१२ सप्ताधिकरणम्

ॐ अपि सप्त ॐ

१२. सप्ताधिकरणम्

सूत्रभाष्यम्

॥ ॐ अपि सप्त ॐ ॥ १६ ॥

‘रौरवोऽथ महांश्चैव वह्निर्वैतरणी तथा ।

कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि तु (च) ॥

तामिस्रश्चान्धतामिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ ।

इति सप्त प्रधानानि बलीयस्तूत्तरोत्तरम् ।

एतानि क्रमशो गत्वैवाऽऽरोहोऽथावरोहणम्’ ॥ इति च भारते ।

त्त्वप्रदीपिका

यद्यपि बहुकोटयो नरकाः, तथाऽपि सप्त प्रधानानीत्यपिशब्दः । दर्शयति चाऽचार्यः ‘इति सप्त प्रधानानि’ इति । सर्वत्र चेत्थमेव सूत्रपदानां कृत्यमुपक्षिपति, न तु निर्वक्ति सूक्ष्म-दृष्टिभिरधिकारिभिर्भाव्यमिति ज्ञापयन् ।

तत्त्वप्रकाशिका

अत्र परमात्मप्राप्तिसाधनवैराग्यार्थं नित्यनरकसमर्थनादस्ति शास्त्रादिसङ्गतिः । यदि भगव-द्द्वेषादिफलस्य न नित्यदुःखात्मकत्वं समर्थ्यते न तर्हि ब्रह्महननादिभ्योऽतिशयेन वैराग्यं भवतीत्यतस्तत्समर्थनीयम् । प्रकृतं नरकमेव विषयः । नित्यफलप्रदमुत नेति सन्देहः । पूर्वोक्तिर्लोक-दृष्टिश्च सन्देहबीजम् । पुनरावृत्तिमदेव न तु नित्यफलप्रदमिति पूर्वः पक्षः । ‘यावदिन्द्राश्चतुर्दश’ इत्यादौ नरकभोगस्यानित्यत्वोक्तेः । न चोभयं युक्तम् । विरोधात् । न चैकस्यैव पुरुषभेदेन व्यवस्था ‘चकार नरकं शून्यम्’ इत्यादेः । अतो यदुक्तं संयमने त्विति सोक्तिर्विरुद्धा । एवं च फलसाम्यान्न भगवद्द्वेषादावितरपापेभ्योऽतिशयेन वैराग्यं प्रयोजकमिति ।

सिद्धान्तयत्सूत्रं पठति ॥ अपीति ॥ अपिपदेन स्मरन्तीत्यनुकृष्यते । तां स्मृतिं चोदाहरति ॥ रौरव इति ॥ नरकभोगो भवत्येव नित्यः । ‘नैवैत उत्तिष्ठन्तेऽपि कर्हिचिद्’ इत्यादिश्रुतेः । अनित्यत्वोक्तिविरोध इति चेन्न । भवेदयं विरोधो यदि नरकैक्यं स्यात् । नैतदस्ति । किं तर्हि सप्तापि सन्ति । तेषु च नित्यानित्यत्वविभागेनोपपत्तेः । कुतो नरकाणां सप्तत्वम् । तथात्वेऽपि कुतो नित्यानित्यतया विभाग इति चेत् ‘रौरव’ इति स्मृतेरित्यर्थः । महान्महारौरवः । एतानि पञ्च । सप्त प्रधानानीत्यनेन बहुनरकाभिधायकपुराणविरोधोऽपि परिहृतः । अतो भगवद्द्वेषादिफलस्य नरकस्य नित्यत्वादितरपापेभ्योऽतिशयेन तत्र वैराग्येण भवितव्यमिति सिद्धम् ।

गुर्वर्थदीपिका

अतिशयेन वैराग्यं प्रयोजकमित्यत्र अतिशयेन यद्वैराग्यं विष्णुभक्तैः क्रियते तत्प्रयोजनं नेति पूर्वेणान्वयः । सप्तेति नरकैः सह पाठात् । ‘तामिस्रश्चान्धतामिस्र’ इति स्मृतौ नित्यनरकावेतौ तमस्त्वतोऽन्यदिति न मन्तव्यम् । सप्तातिरिक्ततमसोऽपि सत्त्वेऽष्टाविति ब्रूयात् । अतो वक्ष्यमाणं तृतीयत्वमप्येष्वेव द्वयोरिति ज्ञेयम् । किञ्च एतानि पञ्चेति द्वयोरेव टीकाकृता विभजनात् स्मृतिरपि द्वयोरेवावरोहमाह । तमोऽन्तरसद्भावे तत्राप्यवरोहो वक्तव्यः । सप्तस्वेवावरोहस्य परिसमापितत्वाच्च न तमोन्तरमस्तीति गम्यते । अत एव ‘तामिस्रान्धादिकाख्ये तमसि’ इत्यनयोरेव तमस्त्वं शिष्टैरपि निर्णीतम् । अन्धमिति पदमादौ यस्य तामिस्रस्य सोऽन्धादिकोऽन्धतामिस्र इत्यर्थः ।

भावबोधः

नित्यनरकसमर्थनादिति ॥ नित्यनरकसमर्थनस्य ‘संयमने तु’ इति उक्तकैमुत्यसिद्ध्युप-योगित्वादनन्तरसङ्गतिरिति भावः ॥ नित्यफलदमिति ॥ अत्र नरकं नित्यफलदं न भवत्युत भवतीति चिन्ता । तदर्थं ‘यावदिन्द्राश्चतुर्दश’ ‘चकार नरकं शून्यम्’ इत्यादिवाक्यविरोधोऽस्ति न वेति । तदर्थं नरकमेकमुतनित्यानित्यविभागेनानेकमिति ॥ पूर्वोक्तिरिति ॥ अवरोह इति पूर्वोक्तिर्लोके फलस्यानित्यत्वदृष्टिरित्यर्थः । नरकभोगस्यानित्यत्वकथनान्नित्यनरकोक्तिर्विरुद्धेति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह ॥ पुनरावृत्तिमदेवेति ॥

ननु नरकभोगस्य नित्यत्वेऽपि नानित्यत्वोक्तिर्विरुद्धा । नरकस्य भगवद्द्वेषाद्यतिपापिनां नित्य-फलदत्वेऽप्यपापिनां पुनरावृत्त्यपेक्षया ‘यावदिन्द्राश्चतुर्दश’ इत्याद्यनित्यत्वकथनसम्भवादित्याशङ्क्य निषेधति ॥ न चैकस्येवेति ॥ नरकस्य केषाञ्चिन्नित्यफलत्वे शून्यत्वरूपानित्यत्वकथनविरोधः स्यादित्यर्थः । ननु सप्तानामपि नित्यफलदत्वे पुनरनित्यत्वोक्तिविरोध इत्यतो विभागादिति न्यायविवरणोक्तयुक्तिमाह ॥ तेषु चेति ॥

ननु रौरवादिपञ्चभ्य एवारोहावरोहौ न तु तामिस्रान्धतामिस्राभ्याम् । तथा ‘चैतानि क्रमशो गत्वा’ इति कथं सप्तानां परामर्श इत्यत आह ॥ एतानि पञ्चेति ॥ तथा च‘एत’च्छब्देन रौरवादिपञ्चैव परामृश्यन्ते न तु सप्तापीत्यर्थः ।

ननु तत्र हैके नरकानेकविंशतिं गणयन्ति । अष्टाविंशतिनरकाः । एवंविधानरका यमालये सन्ति । शतशः सहस्रश इत्यादिना भागवतादौ बहुनरकोक्तेः कथं न तद्विरोधः सूत्रस्मृत्यो-रित्यतस्तद्विरोधपरिहारार्थमेवेति सप्तप्रधानानीति विशेषोदाहरणमित्यभिप्रेत्याह– सप्त प्रधानानीत्य-नेनेति ॥ अन्यथा न्यायविवरणवत् ‘द्वौ नित्यौ संप्रकीर्तितौ’ इत्यन्तमेवोदाहर्तव्यमिति भावः ।

भावदीपः

भावार्थमाह ॥ नित्यनरकसमर्थनादिति ॥ नरकानित्यत्ववचनानां विषयभेदाय नरक-भेदकथनेनेति योज्यम् । एतेन संयमनसूत्रादौ नैवैत उत्तिष्ठन्ते । न तेषामुत्थितिरित्यादिनोक्ता-नुत्थानपातो न युक्तः । नरकानित्यत्ववचनविरोधादित्याक्षेपात्सङ्गतिः सूचिता । चिन्ताफलमाह ॥ यदीति ॥ पूर्वोक्तिरिति ॥ अवरोहादिपदेनानुत्थानपातोक्तिर् लोके कारागृहादौ पतितस्योत्थान-दृष्टिश्चेत्यर्थः । सूत्रादौ नरकभेदोक्तेरसाङ्गत्यभ्रमनिरासाय तात्पर्यतस्तन्निवर्त्य चोद्यमाह ॥ पुनरावृत्तिमदेवेति ॥ नरकभोगस्यानित्यत्वकथनविरोधादित्यन्यत्रोक्तं हेतुं व्यनक्ति ॥ यावदिन्द्रा इति ॥ यावदाभूतसङ्कल्पमित्यादिरादिपदार्थः । नित्यनरकोक्तिर्विरुद्धेति न्यायविवरणशेषं योजयितुं प्राक् श्रुतिस्मृतिषु नित्यनरकोक्तिं हृदि कृत्वा शङ्कते ॥ न चोभयमिति ॥ नित्यफलत्व-मनित्यफलत्वं चेत्यर्थः ॥ विरोधादिति ॥ एतेन नरकनित्यत्वस्याप्युक्तिर्विरुद्धेति शेषस्यार्थ उक्तो भवति । अद्यापि नरकभेदानुक्तेरिति भावः । नरकस्येत्यनुक्त्वा नरकभोगस्येत्युक्तितात्पर्यं व्यावर्त्य शङ्कापूर्वमाह ॥ न चैकस्यैव पुरुषेत्यादिना ॥ नित्यनरकोक्तिविरुद्धेति न्यायविवरणशेषं पूर्वाक्षेपरूपफलपरतयापि विवृण्वन् कृत्स्नवाक्यमुपसंहारपरतयापि योजयति ॥ अत इति ॥ नरकभोगस्यानित्यत्वकथनादित्यर्थः ॥ इत्यनुकृष्यत इति ॥ अत एव प्राक् प्रथमानिर्देश इति भावः । ‘प्राक् तानहं द्विषत’ इत्यादिसङ्ग्रहेण बहुवचनस्य कृतार्थत्वादिहाविवक्षितबहुवचनं धातुमात्रमनुकृष्यत इति भावेनाह ॥ तां स्मृतिं चेति ॥ यद्वा भाष्यस्थस्मृतिरुपलक्षणम् । स्मृत्यन्तराण्यपि ध्येयानीति भावः । कथं स्मृत्युक्त्योक्तशङ्कानिरास इत्यतो रौरवोऽथ महांश्चैव इति विभागादित्यन्यत्रोक्तहेतुं नरकानित्यत्वोक्तिविरोधनिरासकतया व्याकुर्वन् तत्साधकतया सूत्रभाष्य-भावं वक्तुं पूर्वोक्तदिशा नित्यत्वं तावदाह ॥ नरकभोग इति ॥ सौत्रापिपदव्यावर्त्यं व्यनक्ति ॥ यदि न नरकैक्यं स्यान्नैतदस्तीति ॥ सप्तापीति ॥ एतेन सूत्रे पूर्वस्मान्नरकवाचितया संयमन-पदानुवृत्तिं सूचयति । सप्तत्वमात्रोक्तावप्युक्तदिशा विरोधनिरासात्स्मृत्युक्तिर्व्यर्थेत्यत आह ॥ कुत इति ॥ एतानीति स्मार्तपदस्य प्राचीनसप्तनरकपरामर्शित्वभ्रमं निवारयति ॥ एतानि पञ्चेति ॥ इति सप्तप्रधानानीत्युक्तेरुपयोगमाह ॥ सप्तेति ॥ अत इति ॥ नरकानित्यत्वोक्तेर्भिन्नविषयतया तन्नित्यत्वश्रुत्याद्यविरोधकत्वादित्यर्थः ।

वाक्यार्थमुक्तावली

नित्यनरकसमर्थनादिति ॥ अन्यथारोहावरोहावित्युक्तमयुक्तं स्यात् । कैमुत्यं च न सिद्ध्येद् इत्यनन्तरसङ्गतिरिति भावः ॥ नित्यफलप्रदं न वेति ॥ लोकस्य प्रलये नाशान्नित्यफलप्रदं न वेत्युक्तम् । अत्र नरकं नित्यफलप्रदं न भवत्युत भवतीति चिन्ता । तदर्थं ‘यावदिन्द्राश्चतुर्दश’, ‘चकार नरकं शून्यम्’ इत्यादिवाक्यं सर्वनरकपरमुत नरकविशेषपरमिति ॥ पूर्वोक्तिरिति ॥ अवरोह इति पूर्वोक्तिर् लोके फलस्यानित्यत्वदृष्टिश्चेत्यर्थः । न च पूर्वोक्तेः श्रुतिस्मृतिमूल-कत्वाल्लोकदृष्टेर्वैदिकेऽर्थेऽप्रसरात्कथं संशय इति चेन्न । लोकदृष्टेरपि यावदिन्द्रा इत्याद्यागमसहाय-वत्वादिति भावः । सूत्रभाष्याभ्यां नरकप्रभेदमुक्त्वा विरोधसमाधानात्सूचितमर्थं बुद्ध्वोक्तिरित्युक्त-पूर्वपक्षन्यायं विशदयन्पूर्वपक्षयति ॥ पुनरावृत्तिमदेवेत्यादिना ॥ न चैकस्यैवेति ॥ भगवद्वेषिणामधिकारिणां नित्यं भोगप्रदत्वं येऽन्ये ब्रह्मद्विष इत्युक्तानां ब्रह्महननाद्यल्पपापवतामधि-कारिणां पुनरावृत्यानित्यफलप्रदत्वमिति पुरुषभेदेन व्यवस्था नोपपद्यते । तथात्वे नरकस्य शून्यत्वकथनविरोधादित्यर्थः । सूत्रे संयमनमित्यस्ति । अपिशब्देन स्मरन्तीत्यनुकृष्यते । संयमनं सप्तधा प्रविभागवदेव न त्वेकम् । यतो भारते ‘रौरव’ इत्यादिस्मृत्या स्मृतिकर्तारः सप्तापि प्रतिपादयन्तीति सूत्रार्थं हृदि निधाय सूत्रे नरकभोगस्य नित्यत्वे समर्थनीये साङ्ख्योक्तिरसङ्गतेति शङ्कां वारयन् विभाग इत्युक्तन्यायं चारूढं करोति ॥ भवेदयमित्यादिना ॥ तामिस्रान्धतामिस्ररूप नित्यनरकप्राप्त्यनन्तरमारोहावरोहाभावाद् एतानीति सप्तपरामर्शोऽयुक्त इत्यत आह ॥ एतानि पञ्चेति ॥

तत्त्वसुबोधिनी

नित्यनरकसमर्थनादिति ॥ नित्यनरकसमर्थनस्य संयमने त्वित्युक्तसिद्ध्युपयोगित्वादनन्तर-सङ्गतिरिति भावः ॥ पूर्वोक्तिरिति ॥ अवरोह इति पूर्वोक्तिः, लोके फलस्यानित्यत्वदृष्टिरित्यर्थः । ननु तर्हि नित्यत्वानित्यत्वोक्त्यनुरोधेन नरकस्य नित्यत्वमनित्यत्वं चास्त्वित्यत आह ॥ न चेति ॥ ननु नरकभोगस्य नित्यत्वेऽपि नानित्यत्वोक्तिर्विरुद्धा । नरकस्य भगवद्द्वेषाद्यतिपापिनां नित्यफल-दत्वेऽप्यल्पपापिनां पुनरावृत्तिपक्षे ‘यावदिन्द्राश्चतुर्दश’ इत्याद्यनित्यत्वकथनसम्भवादित्याशङ्क्य निषेधति ॥ न चैकस्यैवेति ॥ नरकस्य केषाञ्चिन्नित्यफलत्वशून्यत्वरूपानित्यत्वकथनविरोधः स्यादित्यर्थः । ननु सप्तानामपि नित्यफलदत्वे पुनरनित्यत्वोक्तिविरोध इत्यत आह ॥ तेषु चेति ॥ ननु रौरवादिपञ्चभ्य एवारोहावरोहौ, न तु तामिस्रान्धतामिस्राभ्याम् । तथा चैतानि क्रमशो गत्वेति कथं सप्तानां परामर्श इत्यत आह ॥ एतानि पञ्चेति ॥ तथा चैतच्छब्देन रौरवादिपञ्चैव परामृश्यन्ते, न तु सप्तापीत्यर्थः । ननु तत्र ह्यैके नरकानेकविंशतिं गणयन्ति, अष्टाविंशतिर्नरकाः । एवंविधा नरका यमालये सन्ति सहस्रश इत्यादि भागवतादौ बहुनरकोक्तेः कथं न तद्विरोधः सूत्रश्रुत्योरित्यतस् तद्विरोधपरिहारार्थमेव ‘इति सप्त प्रधानानि’ इति शेषोदाहरणमित्यभिप्रेत्याह ॥ सप्त प्रधानानीत्यनेनेति ॥ अन्यथा ‘द्वौ नित्यौ सम्प्रकीर्तितौ’ इत्यन्तमेवोदाहर्तव्यमिति भावः ।

वाक्यार्थविवरणम्

प्रकृतमिति ॥ भगवद्गुरुद्वेषिणां फलत्वेनेति शेषः ॥ फलेति ॥ दुःखरूपेत्यर्थः ॥ उत नेति ॥ पुनरावृत्तिसद्भावेनेति भावः ॥ उभयमिति ॥ अनित्यत्वं नित्यफलप्रदत्वं चेत्यर्थः ॥ एकस्यैवेति ॥ एकमेव नरकं कस्यचित्पुरुषस्य नित्यफलप्रदं कस्यचिन्नेत्यर्थः ॥ चकारेति ॥ यमलोकं प्राप्तो नारदो नरके दुःखानुभवेन रोरूयमाणान् जनान् दृष्ट्वा तत्कृपया ‘नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी । तथापि नरके घोरे पतन्तीत्येतदद्भुतम्’ इत्युक्त्वा नारायणादिनामोच्चारणरूपं गायनं जनानाश्राव्य तांस्ततो निष्कास्य नरकं शून्यं चकारेति पौराणिकी कथा । तथा च केषाञ्चित्पुरुषाणां नित्यफलप्रदत्वाङ्गीकारे तद्विरोध इति भावः ॥ सोक्तिरिति ॥ केषाञ्चिदवरो-होक्तिरित्यर्थः ॥ फलसाम्यादिति ॥ नित्यनरकाभावेन अनित्यनरकस्य चोभयोरपि साम्येनेत्यर्थः ॥ इतरपापेभ्यः ॥ ब्रह्महननादिभ्यः ॥ प्रयोजकम् ॥ न कार्यमिति यावत् ॥ उपपत्तेरिति ॥ तथा च ‘यावदिन्द्राश्चतुर्दश’ ‘चकार’ इति श्रुतिस्मृत्यो रौरवाद्यनित्यनरकविषयत्वेन न विरोध इति भावः ॥ तत्र ॥ भगवद्द्वेषादौ । भाष्ये ॥ आरोहोऽथावरोहणम् ॥ उक्तरीत्या केषाञ्चिदारोहः केषाञ्चिदवरोह इत्यर्थः ।

वाक्यार्थमञ्जरी

वैराग्यं भगवद्द्वेषादौ । पूर्वोक्तिर् अवरोहः नैवेत उत्तिष्ठन्तीत्युक्तिःलोकदृष्टिर् निगडस्थानादेर-निवृत्त्यफलप्रदत्वदर्शना ॥ यावदिति ॥ चतुर्दशेंद्रा यावत्स्वपदे तिष्ठन्ति तावत्कालं नरके तिष्ठन्तीत्यर्थः । ननु नरकभोगस्य नित्यत्वेऽपि नानित्यत्वोक्तिर्विरुद्धा नरकस्य भगवद्द्वेषाद्यति-पापीनां नित्यफलप्रदत्वेऽप्यल्पपापिनां पुनरावृत्त्यपेक्षया यावदिन्द्राश्चतुर्दशेत्याद्यनित्यत्वकथन-सम्भवादित्याशङ्क्य निषेधति ॥ न चैकस्यैवेति ॥ नारदो नारकिणां नारायणनामस्मृतिद्वारा नरकं शून्यजनं चकारेत्यर्थः । नरकस्य केषाञ्चिन्नित्यफलप्रदत्वे शून्यत्वरूपानित्यत्वकथनविरोध इति भावः ॥ यदुक्तमिति ॥ केषाञ्चिदारोहः केषाञ्चिदवरोह इति वैषम्योक्तिर्नरके वैषम्याभावाद-युक्तेत्यर्थः ॥ ॐ अपि सप्त ॐ ॥ सप्तप्रभेदमपि स्मरन्तीत्यर्थः । ननु सप्तानामपि नित्यफलप्रदत्वे पुनरनित्यत्वोक्तिविरोध इत्यत आह ॥ तेषु चेति ॥ महान् रौरव इति विशेषणविशेष्यभ्रान्तिं निवारयति ॥ महान् महारौरव इति ॥ ननु रौरवादिपञ्चभ्य एवारोहावरोहौ न तु तामिस्रान्धतामिस्राभ्यां तथा चैतानि क्रमशो गत्वेति कथं सप्तानां परामर्श इत्यत आह ॥ एतानि पञ्चेति ॥ तथा चैतच्छब्देन रौरवादिपञ्चैव परामृश्यन्ते न तु सप्तापीतिभावः । ननु ह्येके नरकानेकविंशतिं गणयंत्यष्टाविंशतिनरका एवं विधा नरका यमालये सन्ति शतशः सहस्रश इत्यादिना भागवतादौ बहुनरकोक्तेस्तद्विरोधः सूत्रस्मृत्योरित्यत आह ॥ सप्त प्रधानानीति ॥

॥ इति सप्ताधिकरणम् ॥ १२ ॥