिरंधकारेऽपि विषयभोक्तुः सुखदर्शनम् ॥ ॐ न तृतीये तथोपलब्धेः ॐ ॥ तृतीये तृतीयावाग्गतावन्धे तमसि न सुखमस्ति । कुतः ? तथोपलब्धेः । अथाविद्वानिति श्रुतौ तथा दर्शनादित्यर्थः ।
ॐ स्मर्यतेऽपि च लोके ॐ
सूत्रभाष्यम्
॥ ॐ स्मर्यतेऽपि च लोके ॐ ॥ २० ॥
‘तिर्यक्षु नरके चैव सुखलेशो विधीयते ।
नान्धे तमसि मग्नानां सुखलेशोऽपि कश्चन’ इति भविष्यत्पर्वणि ।
लोकसिद्धं चैतत् । चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याह ।
‘अतिप्रिये यथा राजा न दुःखं सहते क्वचित् ।
अत्यप्रिये सुखमपि तथैव परमेश्वरः’ इति हि ब्राह्मे ॥
तत्त्वप्रकाशिका
एतमेवार्थं स्मृत्यनुमानाभ्यां च साधयत्सूत्रमुपन्यस्य तां स्मृतिमुदाहृत्यानुमानस्वरूपं च सूचयति ॥ स्मर्यतेऽपीति ॥ एतदन्धेतमसि सुखराहित्यं लोकसिद्धं लौकिकदृष्टान्तयुक्तानुमान-सिद्धमित्यर्थः । अयमभिसन्धिः । विप्रतिपन्ना न सुखवन्तः । तथात्वेनेश्वरानिष्टत्वात् । यद्यथेश्वरानिष्टं तत्तथा न भवति । यथा शशो विषाणित्वेन । नैते सुखित्वेनेश्वरेष्टाः । अप्रियत्वात् । यो यस्याप्रियः स सुखित्वेन न तदिष्टः । यथा राजविरोधी राज्ञ इति । एतच्चानुमानं स्मृतिसिद्धत्वेनातिप्रबलमिति भावेनाह ॥ च शब्दादिति ॥ लोकसिद्धिर् लोकदृष्टान्तवदनुमानेन तमसः सुखराहित्यसिद्धिः । कासौ स्मृतिरित्यत आह ॥ अतीति ॥ अनेन व्यतिरेकान्वयौ दर्शितौ । सदसज्जनानां वा प्रकृतिः ।
गुर्वर्थदीपिका
तथात्वेनेश्वरानिष्टत्वादित्यत्र ईश्वरस्येष्टाः सङ्कल्परूपेच्छाविषया न भवन्ति ईश्वरानिष्टाः । तथात्वेन सुखवत्त्वेनेश्वरानिष्टत्वादीश्वरसङ्कल्पाविषयत्वादित्यर्थः । अप्रियत्वादीश्वराप्रियत्वात् । अनेन व्यतिरेकान्वयौ दर्शितावित्यस्य ‘अतिप्रिये यथा राजा’ इति स्मृतिवचनेन व्यतिरेकान्वयौ अप्रियत्वादिति हेतोर् व्यतिरेकान्वयौ दर्शितावित्यर्थः । य ईश्वराप्रियः स सुखित्वेनेश्वरेष्टो न भवतीत्यन्वयव्याप्तिरुत्तरार्धेन कथिता । यद्यपि पूर्वार्धे न दुःखं सहत इत्येवास्ति । तथापि यो यत्र दुःखं न सहते स सुखित्वेनैव तस्येष्टो दृष्ट इति साध्याभावोऽप्यर्थादुक्त एवेति भावः ।
भावबोधः
नन्वन्धे तमसि सुखराहित्यानुमाने लौकिकदृष्टान्तानुपलम्भादुदाहरिष्यामाणस्मृतौ चेश्वरस्य स्वाप्रिये सुखासहनराजादिदृष्टान्तोक्तेः कथमेतदित्यत ईशस्याप्रियत्वेनैव कारणाभावादिति न्यायविवरणं मनसि निधाय तदभिप्रायमाह ॥ अयमभिसन्धिरिति ॥ कारणाभावादिति न्यायविवरणोक्तसाक्षाद्विप्रतिपन्नार्थसाधकमनुमानमाह ॥ विप्रतिपन्न इति ॥ तथात्वेनेश्वरा-निष्टत्वादित्यनेनेशेच्छारूपकारणाभावादिति व्याख्यातं भवति । अप्रियत्वेनैवेत्युक्तं हेतुसाधक-मनुमानमाह ॥ नैते सुखित्वेनेश्वरेष्टा इति ॥ तमोगतानामसुरादीनामीश्वराप्रियत्वं तु–
‘तमोद्वेषेण संयाति भक्त्या मुक्तिं तथैव च ।
विष्णौ विष्णुप्रसादेन विलोमत्वेन चाञ्जसा ॥’
इत्याद्यनेकप्रमाणसिद्धम् । एतच्चानुमानं स्मृतिसिद्धत्वेनातिप्रबलमिति । तथा च तमसि सुखसाधकानुमानस्यानेन बाध इत्यर्थः ।
ननु स्मृतौ ईश्वरः ‘स्वाप्रिये सुखं न सहत’ इत्यत्रात्यप्रिये सुखं यथा राजा न सहते तथैव परमेश्वर इत्येतावदेव वक्तव्यम् । ‘अतिप्रिये यथा’ इत्यादिकं किमर्थमुदाहृतमित्यत आह ॥ अनेन व्यतिरेकान्वयौ दर्शिताविति ॥ नैते सुखित्वेनेश्वरेष्टा अप्रियत्वादित्यनुमाने प्रथमार्धेन व्यतिरेकस् तृतीयपादेनान्वयः प्रदर्शित इत्यर्थः । दुःखस्य सुखविरुद्धत्वेन दुःखपदस्य सुखाभावपरत्वाद् व्यतिरेकत्वं द्रष्टव्यम् । अत एव पक्षान्तरमाह ॥ सदसज्जनानां वेति ॥ अत्र पूर्वं सदसज्जनानां प्रकृतत्वात्तत्र परमेश्वरः ‘सज्जनेषु दुःखं न सहत’ इत्यत्रातिप्रिये यथा राजेति दृष्टान्तोक्तिः । ‘असज्जनेषु सुखं न सहत इत्यत्रात्यप्रिय’ इति दृष्टान्तोक्तिरिति भावः ।
भावदीपः
सूत्रेऽपिचशब्दयोः श्रवणादाह ॥ स्मृत्यनुमानाभ्यां चेति ॥ भाष्यस्थैतच्छब्दं व्याचष्टे ॥ एतदिति ॥ भाष्येऽनुमानप्रकारस्यास्फुटत्वात्स्मृत्युक्तान्वयव्यतिरेकवशादीशस्याप्रियत्वेन कारणा-भावान्न चान्धे तमस्यपि सुखमित्यन्यत्रोक्त्यनुरोधाच्च । विमता न सुखिन ईशाप्रियत्वादित्युक्तौ संप्रतिपन्नदृष्टान्ताभाव इत्यतो प्रियत्वहेतुं सकर्तृकत्वे कार्यत्वद्वारा सावयवत्वमिव सुखराहित्यरूपे साध्ये सुखित्वेनेश्वरानिष्टत्वद्वारा परंपरया सङ्गमयितुमाह ॥ अयमभिसंधिरिति ॥ अप्रिय-त्वादिति ॥ एतच्च परद्विषो गुरुद्विष इत्यादिना प्रागुक्तश्रुत्यादिसिद्धद्वेषित्वावमन्तृत्वादिना सिद्धमिति भावः । स्मृत्यनुरोधेन दृष्टान्तलाभाय सामान्यव्याप्तिमाह ॥ यो यस्येति ॥ दृष्टान्तवदिति ‘मतुप्’ न तु ‘वतिः’ ॥ व्यतिरेकेति ॥ यो यस्य सुखित्वेनेष्टस्स तस्य प्रियः । यथा राजानुकूलो राज्ञ इति व्यतिरेकव्याप्तिः । अन्वयस्तु प्रागुक्त एव । व्यतिरेकस्य व्यभिचार-शङ्कानिरासेनान्वयव्याप्तिग्रहणद्वारानुमित्यङ्गत्वमुपेत्य व्यतिरेकोपन्यास इति भावः । अप्रियत्वहेतौ व्याप्त्युपपादकत्वे स्मृत्युपयोगमुक्त्वेदानीं व्यभिचारासिद्ध्योर्निरासपरतयोपयोगमाह ॥ सदसज्जनानां वेति ॥ ‘प्रकृतिं यान्ति भूतानि’ इत्यादाविव प्रकृतिः स्वभाव इत्यर्थः । दर्शितेत्यनुषङ्गः । राजानु-कूले राजवत् परमेश्वरो यस्मिन् दुःखं न सहते यश्च तस्य प्रियः स सज्जनस्वभावः । राज-विरोधिनि राजेव यस्मिन्नीश्वरः सुखं न सहते तदप्रियश्च सोऽसज्जन इति तयोः स्वभावोऽत्र प्रदर्श्यते । तथा च सज्जने हेतुसाध्ययोर्द्वयोरप्यभावान्न व्यभिचारोऽसज्जने नासिद्धिश्चेति भावः । एवं चास्मिन् पक्षे न सहत इत्यस्येच्छापरत्वमिति तात्पर्यम् ।
वाक्यार्थमुक्तावली
न तृतीये सुखमित्येतत्स्मर्यते लोकेऽपि सिद्धमिति सूत्रार्थपरे भाष्ये एतल्लोकसिद्धमिति पदद्वयार्थमाह ॥ तदिति ॥ ननु कथमत्रानुमानम् । तमः सुखरहितं तमस्त्वादित्युक्ते दृष्टान्ताभावः । एवं तामसा न सुखिनस् तामसत्वादित्यत्रापीत्यतश्चशब्दसूचितस्मृत्यनुसारेण प्रयोगप्रकारमाह ॥ अयमभिसन्धिरिति ॥ परमेश्वरो विप्रतिपन्नेषु ‘सुखं न सहत’ इत्यंशसूचितं कारणाभाव इत्युक्तन्यायमीश्वरेच्छारूपकारणाभावान् न विप्रतिपन्नाः सुखिन इति व्यञ्जयन्ननुमानमाह ॥ विप्रतिपन्ना इति ॥ तत्रासिद्धिवारणाय राजेवाप्रिये सुखं न सहते इत्युक्तमनुमानमाह ॥ नैते इति ॥ राजा अत्यप्रिये यथा सुखं न सहते तथैव परमेश्वर इत्येतावता पूर्णत्वाच्छिष्टं व्यर्थमित्यत आह ॥ अनेनेति ॥ नैते सुखित्वेनेष्टाःअप्रियत्वादित्यनुमाने प्रथमार्धेन यथा राजा अतिप्रिये दुःखं न सहते किन्तु सुखमेवेत्युक्त्या यत्र सुखित्वेनेष्टत्वं तत्र प्रियत्वमिति व्यतिरेकव्याप्तिर्दर्शिता । तृतीय-पादेनान्वयव्याप्तिरित्यर्थः । भावबोधे तु दुःखस्य कालापेक्षया सुखविरुद्धत्वेन दुःखासहनमेव सुखाभावासहनमिति व्यतिरेकित्वं द्रष्टव्यमित्युक्तम् । व्यतिरेकव्याप्तिप्रदर्शकत्वेन पूर्वार्धस्य स्पष्ट-मप्रतीतेः पक्षान्तरमाह ॥ सदसज्जनानां वेति ॥ दर्शितेत्यन्वेति ॥ प्रकृतिःस्वभावः । नायं श्लोकः नैतेऽसन्तः सुखित्वेनेष्टा अप्रियत्वादित्यनुमानेऽन्वयव्याप्तिकथनद्वारा असज्जनानां प्रकृतिरीश्वरेण सुखित्वेनानेष्यमाणेति तत्त्वभावकथनमात्रे परः किन्तु नैते सन्तः दुःखित्वेनेष्टा अतिप्रियत्वाद् इत्यनुमानेऽन्वयव्याप्तिकथनपूर्वं सज्जनप्रकृतिरीश्वरेण दुःखित्वेनानेष्यमाणेति सज्जनस्वभावकथन-परश्च । अतः पूर्वार्धः सार्थक इति भावः । एतेनात्र सदसत्स्वभावनिरूपणे चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याहेति भाष्यविरोध इति निरस्तम् । भावबोधे तु अत्र स्मृतौ पूर्वं सदसज्जनानां प्रकृतेः प्रकृतत्वम् । तथा च सज्जनेषु दुःखं न सहते इत्यभिप्रायेण अतिप्रिये यथा राजेति दृष्टान्तोक्तिः । असज्जनेषु सुखं न सहत इत्यभिप्रायेणात्यप्रिय इति दृष्टान्तोक्तिरिति भाव इति हृदयमित्युक्तम् । अनन्तभट्टीयेऽपि प्रकृतेः प्रकृतत्वम् । अनेनान्वयव्याप्तिदृष्टान्तौ दर्शितौ भवत इति भाव इत्युक्तम् ।
तत्त्वसुबोधिनी
ननु अन्धे तमसि सुखराहित्यानुमाने लौकिकदृष्टान्तानुपलम्भाद् उदाहरिष्यमाणस्मृतौ चेश्वर-स्याप्रिये सुखासहन एव राजादिदृष्टान्तस्योक्तेःकथमेतदित्यत आह ॥ अयमभिसन्धिरिति ॥ साक्षाद्विप्रतिपन्नार्थसाधकमनुमानमाह ॥ विप्रतिपन्ना इति ॥ अप्रियत्वहेतुकमनुमानान्तरमाह ॥ नैत इति ॥ तमोगतानामसुरादीनाम् ईश्वराप्रियत्वं तु ‘ तमो द्वेषेण संयान्ति भक्त्या मुक्तिं तथैव हि । विष्णौ विष्णुप्रसादेन विलोमत्वेन चाञ्जसा’ इत्याद्यनेकप्रमाणसिद्धम् ॥ एतच्चानुमानमिति ॥ तथा च तमसि सुखसाधकानुमानस्यानेन बाध इत्यर्थः । ननु स्मृतावीश्वरः स्वाप्रिये सुखं न सहत इत्यत्र अत्यप्रिये सुखं यथा राजा न सहते तथैव परमेश्वर इत्येव वक्तव्यम् । अतिप्रिये यथेत्यादिकं किमर्थमुदाहृतमित्यत आह ॥ अनेन व्यतिरेकान्वयौ दर्शिताविति ॥ नैते सुखित्वेनेश्वरेष्टा अप्रियत्वादित्यनुमाने प्रथमार्धेन व्यतिरेकः, तृतीयपादेनान्वयः प्रदर्शित इत्यर्थः । दुःखस्य काला-पेक्षया सुखविरुद्धत्वेन दुःखासहनमेव सुखाभावासहनमिति व्यतिरेकत्वं द्रष्टव्यम् । पक्षान्तरमाह ॥ सदसज्जनानां वेति ॥ अत्र स्मृतौ पूर्वं सदसज्जनानां प्रकृतत्वात् तत्र परमेश्वरः सज्जनेषु ‘दुःखं न सहत’ इत्यत्रातिप्रिये यथा राजेति दृष्टान्तोक्तिः । असज्जनेषु ‘सुखं न सहत’ इत्यत्रात्यप्रिये इति दृष्टान्तोक्तिरिति भावः ।
नन्वनेनान्वयव्यतिरेकौ दर्शितावित्युक्तं तदयुक्तम् । अत्र ह्यतिप्रिये इति पूर्वार्धेन व्यतिरेकस् तृतीयपादेन चान्वयः प्रदर्शित इति वक्तव्यम् । तत्रैते सुखित्वेन नेश्वरेष्टा अप्रियत्वादित्यनुमानस्य पूर्वं प्रकृतत्वाद् यत्र सुखित्वेनेष्टत्वाभावाभावस् तत्राप्रियत्वाभाव इति व्यतिरेकदर्शनार्थं स्मृतौ अतिप्रिये यथा राजा सुखाभावं न सहत इति वक्तव्यम् । तथा च कथमत्र पूर्वार्धेन व्यतिरेक-प्रदर्शनमिति चेन्न । अत्र हि स्मृतौ दुःखशब्दोऽजहल्लक्षणया सुखाभावपरः । एवं च ‘दुःखं न सहत’ इति सुखाभावं न सहत इत्यर्थः । एवं च व्यतिरेकदर्शनमुपपन्नम् । न च दुःखसुखाभाव- साधारणैकधर्माभावात् कथं तेनोपलक्षणमिति वाच्यम् । सुखविरोधित्वरूपस्यैव तादृशधर्मस्य सत्वादिति भावः । यद्वा अतिप्रिये इति स्मृत्यनुसारेणैव प्रयोगावभिप्रेतौ । विमत ईश्वरेण दुखित्वेन नेष्टः सज्जनत्वाद् इत्यत्रातिप्रिये इति दृष्टान्तोक्तिः । विमत ईश्वरेण सुखित्वेन नेष्टो ऽसज्जनत्वाद् इत्यत्रात्यप्रिये इति दृष्टान्तोक्तिः । न च सदसज्जनानामप्रकृतत्वात् कथमेतदिति वाच्यम् । एतत्पूर्ववाक्ये प्रकृतत्वादित्याशयेन पक्षान्तरमाह ॥ सदसज्जनानां वा प्रकृतिरिति ॥
वाक्यार्थमञ्जरी
अन्धेतमसि न सुखमित्येतत् ‘तिर्यक्षु नरके चैव’ इति स्मर्यते स्मृत्योच्यते लोकेऽपि सिद्धमिति शेषः । लौकिकदृष्टान्तोपेतयुक्तिसिद्धं चेत्यर्थः । नन्वन्धेतमसि सुखराहित्यानुमाने लौकिक-दृष्टान्तानुपलम्भात् कथमित्यत आह ॥ अयमभिसन्धिरिति ॥ अयमभिप्राय इत्यर्थः । स्वरूपासिद्धिवारणायाह ॥ नैतदिति ॥ अतिप्रबलमिति ॥ तथा च तमसि सुखसाधकानुमान-स्यानेन बाध इति भावः । ननु स्मृतावीश्वरः स्वाप्रिये सुखं न सहत इत्यत्राप्रिये सुखं राजा यथा न सहते तथैव परमेश्वर इत्येतावदेव वक्तव्यम् । अतिप्रियेत्यादिकन्तु किमर्थमुदाहृतमित्यत आह ॥ अनेनैवेति ॥ नैते सुखित्वेनेश्वरेष्टा इत्यनुमानेन प्रथमार्धेन व्यतिरेकः । तृतीयपादेनान्वयो दर्शित इत्यर्थः । दुःखस्य सुखविरुद्धत्वेन दुःखपदस्य सुखाभावपरत्वाद् व्यतिरेकित्वं द्रष्टव्यम् । अत एवास्वरसात्पक्षान्तरमाह ॥ सदसज्जनेति ॥ अत्र स्मृतौ पूर्वं सदसज्जनानां प्रकृतत्वात् तत्र परमेश्वरः सज्जनेषु ‘दुःखं न सहत’ इत्यत्रातिप्रिये यथा राजेति दृष्टान्तोक्तिरसज्जनेषु ‘सुखं न सहत’ इत्यत्रात्यप्रिय इति दृष्टान्तोक्तिरिति भावः ।