ॐ तत्रापि च तद्व्यापारादविरोधः ॐ
१३. तद्व्यापाराधिकरणम्
सूत्रभाष्यम्
ईश्वरस्य नरकायुक्तेः ‘सर्वं विसृजति१ सर्वं विलापयति सर्वं रमयति सर्वं न रमयति सर्वं प्रवर्तयत्यन्तरस्मिन्निविष्टः’ इति कौषारवश्रुतिविरोध इत्यतो वक्ति—
॥ ॐ तत्रापि च तद्व्यापारादविरोधः ॐ ॥ १७ ॥
चशब्दाददुःखानुभवेन । ‘स स्वर्गे स भूमौ स नरके सोऽन्धे तमसि प्रवृत्तिकृदेक एवानु-विष्टो नासौ दुःखभुगीश्वरः प्रभुत्वात्सर्वं पश्यति सर्वं कारयति नासौ दुःखभुग्य एवं वेद’ इति पौत्रायणश्रुतेरविरोधः ।
‘नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते ।
नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते ॥
नासौ नीचोच्चतां याति पश्यत्येव प्रभुत्वतः’ इति भागवततन्त्रे ।
तत्त्वप्रदीपिका
दुर्गतिभेदः प्राधान्येनोदितः । यदि तत्रस्थ ईश्वरो दुःखं भोजयति स्वयं कथं तदस्पर्शी स्यात् । दुःखस्पर्श ईश्वरत्वमेव न स्यात् । अभोजकत्वे ‘सर्वं रमयति सर्वं न रमयति’ इत्यादिश्रुतिविरोधश्च । यो जनो रमते तं सर्वं रमयति यो न रमते तं सर्वं न रमयतीत्यर्थः । एवमाशङ्कायामाह– ‘ॐ तत्रापि च तद्व्यापारादविरोधः ॐ ॥ प्रवर्तनव्यापाराददुःखानुभवाच्च न विरोधः । स्वातन्त्र्यादेव ।
तत्त्वप्रकाशिका
अत्रेश्वरप्राप्तिसाधनवैराग्याय नरकस्य सदुःखत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । नरकस्य निर्दुःखत्वे न तत्र तत्साधने च वैराग्यं स्यादतः सदुःखत्वं साधनीयम् । प्रकृतं नरकमेव विषयः । किं सदुःखं न वेति सन्देहः । उभयविधस्थानदर्शनं सन्देहबीजम् । न नरके दुःखमस्तीति पूर्वः पक्षः । तथा हि यदि नरकेऽस्ति दुःखं तत्र पृच्छामः । किं तत्रेश्वरः प्रेरको न वेति । आद्यं दूषयति ॥ ईश्वरस्येति ॥ यदि नरकस्य सदुःखतामङ्गीकृत्य तत्रस्थानां प्रेरकतयेश्वरो वर्तत इत्यभ्युपगम्यते तर्हि तस्य दुःखिसहावस्थानान्नरकभोगप्राप्तिः । ईश्वरस्य च नरकदुःखायुक्तेर्न तत्र दुःखमिति भावः । न च वैशेष्ययुक्त्यैतत्परिहृतमिति वाच्यम् । दुःखाननुभवे सार्वज्ञाभावप्रसङ्गात् । द्वितीयं निराचष्टे ॥ सर्वमिति ॥ यदि नरके दुःखसिद्ध्यर्थं तत्रेश्वरो न प्रेरक इत्युच्यते तर्हि श्रुतिविरोधः । अतः प्रकारद्वयेनापि नरकस्य सदुःखत्वानुपपत्तेर्न तत्र तत्साधने च वृथा वैराग्यमापाद्यमिति भावः । योग्यं सर्वम् ।
सिद्धान्तयत्सूत्रमवतारयति ॥ अत इति ॥ भवत्येव नरकं सदुःखम् । न चोक्तदोषः । नरकेऽपि तस्येश्वरस्य प्रेरणरूपव्यापाराभ्युपगमेन श्रुतिविरोधाभावादिति सूत्रार्थः । सदुःखत्वे नरकस्य अस्मिन्नपि पक्षे कथितविरोधपरिहारो वाच्यः । स कुतो न सूत्रित इत्यत आह ॥ चशब्दादिति ॥ तत्राप्यदुःखानुभवेन तद्व्यापारादुभयविरोधाभाव इत्यर्थः । इति समुच्चिनोतीति शेषः । अस्यार्थस्य प्रामाणिकत्वे भवेदविरोधस्तत्कुत इत्यत आह ॥ स इति ॥ सहभाव-युक्तिपरिहारः प्रभावादिति । असार्वज्ञमाशङ्क्य सर्वं पश्यतीत्युक्तम् । अत्र स्मृतिं चाह ॥ नरकेऽपीति ॥ सर्वज्ञस्य कथं दुःखानुभवाभाव इत्यत आह ॥ नीचेति ॥ अतो नरकस्य सदुःखत्वाद्भवितव्यं तत्र वैराग्येणेति सिद्धम् ।
गुर्वर्थदीपिका
वैशेष्ययुक्तयेत्यनेन ‘ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्’ इति सूत्रोक्तयुक्तिं स्मारयति । हानोपानादीनामपि व्यवहारत्वप्रतीतेर्व्यापार एव व्यवहारो नोच्चारणमात्रम् । तदपि वाचो व्यापार-रूपत्वेनैव व्यवहारपदवाच्यत्वमिति भावेनोक्तम् ॥ प्रेरणरूपव्यापाराभ्युपगमेनेति ॥ ननु तमसि वृद्धिह्रासरहितजीवचैतन्यस्य दुःखानुभवेऽपि का क्षतिः । मुक्तौ च तादृशजीवस्य सुखानुभवे को लाभः । दुःखं दुःखतयैव दोषः सुखं सुखतयैव गुणः । न तयोः पुनर्हानिलाभान्तरचिन्तेति चेन्न । सहिष्णूनां स्वसहनशक्तया दुःखेऽप्यनिष्टत्वादर्शनेन मुमुक्षूणां स्वविरक्तिशक्तया वैषयिक-सुखेष्विष्टत्वादर्शनेन च तयोरपि गुणदोषान्तरचिन्ताया आवश्यकत्वात् ।
किञ्च सुखस्य दुःखस्य चैतन्यस्वरूपत्वेनैव गुणत्वे दोषत्वे च बाह्यसुखदुःखयोर्गुणता दोषता च न स्यात् । तदुभयरूपमनसि च तयोर्गुणता दोषता च स्यात् । अनुभवाद्गुणदोषतेति चेत् सर्वज्ञपरमात्मनोऽपि तत् स्यात् । स्वसमवेततदनुभवस्य च समवायनिराकरणेन निराकृतत्वात् । समवायवादिनां मते समवायस्यैकत्वेन पुनः परमात्मन्येव प्रसङ्गाच्च । दुःखस्वरूपत्वं परमात्मनि नास्तीति तु न सर्वाधारे परमात्मनि वक्तुं युक्तम् । स्वीयतया तदनुभवश्चेत्समवायाभावे स्वीयत्वं स्वसंयोगो वा स्वाश्रितत्वं वा स्यात् । तदपि परमात्मन्येव गतम् । प्रत्ययार्थमुपेक्ष्य स्वत्वमेव स्वीयत्वमिति पक्षोऽपि बाह्यसुखदुःखयोः स्वीयत्वासम्भवादुपेक्षणीय एव । देहदाहकतया सर्वेषामनिष्टरूपेऽग्नावेवाग्निस्तम्भनशक्तिमति देहदाहेऽनिष्टत्वादर्शनाच्च । दुष्टानि स्वस्वव्यापारो-दासीनानि खानि इन्द्रियाणि यस्मात्तद्दुःखं, सु सुष्ठूनि स्वस्वव्यापारेषु सम्यक्प्रवर्तमानानि खानि यस्मात्तत्सुखमिति व्युत्पत्तेश्चैतन्य एव गुणदोषयोरभावेऽयोगाच्च । तस्मात्सुखदुःखाभ्यां चैतन्य एव कश्चिद्गुणः काचिद्धानिश्च वक्तव्या । तदुभयं च किमिति चेत्सत्यम् । दुःखानुभवे सत्यौत्तर-व्यापारान्प्रत्यननुकूलताख्या काचिन्नीचता चिद्रूपमन आदावेव भवति । सुखानुभवे च तं प्रति सम्यगनुकूलताख्या काचिदुच्चता चिद्रूपमनआदावेव जायते । सा च नीचता सर्वज्ञतया दुःखद्रष्टुरपि परमात्मनो नास्तीति ‘नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयत’ इति स्मृतेरभिप्रायः ।
भावबोधः
सदुःखत्वेति । निर्णीते धर्मिणि धर्मचिन्तेति पूर्वाधिकरणेऽवान्तरभेदभिन्ने नरकस्वरूपे निर्णीते इदानीं तद्गतसदुःखत्वरूपप्रकारविचारः क्रियत इत्यनन्तरसङ्गतिरिति भावः । सदुःखं न वेति सन्देह इति । अत्र नरकं निर्दुःखमुत सदुःखमिति चिन्ता । तदर्थं दुःखिसहावस्थानमीश्वरस्य दुःखापादकं न वेति । तदर्थमीश्वरस्य दुःखपरिहारोपायोऽस्त्युत नास्तीति ॥ उभयविधस्थानेति ॥ निर्दुःखं स्वर्गादिकं सदुःखं भूम्यादिकमित्यर्थः । भाष्ये ईश्वरस्य नरकायुक्तेः श्रुतिविरोध इति यथाश्रुतान्वयभ्रमनिरासायेश्वरस्य नरकायुक्तेरिति भाष्यं सहावस्थानादीशस्यापि दुःखप्राप्तिरिति न्यायविवरणं च सौत्र‘च’शब्दनिवर्तनीयपूर्वपक्षप्रतिपादनाय प्रवृत्तम् । सर्वं विसृजतीत्यादि भाष्यं तु ‘तत्रापि च तद्व्यापारादविरोधः’ इति सूत्रांशनिवर्तनीयपूर्वपक्षप्रतिपादनाय प्रवृत्तमित्यभिप्रेत्य पूर्वपक्षं विवृणोति । तथा हीत्यादिना सहावस्थानादिति न्यायविवरणोक्तसहावस्थानरूपापादका-सिद्धिपरिहारार्थमाह ॥ यदि नरकस्येति ॥ इदानीं समग्रं न्यायविवरणं योजयति ॥ तर्हि तस्येति ॥ विपर्ययपर्यवसानपरतया भाष्यं योजयति ॥ ईश्वरस्येति ॥ नरकायुक्तेरित्यस्य नरकेऽवस्थानायुक्तेरिति प्रतीतिनिरासार्थमुक्तम् ॥ दुःखायुक्तेरिति ॥
ननु ‘ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ’ इति सूत्रेण सार्वज्ज्ञादिसामर्थ्यवैशेष्येण जीवेन सहावस्थितावपि न जीवसमानभोगप्राप्तिरित्युक्तत्वात् कथमेवं पूर्वपक्षोत्थानमित्याशङ्क्य परिहरति ॥ न च वैशेष्ययुक्त्येति ॥ सार्वज्ञाभावप्रसङ्गादिति ॥ तथा च सार्वज्ञादि-वैशेष्ययुक्तिरेवासिद्धेति भावः । अत एव नीचोच्चतैवेत्यादिना सार्वज्ञासिद्धिशङ्का परिहरिष्यत इति हृदयम् ।
ननु साधूनेव रमयति नासाधून् । असाधूनेव न रमयति न साधूनिति, कथं सर्वं रमयति सर्वं न रमयतीत्युक्तमित्यत आह ॥ योग्यं सर्वमिति ॥ सहभावयुक्तिपरिहारः प्रभुत्वादितीति ॥ अनेन स्वातन्त्र्यात् कारणाभावादिति न्यायविवरणमप्युक्ततात्पर्यं भवति ।
भावदीपः
सदुःखत्वसमर्थनादिति ॥ दुःखाभोगेनैवेशेन प्रेर्यत्वोक्तेरिति भावः । एतेनानिष्टादिकारिणा-मित्यत्र यन्नरकस्य नित्यत्वं दुःखात्मकत्वं चावरोहादिपदादिनाभिमतं तत्रानित्यत्वोक्तिविरोध-निरासेन व्यक्तिभेदसाक्षेपं नित्यत्वं समर्थ्येदानीमीश्वरस्य निर्दुःखत्वादिश्रुतिविरोधनिरासेन दुःखात्मकत्वं समर्थ्यत इति वा एवं तर्हि अनिष्टादिकारिणां नित्यानित्यनरकभोक्तृत्वे तत्सहा-वस्थानादीशस्यापि नरकदुःखप्राप्तिरिति शङ्कोदयाद्वा सङ्गतिः सूचिता । (उभयविधावस्थेति ॥ मूर्छासुषुप्त्यवस्थयोः सदुःखनिर्दुःखयोर्दर्शनमित्यर्थः ।) भाष्यमेकवाक्यतायामनन्वितमिति मत्वा विकल्पपूर्वं वाक्यभेदेन योजयति ॥ किं तत्रेति ॥ सहावस्थानादीशस्यापि नरकदुःख-प्राप्तिरित्यन्यत्रोक्तापादनस्य भाष्यवाक्यं विपर्ययपर्यवसानमिति भावेन ग्रन्थद्वयोक्तवाक्यद्वय-मसङ्गततया प्रतीयमानं सङ्गमयितुमापादकं पूरयति ॥ यदीति ॥ सदुःखतामिति ॥ चशब्दो दुःखान्तरसमुच्चयार्थः । तदेवोत्तरसूत्रेऽनूद्यत इत्युक्तदिशाऽनिष्टादिनयसिद्धां सदुःखतामित्यर्थः ॥ प्रेरकतयेति ॥ अन्तर्यामिनयादावुक्तदिशा वा स एव च कर्मानुस्मृतिशब्दविधिभ्य इति वक्ष्यमाणदिशा वेति भावः । ईश्वरस्येति हेतुगर्भम् । अन्यथा चैत्रादिवदीश्वरत्वमेव न स्यादिति भावः । न तत्र दुःखमिति भाष्यशेषोक्तिः । एवं च शब्दाददुःखानुभवेनेति भाष्यव्यावर्त्यचोद्यं विवृत्य नीचोच्चतैव दुःखादेर्भोग इति भाष्यव्यावर्त्यं गतार्थत्वनिरासकं चोद्यं व्यनक्ति ॥ न च वैशेष्येति ॥ लिङ्गपादीयाद्याधिकरणगुणसूत्रे ‘ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ’ इत्यत्रोक्तसामर्थ्यातिशयवत्त्वरूपयुक्त्येत्यर्थः ॥ सार्वज्ञाभावेति ॥ सुखदुःखगोचरापरोक्षज्ञानस्यैव भोगशब्दार्थत्वात् । तथा च प्रागुक्तपरिहारो न युक्त इति भावः । ईश्वरस्य नरकायुक्तेरित्यस्य नरके प्रेरणायुक्तेः प्रेरणायोगस्य प्रेरणाभावस्योक्तौ सत्यामित्यर्थकत्वमुपेत्य कृत्स्नं भाष्यमेक-वाक्यतया द्वितीयपक्षनिरासकत्वेन योजयति । यदीत्यादिना ॥ श्रुतीति ॥ ‘स सर्ववित्सर्वं सृजति’ इत्यादिश्रुतीत्यर्थः । तत्र सर्वं रमयति रमणयोग्यं सर्वं रमयति तदयोग्यं सर्वं न रमयतीत्यर्थः । ‘स सर्ववित्’ इत्यादिशेषोक्तिरीश्वरपरत्वद्योतनाय । तत्र वियत्पादीयन्यायेन सर्वसृष्टिविलयौ बोध्यौ ॥ अत इति ॥ प्रेरकस्येश्वरस्यापि दुःखप्रसङ्गादप्रेरकत्वे च श्रुतिविरोधादित्यर्थः ॥ प्रकारेति ॥ प्रेरकत्वाप्रेरकत्वरूपप्रकारद्वयेनापीत्यर्थः । सर्वं रमयति सर्वं न रमयतीत्यनयोर्विरोधनिरासाय सर्वशब्दार्थमाह ॥ योग्यं सर्वमिति ॥ नरकस्य सदुःखत्वे प्राप्तदोषनिवर्तकतया सूत्रं व्याकुर्वन् प्राक्सिद्धमेवार्थमनुवदति ॥ भवत्येवेति ॥ अनात्मविदित्यत्रात्मपदेन प्रकृत ईश्वरस्तच्छब्देन परामृश्यत इति भावेनाह ॥ तस्येश्वरस्येति ॥ उभयविरोधेति ॥ दुःखाभोगविरोधो वा सर्वप्रेरकत्वश्रुतिविरोधो वा नेत्यर्थः । श्रुतौ हेतूक्तेरुपयोगमाह ॥ सहभावेति ॥ दुःखि-सहावस्थानादित्यादिना प्रागुक्तयुक्तीत्यर्थः । न च सहावस्थानादीशस्यापि नरकदुःखप्राप्तिः स्वातन्त्र्यादित्यन्यत्रोक्तेरिति भावः । श्रुतौ ‘स स्वर्गः’ इत्यादिशेषोक्तिः । प्राक् तदन्तरसूत्रादौ जीवेन सहेशस्य स्वर्गादाववस्थानमपि सम्मतं यच्च कृतात्यय इत्यादिना जीवेन सह भूम्यादाववस्थानं यच्च न तृतीय इत्यादावग्रे दुःखैकरूपे तमस्यपि सहावस्थानमभिप्रेतम् । तत्र सर्वत्रापि न जीववत्तत्तल्लोकगतसुखदुःखभोगोऽस्तीत्युक्तवक्ष्यमाणस्थलेष्वपि विरोधशङ्काव्युदासाय । अत एव स्मृतावप्युच्यत इति पदम् । असौ दुःखभुक् न चेदसर्वज्ञः स्याद् दुःखापरोक्षस्यैव दुःखभोगशब्दार्थत्वादित्यत उक्तं श्रुतौ ‘सर्वं पश्यति’ इति । तत्र हेतुः सर्वं कारयतीति । ईशस्य दुःखाभोगे कैमुत्यन्यायेनासौ दुःखभुग्य एवं वेदेति ॥ असार्वज्ञमिति ॥ नासौ दुःखभुगित्युक्त्या प्रसक्तमिति भावः ॥ अत्र स्मृतिं चेति ॥ शङ्कापरिहाराय दुःखभोगशब्दार्थमन्यथा वक्तुमिति योज्यम् ॥ इत्यत आहेति ॥ अत्र नीचोच्चता नाम भिन्नांशहीनस्यापि जीवस्य सांशत्वा-त्तूलपिण्डस्येव स्वरूपसंकोचविकासौ । यथोक्तं क्षपणकपरीक्षायां न च पर्यायादप्यविरोधो विकारादिभ्य इति सूत्रे नानित्यतास्मत्पक्षे तु चैतन्यादेर्विशेषिणः । लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचिदित्यनुभाष्यसुधायाम् । उक्तं च बृहद्भाष्ये षष्ठे ‘अल्पतेजस्तथैवाल्पं जीवरूपं हि संसृतौ । तथैव सुमहातेजः करोति भगवान्महत्’ इति । महच्च करोतीत्यर्थः । त्रयोदशे गीतातात्पर्ये तु ‘तद्गतानां तु दुःखानां भोगोऽभिमतिरुच्यते । तदभावान्नाभिमानी भगवान्पुरुषोत्तम’ इति । अभिमतिरेव भोग इत्युक्तम् ॥ अत इति ॥ ईश्वरस्यादुःखानुभवेन तद्व्यापारोररीकरणे-नोक्तद्विविधविरोधस्याभावादित्यर्थः ।
अभिनवचन्द्रिका
उभयविधस्थानेति ॥ वैकुण्ठभूलोकदर्शनं सन्देहबीजमित्यर्थः । नरके दुःखाङ्गीकारे ईश्वरस्य दुःखं स्यादित्यनिष्टमापदयितुं नरके ईश्वराभावान् न तस्य दुःखापादनं युक्तमित्याशङ्कानिरासाय पृच्छति किं तत्रेति ॥ आद्यं दूषयतीति ॥ नरके ईश्वरमङ्गीकृत्य तत्र दुःखमस्तीति वदन्तं वादिनं दूषयतीत्यर्थः । एतेन नरके दुःखस्यैव दूषणीयत्वात्, तत्रेश्वरोऽस्तीत्याद्यपक्ष-दूषणमयुक्तमिति परास्तम् । यदि नरकस्येति ॥ अत्र यदि नरकस्य सदुःखताऽङ्गीक्रियते इत्येतत्, आपादकं तर्हि ईश्वरस्य दुःखभोगप्राप्तिः स्यादित्येवमापाद्यम् । नरकस्य सदुःखत्वं नेश्वरदुःख-भोगाऽऽपादकं नियामकाभावादित्यत उक्तं दुःखिसहावस्थानादिति ॥ दुःखिसहावस्थानम-सिद्धमित्याशङ्का परिहाराय तत्रस्थानां ‘प्रेरकतया ईश्वरोऽभ्युपगम्यत’इत्यनेन पराऽभ्युपगमप्रदर्शनं कृतमिति बोध्यम् । एतेन यदि नरकस्य सदुःख ताऽङ्गीक्रियते, तर्हि ईश्वरस्य दुःखभोगप्राप्तिः स्यादित्येतावतैव पूर्णत्वाद् अधिकं व्यर्थमिति परास्तम् । विपर्यये पर्यवसानमाह– ईश्वरस्येति ॥ भूलोके दुःखिसहावस्थितस्यापि ईश्वरस्य शक्तिवैशेष्याद् दुःखाऽभोगवन् नरकेऽपि दुःखाऽभोगोऽस्त्वित्याशङ्क्य निषेधति न चेति ॥ कुतो नेत्यत आह– दुःखाननुभव इति ॥ युज्यते दुःखिना सहावस्थितस्यापि ईश्वरस्य भूलोके स्वीयतया दुःखानुभवाऽभावः । भूलोकस्य सर्वेषां स्वस्थितानां दुःखजननस्वभावाभावेन ईश्वरीय दुःखाभावात् । अस्वकीयस्य दुःखस्य स्वकीयतयाऽननुभवस्य गुणत्वेन सार्वज्ञाऽविघातकत्वात् । नरकस्थस्य तु ईश्वरस्य न स्वीयतया दुःखस्याऽननुभवाभावो युज्यते । नरकस्य स्वस्थितानां सर्वेषां दुःखजननस्वभाववत्त्वेन स्वकीय-दुःखप्राप्त्या तदनुभवाभावस्य सार्वज्ञविरोधित्वादिति भावः ॥ द्वितीयमिति ॥ द्वितीयवादिनं निराचष्ट इत्यर्थः ॥ प्रकारद्वयेऽपीति ॥ नरके ईश्वराङ्गीकारे ईश्वरस्य दुःखप्राप्त्या न नरकस्य दुःखजननस्वभावः । तदनङ्गीकारे तु ‘सर्वं विसृजति‘ इति श्रुत्या तस्य कार्यमात्रं प्रति कारणत्वात् तद्रहितप्रदेशे दुःखसम्भवेन प्रकारद्वयेऽपि नरकस्य सदुःखत्वानुपपत्तिरिति भावः ॥ न चोक्तदोष इति ॥ ईश्वरं विना नरके दुःखाङ्गीकारे तस्य सर्वकारणता ग्राहकश्रुतिविरोधः स्यादित्युक्तदोषः स्यादिति न वाच्यमित्यर्थः । असार्वज्ञतामाशङ्क्येति ॥ ‘नासौ दुःखभुग्’ इत्युक्त्या सर्वथा दुःखज्ञानमेव नास्तीति मन्यमानस्य शंकामाशंक्येत्यर्थः ।
पूर्वपक्षस्तु नरकं न सदुःखम् ईश्वरस्यापि दुःखप्रसङ्गात् । न च सहावस्थितयोर् जीवेश्वरयोर् जीवस्यैव दुःखं नेश्वरस्येति सम्भवति । न च भूलोके सहावस्थितयोर् जीवेश्वरयोःजीवस्यैव दुःखं नेश्वरस्य शक्तिवैशेष्यादितिवन् नरकेऽपि वैषम्यं स्यादिति वाच्यम् । भूलोकस्य स्वस्थितानां सर्वेषां दुःखजननस्वभावाभावेन तत्र तथासम्भवेऽपि, नरकस्य स्वस्थितानां सर्वेषां दुःखजननस्वभाववत्त्वेन वैषम्यायोगात् । न च तत्रेश्वाराभावान्न दुःखप्रसङ्गः । ‘सर्वं सृजति’ति श्रुत्या ईश्वरस्य कार्यमात्रं प्रति कारणत्वेन तत्रेश्वराभावे सुतरां दुःखायोगात् । ततश्चोभयथापि दुःखासम्भवान् न तत्र वैराग्येण भाव्यमिति ।
सिद्धान्तस्तु भवत्येव नरकं सदुःखम् । तत्रापि ईश्वरव्यापाराङ्गीकारेण अकारणकत्वदोषा-भावात् । न चेश्वरस्य दुःखप्राप्तिः । नरकस्यापि तद्वशत्वेन अदुःखानुभवेनैव तत्प्रेरकत्वात् । न च तत्र प्रमाणाभावः । ‘स स्वर्गे स भूमौ स नरक’ इति श्रुतेः, ‘नरके पि वसन्नीश’ इति स्मृतेश्च । ततश्च नरकस्य सदुःखत्वात् तत्र वैराग्येण भाव्यमिति सिद्धम् ।
वाक्यार्थमुक्तावली
नरकस्येति ॥ नित्यानित्यत्वविभागयुक्ततया सिद्धस्य नरकस्य धर्मिणः सदुःखत्व-रूपधर्मविचारादनन्तरसङ्गतिरपीति भावः । अत्र नरकं निर्दुःखमुत सदुःखमिति चिन्ता । तदर्थं दुःखिसहावस्थानेऽपीश्वरस्य दुःखपरिहारोपयोगितदननुभवे सार्वज्ञं चास्त्युत नास्तीति ॥ उभयविधेति ॥ वैकुण्ठभूलोकदर्शनमित्यर्थः । वैकुण्ठे मुक्तस्थाने शापादिप्रयुक्तेषद्दुःखस्याप्य-भावात् । सूत्रे चशब्दनिवर्तनीयपूर्वपक्षप्रदर्शकम् ईश्वरस्य नरकायुक्तेरिति भाष्यं सहस्थानमिति न्यायप्रदर्शकतयापि व्याचष्टे ॥ आद्यं दूषयतीति ॥ बहिरेव तर्कमुक्त्वा विपर्ययपर्यवसायिनः प्रदर्शनपरतया ईश्वरस्येति भाष्यं योजयति ॥ ईश्वरस्य नरकभोगायुक्तेरिति ॥ नरकभोगस्येश्वरत्व-युक्त्या ‘निरनिष्टो निरवद्य’ इत्यादिश्रुत्या च विरुद्धत्वादित्यर्थः । अत एव वक्ष्यति । अस्मिन्पक्षे कथितविरोधपरिहारो वाच्य इति ।
ननु ‘सम्भोगप्राप्तिः’ इति सूत्रे सार्वज्ञादिसामर्थ्यवैशेष्येण जीवेन सह स्थितावपि न जीवसमानभोगप्राप्तिरित्युक्तत्वात्कथं पूर्वपक्षोत्थानमित्याशङ्क्य परिहरति ॥ न च वैशेष्ययुक्त्येति ॥ सार्वज्ञाभावप्रसङ्गादिति ॥ तथा च सार्वज्ञादिवैशेष्ययुक्तिरेव न सिद्धेति भावः । अत एव नीचोच्चतैवेत्यादिना सार्वज्ञादिशङ्का परिहरिष्यत इति हृदयम् । तत्रापि तद्व्यापारादविरोध इति सूत्रांशनिवर्त्यपूर्वपक्षप्रदर्शकं सर्वं सृजतीत्यादिभाष्यन्यायं प्रकारान्तरेण विवृण्वन्व्याचष्टे ॥ द्वितीयमिति ॥ श्रुतिविरोध इति । सहावस्थानप्रतिपादकश्रुतिविरोध इत्यर्थः । सर्वं रमयति सर्वं न रमयतीत्येतद्विरुद्धमित्यत आह ॥ योग्यं सर्वमिति ॥ यो जनो रमणयोग्यस्तं सर्वं रमयति यस्त्वरमणयोग्यस्तं सर्वं न रमयतीत्यर्थः ॥ न चोक्तदोष इति ॥ द्वितीयपक्षोक्तदोष इत्यर्थः । चशब्दाद्दुःखाननुभवेनाविरोध इति भाष्येऽन्वयमभिप्रेत्य शेषपूरणेन व्याचष्टे ॥ तत्रापीति ॥ प्रभुत्वादित्यनेनैव कारणाभव इत्युक्तन्यायः स्वतन्त्रत्वेन सहभावेऽपि दुःखकारणाभव इति सूचित इत्याह ॥ सहभावयुक्तीति ॥ सूत्रे व्यापारपदेन कर्तृत्वमिव कारयितृत्वमपीति भावेन भाष्ये सर्वं कारयतीत्युक्तम् ।
तत्त्वसुबोधिनी
सदुःखत्वेति ॥ निर्णीते धर्मिणि धर्मचिन्तेति पूर्वाधिकरणेऽवान्तरभेदभिन्ने नरके निर्णीते इदानीं तद्गतस्य दुःखवत्वरूपधर्मविचारः क्रियत इत्यनन्तरसङ्गतिः ॥ उभयविधस्थानेति ॥ निर्दुःखं स्वर्गादिकं सदुःखं भूम्यादिकमित्यर्थः । भाष्ये ईश्वरस्य नरकायुक्तेः श्रुतिविरोध इति यथाश्रुतान्वयभ्रमनिरासाय ईश्वरस्य नरकायुक्तेरिति भाष्यं सौत्रचशब्दनिवर्तनीयपूर्वपक्षप्रतिपादनाय प्रवृत्तम् । ‘सर्वं विसृजति’ इत्यादि भाष्यं तु तत्रापि च तद्व्यापारादविरोध इति सूत्रांश-निवर्तनीयपूर्वपक्षप्रतिपादनाय प्रवृत्तमित्यभिप्रेत्य पूर्वपक्षं विवृणोति ॥ तथा हीत्यादिना ॥ विपर्यये पर्यवसानपरतया भाष्यं योजयति ॥ ईश्वरस्येति ॥ नरकायुक्तेरित्यस्य नरकेऽवस्थानायुक्तेरिति प्रतीतिनिरासार्थमुक्तम् ॥ दुःखायुक्तेरिति ॥ ननु ‘ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ’ इति सूत्रेण सार्वज्ञादिसामर्थ्यवैशेष्याज् जीवेन सहावस्थितावपि न जीवसमानभोगप्राप्तिरित्युक्तत्वात् कथमेवं पूर्वपक्षोत्थानमित्याशङ्क्य परिहरति ॥ न च वैशेष्येति ॥ सार्वज्ञाभावेति ॥ तथा च सार्वज्ञादिवैशेष्ययुक्तेरेवासिद्धिरिति भावः । अत एव नीचोच्चतैवेत्यादिना सार्वज्ञासिद्धिशङ्कां परिहरतीति हृदयम् । ननु साधूनेव रमयति नासाधून् । असाधूनेव न रमयति न साधून् इति कथं सर्वं रमयति सर्वं न रमयतीत्युक्तमित्यत आह ॥ योग्यं सर्वमिति ॥ नन्वीश्वरस्य दुःखि-जीवसहभूतस्य सदुःखत्वं स्यादित्यत आह ॥ सहभावेति ॥
वाक्यार्थविवरणं
तत्साधने पापे नरकं नरकस्थानम् । दुःखज्ञानमेव दुःखानुभव इत्यभिप्रेत्याह ॥ दुःखेति ॥ तर्हि श्रुतिविरोध इति ॥ ‘सर्वं न रमयत्यन्तरस्मिन्निविष्ट’ इति सर्वेषां सुखदुःखादिप्रदत्वेनेश्वरस्य सद्भावप्रापकश्रुत्यादिविरोध इत्यर्थः । तथा चैवं दुःखादिप्रदत्वेन श्रुतिसिद्धेश्वरस्य नरकेऽनङ्गीकारे दुःखमेव न सम्भवति । तत्प्रदातुरेवाभावादिति भावो द्रष्टव्यः । एवं हि सति अतः प्रकारद्वयेऽपि न नरकस्य सदुःखत्वानुपपत्तेरित्युत्तरटीकावाक्यं युक्तम् । अन्यथेश्वरस्य नरके सद्भावपक्षे नरकस्य सदुःखत्वानुपपत्तावपि प्रेरको नेति पक्षे कथं नरकस्य सदुःखत्वानुपपत्तिः । अतः प्रकार-द्वयेऽपीत्युक्तमयुक्तमिति शङ्कानवकाश इति ध्येयम् ॥ उभयविधेति ॥ नरकस्य सदुःखत्वपक्षे तत्रेश्वरसत्त्वानङ्गीकारे श्रुतिविरोधः । तत्सत्त्वाङ्गीकारे दुःखिना सहावस्थानाद्दुःखप्राप्तिरूपो विरोध इत्युभयविधविरोधेत्यर्थः ॥ सहभावयुक्तीति ॥ दुःखिना सहावस्थानरूपयुक्तीत्यर्थः ॥ असार्वज्ञेति ॥ ‘नासौ दुःखभुक्’ इति तस्य दुःखानुभवानङ्गीकार इति शेषः । भाष्ये एवं वेत्तुः फलमुक्तं नासाविति ॥ य एवं वेदासौ न दुःखभुक् । ‘तं यथा यथोपासत’ इति श्रुतेरित्यर्थः ॥ कथमिति ॥ तथात्वे सार्वज्ञमेव न स्यादिति भावः ॥ आहेति ॥ दुःखानुभवो नाम दुःखज्ञानमात्रं न विवक्षितमित्याशयेनाहेत्यर्थः । तत्र तत्साधने च ।
वाक्यार्थमञ्जरी
उभयविधस्थानेति ॥ निर्दुःखं स्वर्गादिकं सदुःखं भूम्यादिकमित्यर्थः । ननु ‘ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्याद्’ इति सूत्रेण सार्वज्ञादिसामर्थ्यविशेषवत्वेन जीवसहावस्थितावपि न जीवसमानभोगप्राप्तिरित्युक्तत्वात्कथमियं शङ्केत्याशङ्क्य निषेधति ॥ न च वैशेष्येति ॥ सार्वज्ञाभावप्रसङ्गादिति ॥ तथा च सार्वज्ञादिसामर्थ्यवैशेष्ययुक्तिरेवासिद्धेति भावः । ननु साधूनेव रमयति नासाधून् असाधूनेवारमयति न साधूनतः कथं सर्वं रमयति सर्वं न रमयतीत्युक्तमित्यत आह ॥ योग्यं सर्वमिति ॥ ॐ तत्रापि च तद्व्यापारादविरोधः ॐ ॥ तत्रापि च नरकेऽपि च दुःखाभोगेनैव तद्व्यापारात्तस्य हरेः प्रेरणाख्यव्यापारादविरोधः हरेर्दुःखभोगप्रसङ्गेन वा सर्वं रमयतीति श्रुत्या वा न विरोध इत्यर्थः ।
॥ इति तद्व्यापाराधिकरणम् ॥ १३ ॥