११ अनिष्टादिकार्यधिकरणम्

ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ

११. अनिष्टादिकार्यधिकरणम्

सूत्रभाष्यम्

पुण्यकृतामेव गमनागमने नेतरेषामित्यत आह —

॥ ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ ॥ १३ ॥

‘तद्य इह शुभकृतो ये वाऽशुभकृतस्तेऽशुभमनुभूयाऽऽवर्तन्ते पुनः कर्म कुर्वन्ति पुनर्गच्छन्ति पुनरागच्छन्ति’ इति भाल्लवेयश्रुतौ ।

तत्त्वप्रदीपिका

एवं तावदुभयथा पुण्यकर्मगतिरित्यायातं, यत्कामुकैरनुष्ठीयते तत्कर्तॄणां पुनरागतिर्यदन्यानिच्छ-येश्वरार्पणबुद्ध्याऽनुष्ठीयते । तेन ज्ञानोत्पत्तिद्वारेण मुख्यममृतत्वं लभ्यत इति । अत्र चोदयति–पुण्य-कृतामेव गमनागमने च स्यातां नेतरेषां पापकृताम् । न हि तेषामेतेषामिव फलाभिसन्धिनिबन्धनं कर्म क्रोधादिपारवश्यात्सहसैव भवति । तस्मादबन्धकत्वान्न तेषामागमनमित्यत आह ॥ ॐ अनिष्ठादिकारिणामपि च श्रुतम् ॐ ॥ ये हीष्टादिकृत्यं न कुर्वन्ति, ये च तद्विरुद्धं पापं कुर्वन्ति, त उभयेऽपि सङ्गृहीता ‘अनिष्टादिकारिण’ इति । उदाह्रियते हि श्रुतिरुभयेषां नारकित्वे ‘तद्य इह शुभाकृतो ये वाऽशुभकृत’ इत्यादिका ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनवैराग्यायानिष्टादिकारिणां गतागतादिदुःखसमर्थनादस्ति शास्त्रादि-सङ्गतिः । अनिष्टादिकारिणां गतागतादिदुःखाभावे न तत्र विरक्तिः स्यात् । अतस्तत्साधनीयम् । प्रकृतगतागतादि विषयः । तत्किमिष्टादिकारिणामेवोत सर्वाज्ञानिनामिति सन्देहः । विशेषोक्ति-रज्ञानित्वं च सन्देहबीजम् । पूर्वपक्षयति ॥ पुण्येति ॥ इष्टादिपुण्यकृतामेवाज्ञानां गतागतादि न त्वनिष्टादिकारिणामप्यज्ञानाम् । इष्टादिकारिणां प्रत्यवायभयवत्त्वेन तदुपपत्तेरन्येषां च तदभावात् ‘बिभ्यत् पतति पादपात्’ इति न्यायात् । फलकामित्वाच्चेष्टादिकारिणां तदुपपत्तिः । अनिष्टादि-कारिणां न हि कामोऽस्ति । ‘कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । पर्याप्त-कामस्य कृतात्मनश्च इहैव सर्वे प्रतिमुच्यन्ति कामाः’ इति श्रुतेः । इष्टादिकारिणस्तु स्वयमेवात्मानं विधिप्रतिषेधाभ्यां बध्नन्ति नेतरे । अतः पुण्यकृतामेव गमनागमनादीतरेषां तु तद्रहितो मोक्ष एवेति पुण्ये तत्फले च विरक्त्या भाव्यं नान्यत्रेति भावः ।

सिद्धान्तयत्सूत्रमवतार्य तदुपात्तश्रुतिमेवोदाहरति ॥ अत इति ॥ न केवलमिष्टादिकारिणामेव गतागतं किं नामानिष्टादिकारिणामपि । ‘तद्य इह’ इति श्रुतौ श्रुतत्वादित्यर्थः । अनिष्टादिकारिण इति तदकारिणस्तद्विरुद्धकारिणश्चोच्यन्ते । चशब्दो दुःखान्तरसमुच्चयार्थः । तदेवोत्तरसूत्रेऽनूद्यते ।

गुर्वर्थदीपिका

सर्वाज्ञानिनामित्यत्र सर्वाज्ञानिपदेन पुण्यकृतः पापकृतस्सर्वाज्ञानिनो गृह्यन्ते । न हि कामोऽ-स्तीत्यत्र कामपदेन स्वर्गकामनोच्यते । अत एव स्वर्गविषयगतागते न स्तः ‘बिभ्यत्पतति पादपात्’ इति वचनान्न नरकपातोऽपि । अतो मोक्ष एवेति शङ्कितुरभिप्रायः । एतदेवाभिप्रेत्य पूर्वपक्षावसाने तद्रहितो मोक्ष एवेति वक्ष्यति । अनिष्टादिकारिणामित्यत्र इष्टं यागादिकर्म, तदकारिणस्तद्विरुद्ध-पापकर्मकारिणश्चानिष्टकारिण इत्युच्यन्ते । आदिपदेन मिथ्यादृष्टिहरिद्वेषादिकारिणो गृह्यन्ते । तेषामप्युक्तसूत्रे निरूप्यमाणत्वात् ।

भावबोधः

तत्किमिष्टादिकारिणामेवेति ॥ तथा चेष्टादिकारिणां गतागतोक्तावेव किं तेषामेव गतागतम् उतान्येषामपीति सन्देहोत्पादो नान्यथेति एतदधिकरणविचाराङ्गभूतसंशयोत्थापकत्वेन पूर्वाधि-करणस्यैतदधिकरणोपजीव्यत्वादनन्तरसङ्गतिरिति भावः । अत्र गतागतं किमिष्टादिकारिणामेवोत सर्वाज्ञानिनामिति चिन्ता । तदर्थं प्रत्यवायभयफलकामनादिकं गतागतादिदुःखकारणं भवत्युत न भवतीति । तदर्थमनिष्टादिकारिणां गतागतादिदुःखं प्रामाणिकं न भवत्युत भवतीति । तथा चानिष्टादिकारिणां गतागतादिदुःखस्य प्रामाणिकत्वाभावे भयकामनादेर् दुःखकारणत्वविघटका-भावेन तत्कारणत्वसिद्धौ तद्वतामिष्टादिकारिणामेव गतागतमिति पूर्वपक्षे अनिष्टादिकारिणां गतागतदुःखस्य प्रामाणिकत्वे तत्रैव व्यभिचाराद् भयकामनादेस्तत्राकारणत्वे तद्रहितानामप्य-निष्टादिकारिणां गतागतादिदुःखमिति सिद्धान्ते च फलफलिभावो ज्ञातव्यः ।

विशेष्योक्तिरिति ॥ पूर्वाधिकरणे गतागतस्येष्टादिकर्मफलत्वोक्तावपि तत्फलमिष्टादि-कारिणामेव भवति न त्वन्येषां तदकारिणामित्यर्थात् सिद्धमेवेत्यादिभाष्योक्तसाध्ये हेतुप्रतिपादकतया भयफलकामादिमिश्रबुद्धित्वादिष्टादिकारिणां संसार अनिष्टादिकारिणां तदभावान्मुक्तिरिति न्यायविवरणं योजयति– इष्टादिकारिणां प्रत्यवायभयवत्त्वेनेति ॥ फलकामस्य गतागतकारणत्वे श्रुतिमाह– कामान् य इति ॥ यद्यपि पूर्वार्धस्यैवात्रोपयोगः ‘स एव’ इत्यवधारणाध्याहारेण विवक्षितसिद्धेस् तथाप्यवधारणव्यावर्त्यत्वं नानिष्टादिकारिणां किंतु पर्याप्तकामत्वकृतात्मकत्वादि-गुणयोगिनामेवेति वस्तुगतिप्रदर्शनार्थं पर्याप्तकामस्येत्युत्तरार्धोदाहरणमिति ज्ञातव्यम् ॥ इष्टादि-कारिणस्त्विति ॥ अनेनेष्टादिकारिणां संसार इति न्यायविवरणमुक्ततात्पर्यकं भवति । विधि-प्रतिषेधाभ्यामित्यनेन फलकामादीत्यादिपदार्थकथनम् । इतरेषां त्वित्यनेनानिष्टादिकारिणां मुक्तिरित्येतदुक्ततात्पर्यकं भवति । अत्र ‘तदभावात्’ इत्ययमंश अन्येषां तदभावादिति अनिष्टादि-कारिणां न हि कामोऽस्तीति नेतर इति च त्रेधा व्याख्यात इति ज्ञातव्यम् ॥ श्रुतौ श्रुतत्वादिति ॥ अनेन तेषां दोषश्रुतेरिति न्यायविवरणांशो व्याख्यातो भवति ।

नन्वेवं तर्हीष्टानिष्टाद्यकरणे गतागतादिदुःखाभावान्मोक्षसम्भवेन किमर्थं वैराग्याद्यापादन-मित्यतः सर्वाज्ञानिसंग्रहार्थं नञो विरुद्धार्थत्वमभावार्थत्वं चाभिप्रेत्यानिष्टादिकारिणामित्ये-तद्व्याचष्टे– तदकारिण इति ॥ इष्टापूर्ताद्यकारिणस्तद्विरुद्धकारिणश्चेत्यर्थः । अपिशब्देनैवेष्टादि-कारिसमुच्चयसिद्धेश् चशब्दः किमर्थमित्यत आह– चशब्द इति ॥ तदेवोत्तरसूत्रे अनूद्यत इति । विविच्योच्यत इत्यर्थः ।

भावदीपः

अनिष्टादिकारिणामिति ॥ एतेन एवमुक्तदिशा काम्यपुण्यस्यैव गतागतादिहेतुत्वात्तद-ननुष्ठानस्य वा पापस्य वा तदहेतुत्वान्न तत्र वैराग्यमिति शङ्कनाद्वा पापकृतां पुण्यकृतामिव गतागतादौ रागाभावेन पतनहेतुप्रत्यवायभयाभावेन च गतागतादेः पापादिफलत्वाभावेन श्रुत्यर्थतया सूत्रे दुष्कृतपदोक्त्ययोगादिति शङ्कनाद्वा सङ्गतिरिति सूचितम् । समर्थनस्य शङ्कानिरासार्थत्वात् । यद्वा पूर्वसूत्रे दुष्कृतपदेनानिष्टादिकारिणां प्रस्तुतानां दुःखफलकथनात्सङ्गतिरिति । पुण्यकृतामेवेति भाष्ये सूत्रे चात्मविदामिति पदानुषङ्गमुपेत्याह ॥ सर्वाज्ञानिनामिति ॥ तेन भाक्तं वेत्यत्र वाशब्दोक्तार्थविरोधो नेति भावः । कामकारेण चैक इत्यादिवक्ष्यमाणाविरोधश्च । तत्र ज्ञानिनः कामचारेणापि मोक्षाप्रतिबन्धेन गतागताद्यभावस्य वक्ष्यमाणत्वात् । अतोऽनिष्टादिकारिणा-मपीत्यनुक्त्वा सर्वाज्ञानिनामित्युक्तम् । एतेन भाक्तं वेत्यत्रानात्मविदामकाम्यकर्मिणां ज्ञानद्वाराऽ-मृतभाक्त्वेऽपि काम्यकर्मिणां तेषां गतागतादीत्युक्तौ कथं गतागतमिति शङ्कायां कर्मानुशयवत्त्वे-नागमनं गतिमार्गादन्यथाप्यागमनं कर्मणैव गतागतादि न तु चरणेनेत्युक्तावत्रापि कर्मिणां विकर्मिणां चानात्मविदां हेत्वभावेन गतागताद्यभावे मुक्तिरेव साक्षादित्याशङ्क्य समाधीयत इति च सङ्गतिस्सूचिता । भाष्यं व्याचष्टे ॥ इष्टादीति ॥ नेतरेषामिति एवकारार्थं व्यनक्ति ॥ न त्विति ॥ कुत इत्यतो भयफलकामादिमिश्रबुद्धित्वादिष्टादिकारिणां संसारोऽनिष्टादिकारिणां तदभावान्मुक्ति-रित्यन्यत्रोक्तौ हेतू व्यनक्ति ॥ इष्टादिकारिणामिति ॥ तदुपपत्तेर् गतागताद्युपपत्तेः । कामभावा-भावाभ्यां कथं गतादिभावाभावावित्यत आह ॥ कामानिति ॥ यः काम्यमानानर्थान्वरिष्ठा-न्मन्यमानः कामयते इच्छति । स कामनावशात्तत्र तत्र देशविशेषे धनाढ््यादिकुले जायत इत्याथर्वणश्रुतौ पूर्वोत्तरार्धयोर् अकामिकामिनोर्गतागतादिभावाभावोक्तेरित्यर्थः । कामाकामयो-र्बन्धाबन्धहेतुत्वमन्यत्रोक्तसंसारमुक्त्योरुपपादनाय तत्रस्थादिपदार्थविवरणेन व्यनक्ति ॥ इष्टेति ॥ अन्यत्रोक्तो हेतुर्भाष्योपपादक इति दर्शयन् उक्तप्रमेयं भाष्यारूढमिति भावेन तदनुवादेन फलोक्त्योपसंहरति ॥ अत इति ॥ इष्टादिकारिणामेव गतागतादिहेतूभयफलकामनावत्त्वादन्या-ज्ञानिनां तदभावादित्यर्थः ॥ सौत्राऽपिपदसमुच्चेयमाह ॥ न केवलमिति ॥ गतागतमित्यनुषङ्ग इति भावः । भाष्यस्य सूत्रेणान्वयमुपेत्य हेतुत्वेनार्थमाह ॥ तद्य इहेति ॥ श्रुतौ श्रुतत्वादित्यर्थ इति । सूत्रे पापकृतामपीति वाच्येऽनिष्टेत्युक्तिलब्धार्थमाह ॥ अनिष्टेति ॥ अन्यथा तदकारिणां गतागतादिसिद्धिर्न स्यादिति भावः । चशब्दादन्यच्चेति सूचितम् । तच्च स्पष्टयति संयमन इत्यादिसूत्रमिति तत्वप्रदीपोक्तेश्चशब्दसार्थक्यार्थं भाष्यानुक्तमपि चशब्दार्थमाह ॥ चशब्द इति ॥ तर्हि संयमन इति सूत्रं व्यर्थमित्यत आह ॥ तदेवेति ॥ अनुवादश्च स्पष्टीकरणायेति भावः ।

अभिनवचन्द्रिका

न हि कामोऽस्तीति ॥ फलजनकस्य कर्मणः कामना अङ्गम् । अनिष्टादिकारिणश्च न फलोद्देशेन इष्टादिकारिवत् कर्मकुर्वन्ति । ततश्च व्यङ्गत्वान् न तत्कृतं कर्म दुःखजनकम् । अन्यथा ब्रह्मवधहेतूनां मुद्गरादीनामपि तज्जन्यदुःखं स्यादिति भावः ॥ कामान्यः कामयत इति ॥ मन्यमानो यजमानः यज्ञाद्यनुष्ठानसमये तज्जन्यकामान् विषयान् कामयमानः सन् यज्ञाद्यनुतिष्ठति स एव सकामभिः कामसहकृतयज्ञादिभिस् तत्र तत्र सुरनरतिर्यगादिषु भोगाय जायते । पर्याप्तकामस्य त्यक्तेषणस्य, मत्तस्य, कृतात्मनश्च, कृतकृत्यस्य, विरक्तस्य च, सर्वे कामा विषयसाधनानि सर्वाणि कर्माणि । प्रतिमुच्यन्ति तद्बन्धकानि न भवन्तीति पूर्वपक्षिमते श्रुत्यर्थः । पुण्यं कृत्वा ये पापभयपूर्वकमनुतिष्ठन्ति तेषामेव गमनादिसर्वमपि दुःखम् । इतरेषां विधिनिषेधभयमपहाय स्वेच्छाचारिणां मत्तानां मोक्ष एवेत्यर्थः । एतेन नरकादिदुःखस्य यज्ञफलत्वाभावाद् इष्टादि-कारिणामेव दुःखमित्यप्ययुक्तमिति परास्तम् । इष्टादिकारिणामेवेति ॥ विधिनिषेधभयवतामेवेत्यर्थः ॥ श्रुतत्वादिति ॥ ये शुभकृतो ये चाऽशुभकृत इति पुण्यकृद्वत् केवलपापकर्तुरपि ग्रहणादिति भावः । नन्वनिष्टादिकारिणां गतागतक्लेशस्य मयाप्यङ्गीकृतत्वादित्यत आह– अनिष्टादिकारिण इतीति ॥ धर्मसमुच्चये चशब्दः । ‘अनिष्टादि कारिणः’ इति सौत्रपदेन ये त्वया मुक्तिभागि-त्वेनोक्ता विधिनिषेधभयशून्यत्वेन दुःखसाधनं व्यर्थं, विधिनिषेधभयवतामनिष्टादिकारिणां गतागते, इष्टाद्यकारित्वे सति तद्विरुद्धकारिणो मत्तास्त उच्यन्त इत्यर्थः । एतेन ‘न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्’ इति वचनाद् इष्टाद्यकारिणस् तद्विरुद्वकारित्वं नियतमेवेति तद्विरुद्धकारिणो गतागतक्लेशसमर्थनेन कृतत्वाद् इष्टाद्यकारिग्रहणं व्यर्थमिति परास्तम् । मत्तत्वसूचनाय तद्ग्रहण-स्यावश्यकत्वात् ।

पूर्वपक्षस्तु इष्टादिपुण्यकृतामेव गतागतादिक्लेशाः । तेषां विधिनिषेधभीतियुक्तत्वात् । ‘बिभ्यत्पततिपादपात्’ इति न्यायात् । किं च कामना हि कर्माङ्गं, साङ्गमेव च कर्म फलहेतुर् न तु व्यङ्गम् । कामनावन्तश्च ते । उक्तं च ‘कामान्यः कामयते मन्यमानः सकामभिर्जायते तत्र तत्र’ इति । इष्टादिकारिणस्तु स्वयमेव स्वात्मानं विधिनिषेधाभ्यां बध्नन्ति । उपनीतस्यैव विधिनिषेधविषयत्वात् । अनुपनीतास्तु मत्ताः । न ह्यनुपनीतं प्रति ‘अहरहः सन्ध्यामुपासीत’ इत्यादिशास्त्रं प्रवर्तत इति शक्यते वक्तुम् । शूद्रादीनां तत्प्रसङ्गात् । अतः पुण्यपापकृतामेव गमनागमनादिदुःखं न तु पापमात्ररतानां मत्तानाम् । किंतु मोक्ष एवेति पुण्ये त तत्फले च विरक्त्या भवितव्यं, न तु पापमात्रानुष्ठान इति ।

सिद्धान्तस्तु न पुण्यापापे सङ्कलय्याऽनुतिष्ठतामेव गतागतादिक्लेशः किंनाम पापमात्रानुरक्तानां मत्तानामपि ‘तद्य इह शुभकृतो ये चाऽशुभकृत’ इति प्रत्येकं गतागतक्लेशाभिधानात्, न केवलं पापमात्रानुरक्तानां सज्जीववद् गतागतक्लेश एव किं नाम संयमने त्वनुभूय नित्यनरके पातो भवति । ये तु सज्जीवाः सन्तः पापमनुतिष्ठन्ति तेषामारोहो भवति । सर्वे वा एते शुभकृतः’ इति कौण्ठरव्यश्रुतौ तथा दर्शनात् । ‘गच्छन्ति पापिनः सर्वे नरकं नात्र संशयः । तत्र भुक्त्वा पतन्त्येव ये द्विषन्ति जनार्दनम्’ इत्यादिस्मृतेश्च । न च भयकामनाद्यभावविरोध इति वाच्यम् । अबिभ्यता फलकामनाशून्येनापि उपभुक्तस्य विषस्य मरणहेतुत्वदर्शनात् । अतोऽनिष्टादिकारिणामपि महानर्थत्वेन मोक्षाशाया दूरोत्सारितत्वाद् भवितव्यं तत्रापि विरक्तेनेति सिद्धम् ।

वाक्यार्थमुक्तावली

विशिष्योक्तिरिति टीकायामेव पूर्वाधिकरणे गतागतमिष्टादिफलमिति विशिष्योक्तेराद्यकोट््युप-स्थापकत्वेन सन्देहबीजत्वस्य वक्ष्यमाणत्वाद् अनन्तरसङ्गतिः । गतागतमिष्टादिकारिणामेवोत सर्वाज्ञानामिति चिन्ता । तदर्थं प्रत्यवायभयकाममिश्रबुद्धित्वं पतनप्रयोजकं भवति न वेति ॥ अज्ञानित्वं चेति ॥ इष्टादिकारिणीवानिष्टादिकारिण्यपि अज्ञानित्वस्य सत्त्वेन द्वितीयकोट््युप-स्थितिरिति भावः । प्रत्यवायफलाभावे फलकामनाभावे च पुण्यकरणाभावात् पुण्यकृतामिति कार्योक्त्या सूचितं विमिश्रतेत्युक्तन्यायं विशदयति ॥ इष्टादिकारिणामिति ॥ प्रत्यवायभयकाम-मिश्रबुद्धित्वेनेत्यर्थः । फलकामित्वात् फलकाममिश्रबुद्धित्वात् । प्रत्यवायभयस्य पतनहेतुत्वं न्यायेनोपपादनीयम् । कामित्वस्य तु श्रुत्येत्युपपादनावैचित्र्यात्पृथगुक्तिः ॥ न हि कामोऽस्तीति ॥ यद्यपि पापकारिणां फलकामोऽस्त्येव, अन्यथा प्रवृत्त्यनुपपत्तेः । तथाप्यत्र यस्मात्फला-त्स्वर्गादिरूपादिह पतनं विवक्षितं तत्कामो नास्तीति भावः । फलकामिनां पतनमित्यत्र प्रमाणमाह ॥ कामान्य इति ॥ मन्यमानो बहुमन्यमानः । कामिभिः कामपूर्वकमनुष्ठितयज्ञादिभिः साधनैः । तत्र तत्र योनौ । फलकामस्यैव पातहेतुत्वेऽन्वयमुक्त्वा व्यतिरेकहेतुरुच्यते ॥ पर्याप्तकामस्येति ॥ कृतात्मनः शुद्धमनसः । अत एव पर्याप्तकामस्य परिसमाप्तकामस्य त्यक्तेषणस्य सर्वे कामाः । इहैव ज्ञानदेहे एव प्रविमुच्यन्ति ज्ञानिनं त्यजन्ति । ‘यदा सर्वे विमुच्यन्ते कामा येऽस्य हृदि स्थिताः’ इति श्रुतेः । स्वसम्बन्धितया विधिज्ञानाभावे पुण्यकरणानुपपत्तेः । पुण्यकृतामिति कार्योक्त्या सूचितं विमिश्रतेत्येतदेव न्यायं विधिनिषेधविमिश्रतेति प्रकारान्तरेण विवृणोति ॥ इष्टादिकारिणस्त्विति ॥ अत एव न्यायविवरणे न च भयकामनादिमिश्रबुद्धित्वादित्यादिशब्दः । गतागतमित्यनुवृत्या सूत्रार्थमाह ॥ न केवलमिति ॥ तदकारिण इति ॥ इष्टाद्यकारिण इत्यर्थः ॥ तद्विरुद्धकारिण इति ॥ इष्टापूर्तविरुद्धपापकारिण इत्यर्थः ॥ दुःखान्तरेति ॥ न केवलं गतागतं किन्तु संयमनाख्यं प्रबलदुःखान्तरं च श्रुतमिति समुच्चयार्थ इत्यर्थः । एतेन प्रबलत्वयुक्तः न्यायः सूत्रारूढो दर्शितः ॥ अनूद्यत इति ॥ आरोहावरोहविधानाय अनूद्यतेऽतो न पौनरुक्त्यमिति भावः ।

तत्त्वसुबोधिनी

तत्किमिति ॥ तथा चेष्टादिकारिणां गतागतोक्तावेव किं तेषामेव गतागतमुतान्येषामपीति सन्देहोत्पादो नान्यथेत्येतदधिकरणविचाराङ्गभूतसंशयोत्थापकत्वेन पूर्वाधिकरणस्यैतदधिकरणोप-जीव्यत्वादनन्तरसङ्गतिरिति भावः । विशेषोक्तिरिति ॥ पूर्वाधिकरणे गतागतस्येष्टादिकर्मफल-त्वोक्तावपि तत्फलमिष्टादिकारिणामेव भवति न त्वन्येषां तदकारिणामित्यर्थात् सिद्धमेवेति भावः । कुतो नेत्यत आह ॥ इष्टादीति ॥ तदुपपत्तेः ॥ गतागतयोरुपपत्तेः ॥ तदभावात् ॥ प्रत्यवायभयाभावात् । अस्तु प्रत्यवायभयवत्वमिष्टादिकारिणामन्येषां तदभावश्च, तथापि तेषामेव गतागते कुत इत्यत आह ॥ बिभ्यदिति ॥ तथा च भयवत एव फलं न त्वभयवत इति भावः । किञ्च भवत्येवेष्टादिकारिणां तेषां फलकामनावत्त्वाद् अन्येषां तदभावादित्याह ॥ फलेति ॥ फलकामस्य गतागतकारणत्वे श्रुतिमाह ॥ कामान्य इति ॥ यद्यपि पूर्वार्धस्यैवात्रोपयोगः, स एवेत्यवधारणाध्याहारेण विवक्षितसिद्धेस् तथाप्यवधारणव्यावर्त्यत्वं नानिष्टादिकारिणां किन्तु पर्याप्तकामत्वकृतात्मत्वादिगुणयोगिनामेवेति वस्तुगतिप्रदर्शनार्थं पर्याप्तकामस्येत्युत्तरार्धोदाहरणमिति ज्ञातव्यम् । संसारित्वस्योभयत्र तुल्यत्वात्कथमेतदित्यत आह ॥ इष्टादीति ॥ विधिनिषेधबद्धत्वस्यैव संसारत्वात् तेषां च तदभावदिति भावः । नन्वेवं तर्हि इष्टानिष्टाद्यकरणे गतागतादिदुःखा-भावान्मोक्षसम्भवेन किमर्थं वैराग्योपादानमित्यतः सर्वाज्ञानिसङ्ग्रहार्थं नञो विरुद्धार्थत्वमभावार्थत्वं चाभिप्रेत्यानिष्टादिकारिणामित्येतद्व्याचष्टे ॥ तदकारिण इति ॥ इष्टापूर्ताकारिणस्तद्विरुद्ध-कारिणश्चेत्यर्थः । अपिशब्देनैवेष्टादिकारिणां समुच्चयसिद्धेश्चशब्दः किमर्थमित्यत आह ॥ चशब्द इति ॥ तत् किं दुःखान्तरमत आह ॥ तदेवेति ॥ विविच्योच्यत इत्यर्थः ।

वाक्यार्थविवरणम्

॥ अनिष्टादीति ॥ ये भगवज्ज्ञानशून्या इष्टापूर्तादिवेदोक्तपुण्यकर्मकारिणः स्तेयादिकर्तारो ये च प्रत्युतेष्टादिवेदोक्तकर्मविरुद्धभगवद्द्रोहादिकर्मकर्तारो मिथ्याज्ञानिनस्ते सर्वेऽप्यनिष्टादिकारि-शब्दवाच्यत्वेन अत्राधिकरणे सर्वत्र विवक्षिताः ॥ तत्र ॥ कर्माकरणे विरुद्धकर्मकरणे च ॥ विरक्तिः ॥ तस्मान्निवृत्तिरूपा ॥ इष्टादिकारिणामेवेति ॥ काम्यकर्मिणामेवेत्यर्थः ॥ सर्वाज्ञानिनामिति ॥ भगवज्ज्ञानशून्यानां काम्यकर्मिणाम् अकर्मिणां स्तेनादीनां विरुद्धकर्मिणां मिथ्याज्ञानिनां चेति सर्वाज्ञानिनामित्यर्थः । अत्र काम्यकर्मिणामेव धूमादिमार्गेण गतागतम् इष्टाद्यकारिणां तद्विरुद्धकारिणां च गतागतं नाम तत्फलानुभवाय नरकलोकं प्रति गमनम् । तदवसाने केषाञ्चिदिष्टाद्यकारिणाम् इमं लोकं प्रत्यागमनं तद्विरुद्धकारिणां च तमसि पतनार्थ-मनित्यनरकान्महातमः प्रति गमनमेव विवक्षितम् । न तु धूमादिमार्ग इति विवेकोऽत्र द्रष्टव्य इति सम्प्रदायविदः ॥ विशेषोक्तिः ॥ अथ ये ग्रामा इष्टापूर्त इति गतागतस्य विशिष्येष्टादि-फलत्वोक्तिः ॥ अज्ञानित्वं चेति ॥ भगवदज्ञानित्वाविशेषादिष्टादिकारिवत् । सर्वाज्ञानिनामपि गतागतमित्यर्थः ॥ तदुपपत्तेः ॥ गतागतोपपत्तेः ॥ अन्येषाम् ॥ अनिष्टादिकारिणाम् ॥ तदिति ॥ प्रत्यवायभयेत्यर्थः । इष्टादिकारिणां प्रत्यवायादिमत्त्वेन कुतस्तदुपपत्तिरित्यतस्तदुप-पादयति ॥ बिभ्यदिति ॥ युक्त्यन्तरमाह ॥ फलेति ॥ इष्टादिकारिणां फलकामित्वेन फलभोगार्थं स्वर्गं प्रति गमनं तदवसान आगमनं च युक्तमित्यर्थः ॥ कामः ॥ तत्साध्यफलकामः । अतो न तदुपपत्तिरिति भावः । फलकामित्वाच्चेत्युक्तप्रमेयद्वये श्रुतिमप्याह ॥ कामान्य इति ॥ द्वितीयार्धेनानिष्टादिकारिणां न हि कामोऽस्तीत्यर्थसिद्धिः ॥ पर्याप्तेति ॥ समाप्तेत्यर्थः । परित्यक्तेति यावत् । प्रत्यवायभयवत्त्वेनेत्याद्युक्तमुपपादयति ॥ इष्टादिकारिणस्त्विति ॥ तद्रहितः ॥ गमनागमनरहितः । अपुनरावृत्तिरूप इत्यर्थः । इहैवेत्युक्तत्वान्न मोक्षार्थमपि गमनमपेक्षितमिति भावः । श्रुत्यनुसारेण सूत्रेऽपि तथैवार्थो द्रष्टव्य इत्याह ॥ अनिष्टादिकारिण इतीति ॥ दुःखान्तरेति ॥ न केवलं गमनागमनप्रयुक्तमेव दुःखमित्यर्थः ।

वाक्यार्थमञ्जरी

अनिष्टादिकारिणामिति ॥ इष्टादिपुण्यकारिणां तद्विरुद्धपापकारिणां चेत्यर्थः ॥ विशेषोक्ति-रिति ॥ गतागतस्येष्टादिकर्मसमर्थनलब्धा इष्टादिकारिणां गतागतमिति विशिष्योक्तिरित्यर्थः । भयतदभावमात्रेण कथमिदं वैषम्यमित्यत आह ॥ बिभ्यदिति ॥ पतनभयवानेव वृक्षात्पततीत्यर्थः । फलकामस्य गतागतकरणत्वे श्रुतिमाह ॥ कामान्य इति ॥ यश्चात्मानं कर्तृत्वेन मन्यमानः कामान् विषयान् कामयते इच्छति स्म स एव कामभिर् भोक्तव्यैः कामैर्निमित्तैस्तद्भोगार्थमिति यावत् । भुवि जायते तत्र तत्र विषयेषु पर्याप्तकामस्यालंबुद्धिमतः कृतात्मनः शिक्षितबुद्धेर्योगिनस्तु इहैव लोके सर्वकामाः प्रविमुच्यन्ति विलीयन्त इत्यर्थः ॥ ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ ॥ न केवलमिष्टादिकारिणामेव गतागतादिकम् अपि तु तद्य इहेत्यनिष्टादिकारिणामपि च श्रुतमित्यर्थः । नन्वेवं तर्हीष्टानिष्टाद्यकरणे गतागतादिदुःखाभावान् मोक्षसम्भवे च किमर्थं वैराग्यादीत्यत आह ॥ तदकारिण इति ॥ अनिष्टेत्यत्र नञोऽभावार्थत्वं विरुद्धार्थत्वं चेति भावः । अपिशब्देनेष्टादि-कारिसमुच्चयसिद्धेश्चशब्दो व्यर्थ इत्यत आह ॥ चशब्द इति ॥ अत्रोपष्टम्भकमाह ॥ तदेवोत्तरसूत्र इति ॥ अन्यथा अप्राप्तस्यानुवादायोगात्संयमने त्वनुभूयेत्यनुवादो न स्यादिति भावः ।


ॐ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॐ

सूत्रभाष्यम्

॥ ॐ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॐ ॥ १४ ॥

संयमनमनुभूय केषाञ्चिदारोहः केषाञ्चिदवरोहः । तुशब्दोऽवधारणे । ‘सर्वे वा एतेऽ-शुभकृतः संयमने प्रपतन्ति तत्र ये परद्विषो गुरुद्विषः श्रुतिद्विषस्तदवमन्तारः शठा मूर्खा इति ते वै ततोऽवरुह्य तमसि प्रपतन्ति नैवैत उत्तिष्ठन्तेऽपि कर्हिचिद्वव्रं वा एतदित्याहुरथ येऽन्ये ब्रह्मद्विषः स्तेनाः सुरापा इति ते वै तदनुभूयेमं लोकमनुव्रजन्ति’ इति कौण्ठरव्यश्रुतेः ।

तत्त्वप्रदीपिका

पापिनामप्यागमनं श्रुतमित्युक्तम् । चशब्दादन्यच्चेति सूचितम् । तत्स्पष्टयति संयमन इत्यादिसूत्रम् ॥ संयमने नरके संयमनं तद्दुःखमनुभूयेतरेषामनिष्टादिकारिणां मध्ये केषाञ्चिदारोह एव केषाञ्चिदवरोह एव । ‘यम उपरम’ इति धातोः पापोपरमणं संयमनम् । ‘तत्र ह ये परद्विषो गुरुद्विषो श्रुतिद्विषस्तदवमन्तारः शठा मूर्खा इति ते वै ततोऽवरुह्य तमसि प्रपतन्ति’ इति श्रुतेः । शठा गूढद्वेषिणः । मूर्खास् तत्वाज्ञा अन्यथाज्ञाश्च ।

‘अनादिद्वेषिणो दैत्या विष्णोर्द्वेषो विवर्धितः ।

तमस्यन्धे पातयति दैत्यानन्ते विनिश्चयात् ॥

पूर्णदुःखात्मको द्वेषः सोऽनन्तो ह्यवतिष्ठते ।

पतितानां तमस्यन्धे निःशेषसुखवर्जिते ॥

जीवाभेदो निर्गुणत्वमपूर्णगुणता तथा ।

साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च ॥

प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च ।

तत्प्रमाणस्य निन्दा च द्वेषा एतेऽखिला मताः ।

एतैर्विहीना या भक्तिः सा भक्तिरिति कीर्त्यत’ ॥ इति भगवद्वचनम् ।

‘ब्रह्मरुद्ररमादीनां साम्यदृष्टिरनन्यता ।

प्रादुर्भावगतस्यापि दोषदृष्टिरपूर्णता ॥

धर्मदेहावतारादेर् भेददृष्टिश्च सङ्करः ।

अवतारेष्विति ज्ञेयमवज्ञानं जनार्दने ॥

सर्वं मोघं शुभं तस्य योऽवजानाति केशवम् ।

अधरं याति च तमः प्रादुर्भावगतोऽप्यतः ।

ज्ञेयः केवलचिद्देहो विदोषः पूर्णसद्गुण’ ॥ इति भविष्यत्पर्वणि ।

‘सर्वदेववरत्वेन यो न जानाति केशवम् ।

तस्य पुण्यानि मोघानि याति चान्धतमो ध्रुवम्’ ॥ इति च सत्तत्वे ।

‘असुराणां तमः प्राप्तिस्तदा नियमतो भवेत् ।

यदा तु ज्ञानिसद्भावे नैव गृह्णन्ति तत्पदम्’ ॥ इति च भविष्यत्पर्वणि ।

तत्त्वप्रकाशिका

न केवलमनिष्टादिकारिणां गतागतमात्रमतिदुःखं चान्यदस्तीत्येतदर्थप्रतिपादकं सूत्रमुपन्यस्य व्याचष्टे ॥ संयमने त्विति ॥ अस्ति तावत्सर्वेषामनिष्टादिकारिणामज्ञानां यमशासनम् । तदनुभवा-वसाने केषाञ्चिदनिष्टादिकारिणां ततो व्युत्थानं भवति । केषाञ्चित्ततोऽपि नीचस्थले नित्यनरके पातो भवति । कुतः । तेषामनिष्टादिकारिणामेवंविधगतेः श्रुतिसिद्धत्वादिति भावः । यथा नित्य-नरकपाते विकल्पस्तथा संयमनेऽप्यस्तीति नाशङ्क्यमिति भावेनाह ॥ तुशब्द इति ॥ अशुभकृत इति न शुभकृत इति चार्थः । द्वेषः प्रतीपबुद्धिः । अवमतिर्नीचतया विज्ञानम् । शाठ््यं गूढद्वेषः । मौर्ख्यं तत्त्वज्ञानराहित्यम् । नैवैत उत्तिष्ठन्त इत्यस्योपपादनम् ॥ वव्रमिति ॥ स्वस्थितान् वारयति गन्तुं न मुञ्चतीत्यर्थः ।

गुर्वर्थदीपिका

‘अज्ञानां यमशासनम्’ इत्यत्र अज्ञानां ज्ञानिव्यतिरिक्तानामित्यनेन इतरेषामिति सौत्रपदस्य ज्ञानिभ्य इतरेषामित्यर्थं दर्शयति । ‘इमं लोकमनुव्रजन्ति’ इति श्रुतेः सौत्रारोहपदेन पापभोगावसाने भूलोकं प्रत्यारोह एव आरोहः । अतः फलद्वयमप्यज्ञानिनामिति भावेनोक्तम् इतरेषामिति । केषाञ्चिदितरेषामारोहः केषाञ्चिदितरेषामवरोह इति सूत्रार्थ इति भावः ।

भावबोधः

यमशासनमिति ॥ अनेन सम्यग्यमनं नियमनं शासनमिति यावदिति संयमनशब्दो यौगिकः । सूत्रे ‘संयमने तु’ इति सप्तमी द्वितीयार्थे । अत एव भाष्ये संयमनमित्युक्तमित्युक्तं भवति । एवं विधगतेः श्रुतिसिद्धत्वादिति । अनेन प्रबलदोषश्रुतेरिति न्यायविवरणमप्युक्तार्थं भवति ॥ विकल्प इति ॥ भगवद्द्वेषादियुतानामेवाज्ञानां नित्यनरकपातलक्षणोऽवरोहः । अन्येषामुत्थानलक्षणारोह इति विकल्प इत्यर्थः ॥ तुशब्द इतीति ॥ तथा चानुभूय त्विति सम्बन्धः सूचित इति भावः ।

वदीपः

चशब्दार्थं वदन्नेव सूत्रमवतारयति ॥ न केवलमिति ॥ अनिष्टादिकारिणां मुक्तिरेवेति वादिनं पूर्ववादिनं प्रति कथं संयमनमनुभूयेत्युक्तिरित्यत आह ॥ अस्ति तावदिति ॥ ‘सर्वे वा एते’ इति भाष्यस्थश्रुतेरेवेति भावः । यद्वा भाष्ये शेषं कृत्वा सूत्रार्थं विवृण्वन् सौत्रतुशब्दभावार्थमाह ॥ अस्ति तावदिति ॥ संयमनशब्दार्थो यमशासनमिति ॥ सर्वे इत्यादिभाष्यस्य तद्ग्रतिदर्शनादिति सूत्रखण्डव्याख्यात्वं स्फोरयन् तेषां प्रबलदोषश्रुतेरित्यन्यत्रोक्त्यनुरोधेन सौत्रतच्छब्दार्थं विवृण्वन्नर्थ-माह ॥ तेषामिति ॥ एवंविधेति ॥ एतेनान्यत्रोक्तप्रबलदोषशब्दार्थो विवृतः । अवधारणकृत्यं वदन्नेवावतारयति ॥ यथेति ॥ श्रुत्यर्थमाह ॥ अशुभकृत इति ॥ एतेन तद्य इहेति प्राचीन-श्रुतावप्यशुभकृत इति पदं व्याख्यातं बोध्यम् ॥ प्रतीपेति ॥ ‘जीवाभेदो निर्गुणत्वमपूर्णगुणता तथा । साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च । प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च । तत्प्रमाणस्य निन्दा च द्वेषो एतेऽखिला मताः’ इत्यादिना भारततात्पर्यनिर्णयेऽनेकधा विवृतेति भावः ॥ नीचतयेति ॥ ‘ब्रह्मरुद्ररमादीनां साम्यदृष्टिरनन्यता । प्रादुर्भावगतस्यापि दोषदृष्टिरपूर्णता । धर्मदेहावतारादेर्भेददृष्टिश्च संकरः । अवतारेष्विति ज्ञेयमवज्ञानं जनार्दन’ इत्यादिनवम-गीतातात्पर्योक्तेरिति भावः ॥ तत्वज्ञानेति ॥ ‘यदा तु ज्ञानिसद्भावे नैव गृह्णन्ति तत्परम्’ इत्याद्युक्तदिशेति भावः । वव्रं वेत्यंशस्योपयोगमाह ॥ नैवैत इति ॥

अभिनवचन्द्रिका

ननु सूत्रमिदमयुक्तं नरकभेगस्य नित्यत्वं समर्थनीयमसमर्थयित्वा, नरकसङ्ख्यामात्राभिधानात् । भाष्यं चाऽयुक्तं नरकभोगस्य नित्यताऽसमर्थनादित्यतः सूत्रभाष्ययोस्तात्पर्यमाह– नरकभोगो भवत्येवे त्यादिना, इति स्मृतेरित्यन्तेन ॥ क्वचित्तु ‘इति स्मृतेरित्यर्थः’ इति पाठः । तस्य तात्पर्यार्थ इत्यर्थो बोध्यः । ननु रौरवादिपञ्चभ्य एवाऽऽरोहावरोहौ न तु तामिस्त्राऽन्धतामिस्त्राभ्यां, तथा च ‘एतानि क्रमशो गत्वा’ इति कथं सप्तानां परामर्श इत्यत आह– एतानि पञ्चेति ॥ पञ्चानामेव ‘एतानि’ इति परामर्शः कृतो न सप्तानामिति भावः । अतिशयेन तत्र वैराग्येण भवितव्यमिति । नन्विदमयुक्तं वैराग्ये अतिशयाऽभावात् । तथा हि– वैराग्यं नाम विरागता, रागाऽभाव इति यावत् । न चाऽभावे तारतम्यमस्ति, । येन ब्रह्महननवैराग्याद् भगवद्विद्वेषे वैराग्यस्याऽतिशय इति चेत् सत्यम् । अभावे न तारतम्यम्, तथापि हरिद्वेषादिविरागतायां महता प्रयत्नेन महादरेण भाव्यमित्यभिप्रायेण तथोक्तमित्यदोषः ।

पूर्वपक्षस्तु नरकं न नित्यदुखसाधनं, ‘यावदिन्द्राश्चतुर्दश’ इत्यादौ अवधिमत्त्वश्रवणात् । न चोभयं युक्तं, विरोधात् । न च पुरुषभेदेन व्यवस्था ‘चकार नरकं शून्यम्’ इति शून्यताऽभिधानात् । ततश्च संयमने त्वनुभूय केषां चिदवरोह इति प्रागुक्तमयुक्तमिति नेतरपापेभ्यो भगवद्विद्वेषेऽतिशयितेन वैराग्येणाऽभाव्यमिति ।

सिद्धान्तस्तु भवेदेव यद्येकमेव नरकं स्यान् न चैवं किं नाम ‘रौरवोऽथ महांश्चैव वह्निर्वैतरणी तथा । कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि तु । तामिस्त्रश्चाऽन्धतामिस्त्रौ द्वौ नित्यौ सम्प्रकीर्तितौ’ इति वचनात् सप्तनरकाणि । ‘चकार नरकं शून्यम्’ इत्यादीनि रौरवादिपञ्चनरक विषयाणि । ‘नैवोत्तिष्ठन्ती’त्यादीनि तु तामिस्त्राऽन्धतामिस्त्रविषयाणि । अन्यानि च बहूनि क्षुद्र-नरकाणि सन्ति । तान्यपि अनित्यफलदानि । अतो भगवद्द्वेषादिफलस्य नित्यनरकत्वाद् इतरपापेभ्योऽतिशयेन तत्र वैराग्यैण भवितव्यमिति सिद्धम् ।

वाक्यार्थमुक्तावली

॥ यमशासनमिति ॥ एतेन संयमने नरके । संयमनं सम्यग्यमनं नियमनं यमशासनमनुभूयैवेति सूत्रे विभक्तिविपरिणामेन यथास्थितेन चान्वय इत्युक्तं भवति । अत एव भाष्ये संयमनमनुभूय संयमने पततीति द्विधोक्तिः । तद्गतिदर्शनादित्यत्र तेषां गतिस्तद्गतिः । सा च सा गतिश्चेति विग्रहद्वयं तन्त्रेणोपात्तमिति भावेनाह । तेषामनिष्टादिकारिणामेवं विधगतेरिति ॥ अशुभकृत इति ॥ अशुभकृत इत्यस्याशुभकारिणः शुभकारिण इति चार्थ इति भावः ।

तत्त्वसुबोधिनी

यमशासनमिति ॥ अनेन सम्यग्यमनं संयमनमित्युक्तम् । पृच्छति । कुत इति ॥ विकल्प इति ॥ भगवद्द्वेषादियुक्तानामेवाज्ञानां नित्यनरकपातलक्षणोऽवरोहः । अन्येषामुत्थानलक्षण आरोह इति विकल्प इत्यर्थः ॥ तुशब्द इतीति ॥ तथा चानुभूय त्विति सम्बन्धः सूचितः । सौत्रचशब्दार्थमाह ॥ अशुभकृत इति ॥ न शुभकृत इति चार्थ इति । पौनरुक्तपरिहाराय श्रौतपदानि व्याचष्टे ॥ द्वेष इत्यादिना ॥ ननु नैवेत उत्तिष्ठन्त इत्येतत्पुनरुक्तं, वव्रमित्यनेन गतार्थत्वादित्यत आह ॥ नैवेत इति ॥ तद्व्याचष्टे ॥ स्वेति ॥

वाक्यार्थविवरणं

यमशासनमिति ॥ तथा च सूत्रे भाष्ये च संयमपदेन सम्यक् यमनं नियमनं यमशासनं नरकदुःखमेव ग्राह्यम् । तथा च संयमने संयमनम् अनित्यनरकदुःखमनुभूयेत्यर्थः ॥ केषाञ्चिदिति ॥ इष्टाद्यकारिणां ब्रह्मद्विट्स्तेनादीनाम् । आरोह इत्यस्य व्याख्यानं ततो व्युत्थानमिति । अनित्यनरकाद् व्युत्थाय इमं लोकं प्रत्यागमनमित्यर्थः ॥ केषाञ्चिदिति ॥ तद्विरुद्धकारिणां हरिगुरुद्विषाम् । अवरोह इत्यत्र ‘अव’ इत्यस्य व्याख्यानं ततोऽपि नीचस्थान इति । यत्रा-नित्यनरके रौरवादौ दुःखमनुभवन्तः स्थितास्ततो नरकादपि नीचस्थान इत्यर्थः । तत् किं स्थलमित्यत उक्तम् ॥ नित्यनरक इति ॥ ‘रोह’ इत्यस्यार्थः पात इति । तद्गतिदर्शनादिति सूत्रखण्डस्यार्थमाह ॥ तेषामिति ॥ विकल्प इति ॥ विरुद्धकारिणामेव नित्यनरके पातो नेष्टादिकारिणामित्येवंरूपः ॥ संयमने ॥ अनित्यनरकदुःखानुभवोऽपि इष्टाद्यकारिणां तद्विरुद्धकारिणां च मध्ये केषाञ्चिदस्ति केषाञ्चिन्नेत्येवंरूपो विकल्पोऽस्तीति न शङ्क्यमित्यर्थः ॥ तुशब्द इतीति ॥ तथा च संयमनमनुभूयैव केषाञ्चिदारोहः केषाञ्चिदवरोह इत्यर्थः । तथा च संयमनानुभवेनोक्तरूपो विकल्प इति भावः । सूत्रे इतरेषामित्यस्य इष्टादिकारिभ्य इत्यर्थस्य स्पष्टत्वादर्थान्तरं चाह ॥ न शुभकृत इति चार्थ इति ॥ इष्टादिरूपशुभेत्यर्थः । श्रुतौ संयमनेऽ-नित्यनरके । श्रुतौ ततोऽनित्यनरकात् । अवरुह्य व्युत्थाय । एतद् एतस्मात् । गन्तुं बहिर्गन्तुम् । श्रुतौ तदनुभूय संयमनपदोक्तमनित्यनरकमनुभूयेत्यर्थः ।

वाक्यार्थमञ्जरी

सम्यक् यमनं शासनं सप्तमी द्वितीयार्थे अनुभूय तु अनुभूयैव इतरेषामनिष्टादिकारिणा-मारोहावरोहौ केषाञ्चिदारोह उत्थानं केषाञ्चिदवरोहःनीचस्थाने पातो भवति । कुतः? तद्गतिदर्शनात् तेषामनिष्टादिकारिणां गतेरेवंविधायाः ‘सर्वे वा एत’ इति श्रुतौ दर्शनादित्यर्थः ॥ विकल्प इति ॥ भगवद्द्वेषिणामेव नित्यनरके पातोऽन्येषां नेति यथा न तथा सम्यग्यमनं पापोपरमणं यत्रेति संयमनपदेनोक्तेऽनित्यनरके किन्तु सर्वेषान्तन्नियतमिति भावेनेत्यर्थः ॥ इति चार्थ इति ॥ न केवलं पापकर्तृत्वमेवाशुभकृच्छब्दार्थः किंतु पुण्याकर्तृत्वमप्यर्थ इत्यर्थः । तेनानिष्टादिकारि-शब्दस्योभयविधव्याख्याने न श्रुतिसंवाद इति भावः ।