१४ विद्याकर्माधिकरणम्

ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ

१४. विद्याकर्माधिकरणम्

सूत्रभाष्यम्

‘अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्रमिश्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थानम्’ (छां.उ.५-१०-८) इति गतिस्वातन्त्र्यं भूतानां प्रतीयत इत्यत आह—

॥ ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ ॥ १८ ॥

विद्याकर्मापेक्षयैतद्वचनम् । तयोरपि प्रकृतत्वात् ।

‘विद्यापथः कर्मपथो द्वौ पन्थानौ प्रकीर्तितौ ।

तद्वर्जितस्त्रिधा याति तिर्यग्वा नरकं तम’ इति च भारते ॥

तत्त्वप्रदीपिका

क्षुद्रमिश्राण्यल्पमिश्राणि । मिश्रत्वं सुखदुःखाभ्याम् । ‘जायस्व म्रियस्व’ इति स्वप्रत्ययः पौनःपुन्ये । पुनः पुनर्जायन्ते म्रियन्ते चेत्यर्थः । ‘क्रियासमभिहारे लोड् लोटो हि स्वौ’ इति हि पाणिनिर्बभाण । पौनःपुन्यं भृशार्थो वा क्रियासमभिव्याहारः । ‘अथैतयोः पथोः’ इति देवयानपि-तृयानयोरिति पूर्वः पक्षः । ‘ये चेमेऽरण्ये श्रद्वा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति’ ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति’ इति प्रस्तुतत्वात् । विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ ‘एतयोः पथोः’ इति विद्याकर्मणोरित्यर्थः । तयोरपि तत्रैव तत्साधनत्वेन प्रस्तुतत्वात् । सर्वत्र चास्वातन्त्र्यसाम्येऽपि ‘तद्विजिज्ञासस्व’ ‘ज्योतिष्टोमेन यजेत’ इति विहितत्वा-त्साधनयोः । तद्वत एव फलप्राप्तिरिति नियमाच्च । विद्याकर्मरहितानां देवयानपितृयानाभ्यां गतिर्न लभ्यते, किन्तु जन्ममृत्योरावृत्तिरेवेति युक्तं वक्तुम् । विहितमकुर्वतां दुःखप्राप्तिरिति हि शास्त्रस्थितिः । कर्तृत्वं तु परतन्त्रस्यापि जीवस्य पुरैव परीक्षितम् ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनवैराग्यार्थं भूतानां गतिस्वातन्त्र्यनिरासादस्ति शास्त्रादिसङ्गतिः । यदि गतिस्वातन्त्र्यं भूतानां स्यात्तदा वैराग्यवैयर्थ्यप्रसङ्गात्तन्निरसनीयम् । प्रकृतः पितृयानस्तत्प्रकृति-सन्निधापितो देवयानश्च विषयः । किं भूतैः स्वातन्त्र्येण गम्यो न वेति सन्देहः । लौकिकमार्ग-दर्शनमलौकिकत्वं च सन्देहबीजम् । पूर्वपक्षयति ॥ अथेति ॥ अस्त्येव भूतानां गतिस्वातन्त्र्यं ‘तेऽर्चिषमभिसम्भवन्ति’ ‘ते धूममभिसम्भवन्ति’ इत्युक्त्वा ‘अथैतयोः’ इति श्रुतौ तदुक्तेः । न हि पुरुषप्रयत्नाविषये न गच्छन्ति चेति प्रयोगो युज्यते । न च वाच्यं जीवस्यास्वातन्त्र्यं प्रतिपादित-मतः कथं गतिस्वातन्त्र्यमिति । तदधीनस्वातन्त्र्यस्य विवक्षितत्वात्साधनवत् । तादृशस्याप्यभावे वैराग्यादिसाधनमपि नोत्पादयितुं शक्यं स्यात् । न च फलस्वातन्त्र्ये सर्वेषां तत्प्राप्तिः स्यादिति वाच्यम् । साधनेऽपि साम्यात् । अतो ‘मूले लब्धफलो नैव शाखाग्रं गन्तुमिच्छति’ इति न्यायात्फल एव स्वातन्त्र्याक्तिं वैराग्यादिसाधनेनेति भावः । उक्तयोः पथोर्मध्ये यान्येकतरेणापि पथा न गच्छन्ति तानीमान्यल्पानि सुखदुःखमिश्राणि सदा गत्यादिमन्ति पुनः पुनर्जायन्ते म्रियन्ते च । एतत्स्वर्गापवर्गयोरन्यत्तृतीयं भूतानामवस्थानमित्यर्थः ।

सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ नैतत् श्रुतिबलेन भूतानां गतिस्वातन्त्र्यं मन्तव्यम् । तस्या मार्गद्वयसाधनविद्याकर्मविषयत्वोपपत्तेः । न च मन्तव्यं देवयानपितृयानयोः प्रकृतत्वादेतच्छब्देन तत्परामर्शोपपत्तिरिति । ‘तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धातप इत्युपासते तेऽर्चिषमभिसम्भवन्ति । अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति’ इति विद्याकर्ममार्गयोरपि प्रकृतत्वादेतच्छब्देन तत्परामर्शोपपत्तेरिति भावः । एवमर्थद्वयस्यापि सति सम्भवे किं साधनार्थत्वग्रहणे कारणमिति स्मृतिसमाख्येति भावेनाह ॥ विद्येति ॥ न च साधने स्वातन्त्र्याभ्युपगमे फलेऽपि तत्स्यादिति युक्तम् । साधने विधिसद्भावात् फले तदभावाच्च । विध्यादिशास्त्रावैयर्थ्यायैव तत्रेश्वरः स्वातन्त्र्यं ददातीति प्रागुक्तम् । अतः फले स्वातन्त्र्या-भावादपेक्षितं वैराग्यादिसाधनमिति सिद्धम् ॥

गुर्वर्थदीपिका

भूधातोः प्राप्त्यर्थकत्वात् ‘तेऽर्चिषमभिसम्भवन्ति’ गच्छन्ति । ‘ते धूममभिसम्भवन्ति’ गच्छन्तीति देवयानपितृयानमार्गयोर्गमने स्वातन्त्र्यदर्शनात् । यानि एतयोः पथोः कतरेण एकतरेण न चापि एकतरेणापि न गच्छन्ति ‘तानीमानि क्षुद्रमिश्राणि असकृदावृत्तीनि भवन्ति’ इति गमने च स्वातन्त्र्यदर्शनादिति भावेनाऽऽह अस्त्येव भूतानां गतिस्वातन्त्र्यमिति ॥ तदुक्तेः स्वातन्त्र्योक्तेः । लुनीहि लुनीहीत्युक्त्वा स्वयमप्यलुनादित्यादाविवात्रापि जायस्व म्रियस्वेति ‘क्रियासमभिव्याहारे लोट्’ इति भावेनोक्तम् ॥ पुनःपुनः जायन्ते म्रियन्ते चेति । लुडि पर्यवसानवद्वैदिकत्वाद् लड्यपि पर्यवसानमिति ज्ञेयम् । विद्याकर्ममार्गयोः प्रकृतत्वादित्यत्र विद्याकर्मसहितयोर् मार्गयोरित्यर्थः । न च वाच्यं स्मृतावपि ‘विद्यापथः कर्मपथ’ इति पथोरपि प्रस्तुतिरस्तीति ‘तद्विवर्जित’ इत्युत्तरवाक्यपर्यालोचनया ‘विद्यैव पन्था’ इति विद्यापथः ‘कर्मैव पन्था’ इति कर्मपथ इत्यर्थस्यैव वक्तव्यत्वात् । गमनमूलकारणत्वेन तयोरपि पथिन् शब्दवाच्यता । न च तद्वर्जित इति वाक्यमयुक्तं स्यात् । यतः प्रसक्तस्यैव वर्जनं न त्वप्रसक्तस्य । प्रसक्तिश्च विद्याकर्मणोरेव न तु पथोः । अस्माभिर्वक्ष्यमाणप्रकारेण तयोः प्रयत्नागोचरतया प्रसक्तेरेवा-योगादिति ज्ञेयम् । साधने विधिसद्भावादित्यस्य साधने मोक्षसाधने ज्ञाने स्वर्गसाधने कर्मणि च दृष्टव्यः । यजेतेति च विधिसद्भावादित्यर्थः । तेन ज्ञानकर्मणोरुभयोर्विषये ईश्वरदत्तं स्वातन्त्र्यमप्यस्ति । अन्यथा विधेयाभावेन चोदनारूपविधेरपि वैयर्थ्यप्रसङ्गात् । अत एव श्रवणादिना ज्ञानं स्वयमेव सम्पादयति । कर्म च करोति । एवं च फलबलादीश्वरदत्तस्वातन्त्र्यमपि साधन एवाङ्गीकर्तुमुचितम् । न तु फले मोक्षे स्वर्गे वा । तदनुप्रवेशस्य स्वप्रयत्नासाध्यत्वादिति भावः । साधनविधिसद्भावात्फले तदभावाच्चेत्युपलक्षणम् । मोक्षसाधनविद्यायां स्वर्गसाधनकर्मणि चेश्वरप्रेरणान्मुमुक्षूणां स्वर्विविक्षूणां च स्वत एव प्रवृत्तिदर्शनेनेश्वरदत्तस्वातन्त्र्याङ्गीकारवत् स्वर्गापवर्गयोर्मूलीभूतधूमदेवलोकं चापि देवलोकं प्रति च पुरुषप्रमाणदेशोद्गमनासमर्थानां पुरुषाणां विद्याकर्मादिसाधने सत्यपि स्वतः प्रवृत्त्यदर्शनेन तत्र भगवद्दत्तं च स्वातन्त्र्यं नास्तीति गम्यते । फलबलोन्नेयस्य तस्य फलादर्शने कल्पकाभावात् । न हि पंगुर्वनभोजनसाधनमन्नं स्वेच्छयैव रचयन्नपि स्वागम्यवनं प्रति स्वशक्तया भुक्तिसाधनान्नाशया वा गच्छन् दृष्ट इत्यपि द्रष्टव्यम् ।

भावबोधः

प्रकृतः पितृयान इति ॥ ‘चरणादिति चेत्’ इत्यधिकरणविषयवाक्ये ‘ते धूममभिसम्भवन्ति’ इत्यत्रेत्यर्थः ॥ तत्प्रकृतिसन्निधापित इति ॥ उभयोरप्यव्यवधानेनैकप्रकरणपठितत्वादिति भावः । तथा च विषयोपस्थापकेन ‘चरणात्’ इत्यनेनास्याधिकरणस्यानन्तर्यलक्षणा सङ्गतिरिति भावः । न चैवं सति तदानन्तर्यमेव स्यादिति वाच्यम्; तत्रेष्टादिकारिणां गतागतोक्तावनिष्टादिकारिणां गतागतमस्ति न वेति खटित्याकाङ्क्षोदयेन तेषामपि गतागतसमर्थनपरस्य ‘अनिष्टादिकारिणामपि च श्रुतम्’ इत्यस्य तदानन्तर्यस्यावश्यकत्वात् । तत्रोक्तकैमुत्यसिद्ध्युपयोगितया तदुत्तराधिकरणद्वयस्य तदानन्तर्यस्य चावश्यकत्वाच्च । तथा च साक्षात्तदुपक्षिप्तविचारपराधिकरणत्रयव्यवधानं न दोषायेति । किं भूतैरिति । अत्र देवयानपितृयानौ किं भूतैः स्वातन्त्र्येण गम्यौ न वेति चिन्ता । तदर्थं ‘अथैतयोः’ इति श्रुतावेतच्छब्देनैतौ परामृश्यौ किं वा विद्याकर्ममार्गाविति । तदर्थं विद्याकर्ममार्गयोरेतच्छब्देन परामर्शे नियामकं नास्त्युतास्तीति ।

ननु कथमत्र श्रुतौ जीवानां गतिस्वातन्त्र्यमुच्यत आह ॥ न हीति ॥ ‘च’शब्देनाभि-सम्भवन्तीति विधिसमुच्चयः । पुरुषप्रयत्नाविषये विधिनिषेधयोरसम्भवेनाभिसम्भवन्तीति न गच्छन्तीति विधिनिषेधान्यथानुपपत्त्या तेषां तत्र स्वातन्त्र्यप्रतीतेरिति भावः ॥ साधनवदिति ॥ साधनेऽपि साम्यादित्यन्तेनानेन ग्रन्थेन साधनेन सहश्रुतेस्तद्वत्फलेऽपि जीवस्य स्वातन्त्र्यमिति न्यायविवरणमुक्ततात्पर्यं भवति ॥ न गच्छन्तीति ॥ अनेन ‘अप्य’र्थकस्य ‘च’ इत्यस्यानन्तर-मध्याहृतेन गच्छन्तीत्यनेनानैकतरेणेत्युक्तनञोऽन्वय इत्युक्तं भवति । एतदेवाभिप्रेत्य न गच्छन्ती-त्युक्तम् ॥ इति विद्याकर्ममार्गयोरपीति ॥ अनेन येन वाक्येन देवयानपितृयानयोः प्रकृतिरिति तेनैव विद्याकर्मणोरपि प्रकृतिरिति सूचयितुं सूत्रगत ‘इति’शब्दस्तु ‘अप्य’र्थ इत्युक्तं भवति । विद्याकर्मापेक्षयैवेत्यादिव्याख्यानपरेणानेनाथैतयोः पथोरित्यस्य च साधनार्थत्वादिति न्यायविवरण-मप्युक्तार्थं भवति । विहितत्वेन कारणाभावादिति न्यायविवरणं तन्निवर्तनीयाशङ्काप्रतिषेधपूर्वकं व्याचष्टे ॥ न च साधनेति ॥ ननु फले विध्यभावेऽपि स्वातन्त्र्यं किं न स्यात्, विहितत्वस्य तत्राप्रयोजकत्वादित्यत आह ॥ विध्यादीति ॥ तथा च यत्र जीवस्य स्वातन्त्र्यानङ्गीकारे बाधकं तत्र तदङ्गीकर्तव्यं न त्वन्यत्र । ततश्च तत्र साधने स्वातन्त्र्याभावे विध्यादिशास्त्रवैयर्थ्यं स्यादिति तदवैयर्थ्याय तत्रेश्वरः स्वातन्त्र्यं ददातीति प्राक् ‘कर्ता शास्त्रार्थवत्त्वात्’ इत्यधिकरणे उक्तम् । न चैवं फले स्वातन्त्र्यानङ्गीकारे बाधकमस्ति, येन तदङ्गीकर्तव्यं स्यादिति भावः ।

भावदीपः

गतिस्वातन्त्र्येति । ईशाधीनस्यापि गतिस्वातन्त्र्यस्य श्रुतिबललब्धस्य निरासादित्यर्थः । तेन न स्वात्मना चोत्तरयोरित्यनेन गतार्थतेति बोध्यम् । एतेन ‘पूर्वं सर्वं रमयति’त्यादिश्रुतेः स्वर्गनरकादावीशाधीनसुखदुःखभोगवद् गतावपीशाधीनस्वातन्त्र्यं स्यात्तथा श्रुतेरिति शङ्कनाद्वा जीवस्यापि फले स्वातन्त्र्यश्रवणादीशवद्दुःखाभोगाद्यस्त्विति शङ्कनाद्वा पूर्वत्र दुःखादिभोगस्येश्व-राधीनत्ववद् गतिरूपफलेऽपीशाधीनत्वमेवेति कथनाद्वानन्तरसङ्गतिरपि सूचिता । पूर्ववाक्योक्तं साध्यसाधनभावं व्यनक्ति ॥ यदीति ॥ फल एव स्वातन्त्र्येण यथेष्टं फलस्यैव त्यागोपादान-सम्भवाक्तिं तत्साधनवैराग्यानुष्ठानक्लेशेनेत्यर्थः । वैराग्येत्युपलक्षणम् । फलस्वातन्त्र्ये साधनमात्रवैयर्थ्यात् । अत एव वक्ष्यति वैराग्यादिसाधनेनेति ॥ प्रकृत इति ॥ तदन्तरेत्यारभ्या-निष्टादिकारिणामपि च श्रुतमित्यन्तेन प्रकृत इत्यर्थः । तत्र चशब्दसमुच्चितं नित्यत्वं सदुःखत्वं च समर्थ्यात्रेदानीं स एव धूमादिमार्गरूपपितृयानस्तत्प्रकृत्या तत्प्रस्तावेन श्रुत्यादौ सहपठितत्वाद् बुद्धौ सन्निधापितोर्चिरादिरूपदेवयानश्च चिन्त्यत इत्यर्थः । फलेऽपि जीवस्य स्वातन्त्र्यमित्यन्यत्रोक्त-प्रतिज्ञां विवृण्वन् तत्र हेतुत्वेन भाष्यं व्याचष्टे ॥ अस्त्येवेति ॥ एतयोरित्येतच्छब्दपरामृश्यं दर्शयितुमित्युक्त्वेत्युक्तम् । छान्दोग्ये पञ्चमेऽध्याय इति भावः । यद्यपि ‘तद्य इत्थं विदुः’ इत्यादिना विद्याकर्मणोरप्यस्त्युक्तिस्तथापि तयोर्व्यवहितत्वात्सन्निहितदेवयानादित्यागे हेत्वभावादिति भावः । भाष्ये उच्यत इत्यनुक्त्वा प्रतीयत इत्युक्तेर्भावं वदन् श्रुतौ स्वातन्त्र्योक्तिलाभप्रकारमाह ॥ न हीति ॥ गच्छन्तीति शेषोक्तिः । स्वतन्त्रः कर्तेत्युक्तकर्त्रर्थकलकारान्ते न गच्छन्तीत्यनेन यानि न गच्छन्ति स्वातन्त्र्येण गमनवन्ति न भवन्ति तानीमानि क्षुद्रमिश्राणि भूतानीति क्षुद्रभूतानां तत्र स्वातन्त्र्येण गमननिषेधकनञ्युक्तकर्त्रर्थकलकारप्रयोगबलात्स्वातन्त्र्यं प्रतीयते । अन्यथा न गच्छन्तीत्युक्तिर्न स्यात् । अप्रसक्तत्वादित्यर्थः । चशब्दोऽभिसम्भवन्तीति प्रागुक्तक्रियासमुच्चय इति भावः । साधनेन सह श्रुतेस्तद्वत्फलेऽपि जीवस्य स्वातन्त्र्यमिति न्यायविवरणे तद्वत्साधनवदिति दृष्टान्तोक्त्या तात्पर्यलब्धमर्थं व्यावर्त्यपूर्वमाह ॥ न च वाच्यमिति ॥ हिताकरणादिदोषप्रसक्तिः । ज्ञशक्ति-वियोगात् । ज्ञोऽत एव । शक्तिविपर्ययात् । समाध्यभावाच्च । अनुज्ञापरिहारौ देहसम्बन्धात् । असन्ततेश्च । ‘आभास एव च’ इत्यादिभिस्सूत्रैः सामान्येन स्वात्मना चोत्तरयोरित्यत्र गत्यादौ विशिष्यास्वातन्त्र्यं प्रतिपादितमित्यर्थः । केनेदं लब्धमित्यतस्तल्लाभं वक्तुं तद्वदित्यस्यार्थः साधनवदिति व्याख्यातः । साधनेऽपि तादृशं कुत इत्यतः कर्ता शास्त्रार्थवत्त्वादिति नयसिद्धमाह ॥ तादृशस्येति ॥ व्यक्तमेतद्धठवादे । ‘तदाज्ञया पुरुषश्चेष्टमानश्चेष्टानुसारेण शुभाशुभस्य । भोक्ता न तच्चेष्टितमन्यथा भवेत्कर्ता तस्मात्पुरुषोऽप्यस्य वश्य’ इत्यादिना महाभारततात्पर्यनिर्णये अष्टादशे गीताभाष्ये चेति । साधनवदित्युक्तितात्पर्यलब्धमर्थान्तरमपि व्यावर्त्यपूर्वमाह ॥ न च फलेति ॥ साम्यादिति ॥ यदि तत्र सर्वथापि तु त एवोभयलिङ्गादित्यादौ वक्ष्यमाणदिशाऽनादियोग्यता-दृष्टादिवशाद् व्यवस्था तर्हि फलेऽपि तथा स्यादिति भावः । ततश्च किमित्यतोऽथपदोक्त-वैराग्यादिसाधनाक्षेपमुपपादयन्नुपसंहरति ॥ अत इति ॥ फल एव स्वातन्त्र्यादित्यन्वयः । श्रुतौ प्रतीयमानत्वादीशाधीनस्वातन्त्र्याङ्गीकृतौ विरोधाभावाच्चेत्यर्थः । किमित्यादेरुपपादकमिति न्यायादिति । वैराग्याद्यशेषसाधनाक्षेपसमाधिभ्यां सर्वार्थमपीदं वैराग्यप्रयोजकं च भवतीति तदन्तरेत्यादेरिवात्र पादे निवेशो बोध्यः । अत एव प्राक् वैराग्यार्थं वैराग्यवैयर्थ्येत्येव चोक्तम् । अवान्तरसङ्गतिवशाद्व्यवधानेनात्र निवेशः । भाष्योक्तश्रुत्यर्थमाह ॥ उक्तयोरिति ॥ ‘तेऽर्चिषमभि-सम्भवन्ति’ ‘ते धूममभिसम्भवन्ति’ इति पूर्ववाक्योक्तयोरित्यर्थः । स्वप्रत्ययार्थः पुनः पुनरिति । ‘क्रियासमभिहारे लोट् लोटो हि स्वौवाचतध्वमोः’ इति सर्वतिङ्विषये पौनःपुन्ये भृशार्थे च हि स्वप्रत्यययोः स्मरणादिति भावः । सूत्रादौ श्रुतेर्विद्याकर्मार्थकत्वोक्तेरुपयोगाय पूर्वपक्षनिरासपूर्वं तत्र हेतुत्वेन सूत्रभाष्ये व्याचष्टे ॥ नैतच्छ्रुतीति ॥ अथैतयोः पथोरित्यस्य च साधनार्थत्वादित्य-न्यत्रोक्त्या भाष्यं सङ्गमयितुमुक्तम् ॥ मार्गद्वयसाधनेति ॥ तयोरपीत्यादिवाक्यमपि पदसमुच्चयं दर्शयन् शङ्कापूर्वं व्याचष्टे ॥ न चेति ॥ प्रकृतत्वादिति ॥ ‘तेऽर्चिषमभिसम्भवन्ति’ इत्यादिनेत्यर्थः ॥ तप इतीति ॥ तपःप्रभृतीत्यर्थः ॥ दत्तमितीति ॥ दत्तप्रभृति ॥ विद्येति ॥ विद्याकर्मरूप-मार्गयोरित्यर्थः । एतयोः पथोरित्युक्त्युपपत्तये मार्गशब्दोक्तिः । उपासत इत्यन्तस्यैव वाच्यत्वे तेऽर्चिषमित्याद्यंशोक्तिर् भाष्यस्थापिपदेन देवयानादेरपि प्रकृतत्वसमुच्चयसूचनात् तत्प्रदर्शयितुम् ॥ एवमिति ॥ विद्याकर्मणोः प्रकृतत्वेऽपि देवयानादिव्यवधानेन प्रकृतत्वात्सन्निहितदेवया-नादित्यागेन व्यवहितविद्याकर्मग्रहणे किं कारणमित्यर्थः । समाख्येत्युक्त्याऽथैतयोरिति शेषोक्त-फलमुपलक्षणमिति व्याख्येयमिति सूचितम् । साधनवदिति प्रागुक्तशङ्कामनूद्याविहितत्वेन कारणाभावादित्यन्यत्रोक्तस्य विवरणेन निराह ॥ न चेति ॥ विधीति ॥ ‘तद्विजिज्ञासस्व’ ‘ज्योतिष्टोमेन यजेत’ इति विद्याकर्मरूपसाधने विधिसद्भावात्फलस्य साक्षात्प्रयत्नागोचरत्वेन तत्र विधेरभावादित्यर्थः । नन्वस्वातन्त्र्यसाम्यात्साधनेऽपि पुरुषप्रयत्नाविषये कथं विधिरित्यत आह ॥ विध्यादीति ॥ प्रागुक्तं कर्ता शास्त्रार्थवत्त्वादित्यधिकरणे । सूत्रार्थस्य वैराग्यफलकत्वं स्फोरयन्नुपसंहरति ॥ अत इति ॥ अथेति श्रुतेः प्रकृतविद्याकर्मरूपमार्गविषयत्वात्साधनवत्तत्र विध्यभावाच्चेत्यर्थः । फल इति तात्पर्योक्तिः । शेषः फलोक्तिः ।

अभिनवचन्द्रिका

लौकिकमार्गदर्शनमिति ॥ लौकिकमार्गे स्वातन्त्र्येण गम्यत्वदर्शनमित्यर्थः । अयं भावः लौकिकमार्गस्तावत्स्वातन्त्र्येण गम्यो दृष्टः । प्रकृतौ च मार्गावलौकिकौ । अतो लोकवैलक्षण्येन भाव्यम् । न च वैलक्षण्यं सर्वात्मना भवतीति केनचिद्रूपेण वाच्यमिति सन्देह उपजायते । किमनयोर्मार्गयोः स्वातन्त्र्येण गम्यत्वाभावेन वैलक्षण्यम् उत स्वातन्त्र्येण गम्यत्वेऽपि प्रकारान्तरेण वैलक्षण्यमिति । यद्यप्यलौकिकत्वमेव सन्देहबीजं, तथापि सन्देहं जनयतोऽलौकिकत्वस्य लौकिक-दर्शनं साचिव्यमाचरतीति भावेन लौकिकमार्गदर्शनमलौकिकत्वं च, सन्देहबीजमित्युक्तम् । न तु समकक्ष्यत्वाभिप्रायेणेति बोध्यम् । एतेन लौकिकदर्शनं नाऽलौकिकसन्देहापादकं, सन्देहधर्मि-सम्बन्धित्वाभावात्, अन्यथाऽतिप्रसङ्ग इति परास्तम् । तादृशस्याप्यभाव इति । सत्यपि ज्ञापके फले न तादृशस्वातन्त्र्यमभ्युपगम्यते । तर्हि साधनेऽपि न स्यादविशेषात् । ततश्च वैराग्याद्यनु-ष्ठानमपि न स्यादिति भावः । एतेन तादृशस्वातन्त्र्यस्य फलेऽभावे साधनानुष्ठानाऽभावा-पादनमयुक्तं, व्यधिकरणत्वादिति परास्तम् । ‘जायस्व म्रियस्वेत्येतद् व्याचष्टे पुनः पुनर्जायन्त इति ॥ ‘क्रियासमभिव्याहारे लोट् । लोटो हि स्वौवाचतध्वमोः’ इति स्मरणाज् जायस्व म्रियस्वेत्युपपन्नम् ।

पूर्वपक्षस्तु भवन्त्येव जीवा गत्यादिफले स्वतन्त्राः । ‘अथैतयोर्नैकतरेण गच्छन्ति’ इति वचनात् । न हि स्वातन्त्र्याभावे गच्छन्ति न गच्छन्तीति व्यपदेशो युज्यते । न च जीवानाम-स्वातन्त्र्यं प्रतिपादितामिति वाच्यं साधनवत्फले ईश्वरदत्तस्वातन्त्र्याङ्गीकारात् । अतो ‘मूले लब्धफलेनैव शास्वाग्रं गन्तुमिच्छति’ इति न्यायात् फल एव स्वातन्त्र्यात् किं वैराग्यादिसाधनेनेति ।

सिद्धान्तस्तु न जीवा गत्यादौ स्वतन्त्राः । प्रमाणाभावात् । ‘अथैतयोः’ इति श्रुतिगतै’ तच्छब्दस्य ‘तद्य इत्थं विदुर्ये चारण्ये श्रद्धा तप इत्युपासते’ तेऽर्चिषमभिसम्भवन्ति, ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति’ इति विद्याकर्ममार्गयोरपि प्रकृतत्वात् तत्परामर्शकत्वेन, अस्य वाक्यस्य साधने स्वातन्त्र्यनिर्देशात्मकत्वात् । न च विद्याकर्ममार्गवद् देवयानपितृयान(ण)योरपि प्रकृतत्वात् कस्यायं परामर्श इति सन्देह एव स्यान् न निश्चय इति वाच्यम् ‘विद्यापथः कर्मपथो द्वौ पन्थानौ प्रकीर्तितौ । तद्वर्जितस्त्रिधा यात तिर्यग्वा नरकं तम’ इति वचनान् निर्णयोपपत्तेः । अतः फले स्वातन्त्र्याऽभावाद् अपेक्षितं वैराग्यादिसाधनमिति सिद्धम् ।

वाक्यार्थमुक्तावली

पूर्वसूत्रे चशब्दात्स्वर्गमोक्षयोरिव नरकेऽपि दुःखानुभवं विनैव तद्व्यापारादविरोध इत्युक्तं तदयुक्तम् । स्वर्गमोक्षयोर्गतिस्वातन्त्र्येण तद्व्यापारानुपयोगादित्यशङ्काया अत्र निवारणादनन्तर-सङ्गतिरिति भावः । भावबोधे तु प्रकारान्तरेणोक्तम् ॥ प्रकृतः पितृयान इति ॥ चरणादित्ये-तदधिकरणविषयवाक्ये धूममभिसम्भवन्तीत्यत्रेत्यर्थः । तत्र कृतिसन्निधापित इति । ‘अथ य इमे ग्रामा इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति’ इत्येतद्वाक्यस्य प्रपूर्ववाक्ये ‘तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धातप इत्युपासते तेऽर्चिषमभिसम्भवन्ति’ इति देवयानस्य प्रकृतत्वादिति भावः । अत्र देवयानपितृयानौ किं भूतैः स्वातन्त्र्येण गम्यौ न वेति चिन्ता । तदर्थमेतयोरिति श्रुतावेतच्छब्देन किं तौ परामृश्येते किं वा विद्याकर्ममार्गाविति ॥ लौकिकमार्गेति ॥ विमतं स्वातन्त्र्येण गम्यं मार्गत्वादित्यनुमाने व्याप्यव्यापकधर्मवत्तया लौकिकमार्गाख्यदृष्टान्तप्रदर्शनम् । अलौकिकत्वादिति तत्प्रतिपक्षे हेतुप्रदर्शनं चेत्यर्थः । स्वातन्त्र्याभावादेव न गच्छन्तीत्युपपत्तेर् नैकतरेण चेत्युदाहरणं नातीव प्रकृतोपयोगीत्यत आह ॥ तेऽर्चिषमभिसम्भवन्ति ते धूममभिसम्भवन्तीत्युक्त्वेति ॥ कथमेतावता गतिस्वातन्त्र्यं लब्धमित्यत आह ॥ न हि पुरुषप्रयत्नाविषये न गच्छन्ति चेति प्रयोग इति ॥ अभि सम्भवन्तीति प्रयोगसमुच्चयार्थं चशब्दः । तथा च प्रयत्नविषये एव कर्तरि प्रत्ययप्रयोगदर्शनात्तदन्यथानुपपत्त्या तत्र स्वातन्त्र्यप्रतीतेरिति भावः । पुरुषप्रयत्नाविषये विधि-निषेधयोरभावेनाभिसम्भवन्ति न गच्छन्तीति विधिनिषेधान्यथानुपपत्त्या तेषां तत्र स्वातन्त्र्य-प्रतीतेरिति वा । न गच्छन्ति चेदिति क्वचित् पाठः । तत्रापि श्रुतौ नैवं पाठ ः । किन्तु नैकतरेण च न तानीमानीत्येव । तथाप्यन्यथेत्यस्य चेदित्यर्थकत्वं नैकतरेण इत्यतः परमभिसम्भवन्तीत्यनु-सारेण गच्छन्तीत्यध्याहारं च मत्वा टीकायामेवमुक्तिः । अनन्ताचार्यकृतौ तु श्रुतौ टीकायां च चेदिति पाठमङ्गीकृत्य व्याख्यातम् । न हि पुरुषप्रयत्नाविषये न गच्छन्ति चेद् इति युज्यते इति भवान् यागादि न करोति चेत् स्वर्गादि न गमिष्यतीत्यादौ करणगमनादिविषये स्वातन्त्र्यसद्भाव एव चेद् युक्तस्य करोतीत्यादेः प्रयोगदर्शनात् । प्रकृते च गच्छन्ति चेदित्यनुरोधेन गतौ स्वातन्त्र्यं वक्तव्यमन्यथा न गच्छन्तीति चेदिति चेत्युक्तस्य प्रयोगोऽनुपपन्न इति भाव इत्यलम् ।

इतरव्यपदेशादित्यादिना गतार्थतामाशङ्क्य निषेधति ॥ न चेति ॥ कुतो न वाच्यमित्यत इति । गतिस्वातन्त्र्यं भूतानां प्रतीयते इति भाष्यस्य ‘तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धातप इत्युपासते तेऽर्चिषमभिसम्भवन्ति,’ ‘य इमे ग्रामे इष्टापूर्तं दत्तमित्युपासते ते धूममभिसम्भवन्ति’ । अथैतयोः पथोर्नैकतरेणेति श्रुतौ भूतानां गतिस्वातन्त्र्यं प्रतीयते, नापलापार्हम् । अन्यथा ‘तद्य इत्थं विदुरिष्टापूर्त दत्तम्’ इत्याद्युक्तसाधनेऽपि स्वातन्त्र्यं न स्यात् । अतो गत्यन्तराभावात् साधनेष्विव तैस्सह श्रुतधूमार्चिरादिप्राप्तिलक्षणफलेऽपि तदधीनस्वातन्त्र्यमङ्गीकार्यमित्यर्थान्तरमभिप्रेत्य सहस्थानमित्युक्तन्यायम् आरूढं करोति । तदधीनेति । दृष्टान्तो पक्षसमस् तत्रापि तदधीन-स्वातन्त्र्यसम्मतेरित्यत आह ॥ तादृशस्येति ॥ तदधीनस्वातन्त्र्यस्य कुत्राप्यभाव इत्यर्थः ।

नोत्पादयितुमिति । स्वसम्बन्धितया विधिज्ञानफलेच्छारूपस्येशायत्तस्य स्वावरान् जडान् प्रति च स्वातन्त्र्यस्याभावे विधिवाक्येनैव वैराग्यादिसाधनमपि नोत्पादयितुं शक्यं जडेष्विवेति भावः । फल एवेति ॥ यदि गतावेवेश्वरदत्तस्वेच्छानुसारितालक्षणस्वातन्त्र्यं वर्तते तदा नदीं प्रति गमनवद्देवयानादि प्रति गमनं स्वेच्छानुसारेण स्यात् । तत्प्राप्तौ च मोक्षोऽपि नियत एवातो वैराग्यादि वैय्यर्थ्यम् । न हि नदीगमनार्थं तपादि कुर्वन्तीति भावः । अथैतयोः पथोर्नैकतरेण च तानीमानीति श्रुतौ तानीति श्रवणात् तदनुरोधेनाह ॥ यानानीति ॥ चशब्दोऽप्यर्थे । गच्छन्तीत्यध्याहृतस्य नञान्वय इत्यभिप्रेत्याह ॥ यान्येकतरेणापि न गच्छन्तीति ॥ क्षुद्राणि च मिश्राणि चेति विग्रहमभिप्रेत्याह ॥ अल्पानीति ॥ असकृदावर्तीनीत्यर्थः ॥ सदा गत्यादि-मन्तीति ॥ ज्यायस्व म्रियस्वेति ‘क्रियासमभिहारे लोट् । लोटो हि स्वौवाचतध्वमोः’ इति पाणिनिरभाणीत् । पौनःपुन्यं भृशार्थे वा क्रियासमभिहार इति तत्त्वप्रदीपे व्युत्पादितत्वात् । तात्पर्यार्थमाह ॥ पुनः पुनर्जायन्ते म्रियन्ते चेति ॥ इतिशब्दः श्रुतिविशेषद्योतकः । तुशब्दोऽवधारणे । विद्याकर्मणोरिति ल्यब्लोपनिमित्ता पञ्चमी । तथा च इति अथैतयोः-पथोर्नैकतरेण चेत्येतद्वचनं विद्याकर्माख्यमार्गद्वयमपेक्ष्यैवेत्यर्थमभिप्रेत्य प्रवृत्तं विद्याकर्मापेक्षयैतद्वचन-मिति भाष्यं व्याचष्टे ॥ तस्या इति ॥ केचित्तु इतिशब्दः श्रौतपदस्यार्थोक्तिपरः । अथैतयोः पथोरित्यस्य विद्याकर्मणोरित्येवार्थ इति व्याचक्षते ।

समग्रं सूत्रं प्रकारान्तरेण व्याकुर्वन् तयोरपीति भाष्यं व्याचष्टे ॥ न च मन्तव्यमित्यादिना ॥ एतेन इतिशब्दः ‘तद्य इत्थं विदुर्य इमे ग्रामा इष्टापूर्त’ इति श्रुतिद्योतकः । विद्याकर्मणोरिति षष्ठी । तुशब्द अप्यर्थ इत्युक्तं भवति ॥ स्मृतिसमाख्येति भावेनेति ॥ विद्याकर्मपदप्रयोगसूचितस्मृति-समाख्येत्यर्थः । द्वौ पन्थानौ प्रकीर्तितावित्यस्य तद्विजिज्ञासस्व ज्योतिष्टोमेन यजेत’ इत्यादौ विहितावित्यर्थः । तथा च तत्साधने स्वातन्त्र्याभ्युपगमे विध्याख्यकारणसद्भावात् फले विध्यभावेन कारणाभावात् स्वातन्त्र्यं नास्तीति कारणाभाव इत्युक्तन्यायोऽपि भाष्यारूढ इत्याह ॥ साधने विधिसद्भावादिति ॥ ननु फले विधेरभावेऽपि स्वातन्त्र्यं किं न स्यात्, विहितत्वस्य तत्राप्रयोजकत्वादित्यत आह ॥ विध्यादीति ॥ प्रागुक्तमिति कर्ता शास्त्रार्थवत्त्वादित्यत्रोक्त-मित्यर्थः । तथा च साधने स्वातन्त्र्यानङ्गीकारे बाधकसद्भावात् फले तदनङ्गीकारे बाधकाभावान्ना-प्रयोजकत्वमिति भावः ।

तत्त्वसुबोधिनी

न प्रकृतः पितृयान इति ॥ चरणादिति चेदित्यधिकरणादिविषयवाक्ये ते धूममभि-सम्भवन्तीत्यत्रेत्यर्थः । तत्प्रकृतिसन्निधापित इत्यर्थः । उभयोरप्यव्यवधानेनैकप्रकरणपठितत्वादिति भावः । तथा च विषयोपस्थापकेन चरणादित्यनेनास्यानन्तर्यलक्षणा सङ्गतिरिति भावः । न च तदानन्तर्यं स्यादिति शङ्क्यम् । तत्रेष्टादिकारिणां गतागतोक्तावेवानिष्टादिकारिणां गतागतमस्ति न वेति खटित्याकाङ्क्षोदयेन तेषामपि गतागतसमर्थनपरस्यानिष्टादिकारिणामपि च श्रुतमित्यस्य तदानन्तर्यस्यावश्यकत्वात् ॥ तदुक्तेरिति ॥ भूतानां गतिस्वातन्त्र्योक्तेरित्यर्थः । ननु कथमत्र श्रुतौ भूतानां गतिस्वातन्त्र्यमुच्यत इत्यत आह ॥ न हीति ॥ चशब्दोऽभिसम्भवन्तीति विधिसमुच्चायकः । पुरुषप्रयत्नाविषये विधिनिषेधयोरसम्भवेनाभिसम्भवन्तीति न गच्छन्तीति विधिनिषेधान्यथानुपपत्त्या तेषां स्वातन्त्र्यप्रतीतेरिति भावः ॥ साधनवदिति ॥ साधने यथा तदधीनं स्वातन्त्र्यं तद्वदित्यर्थः । ननु साधनेऽपि तदधीनं स्वातन्त्र्यं नाङ्गीक्रियत इति कथं दृष्टान्तीकरणमित्यत आह ॥ तादृशस्यापीति ॥ अप्रतीतार्थत्वाद् वाक्यं व्याख्याति ॥ उक्तयोरिति ॥ इति विद्या-कर्ममार्गयोरिति ॥ अनेन येन वाक्येन देवयानपितृयानयोः प्रकृतिस् तेनैव विद्याकर्मणोरपि प्रकृतिरिति सूचयितुं सूत्रगतेतिशब्दः । तुशब्दोऽप्यर्थक इत्युक्तं भवति । ननु फले विध्यभावेऽपि स्वातन्त्र्यं किं न स्यात् । विहितत्वस्य तत्राप्रयोजकत्वादित्यत आह ॥ विध्यादीति ॥ यत्र जीवस्य स्वातन्त्र्यानङ्गीकारे बाधकं तत्र तदङ्गीकार्यम् । न त्वन्यत्र । ततश्च साधने विध्यादि-शास्त्रवैय्यर्थ्यं स्यादिति तदवैय्यर्थ्याय तत्रेश्वरः स्वातन्त्र्यं ददातीति प्राक् कर्ता शास्त्रार्थवत्त्वा-दित्युक्तम् । न चैवं फले स्वातन्त्र्यानङ्गीकारे बाधकमस्ति येन तदङ्गीकर्तव्यं स्यादिति भावः ।

वाक्यार्थविवरणम्

भूतानां जीवानाम् ॥ तदेति ॥ इदमतो मूले लब्धफल इति पूर्वपक्षोपसंहारे स्पष्टम् । न गच्छन्ति चेति चशब्दादर्चिषं धूमं च गच्छन्तीति ग्रहणम् । प्रकृतिः प्रकरणम् । स्वर्गसाधनी-भूतमार्गौ पितृयानदेवयानसंज्ञौ ॥ साधनवदिति ॥ साधने यथा स्वातन्त्र्यं विवक्षितं तथेति सप्तम्यर्थे वतिः ॥ तादृशस्येति ॥ तदधीनस्वातन्त्र्यस्येत्यर्थः ॥ साम्यादिति ॥ साधनेऽपि स्वातन्त्र्याङ्गी-कारे सर्वेषामपि साधनसम्पत्तिः स्यादिति भावः ॥ फल एवेति ॥ पितृयानादेः कर्मादिफल-रूपत्वादिति भावः । नेत्यनन्तरं गच्छन्तीति श्रुतौ शेषोक्तिः ॥ अल्पानीति ॥ क्षुद्रशब्दार्थः । असकृदावर्तीनीत्यस्य ॥ सदेति ॥ जायस्व म्रियस्व इत्यनयोरर्थः पुनःपुनरिति ॥ तथा च जायस्व म्रियस्व इत्येतदत्र न लोट्मध्यमपुरुषरूपत्वेन विवक्षितम् । किं नाम पुनःपुनः जायन्ते म्रियन्त इति तिङन्तविभक्तिप्रतिरूपकनिपातद्वयमस्तीत्यादिवदिति द्रष्टव्यमित्याहुः ॥ तृतीयं स्थानम् ॥ स्वर्गापवर्गाभ्यामन्यत् तिर्यग्यातनारूपम् ॥ मार्गद्वयेति ॥ स्वर्गमोक्षमार्गद्वयेत्यर्थः ॥ तत्परामर्शोपपत्तिरिति ॥ न देवयानपितृयानसाधनयोर्विद्याकर्मणोस्तयोरप्रकृतत्वादिति वाक्यशेषः ॥ सम्भवे सति ॥ उभयोरपि प्रकृतत्वेनैतच्छब्देन परामर्शसम्भवे सतीत्यर्थः ॥ साधनेति ॥ मार्गद्वयसाधनभूतविद्याकर्मेत्यर्थः ॥ फल एवेति ॥ पितृयानादेः कर्मादिफलरूपत्वादिति भावः ।

वाक्यार्थमञ्जरी

प्रकृतपितृयान इति ॥ चरणादित्यत्र विषयवाक्ये ‘ते धूममभिसम्भवन्ति’ इत्यनेन प्रकृत इत्यर्थः ॥ तत्प्रकृतीति ॥ तत्प्रकरण इत्यर्थः । उभयोरप्यव्यवधानेनैकप्रकरणपठितत्वादिति भावः । ननु कथमत्र श्रुतौ जीवानामतिस्वातन्त्र्यमुच्यत इत्यत आह ॥ न हीति ॥ चशब्देनाभि-सम्भवन्तीति विधिसमुच्चयः पुरुषप्रयत्नाविषये विधिनिषेधयोरभावेनाभिसम्भवन्तीति न गच्छन्तीति च विधिनिषेधान्यथानुपपत्त्या तेषां स्वातन्त्र्यप्रतीतिरिति भावः । प्रतिपादितं परेणेत्यादिना । साधनवत् साधने तदधीनस्वातन्त्र्यवत् सर्वेषां साधनरहितानामपि साम्यात् सर्वेषां साधनप्राप्तेः क्षुद्र-शब्दार्थोऽल्पानीति ॥ ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ ॥ अथैतयोरित्येतच्छब्दस्य विद्याकर्मणोरित्येवार्थः । कुतः? प्रकृतत्वात् । ‘तद्य इत्थं विदुर् अथेमे ग्रामा’ इत्यादिना विद्याकर्मणोरपि प्रकृतत्वादित्यर्थः ॥ तद्य इति ॥ तत्तस्मात्काम्यकर्मणो गमनागमनहेतुत्वात्तत्र विरक्ताय इत्थं पञ्चाग्निविद्योक्तरीत्या भगवन्तं विदुर् ये चेमेऽरण्ये मनोहरप्रदेशे श्रद्धातप इत्युपासते श्रद्धातपः प्रवृत्तिकर्मानुतिष्ठन्ति तेऽर्चिषमर्चिर्लोकन्तदभिमानिनं वा प्रविशन्तीत्यर्थः । किं कारणमिति प्रश्नोत्तरमाह ॥ स्मृतिसमाख्येति ॥ ननु फले विध्यभावेऽपि तत्र स्वातन्त्र्यं किं न स्यादित्यत आह ॥ विध्यादीति ॥ तथा च यत्र जीवस्वातन्त्र्यानङ्गीकारे बाधकं तत्र तदङ्गीकर्तव्यं न त्वन्यत्र । ततश्च तत्र साधने स्वातन्त्र्याभावे विध्यादिशास्त्रवैयर्थ्यं स्यादिति तदवैय्यर्थ्याय तत्रेश्वरः स्वातन्त्र्यं ददातीति प्राक्कर्ता शास्त्रार्थवत्वादित्युक्तम् । न चैवं फले स्वातन्त्र्यानङ्गीकारे बाधकमस्ति येन तदङ्गीकर्तव्यं स्यादिति भावः ।

॥ इति विद्याकर्माधिकरणम् ॥ १४ ॥