ॐ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॐ
१०. चरणाधिकरणम्
सूत्रभाष्यम्
॥ ॐ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॐ ॥ १० ॥
‘तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्ते कपूयचरणाः कपूयाम्’ (छां.उ.५-१०-७) इति श्रुतेश्चरणफलमेव गमनागमने न यज्ञादिकृतः ।
‘आचार इति सम्प्रोक्तः कर्माङ्गत्वेन शुद्धिदः ।
अशुद्धिदस्त्वनाचारश्चरणं तूभयं मतम्’ ॥ इति ।
स्मृतेरिति चेन्न । यज्ञाद्युपलक्षणार्था चरणादिश्रुतिरिति कार्ष्णाजिनिर्मन्यते ।
तत्त्वप्रदीपिका
न यज्ञादिकृतो यज्ञादिफलं गमनागमनम् । चरणशब्दस्य यज्ञाद्यतिरिक्तविषयत्वात् । तत्र प्रमाणमाह– आचार इत्यादि पूर्ववादी ॥ उत्तरभाष्यस्यायमर्थः । यज्ञादिपुण्योपलक्षणार्था रमणीयचरणश्रुतिः । पापोपलक्षणार्था कपूयचरणश्रुतिः ।
तत्त्वप्रकाशिका
अत्रेश्वरप्राप्तिसाधनवैराग्यार्थं गतागतस्य कर्मफलत्वसाधनादस्ति शास्त्रादिसङ्गतिः । यदि गतागतक्लेशस्य न कर्मसाध्यत्वं न तर्हि काम्ये कर्मण्ययं विरज्येतातस्तत्समर्थनीयम् । प्रकृतं गतागतं विषयः । यज्ञादिकर्मफलं न वेति सन्देहः । तन्निमित्तानिमित्तयोरुभयोरपि सहभावदर्शनं सन्देहबिजम् । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद् व्याचष्टे ॥ चरणादिति ॥ न यज्ञादिकर्मफलं गतागतम् । किं नाम चरणफलमेव । ‘तद्य इह रमणीयचरणा’ इति श्रुतेः । न च वाच्यं यज्ञादिकर्मण एव चरणत्वाच्छून्यमभिधानं चरणफलमेव गमनागमनं न यज्ञादिकृत इतीति । ‘स यथाकारी यथाचारी तथा भवति’ इति श्रुतेः ‘आचार इति कर्मणोऽन्यस्य चरणस्य प्रतीतेः । अथापि स्यात् । ‘अथ य इमे ग्रामा इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति’ इत्युपक्रम्य तस्मिन्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनरावर्तन्त’ इति श्रुतेर्गतागतस्य यज्ञादिफलत्व-प्रतीतेरयुक्तं चरणफलत्वकल्पनमिति । मैवम् । तत्रापि गतागतस्य चरणफलत्वेनैवाङ्गीकारात् । न च तत्र चरणशब्दो नास्ति । ‘इष्टापूर्ते दत्तमित्युपासते’ इत्युपशब्दस्यैव तद्वाचकत्वात् । स हि समीपवर्ति वक्ति । चरणमेव यज्ञादिसमीपवर्ति । तत्र येयं गतागतस्य कर्मफलत्वप्रतीतिरुपजायते शब्दात् सा च करणचरणे सहैवोक्ता स्वर्गगतागतयोश्च सहोक्तिनिमित्ता भ्रान्तिरेव । न च मन्तव्यं कुत एतत्कल्प्यत इति चरणश्रुतेर्विषयान्तराभावेनाप्रामाण्यभयात्सावकाशश्रुतेरर्थान्तरकल्पनस्य न्यायप्राप्तत्वात् । अतो गतागतस्यान्यफलत्वात्कर्मणा पुनरावृत्तिशून्यस्वर्गासिद्धेर्न तत्र वैराग्यमापाद्यमिति भावः ।
सिद्धान्तांशं व्याचष्टे ॥ नेति ॥ न गतागतस्य कर्मफलत्वाभावः । ‘नान्यः पन्थाः’ इति श्रुत्या गतागतशून्यफलस्य कर्मसाध्यताया निषिद्धत्वात् । ‘इष्टापूर्तं मन्यमाना’ इति श्रुत्या ‘त्रैविद्या माम्’ इत्यादिस्मृत्या च गतागतस्य कर्मफलत्वोक्तेश्च । न च ‘तद्य इह रमणीयचरणाः’ इति श्रुतिविरोधः । तस्या उदाहृतश्रुत्याद्यनुरोधेनाजहल्लक्षणया यज्ञार्थत्वोपपत्तेरिति कार्ष्णाजिनिराचार्यो मन्यत इति भावः । एतेन यदेतत् श्रुत्यवष्ठम्भेनादिवाक्यस्यार्थान्तरपरिकल्पनं तदपि परास्तं भवति । अथ ये यज्ञेन दानेन तपसा लोकान् जयन्ति ते धूममभिसम्भवन्ति’ इत्यादिसमाख्याविरुद्धं च ।
गुर्वर्थदीपिका
तन्निमित्तानिमित्तयोरित्यत्र तद्यज्ञाख्यं कर्म निमित्तं यस्य तत् तन्निमित्तं पुण्यं तदनिमित्तं लिङ्गदेहादिकमित्यर्थः । न यज्ञादिकृत इत्यस्य यज्ञादिकृतः पुरुषस्येत्यर्थः । शब्दादित्यस्य साक्षात्कर्मप्रतिपादकेष्टापूर्तादिशब्दश्रवणादित्यर्थः । कर्मणा पुनरावृत्तिशून्यस्वर्गसिद्धेरित्यत्र यद्यपि स्वर्गात्पुनरावृत्तिरस्ति तथाऽपि तस्य उक्तविधयाऽऽचारफलत्वेन कर्मफलत्वाभावात्पुनरावृत्तिं विहाय केवलस्वर्गस्यैव कर्मणा सिद्धेरिति भावः । कर्मणः पुनरावृत्त्यहेतुत्वेन ज्ञानसाम्यमिति शङ्कितु-राशयः । वस्तुतस्तु ज्ञानजन्यफले मोक्षे केनापि निमित्तेन पुनरावृत्तिरेव नास्ति । कर्मफले स्वर्गे तु येन केनचित्प्रकारेणास्त्येव पुनरावृत्तिरिति न ज्ञानसाम्यम् । अतो मन्दाशङ्केयमिति ज्ञेयम् । इह लोके तं परमात्मानम् एवं सहस्रशीर्षत्वाद्याकारेण विद्वानमृतो भवति पुनर्मृतिरहितो भवति । ‘जातस्य हि ध्रुवो मृत्युः’ इति वचनेन पुनर्जन्मनि पुनर्मरणस्यापि ध्रौव्यात् । पुनर्भवान्नावर्तत इति ‘तमेवं विद्वानमृत इह भवति’ इति श्रुतेरर्थभावाज् ज्ञानं पुनरावृत्तिशून्यमोक्षफलकमिति ताव-त्सिद्धम् । अयनायेदृशमोक्षाय अन्यः कर्मादिरूपः पन्था नेति पुनरावृत्तिशून्यफलजनकत्वं ‘नान्यः पन्थाः’ इति श्रुत्यंशेन कर्मणो निषिद्ध्यत इति भावेनाऽऽह नान्यः पन्था इति ॥ गतस्यैव पुनरागतमागमनं गतागतम् ।
त्रैविद्या मामित्यादीत्यत्राऽऽदिपदेन ‘एवं त्रैविद्यमनुप्रपन्ना गतागतं कामकामा लभन्त’ इत्यन्तं वाक्यं गृह्यते । त्रैविद्यं त्रिविद्यासम्बन्धियज्ञादिकर्म, त्रिविद्यासम्बन्धिज्ञानव्यावर्तनाय यज्ञै-रिष्ट्वेत्यत्रोक्तयज्ञमेव परामर्ष्टुमेवमित्युक्तम् । निवृत्तिकर्मरूपयज्ञादिव्यावर्तनाय कामकामा इत्युक्तम् । त्रैविद्यमनुप्रपन्ना गतागतं लभन्त इति वचनात्फलीभूतगतागतस्य कारणान्तरानुक्तेर् अकारणकार्यो-त्पत्त्ययोगाच्चाश्ववान् गच्छतीत्यादाविवाधिकारिविशेषणीभूतयज्ञादिकर्मैव साधनमिति लभ्यते । किञ्च त्रैविद्यपदोक्तयज्ञस्य स्वर्गसाधनतायाः ‘ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान्’ इति पूर्वश्लोक एवोक्तत्वात्पुनरारम्भो गतागतहेतुत्वकथनायैवेति कथं न लभ्यते । निरवकाशैतत्स्मृतिसमाख्यया ‘इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति’ इति प्रागुक्तश्रुतिरपि स्वर्गादर्वाग्गतेः कर्मफलतामाहेति भावः । सुष्ठुकृते नाकस्य पृष्ठेऽनुभूत्वा पुण्यफलमनुभूत्वेति श्रुतेरर्थः पराभिमतः ।
‘तद्यदिह रमणीयचरणा’ इत्यादिश्रुतिषूक्तविधया निरवकाशबहुतरश्रुतिस्मृत्यनुरोधायाजह-त्स्वार्थलक्षणया रमणीयचरणकपूयचरणपदाभ्यां सदाचारदुराचारसहितौ यज्ञावेव ब्रूते । तत्रापि सदसद्योगिसदाचारदुराचारफले, गतागतं तु यज्ञादिरूपकर्मण एव फलम् । न तु योनिप्राप्तिरपि । पुण्यरूपयज्ञकर्मणस् तामसयोनिप्रापकत्वायोगात् । एवं च कपूययोनिप्राप्तेर् दुराचारफलत्वे समान-न्यायत्वाद् रमणीययोनिप्राप्तिरपि सदाचारस्यैव फलम् । न तु यज्ञस्य । अत एव स्मृतिः ‘गतागतं कामकामा लभन्ते’ इत्येवाह । सदाचारस्यापि पुण्यरूपत्वात्पुण्ययोनौ प्रवेश एव तत्फलम् । ‘गर्भवासादिदुःखं तु पुनः पापान्तरात्’ इति ज्ञेयम् । किञ्च सदसद्योनिप्रापकसदाचारदुराचार-योरागमनमात्रफलकत्वे सम्भवेऽपि स्वर्गं प्रति गमनस्य यज्ञैकफलता परेणापि वक्तव्या । तत्र चरणश्रुतेरभावात् । एवं चार्धचरतीयायोगादुक्तसयुक्तिकस्मृत्यादिबलात् ‘कृतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म’ इति भागवतोक्त्या काम्यकर्मरूपयज्ञस्यातिदुर्बलाश्ववद्गमनहेतुतायाः कदाचित्पतन-हेतुताया अपि न्यायप्राप्तत्वात्पतनस्यापि वाय्वादिदेवानुप्रवेशेन सुखहेतुत्वाद् व्रीह्यादिभावाभावेन तच्छेदादिजनितदुःखहेतुत्वादागमनमपि यज्ञस्यैव फलमिति भावेनाह– उदाहृतेति ॥ अतीताधि-करणे टीकाकृतोक्तमागमनस्य क्लेशित्वं तु परिभ्रमणादिनिमित्तमीषत्क्लेशित्वमेव । न तु मध्ये जनन-मरणादिरूपमहाक्लेशित्वम् । सुखसाधनतया वेदोपदिष्टकर्मिणां व्रीह्यादिभावेन दुःखित्वे वेदविहित-वैराग्यादावपि तच्छङ्का स्यादिति स्वयमेव वक्ष्यमाणत्वात् । तर्हि पुण्यफले गमने ईषत्क्लेशिताऽपि कथमिति चेत्सत्यम् । आत्यन्तिकदुःखनिवृत्तिसहितसुखसाधनं ज्ञानमेव । न तु दुर्बलसाधनरूपं कर्म । स्वर्गेऽपि चिन्तेर्ष्यादिजनितेषद्दुःखस्य सत्त्वात् । अत एव स्वर्गेऽपि वैराग्यं मुमुक्षूणामाह सूत्रकारः । आदिवाक्यस्येत्यस्य ‘तद्य इह’ इति वाक्यादप्यादौ विद्यमानस्य ‘अथ इमे ग्रामाः’ इति वाक्यस्येत्यर्थः ।
भावबोधः
प्रकृतं गतागतं विषय इति ॥ तथा च ‘यथेतमनेवं च’ इत्युक्तगतागतस्य कर्मफलत्व-समर्थनादनन्तरसङ्गतिरिति भावः । यज्ञादिफलं न वेति । अत्र गतागतं यज्ञादिकर्मफलं न भवत्युत भवतीति चिन्ता । तदर्थं ‘रमणीयचरणा’ इति श्रुतिगतश्चरणशब्दः कर्मपरो न भवत्युत भवतीति । तदर्थम् ‘अथ य इमे ग्रामाः’ इत्यादिवाक्यजन्या गतागतस्य यज्ञादिकर्मफलत्वप्रतीतिः करण-चरणस्वर्गगतागतरूपसाधनफलसहोक्तिनिमित्ता भ्रान्तिरुत प्रमेति । तदर्थं ‘रमणीयचरणा’ इति श्रुतेर्निर्विषयत्वरूपं बाधकमस्त्युत लक्षणादिना कर्मपरत्वेन सविषयत्वाद्बाधकं नास्तीति । तदर्थमुपलक्षकत्वे चरणशब्दस्य वैयर्थ्यं प्राप्नोत्युत नेति । तथा च रमणीयचरणशब्दस्य यज्ञाद्युपलक्षकत्वे रमणीया इत्येतावता पूर्तौ चरणशब्दस्य वैयर्थ्यप्रसङ्गेनोपलक्षणासम्भवेन चरण-श्रुतेर्निर्विषयत्वरूपबाधकात्; गतागतस्य कर्मफलत्वप्रतीतेः सहोक्तिनिबन्धनभ्रमत्वाच् चरणशब्दस्य कर्मपरत्वाभावेन गतागतस्य कर्मफलत्वमिति पूर्वपक्षे यज्ञादिकारिणामपि रमणीयकपूयचरणाभ्यामेव रमणीयत्वादिति ज्ञापकतया चरणशब्दस्य सप्रयोजनत्वेनोपलक्षणत्वसम्भवाच् चरणश्रुतेः सविषयत्वेन बाधकाभावाद् गतागतस्य कर्मजन्यत्वप्रतीतेः प्रमात्वसम्भवाच् चरणशब्दस्य कर्म-परत्वेन गतागतस्य कर्मफलत्वमेवेति सिद्धान्ते च फलफलिभावो ज्ञातव्यः ॥ तन्निमित्ता-निमित्तयोरपीति ॥ न केवलमेकस्य निमित्तस्यैवेत्यपेरर्थः । एकस्मिन् देशे काले च पटादिना कार्येण तन्निमित्तानिमित्तयोस्तन्त्वादिरासभादिकयोः सहभावदर्शनमित्यर्थः ।
ननु निमित्तानिमित्तयोः सहभावदर्शनस्य सन्देहबीजत्वे साधारणधर्म इत्युक्तं स्यात् । तथा च कर्म गतागतफलकं न वेति सन्देहः स्यान्न तु गतागतं यज्ञादिकर्मफलं न वेति चेत्, न; निमित्तानिमित्तयोः कार्येण सहभावदर्शनोक्त्या कार्यस्यापि निमित्तानिमित्ताभ्यां सहभावदर्शन-लाभात् । तथा च फलस्य निमित्तानिमित्तोभयसहभूतत्वदर्शनाद्गतागतरूपं फलं यद्यपि यज्ञादि-सहभूतं तथापि तत्फलं न वेति सन्देहो भवतीति भावः । ‘सुकृतदुष्कृते एवेति तु बादरिः’ इति सूत्रनिवर्तनीयाशङ्काप्रदर्शनार्थं भाष्ये ‘आचार इति स प्रोक्तः’ इति स्मृतिरुदाहृतेत्यभिप्रेत्य तदुदाहरणनिवर्तनीयाशङ्काप्रतिषेधपूर्वकं तदभिप्रायमाह– न च वाच्यमित्यादिना ॥ इष्टापूर्ते दत्तमित्युपासत इत्युपशब्देनेष्टादिभिराचारस्य सहपाठाच्चरणफलं पुनरावृत्तिं करणफलत्वेन भ्रमाद्वदन्तीति न्यायविवरणं संयोजयितुं तदुपयोगिशङ्कामाह– अथापि स्यादित्यादिना ॥ ‘उपशब्दस्यैव’ इत्यादिना ‘चरणमेव यज्ञादिसमीपवर्ति’ इत्यन्तेनेष्टापूर्ते दत्तमित्युपासत इत्युपशब्देनेत्येतदुक्ततात्पर्यं भवति । तत्र येयमित्यादिना चरणफलं पुनरावृत्तिं कर्मकरणफलत्वेन भ्रमाद्वदन्तीत्येतदुक्ततात्पर्यम् ॥ सा चेति ॥ अनेनेष्टादिभिराचारस्य सहपाठाद् भ्रमाद्वदन्तीत्ये-तदन्वयप्रदर्शनपूर्वकमुक्ततात्पर्यकं भवति । स्वर्गगतागतयोरित्यनेनेष्टादिभिराचारस्य सहपाठा-दित्युक्तस्य साधनसहोक्तिमात्रस्य गतागतस्य कर्मफलत्वभ्रमजनकत्वायोगात् साधनसहपाठेन यावत्संपातमुषित्वाथैतमेवाध्वानं पुनरावर्तन्त इति स्वर्गेण गतागतस्यापि सहपाठाच्चेति फलसह-पाठोऽप्युपलक्षणीय इत्युक्तं भवति । चरणश्रुतेः सविषयत्वं प्रतिपादयता तदुपलक्षणार्थेत्यनेन सूचितम् । भ्रमत्वकल्पकं निर्विषयत्वरूपं बाधकमाह– चरणश्रुतेरिति ॥ ‘नान्यः पन्था’ इति न्यायविवरणांशनिरसनीयमाह– कर्मणा पुनरावृत्तिशून्यस्वर्गसिद्धेरिति ॥
चरणशब्दस्याचारमात्रार्थत्वरूपमुख्यार्थानुपपत्तिप्रदर्शनपरत्वेन ‘नान्यः पन्थाः’ इत्यादिवचना-देवेति न्यायविवरणं योजयति– नान्यः पन्था इतीत्यादिना ॥ गतागतशून्यफलस्य कर्मसाध्यताया निषिद्धत्वादिति । कर्मणो गतागतफलकत्वाभावे विहितस्य निष्फलत्वायोगात् परिशेषेण गतागतशून्यफलकत्वाभावे विहितस्य निष्फलत्वायोगात् परिशेषेण गतागतशून्यफलकत्वमेव सिद्ध्यतीत्यभिप्रेत्यैवमुक्तमिति । नन्वनया श्रुत्या कर्मणो गतागतशून्यफल कत्वाभावसिद्धावपि गतागतफलकत्वं कुत इत्यतो न्यायविवरणगतादिपदोपात्ते श्रुतिस्मृती आह– इष्टापूर्तमिति ॥ तस्या उदाहृतश्रुतिविरोधेनेति । यज्ञाद्युपलक्षणार्थेति भाष्यव्याख्यानपरेणानेनोभयोरपि चरणशब्दे-नैवोक्तेर्योग्यत्वादिति न्यायविवरणमप्युक्ततात्पर्यकं भवति । ‘तदपेक्षत्वात्’ इत्युत्तरसूत्रांशानुसारेणा-जहल्लक्षणयेत्युक्तम्– एतेनेति ॥ ‘नान्यः पन्थाः’ इत्यादिश्रुतिस्मृत्यनुसारेण चरणशब्दस्य कर्मोपलक्षकतया ‘रमणीयचरणा’ इति श्रुतेः कर्मणो गतागतफलकत्वप्रतिपादकतया सविषयत्व-प्रतिपादनेन निर्विषयत्वाभावादेतत् श्रुत्यवष्टम्भेन ‘अथ य इमे’ इत्युपक्रमवाक्यस्य ‘तत्रापि गतागतस्य चरणफलकत्वेनाङ्गीकारात्’ इत्यादिना यदर्थान्तरमुक्तं तदपि निरस्तमिति भावः ॥ अथ ये यज्ञेनेति ॥ यद्यप्यत्र ‘नान्यः पन्थाः’ ‘इष्टापूर्ते’ ‘त्रैविद्या माम्’ इत्यादिश्रुति-स्मृतिविरुद्धं चेत्यपि वक्तुं शक्यम्; तथापि ‘अथ ये यज्ञेन’ इत्यादिश्रुतेः ‘अथ य इमे ग्रामा इष्टापूर्ते दत्तम् इत्युपासते’ इति श्रुत्या शब्दतोऽपि समाख्यात्वलक्षणविशेषोऽस्तीति ज्ञापयितुं तद्विरोध एव दर्शितः । अत एव न्यायविवरणगतादिपदोपात्तत्वाविशेषेऽपि अस्या व्यवधानेनात्रो-दाहरणमिति ज्ञातव्यम् ।
भावदीपः
प्राप्तिसाधनेत्युक्तार्थम् । वैराग्यार्थं कर्मादौ वैराग्यार्थमित्यर्थः । गतागतस्य गमनागमनस्येति समाहारद्वन्द्वः ॥ कर्मफलत्वेति ॥ एतेनागमनादावतिक्लेशयुतत्वेन स्वर्गे कर्मणि च विरक्तेन भाव्यमित्ययुक्तम् । गत्यादेश्चरणफलत्वेन तन्मात्रवैराग्येण गत्यागत्योरभावे पुनरागमनहीनस्वर्गफले तद्धेतुकर्मणि च वैराग्यहेत्वभावादिति शङ्कनादनन्तरसङ्गतिरिति सूचितम् ॥ प्रकृतमिति ॥ यथैतमायातीत्यनेन प्रकृतमित्यर्थः ॥ तन्निमित्तेति ॥ तदिति गतागतपरामर्शः । गतागत-निमित्तानिमित्तयोर् यथाक्रमं कर्मचरणयोर्द्वयोरपि गतागतरूपकार्येण सहभावस्य अथ य इमे ग्रामा इति श्रुतौ च दर्शनमित्यर्थः । तथा च चरणाफलस्यापि चरणेन सहोक्तिवत् कर्मसहोक्त्युपपत्त्या विशेषादर्शनात्सन्देह इति भावः । यद्वा तन्निमित्तानिमित्तयोर् गतागतनिमित्तानिमित्तयोः । ‘अथ य इमे ग्रामाः’ इति श्रुतौ वक्ष्यमाणदिशा इष्टापूर्तादिशब्दोपशब्दाभ्यामुक्त्या तयोरुभयोरपि श्रुतौ सहभावदर्शनमित्यर्थः । तथा च दण्डपटाभ्यां घट इत्युक्ते अनिमित्तपटसहभावेन दण्डस्य घटं प्रति निमित्तत्वसन्देहवत् तस्मिन् यावत्संपातमिति चरमवाक्यश्रुतगतागतं प्रत्यनिमित्तचरणसहभावदर्शने-नेष्टापूर्तादिकर्मणोऽपि विशेषादर्शनदशायां भवति निमित्तानिमित्तत्वसन्देह इति गतागतं कर्मफलं न वेति सन्देहो युक्त इति भावः । सूत्रे चरणशब्दोऽस्यैव चोपपत्तेरूष्मेत्यादावूष्मादिशब्दवच्चरण-श्रुतिपरश्चरणपरश्च गतागतमिति प्रकृतस्यान्वय इति भावेन भाष्यस्थहेतुप्रतिज्ञे व्युत्क्रमेण व्याचष्टे ॥ न यज्ञादीति ॥ न यज्ञादिकृत इत्युक्तिलब्धोऽर्थोऽयम् ॥ इति श्रुतेरिति ॥ छान्दोग्ये पञ्चमे श्रवणादित्यर्थः । भाष्ये स्मृत्युक्तेरुपयोगं शङ्कापूर्वं व्यनक्ति ॥ न चेति ॥ स्मृत्युक्ति-रूपलक्षणमिति भावेनाह ॥ स यथेति ॥ करणचरणयोरेकत्वे श्रुतौ पुनरुक्तिः स्यादिति भावः । भेददाढर्््यार्थं श्रुतेरप्युक्तिः । अथ य इति स्पष्टकर्मफलत्वश्रुतिविरोधाद्यथाश्रुतसूत्रभाष्याभ्यां पूर्वपक्षानुदयमाशङ्क्य ‘अथ य’ इति श्रुतेरिष्टापूर्ते दत्तमित्युपासत इत्युपशब्देनेष्टादिभिराचारस्य सहभावापाठाच्चरणफलं पुनरावृत्तिं करणफलत्वेन भ्रमाद्वदन्तीत्यन्यत्रोक्तान्यथानयनप्रकारं व्यनक्ति ॥ अथापीत्यादिना ॥ करणचरणयोर्भेदेऽपीत्यर्थः । ग्रामा इति ग्रामस्थाः । इष्टं यागः । पूर्तं तटाकादि । ‘अन्येभ्योऽपि दृश्यत’ इति दीर्घः । दत्तं दानम् ॥ इत्युपक्रम्येति ॥ छान्दोग्ये पञ्चमे । तस्मिन् चन्द्रलोके । आकाशाच्चन्द्रमसमिति तस्य पूर्वत्र प्रकृतत्वात् ॥ गतागतस्येति ॥ धूममभिसम्भवतीति गमनस्य पुनरावर्तत इत्यागमनस्य च प्रतीतेरिति भावः ॥ समीपवर्तीति ॥ सङ्ख्ययाव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येय इत्यत्रोपशब्दस्य समीपसमीपिरूपद्व्यर्थत्वस्य मञ्जर्या-दावुक्तेः । भाष्ये यथासूत्रं चरणफलमेव गमनागमनमिति वाच्ये सौत्रपदस्योपलक्षणत्वमुपेत्य इति श्रुतेरित्युक्तिर् अन्यत्रोक्तकर्मफलत्वश्रुतेरन्यथानयनस्य निर्बीजत्वशङ्काव्युदासार्थेति भावेन भाष्य-भावार्थमाह ॥ न चेत्यादिना ॥ विषयान्तराभावेनेति ॥ एतेन ‘इष्टापूर्तम् मन्यमाना’ इत्यादि-वाक्यमपि कथञ्चिदन्यथा योज्यमिति वा तदज्ञानेन वा पूर्वपक्ष इति सूचितम् ॥ अत इति ॥ गतागतस्य चरणफलत्वश्रवणात्कर्मफलत्वाश्रवणाच्चेत्यर्थः ॥ पुनरावृत्तिशून्येति ॥ चरणवैराग्य-मात्रेण तत्फलरूपगतागतस्याभावे कर्मणा सिद्ध्यन् स्वर्गः पुनरावृत्तिशून्य एव सिद्ध इति भावः । भाष्ये नेति नञः न यज्ञादिकृत इति पूर्वभाष्यलब्धार्थेनान्वयमाह ॥ न गतागतस्येति ॥ ननु सूत्रभाष्ययोश्चरणश्रुतेरमुख्यार्थत्वोक्तिरयुक्ता । निर्निमित्तं मुख्यार्थत्यागायोगादित्यतः ‘सङ्गम्यन्ते गुरोर्गिर’ इति स्वप्रतिज्ञामनुरुध्य ‘नान्यः पन्थाः’ इत्यादिवचनादेवोभयोरपि चरणशब्देनोक्ते-र्योग्यत्वादित्यन्यत्रोक्तं वचनादेवेति हेतुं न गतागतस्येत्याद्युक्तसाध्येनान्विततया लक्षणाबीजतया च व्यनक्ति ॥ नान्यः पन्था इति ॥ तावता गतागतस्य कर्मफलत्वाप्राप्तिरित्यन्यत्रोक्तादि-पदोपात्तश्रुत्यादिना तदाह ॥ इष्टापूर्तमिति ॥ ‘इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति’ इत्याथर्वणश्रुत्येत्यर्थः । न्यायविवरणे श्रुतेरित्यनुक्त्वा वचनादित्युक्त्या स्मृतिरप्यभिमतेति भावेनाह ॥ त्रैविद्येति ॥ ‘त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्त’ इति गीतास्मृत्येत्यर्थः । एवमन्यत एव गतागतस्य कर्मफलत्वसिद्धौ चरणश्रुतेरुपलक्षणत्वं किमर्थं वाच्यमित्यतो विरोधनिरासाय न तु कर्मफलत्वसिद्ध्यर्थमिति भावेन सूत्रभाष्ययोः श्रुतिविरोधनिरासकतयाऽर्थमाह ॥ न चेत्यादिना ॥ उभयोरपि चरणशब्देनोक्तेरित्यन्यत्रोक्तोभयशब्दानुरोधेनार्थमाह ॥ अजहल्लक्षणयेति ॥ पूर्वत्र श्रद्धाश्रुतेरिवेति भावः । एतेनोक्तेरजहल्लक्षणया प्रतिपादनस्य योग्यत्वादुपपत्तेरुपपन्नत्वादित्यर्थ उक्तो भवति ॥ यज्ञादीति ॥ रमणीयश्रुतेर्यज्ञादिपुण्यार्थत्वस्य कपूयश्रुतेः पापार्थत्वस्य चोपपत्तेरित्यर्थः ॥ एतेनेति ॥ चरणश्रुतेर्यज्ञादिपरतया सावकाशत्वकथनेनेत्यर्थः ॥ आदिवाक्यस्येति ॥ ‘अथ य इमे ग्रामाः’ इत्यादिवाक्यस्येत्यर्थः ॥ अर्थान्तरेति ॥ चरणपरत्वरूपेत्यर्थः ॥ इत्यादीति ॥ बृहदारण्यकेऽष्टमस्थवाक्ये स्पष्टं गतागतस्य कर्मफलत्वोक्तेस्तद्विरुद्धं चार्थान्तरकल्पनं न केवलं कल्पकशून्यमिति चार्थः । एतेन न्यायविवरणस्थादिपदेनैतदपि वाक्यं ग्राह्यमिति सूचितम् । इष्टापूर्तादिवाक्येऽत्रेव धूममभिसम्भवतीत्यादिरूपसामान्योक्त्यभावादियमेव समाख्यात्वेनोक्ता । यद्वाऽऽदिपदेनेष्टापूर्तादिवाक्यमपि ग्राह्यम् ।
अभिनवचन्द्रिका
तन्निमित्तानिमित्तयोरिति ॥ कर्तुस्तावत्कुलालादेर् निमित्तेन दण्डादिना अनिमित्तेन रास-भादिना सहभावो दृश्यते । प्रकृते च गमनागमनकर्तुर्जीवस्य कर्मादिना सहभावो दृश्यत इति तद्दर्शनं निमित्तत्वात् कर्ता कर्मसहभूत उताऽवर्जनीयतयेति सन्देहजननद्वारा, गतागतं कर्मफलं न वेति सन्देहबीजमिति भावः ॥ तद्य इह रमणीयेति ॥
ननु ‘तद्य इह’ इति श्रुतिबलाद् रमणीयादियोनिप्राप्तेश् चरणफलत्वासिद्धावपि न गतागतस्य तत्फलत्वं सिध्यतीति नैतत्प्रत्युदाहरणायुक्तम् । अस्तु वा आगमनस्य चरणफलत्वं तत्फलयो-निप्राप्त्यनुबन्धित्वात् । न तु गमनस्य कर्मफलस्वर्गप्राप्त्यनुबन्धित्वेन योनिप्राप्त्यननुबन्धित्वाद् इति चेत्, न । भावानवबोधात् । न ह्यस्माभिः केवलयोर्गमनागमनयोश्चरणफलत्वसाधनाय एतच्छ्रुत्यु-दाहरणं क्रियते येनोक्तदोषः स्यात्, किं नाम स्वर्गलोकगमनमारभ्य योनिप्राप्त्यन्तस्य सर्वस्यापि चरणफलत्वसाधनाय एतच्छ्रुत्युदाहरणं क्रियते, ‘तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्त’ इति श्रुत्या च योनिप्राप्त्यन्तस्य गमनस्वर्गभोग पुनरागमनादे सर्वस्यापि चरणफलत्वप्रतिपादनं क्रियते । गत्यादेः सर्वस्य योनिप्राप्त्यनुबन्धित्वात् । तद्यथा ‘पूर्णाहुत्या सर्वान्कामानवाप्नोति’ इति श्रुतिबलात् पूर्णाहुतिसंज्ञकस्य यागस्य स्तोकं स्तोकं सर्वफलकत्वं, यथा वा ‘तरति मृत्युं, तरति पाप्मानं, तरति ब्रह्महत्यां योऽश्वमेधेन यजते, य उचैनमेव वेद’ इति श्रुतिबलात्, अश्वमेधफलत्वेन श्रुतमपि मृत्युतरणादिकं साङ्गोपाङ्गाऽश्वमेधज्ञानफलम् । तथा चरणस्यापि स्तोकस्वर्गफलकत्वाद् गतिस्वर्गभोगपुनरागमनानां योनिप्राप्त्यनुबन्धित्वम् । अयमत्र विवेकः साङ्गज्योतिष्टोमानुष्ठाने आदौ चरणफलं भवति तच्च स्वर्गं प्रति गमनं, स्वर्गे वासः, पुनरागमनं, योनिप्राप्तिश्चेति । कर्मफलं तु अपुनरावर्तिस्वर्गगमनम्, तत्र निवासश्चेति । चरणफलस्वर्गप्राप्त्यनन्तरभाविनमर्थमाह– यावत्संपात-मुषित्वेत्यादिनेति ॥ तत्रापि गतागतस्येति ॥ अत्र एवं पूर्वपक्षिमते श्रुतियोजना द्रष्टव्या, अथ येऽधिकारिणः ग्रामे = गृहस्थाश्रमे स्थिताः, इष्टापूर्ते इष्टं यजनं, पूर्तं कूपखननादि, दत्तं दानमिति एतत्त्रयं तन्निकटवर्त्याचरणं चासते अनुतिष्ठन्ति, ते धूममभिसम्भवन्ति ततो रात्र्यादि-द्वारेण नित्याऽनित्यस्वर्गप्राप्तिमन्तो भवन्ति इति ॥ पुनरावृत्तिशून्यस्वर्गसिद्धेरिति ॥ चरणफलभोगोत्तरभाव्यपुनरावृत्तिस्वर्गसिद्धेरित्यर्थः । एतेन सङ्गकर्मण एव फलसाधनत्वाच् चरणस्य च यज्ञाङ्गत्वाच् चरणाभावे कर्मणः स्वर्ग एव न स्यात् । अङ्गविकलत्वात् सति च तस्मिन्पुनरा-वृत्तिः स्यात् साधनसद्भावादित्युभयथापि न कर्मणः सकाशाद् अपुनरावृत्तिस्वर्गसिद्धिरिति परास्तम् ।
ननु ‘नान्यः पन्था’ इत्यादिश्रुतिबलेन निर्णयो युज्यते । निरवकाशचरणश्रुतिविरोधादित्या-शङ्क्य निषेधति– न चेत्यादिना ॥ रमणीयकपूयपदाभ्यामिति ॥ रमणीयत्वकपूयत्व-विशिष्टाऽधिकारिवाचिभ्यां पदाभ्यां लक्षणया यज्ञादिविशिष्टग्रहणसम्भवादित्यर्थः । न यज्ञादय उपलक्षणत्वेनोपात्तुं शक्यन्ते । अधिकारिणामयज्ञादिकारित्वादित्यत आह– यज्ञादिकारिणा-मिति ॥ यज्ञादिकारिणां प्रकृतत्वेन सम्भवाद् ये यज्ञादिकारिणो रमणीयाः, कपूयाश्चेति तदुप-लक्षणस्य सम्भवादिति पूर्वेणाऽन्वयः । तथापीति ॥ न चरणशब्दस्याऽऽनर्थक्यमिति शेषः । कुतस्तस्य कर्मवाचकत्वमित्यत आह– यथा खल्विति ॥ अस्ति तावत्कर्माणि चरणशब्दप्रयोग इति तस्य वृत्तिरङ्गीकर्तव्या चर्यत इति योगेन वाचकत्वसम्भवे लक्षणाऽसम्भवाद् वाचकत्वमेवेति भावः । प्रयोगादिति ॥ प्रयोगसम्भवादित्यर्थः । प्रयोगासम्भवं सूचयितुं प्रकृतेरेकस्मिन्नर्थे प्रयोगं दर्शयति प्रयुज्यते हीति ॥ प्रकृतिद्वयं पर्यायेण प्रयुज्यत इत्यर्थः । अयं भावः धर्मं कुरुतेत्यर्थे ‘धर्मं चरत’ इति प्रयोगाद् धर्मं मा कुरुतेत्यर्थे ‘मा चरत’ इति प्रयोगात् करोतिचरत्योः पर्यायत्वम् । ततश्च कृतिविषयाणां यज्ञादीनां कर्मव्युत्पन्नकृतशब्दवाच्यत्वमिव ‘कृत्य ल्युटो बहुलम्’ इति वचनात् कर्मणि व्युत्पन्नचरणशब्दवाच्यत्वमपि सिद्धमेवेति कर्मण्यपि चरणशब्दप्रयोगः सम्भावित एवेति । एतेन कुरुतेत्यर्थे चरतेति प्रयोगेण करोतिचरत्योः पर्यायत्वसिद्धावपि चरणशब्दस्य यज्ञादिवाचकत्वाऽसिद्धिरिति परास्तम् ॥ साधारणश्रुतेरिति ॥ ‘तद्य इह रमणीयचरणा’ इति साधारणश्रुतेः साङ्गकर्माभिधायकत्वमभ्युपेयम् । यज्ञाङ्गमात्रपरत्वे बाधकस्योक्तत्वादिति भावः ।
पूर्वपक्षस्तु चरणफलमेव गतागतं न यज्ञादिकर्मणः ‘तद्य इह रमणीयचरणा’ इति श्रुतेः, चरणस्य च ‘स यथाकारी यथाचारी तथा भवतीति श्रुतेः, ‘आचार इति संप्रोक्त’ इति स्मृतेश्च कर्मणोऽन्यत्वात् । न च ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासत’ इति श्रुतेः, गतागतं यज्ञफलमेव न चरणफलमिति वाच्यम् । ‘इष्टापूर्ते दत्तमित्युपशब्देन यज्ञसमीपवर्तिवाचिना चरणमभिधाय ‘इष्टापूर्ते, इत्यनेन यज्ञं चाभिधाय उभयफलस्य ‘ते धूममभिसम्भवन्ति’ इत्यादिना द्विविधस्वर्गस्याभिधानात् । अयमत्र विवेकः । एकस्तावत् पुनरावर्तियुक्तः स्वर्गः, अपरस्तु अपुनरावृर्तियुक्तः । तत्र आद्यश् चरणफलं, तद्भोगानन्तरं यज्ञफलस्य पुनरावर्तिवर्जितस्य स्वर्गस्य प्राप्तिर्भवति । प्रायश्चित्तेन पापानां संसारापादकानामनन्तकर्मणाम् अपुनरावृत्तिस्वर्गसाधनज्योति-ष्टोमादिमहिम्ना विनाशो वा, पण्डता वा, (कार्यजनकता) भवतीति । अतो गतागतस्याऽन्य-फलत्वात् कर्मणापुनरावर्तिशून्यस्वर्गसिद्धेर्न तत्र वैराग्यादिना कृत्यमिति ।
सिद्धान्तस्तु न गतागतस्य कर्मफलत्वाभावः ‘नान्यः पन्था’ इति गतागताशून्यफलस्य कर्मसाध्यताया निषिद्धत्वात् । ‘इष्टापूर्ते मन्यमाना’ इति श्रुत्या, ‘त्रैविद्यामाम्’ इति स्मृत्या च गतागतस्य कर्मफलत्वोक्तेश्च । न च ‘तद्य इह रमणीयचरण’ इति श्रतिविरोधः – तस्या उदाहृतश्रुत्याद्यनुरोधेनाऽजहत्स्वार्थलक्षणया यज्ञाद्यर्थत्वोपपत्तेः । अथ ‘यज्ञेन दानेन तपसा लोकान् जनयन्ति’ इति विस्पष्टश्रुतेश्च । अपि चैवं कार्ष्णाजनिराचार्यो मन्यते, ननु ‘रमणीय-चरणा’ इति श्रुतेर् लक्षणया यज्ञाद्यर्थत्वमिति न युक्तं, रमणीया इत्यनेनैव यज्ञाद्युपलक्षणसम्भवेन चरण शब्दवैयर्थ्यप्रसङ्गादिति चेत् । अत्र वक्तव्यम् । किं चरणशब्दवैय्यर्थ्यप्रसङ्गाद् यज्ञाद्युप-लक्षणत्वमेव नेत्युच्यते, आहोस्विद् यज्ञाद्युपलक्षणत्वमङ्गीकृत्य चरणपदकृत्यमात्रं पृच्छसीति । नाद्यः श्रुत्यादिविरोधस्योक्तत्वात् । द्वितीये तु यज्ञादिकारिणां साध्वसाधुचरणाभ्यामेव रमणीयत्वं कपूयत्वं च भवतीति ज्ञापनाय चरणपदमिति ब्रूमः । अथवा पुनरस्तु चरणपदं यज्ञादिवाचकमेव, धर्मं कुरुतेत्यर्थे चरतेति प्रयोगात् करोतिचरत्योः पर्यायत्वेन धर्मशब्दाभिधेये पुण्यसाधने यज्ञादि-सर्वकर्मणि, कर्मणि क्ते निष्पन्नकृतशब्दाभिधेयत्वस्य सर्वसिद्धत्वेन तत्पर्यायस्य कर्मणि ल्युडन्तस्य चरणशब्दस्याऽपि शक्तेरवर्जनीयत्वाद् अपि च एवमेव बादरिराचार्योऽपि मन्यते । अतो गतागतस्य कर्मफलत्वात् क्लेशसाधने तस्मिन्, तत्साध्ये च विरक्तेन भवितव्यमिति सिद्धम् ।
वाक्यार्थमुक्तावली
कर्मफलत्वसाधनादिति ॥ चरणफलत्वे गतागतिक्लेशस्य कर्मफलस्वर्गस्य क्लेशानुषङ्गाभावान्न स्वर्गाख्ये कर्मफले वैराग्यमावश्यकं स्यादिति पूर्वाक्षेपेण समाधानादनन्तरसङ्गतिरिति भावः । गतागतं यज्ञादिफलं न भवत्युत भवतीति चिन्ता । तदर्थं रमणीयचरणा इत्यत्र श्रुतश्चरणशब्दः कर्मपरो न भवत्युत लक्षणादिना तत्पर इति । तदर्थं लक्षणापक्षे रमणीयपदेनैव तत्सम्भवाच् चरणशब्दानर्थक्यमस्ति वा न वेति ॥ तन्निमित्तेति ॥ यज्ञादिनिमित्तकस्य ज्योतिर्मयदेहादेस् तदनिमित्तकस्य लिङ्गदेहादेः सहभावो दृष्टस्तेन जीवेन सहभूतं गतागतं ज्योतिर्मयदेहादि-वत्तन्निमित्तकमुत लिङ्गदेहादिवत्तदनिमित्तकमिति सन्देह इति भावः । यद्वा कर्तुः कुलालादेर् घटादिना दण्डतुर्यादिना तदनिमित्तेन रासभादिना सहभावो दृश्यते । प्रकृते च गमनागमन-कर्तुर्जीवस्य कर्मादिना सहभावो दृश्यत इति कर्त्रा सहभूतं कर्म निमित्तं वोतावर्जनीयसन्निधिकं वेति सन्देहजननद्वारा गतागतं कर्मफलं न वेति सन्देहबीजमिति भावबोधोक्तार्थः ।
सूत्रे ‘यथेतमनेवं च’ इति प्रकृतत्वाद्गतागतमित्यस्ति । तथा च गतागतं चरणात्कर्माङ्ग-भूतादाचाराद्भवति । न तु यज्ञादिकर्मभिर्भवति । कुतः । चरणाच् चरणशब्दघटितात् ‘रमणीयचरणा रमणीयां योनिमापद्यन्त’ इत्यागमादित्यर्थमभिप्रेत्य प्रवृत्तं भाष्यं व्याचष्टे ॥ न यज्ञादिकर्मफलमिति ॥ एतेन न यज्ञादिकृत इति भाष्यस्य यज्ञादिकृतो यज्ञादिकर्तुःफलं नेत्यर्थ उक्तो भवति । ननु रमणीयचरणा इति श्रुत्या योनिप्राप्तेश्चरणफलत्वसिद्धावपि न गतागतस्य तत्फलत्वं सिद्ध्यति । कथञ्चिदागमस्य योनिप्राप्त्यनुबन्धित्वेन चरणफलत्वेऽपि गतस्य कर्मफल-स्वर्गप्राप्त्यनुबन्धित्वेन न तस्य चरणफलत्वे इदं प्रमाणमिति चेन्न । इह साधकेषु ये रमणीय-चरणास्ते तत्र धूमादिमार्गेण स्वर्गं गत्वा रमणीयां योनिमापद्यन्त इति श्रुत्यर्थस्य विवक्षितत्वेन प्रकृतोपयोगात् । न चैवं स्वर्गस्यापि चरणफलत्वे कर्मफलवैय्यर्थ्यमिति वाच्यम् । अङ्गभूतेन चरणेन गतागतयोनिप्रवेशा भवन्ति, कर्मणा तु स्वर्गभोग इत्युपपत्तेरिति भावः । सुकृतदुष्कृत एवेति तु बादरिरिति सूत्रनिवर्तनीयमाशङ्क्य निषेधति ॥ न चेति ॥ चरणत्वाच्चरणशब्दवाच्यत्वात् ॥ शून्यमिति ॥ चरणफलमेव गमनागमनं न यज्ञादिकृत इत्यर्थोपपादकं वचनं शून्यं नास्तीति न वाच्यमित्यर्थः । कुतो न वाच्यमित्यतश्चरणाच् चरणस्य कर्माङ्गत्वप्रतिपादकचरणशब्दघटितस्मृतेः श्रुतेश्चेति भावेन प्रवृत्तं ‘आचार इति सम्प्रोक्तः कर्माङ्गत्वेन शुद्धिदः’ इति भाष्यमुपलक्षणं मत्वा व्याचष्टे ॥ स यथाकारीत्यादिना ॥ चरणमेव यज्ञादिसमीपवर्तीति ‘आचार इति सम्प्रोक्तः कर्माङ्गत्वेन शुद्धिदः’ इति तदङ्गत्वस्मरणादिति भावः । अथ य इम इत्यत्रोपशब्देन चरण-ग्रहणेऽपि यावत्सम्पातमुषित्वेत्युक्तस्वर्गवासस्य यथा कर्मफलत्वं प्रतीयते तथा धूम इत्याद्युक्त-गतागतस्यापि । तथा हि । अथ ये अधिकारिणो ग्रामे गृहस्थाश्रमे स्थित्वा इष्टं यजनं, पूर्तं कूपारामादि, दत्तं दानमित्येतत्त्रयम् उप तन्निकटवर्त्याचरणं चासते अनुतिष्ठन्ति ते इमे धूममभि-सम्भवन्ति प्राप्नुवन्ति । ततो रात्र्यादिद्वारेण स्वर्गं प्राप्य तस्मिन् यावत्सम्पातमुषित्वा अथैत-मेवाध्वानं पुनरावर्तन्ते इति योजनायां स्वर्गस्य साङ्गकर्मसाध्यत्ववद्गतागतस्यापि साङ्गकर्मसाध्यत्व-प्रतीतेरित्याशङ्कापरिहाराय सहभाव इत्युक्तन्यायं विशदयति ॥ तत्र येयमिति ॥ एतच्चरण-फलमेतत्कर्मफलमिति विवेचनसामर्थ्याभावाद्भ्रान्तिरेवाज्ञानां ज्ञायते इति भावः ॥ कुत एवमिति ॥ कुतो बाधकाद्भ्रान्तित्वं कल्प्यत इत्यर्थः ।
आनर्थक्यमिति चेदिति सूत्रपूर्वपक्षानुसारेण भ्रमत्वकल्पकं बाधकमाह ॥ चरणत्वश्रुतेरिति ॥ पुनरावृत्तिशून्येति ॥ चरणस्यैव पुनरावृत्तित्वेन पुनरावृत्त्यहेतुना स्वर्गार्थं विहितेन कर्मणा पुनरावृत्तिशून्यस्वर्गसिद्धेरित्यर्थः ॥ नेति ॥ नञ्निषेध्यमाह ॥ न गतागतस्येति ॥ किन्तु तच्छून्यफलस्यैव कर्मसाध्यत्वं गतागतं तु चरणसाध्यमिति न वाच्यमित्यर्थः । कुतो न वाच्य-मित्यतो नान्यःपन्था इत्यादिवचनादिति न्यायविवरणानुसारेण हेतुमध्याहरति । ‘नान्यः पन्थाः’ इति श्रुत्या गतागतशून्यफलस्येति । मोक्षे गमनसद्भावेऽपि विशिष्टाभावादियमुक्तिः । इष्टापूर्तमिति श्रुतौ इष्टापूर्तादिकारिणां धूमादिमार्गेण सुकृतप्राप्ये स्वर्गे भोगं विधाय इमं लोकमाविशन्ती-त्यागमनस्य श्रवणात् । स्मृतौ सोमपानां धूमादिमार्गेण सुरेन्द्रलोकप्राप्तिं विधाय ‘क्षीणे पुण्ये मर्त्यलोकं विशन्ति’ इति पुण्यभोगावसानकाले पुनरागमनस्मरणादिति भावः । नेत्यंशं चरण-श्रुतिविरोधश्च नेत्यर्थतयापि व्याचष्टे । न चेति । कुतो नेत्यतश्चरणश्रुतेरुदाहृतश्रुतिविरोधेन मुख्यार्थे योग्यताविरहाद् लाक्षणिकार्थस्योदाहृतश्रुतिविरोधेन योग्यतावत्वात् । यथायोग्यमेवार्थः श्रुतेरिति योग्यतेत्युक्तन्यायसूचकं यज्ञाद्युपलक्षणार्थेति भाष्यं व्याचष्टे ॥ तस्या इति ॥ एतेन चरणादिति प्रकृतचरणश्रुतिस्तदुपलक्षणार्था तस्येष्टादिकारिणामिति प्रकृतयज्ञादेरुपलक्षणयोपपादनार्थेति कार्ष्णाजिनिरित्यर्थ उक्तो भवति ॥ अजहल्लक्षणयेति ॥ साङ्गकर्मण एव फलावश्यंभावाच्चरण-रूपाङ्गस्यापि अन्वये समर्पणीयत्वादिति भावः ॥ आदिवाक्यस्येति ॥ ‘अथ य इमे ग्रामा’ इत्युपक्रमवाक्ये गतागतस्य कर्मफलत्वप्रतीतेर्भ्रान्तित्वेन तमर्थं विहाय तस्मिन्यावत्सम्पातमुषित्वेत्ये-तत्करणफलम् एतमेवाध्वानमित्येतच्चरणफलमित्यर्थान्तरकल्पनमित्यर्थः । एतेन यज्ञाद्युपलक्षणार्था चरणादिश्रुतिरिति भाष्ये आदिपदेनोपात्ता ‘अथ य इमे ग्रामा’ इत्युपक्रमश्रुतिर्यज्ञाद्यर्था यज्ञादेरेव गतागतसाधनत्वार्थेति व्याख्यातं भवति । एतेन सूत्रे तदुपलक्षणेत्येतवता पूर्तेरर्थपदवैय्यर्थ्यमिति निरस्तम् । चरणश्रुतेरुपक्रमस्था अथ य इम इति श्रुतिरपि तदर्था यज्ञार्थेति विजिज्ञापयिषितत्वात् । अन्यथा भाष्यस्थादिपदवैय्यर्थ्यात् ।
तत्त्वसुबोधिनी
प्रकृतं गतागतमिति ॥ तथा च यथेतमनेवं चेत्युक्तगतागतस्य कर्मफलत्वसमर्थनादनन्तर-सङ्गतिरिति भावः ॥ तन्निमित्तानिमित्तयोरिति ॥ न केवलमेकस्य निमित्तस्यैवेत्यपेरर्थः । एकस्मिन् देशे काले च पटादिना कार्येण तन्निमित्तानिमित्तयोस्तन्त्वादिरासभादिकयोः सहभाव-दर्शनमित्यर्थः । ननु करणचरणयोरैक्याद् गतागतं न यज्ञादिकर्मफलं किन्तु चरणफलमेवेति वचनमयुक्तमित्याशङ्क्य निषेधति ॥ न च वाच्यमिति ॥ कथमुपशब्दस्य चरणवाचकत्वमित्यत आह ॥ स हीति ॥ तर्हि गतागतयोः कर्मफलत्वप्रतीतेः का गतिरित्यत आह ॥ तत्र येयमिति ॥ न चेति ॥ इष्टापूर्ते दत्तमित्युपासत इति श्रुतिस्थोपशब्दस्य चरणवाचकत्वपरिकल्पनादिकं कुत इत्यर्थः । गतागतशून्यफलस्येति ॥ मोक्षरूपस्येत्यर्थः । कर्मणो गतागतफलत्वाभावे हि विहितस्य निष्फलत्वायोगाद् गतागतशून्यफलस्य च कर्मसाध्यत्वाभावात् परिशेषेण गतागतफलकत्वमेव सिद्ध्यतीति भावः । नन्वनया श्रुत्या कर्मणो गतागतशून्यफलकत्वाभावसिद्धावपि गतागतफलकत्वं कुत इत्यतस्तत्र श्रुतिस्मृती आह ॥ इष्टापूर्तमिति ॥ उदाहृतश्रुत्याद्यनुरोधेनेति ॥ तदपेक्षत्वा-दित्युत्तरसूत्रांशानुसारेणाजहल्लक्षणयेत्युक्तम् ॥ एतेनेति ॥ ‘नान्यः पन्थाः’ इत्यादिश्रुत्यनुसारेण चरणशब्दस्य कर्मोपलक्षकतया रमणीयचरणा इति श्रुतेः कर्मणो गतागतफलकत्वप्रतिपादकतया सविषयत्वप्रतिपादनेन निर्विषयत्वाद्यभावाद् एतत् श्रुत्यवष्टम्बेन ‘अथ य इमे ग्रामा’ इत्युपक्रम-वाक्यस्य गतागतस्य चरणफलत्वेनाङ्गीकारादित्यादिना यदर्थान्तरमुक्तं तदपि निरस्तमित्यर्थः । गतागतस्य कर्मफलत्वानङ्गीकारे समाख्याविरोधं चाह ॥ अथ ये यज्ञेनेति ॥ यद्यप्यत्र नान्यः पन्था, इष्टापूर्तं, त्रैविद्या माम् इत्यादिश्रुतिस्मृतिविरुद्धं चेत्यपि वक्तुं शक्यम् । तथापि अथ ये यज्ञेनेत्यादिश्रुतेर् अथ य इमे ग्रामा इष्टापूर्ते दत्तमित्युपासत इति श्रुत्या शब्दतोऽपि समाख्यात्व-लक्षणविशेषोऽस्तीति ज्ञापयितुं तद्विरोध एव दर्शितः ।
वाक्यार्थविवरणं
गतागतस्येति भावे क्तः । गमनसहितागमनस्येति व्याख्येयम् । तेनैकवचनोपपत्तिः ॥ तन्निमित्तेत्यादि ॥ एकस्मिन्नेव देशे काले च पटादिना कार्येण तन्निमित्तानिमित्तयोस्तन्त्वादि-रासभयोः सहभावदर्शनाद् गतागतरूपकार्येण तन्निमित्तानिमित्तयोः कर्मणोः सहभावाद्यज्ञादिकं तन्निमित्तं न वेति सन्देहो भवतीति यावत् ॥ तद्य इहेति ॥ इह लोके ये रमणीयाचारवन्तस्ते धूमादिमार्गेण चन्द्रलोके स्वर्गे भोगान् भुक्त्वाऽनन्तरं यथेतमाकाशमित्युक्तमार्गेण रमणीयां योनिमापद्यन्त इति हि श्रुत्यर्थः । तथा चात्र गतागतस्य चरणफलत्वे इयं श्रुतिः प्रमाणमिति ध्येयम् । भाष्ये यज्ञादिकृत इति लिङ्गव्यत्यासेन यज्ञादिकृतमिति योज्यमित्याहुः । यद्वा यज्ञादिकृत इति षष्ठी । तथा च यज्ञादिकृतो यद् गमनागमनं तच् चरणफलमेव । यज्ञादिकर्मफलं नेत्यर्थः । चरणफलमेव गमनागमनं न यज्ञादिकृत इत्यभिधानं वचनं शून्यं व्यर्थम् । कुत इत्यतश्चरण-फलत्वोक्त्या यज्ञादिकर्मफलत्वेऽस्यैव प्राप्तेरित्याशयेनोक्तं यज्ञादिकर्मण एव चरणत्वादिति ॥ यथाकारी ॥ यथा कर्मकर्ता ॥ यथाचारी ॥ यथा आचारवान् ॥ तथा भवतीति ॥ तदनुसारेण फलवान् भवतीत्यर्थः ॥ इत्युपक्रम्येति ॥ ‘ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षम-परपक्षाद्यान् षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति । मासेभ्यः पितृलोकं पितृलोका-दाकाशमाकाशाच्चन्द्रलोकम्’ इत्युपक्रम्येत्यर्थः ॥ तस्मिन् ॥ चन्द्रलोकपदोक्ते स्वर्गे पतनपर्यन्तं सम्यगुषित्वेत्यर्थः । पुनरावर्तन्त इत्यनन्तरं यथेतमाकाशमाकाशाद्वायुमित्यादिवाक्यमस्ति । तथा च भोगापादककर्मावसाने यथेतमित्यादिक्रमेणैतमेवाध्वानं पुनरावर्तन्त इत्यर्थः ॥ नास्तीति न च ॥ अस्त्येवेत्यर्थः । न श्रूयत इति चेत् । सत्यम् । तथापि तद्वाचकपदान्तरमस्तीत्याह ॥ इष्टेति ॥ तदिति ॥ चरणेत्यर्थः । उपशब्दस्य कथं चरणवाचकत्वमित्यतस्तदुपपादयति ॥ सं हीति ॥ उपशब्द इत्यर्थः । समीपवर्ति यद्वस्तु तद्वक्तीत्यर्थः ॥ यज्ञादिसमीपेति ॥ अङ्गतयेति शेषः । नन्वथ ये ग्रामा इष्टा पूर्ते इति शब्दात् स्पष्टं गतागतस्येष्टादिकर्मफलत्वप्रतीतेः कुत इत्थं योज्यत इति चेत्तत्राह ॥ तत्रेति ॥ सहैवोक्त्वेति ॥ इष्टादिशब्देन करणम् उपशब्देन च चरणम् ‘इष्टापूर्ते दत्तमित्युपासत’ इति वाक्येन सहैवोक्त्वेत्यर्थः ॥ स्वर्गगतागतयोश्चेति ॥ इष्टादिकर्मफलस्य स्वर्गस्य उपशब्दोक्तचरणफलस्य गतागतस्य च ‘ते धूममभिसम्भवन्ति’ इत्यादि तस्मिन् ‘याव-त्सम्पातमुषित्वाथैतमेवाध्वानं पुनरावर्तन्त’ इति सहोक्तीत्यर्थः । तथा च गतागतस्य स्वर्गवत् कर्मफलत्वप्रतीतिः स्वर्गगतागतरूपफलसाधनयोः कर्माचारयोः सहैवोक्तिनिमित्ता तत्फलयोश्च सहोक्तिनिमित्ता भ्रान्तिरेव । न प्रमेति भावः । इष्टापूर्तादि ये आसत आस्थिताः कुर्वन्ति ते चन्द्रलोकमाप्नुवन्ति । ये उप आसते चरणमास्थिताश्चरणवन्त इति यावत् । ते धूममभि-सम्भवन्तीत्यादि धूमादिमार्गेण गमनागमनवन्तो भवन्तीति पूर्वपक्षिमते श्रुत्यर्थः ॥ अन्येति ॥ आचारेत्यर्थः । कर्मणा चेत्युक्तं दूषयति ॥ नान्यःपन्था इतीति ॥ श्रुत्येति ॥ इष्टापूर्त्तादिकं वरिष्ठं मन्यमाना धूमादिमार्गेण नाकपृष्ठं प्राप्य भोगमनुभूय यथेतमाकाशमित्युक्तमार्गेणेमं लोकं हीनतरं वा विशन्तीति श्रुत्यर्थः ॥ स्मृत्या चेति ॥ यज्ञैरिष्ट्वा धूमादिमार्गेण सुरेन्द्रलोकमासाद्य दिव्यभोगान् भुक्त्वा क्षीणे पुण्ये यथेतमाकाशमिति क्रमेण मर्त्यलोकं विशन्तीति स्मृत्यर्थः ॥ उदाहृतेति ॥ इष्टापूर्तं त्रैविद्या इत्युदाहृतश्रुतिस्मृतीत्यर्थः ॥ अजहल्लक्षणयेति ॥ तथा च ‘तद्य इह रमणीयचरणा’ रमणीयाचारपूर्वकयज्ञादिमन्तः ॥ कपूयचरणाः ॥ निषिद्धवाची कपूयशब्दः । निषिद्धाचारपूर्वकयज्ञादिमन्त इत्यर्थः ॥ एतेनेति ॥ रमणीयचरणा इत्यस्याः श्रुतेरजहल्लक्षणया यज्ञाद्यर्थत्वेनेत्यर्थः ॥ एतच्छ्रुतीति ॥ ‘तद्य इह रमणीयचरणा इति श्रुतीत्यर्थः ॥ आदि-वाक्यस्य ॥ अथ ये ग्रामा इत्युपक्रमवाक्यस्य ॥ अर्थान्तरेति ॥ मैवम् ॥ तत्रापीत्युक्तरीत्येत्यर्थः ॥ जयन्ति ॥ प्राप्नुवन्ति । भाष्ये यज्ञादीत्यत्रादिपदेन पूर्तदत्तपरिग्रहः ।
वाक्यार्थमञ्जरी
गतागतस्येति ॥ गतं गमनम् आगतम् आगमनं तयोरित्यर्थः । भावे क्तप्रत्ययः ॥ तन्निमित्तानिमित्तयोरिति ॥ एकस्मिन्देशे काले च पटादिकार्येण तन्निमित्तानिमित्तयोस् तन्तुरासभयोः सहभावदर्शनादित्यर्थः । तथा च तद्वदेवात्र यज्ञादेर्गतागतनिमित्तत्वसंशयेन गतागतस्य तज्जन्यत्वसंशय इति भावः ॥ ॐ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॐ ॥ ‘रमणीयचरणा’ इति श्रुतेर् गतागतं चरणादाचारादेव भवति, न कर्मणेति चेन्न यतश्चरणश्रुतिस्तदुपलक्षणार्था तस्य कर्मणोपलक्षणया वृत्त्योपादानार्थत इत्यर्थः ॥ तद्य इहेति ॥ तत् तत्र कर्मिषु ये रमणीयचरणाः साध्वाचारवन्तस् त इह भूमौ रमणीयां साध्वीं ब्राह्मणादि-योनिम् आपद्यन्ते प्राप्नुवन्ति । ये कपूयचरणा असाध्वाचारवन्तस् ते कपूयाम् असाध्वीं शूद्रादि-योनिमापद्यन्त इत्यर्थः । कृतकर्मणोरित्यभिधानम् । शून्यं प्रयोजनविकलम् । कारी कर्मकर्ता आचारी आचारवान् तथा तदनुसारिफलभाक् ॥ अथेति ॥ य इमे ग्रामाः काम्यकर्मिणां समुदाय इष्टं यजनं पूर्तं तटाकबन्धनादि दत्तं धनादिदानम् इति शब्दःप्रभृत्यर्थः । उपासते आतिष्ठन्ते । ते धूमं धूमादिदेवतालोकम् अभिसम्भवन्ति प्राप्नुवन्तीत्यर्थः ॥ तस्मिन्निति ॥ ते कर्मिणस् तस्मिन्निन्द्रलोके यावत्संपातं तस्मादधःपतनं यावद्भवति तत्रावस्थाननिमित्तं पुण्यं यावत्समाप्यत इति यावत् तावत्कालपर्यन्तं तत्रोषित्वा वासं कृत्वा अथ कर्मक्षये तमेव मार्गं पुनरावर्तन्त इत्यर्थः ॥ न चेति ॥ नास्तीति न चेत्यर्थः । करणं कर्म ॥ भ्रान्तिरेवेति ॥ तथा च न तद्विरोध इति भावः । एतत् तत्रापि चरणफलस्य गतागतस्य चरणफलत्वरूपार्थान्तरकल्पनम् । चरणश्रुतेस् तद्य इहेत्यस्य सावकाशश्रुतेर् इष्टापूर्ते दत्तमित्यस्याः । गतागतशून्यफलं मोक्षः । नन्वनया श्रुत्या कर्मणो गतागतशून्यफलत्वाभावसिद्धावपि गतागतफलत्वं कुत इत्यत आह ॥ इष्टापूर्तमिति ॥ तत्रेमं लोकं हीनतरं वा विशन्तीत्युक्तेरिति भावः ॥ त्रैविद्येति ॥ त्रैविद्याःकाम्यकर्मिणः । मां यान्तीत्यर्थः ॥ अजहदिति ॥ स्वार्थाचारात्यागलक्षणयेत्यर्थः । आदिवाक्यस्य इष्टापूर्ते दत्तमित्युपक्रमवाक्यस्य ॥ य इति ॥ ये यज्ञादिकर्मणा लोकान्प्राप्नुवन्ति त आदौ धूममभिसम्भवन्तीत्यर्थः । विरुद्धमर्थान्तरकल्पनमित्यस्ति ।
ॐ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॐ
सूत्रभाष्यम्
ॐ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॐ ॥ ११ ॥
तर्हि रमणीयाः कपूया इत्येव स्यात् । चरणशब्दस्यानर्थक्यमिति चेन्न । चरणापेक्ष-त्वाद्रमणीयत्वादेस्तज्ज्ञापनार्थत्वेनोपपत्तेः ।
तत्त्वप्रदीपिका
यदि चरणशब्देन पुण्यपापे एव ह्युपलक्ष्येते तर्हि रमणीयाः कपूया इत्येव श्रुतिः स्यात् । विनाऽपि चरणशब्देन रमणीयशब्देनैव पुण्यवत्त्वप्रतीतेः कपूयशब्देनैव पापित्वप्रतीतेश्चेति चेन्न । स्नानाचमनाद्याचारापेक्षत्वात्सुकृतित्वस्य । अनाचारवतां सुकृतस्यापि दुष्कृतताप्तेः । शौचादि-रहितानां यजनादौ महान्हि दोषः स्मर्यते । अत आचारवत्कृतमेव पुण्यमनाचारकृतमपुण्यमिति ज्ञापनार्थत्वाच्चरणशब्दस्य न वैयर्थ्यम् ।
तत्त्वप्रकाशिका
उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याऽऽक्षेपांशं तावद्व्याचष्टे ॥ आनर्थक्यमिति ॥ कथं यज्ञाद्युपलक्षणार्था रमणीयचरणा इत्यादिश्रुतिः । तथात्वे चरणशब्दस्यानर्थक्यप्रसङ्गात् । रमणीयक-पूयपदाभ्यामेव तदुपलक्षणस्य सम्भवाद् यज्ञादिकारिणां प्रकृतत्वेन ये यज्ञादिकारिणो रमणीयाः कपूयाश्चेति । न चानर्थक्यं युक्तमिति भावः । परिहारांशं व्याचष्टे ॥ नेति ॥ किमत्र चरण-शब्दानर्थक्यप्रसङ्गाद्यज्ञाद्युपलक्षणाभावसाधनम् उतोपलक्षणपक्षमभ्युपेत्य चरणपदकृत्यविचारः । नाद्यः । तथात्वे श्रुत्यादिविरोधस्योक्तत्वात् । द्वितीये ब्रूमः । सत्यं रमणीयादिपदेन शक्यं यज्ञाद्युपलक्षणम् । तथापि तन्मात्रोक्तौ यज्ञादिकर्तृत्वे समाने कथमेकेषां रमणीयत्वमन्येषां कपूयत्वमिति शङ्का स्यात् । तां निराकर्तुं साध्वसाधुयज्ञादिमत्त्वस्य ‘आचार इति सम्प्रोक्तः’ इति स्मृतेराचाराद्यपेक्षत्वा-द्रमणीयकपूयचरणाभ्यां यज्ञादिकारिणामपि रमणीयत्वादीति ज्ञापनाय चरणशब्दस्य सार्थक्योपपत्तेः । एवं च सति रमणीयचरणत्वेन ये साधवो यज्ञादिकृत इत्यादिवाक्ययोजना स्यादिति भावः ।
भावबोधः
यज्ञादिकारिणां प्रकृतत्वेनेति ॥ ‘अथ य इमे ग्रामा इष्टापूर्ते दत्तमित्युपासते’ इत्युपक्रम-वाक्येनेत्यर्थः । अनेनैकप्रकरणप्रतिपाद्यत्वरूपः शक्यसम्बन्ध उक्तो भवति । श्रुत्यादिविरोध-स्येति ॥ ‘नान्यः पन्थाः’ ‘त्रैविद्या माम्’ इत्यादिश्रुतिस्मृतिविरोधस्येत्यर्थः । रमणीयकपूय-चरणाभ्यामिति ॥ अनेन लाक्षणिकपदप्रयोगस्याचारस्य कर्मण्यावश्यकाङ्गत्वज्ञापनं प्रयोजन-मङ्गाङ्गिभावः शक्यसम्बन्ध इत्यपि सूचितं भवति ।
भावदीपः
उक्तमिति दर्शयन्नेवाक्षेपप्रकारमाह ॥ कथमित्यादिना ॥ तथात्व इति ॥ उपलक्षणार्थत्व इत्यर्थः । भाष्ये तर्हीत्यस्य चरणेत्यादिनाऽन्वयमुपेत्य प्रसज्येतेति शेष इति भावेन सूत्रभाष्ययोरर्थो दर्शितः । तद्विवरणपरतया रमणीयेत्यादिपूर्वभाष्यमाह ॥ रमणीयेत्यादिना ॥ सम्भवादित्युक्तं व्यनक्ति ॥ यज्ञादीति ॥ ‘अथ य इमे ग्रामा इष्टापूर्ते दत्तमित्युपासत’ इति पूर्ववाक्ये प्रकृत-त्वेनेत्यर्थः । इष्टापत्तिं निराह ॥ न चेति ॥ ननु कथमानर्थक्यशङ्का चरणशब्दस्याजहल्लक्षणया यज्ञाद्यर्थत्वस्योक्तत्वात् । न हि चरणशब्दाभावेऽयमर्थो लभ्यते । यज्ञादिमात्रलाभात् । अत एव तत्वप्रदीपे केवलयज्ञाद्युपलक्षणत्वमुपेत्यैव यदि चरणशब्देन पुण्यपापे एवोपलक्ष्येते तर्हि रमणीयाः कपूया इत्येव श्रुतिः स्यादित्युक्तमिति चेन्न । इष्टापूर्ते दत्तमित्युपासत इति पूर्ववाक्ये पूर्वोक्तदिशा उपशब्देन चरणस्यापि गृहीततया यज्ञादिकारिणां च प्रकृतत्वेन यज्ञादिलाभवच् चरणस्यापि लाभसम्भवादिति शङ्कितुस्तात्पर्यात् । यद्वा सिद्धान्ते गतागतस्य चरणफलत्वाभावेनाजहल्लक्षणयापि यज्ञाद्युक्तौ चरणपदानर्थक्यमिति भावः । उपलक्षणता न युक्तेति वदन्तं प्रति लक्षणापक्षे पदकृत्योक्तिरयुक्तेत्यतो विकल्पमुखेन सूत्रभाष्ययोरर्थमाह ॥ किमत्रेति ॥ श्रुत्यादीति ॥ ‘अथ ये यज्ञेन’ इत्यादिश्रुत्यादीत्यर्थः । आदिपदात् ‘त्रैविद्या मामित्यादिस्मृतिर्ग्राह्या । भाष्यभावं व्यनक्ति ॥ सत्यमित्यादिना ॥ तथापि चरणपदेन विना यज्ञाद्युपलक्षणसम्भवेऽपीत्यर्थः ॥ आचाराद्यपेक्षत्वादिति ॥ शौचाचमनस्नानादिरूपाचारेत्यर्थः ॥ ज्ञापनायेति ॥ एतेन लक्षणायां किं प्रयोजनमित्यपि चोद्यं निरस्तम् । गंगायां घोष इत्यत्र पावित्र्यसामीप्यादिद्योतनमिव रमणीयत्वादेर्यर्ज्ञाङ्गाचारकृतत्वद्योतनमेव प्रयोजनमिति सूचनात् । भाष्ये अपेक्षितपूर्त्या उपपत्तेरित्यस्यार्थश्चरणशब्दस्येत्यादि ॥ एवं च सतीति ॥ उपलक्षणार्थत्वे सिद्धे सतीत्यर्थः ।
वाक्यार्थमुक्तावली
अत्र नेत्यस्यावृत्तिः । उपलक्षणार्थेत्यस्यानुवृत्तिः । तथात्वे स्यादिति पदद्वयस्याध्याहार इत्याशयेन व्याचष्टे ॥ कथमिति ॥ ननु चरणपदस्याङ्गे शक्तस्याङ्गिनि लक्षणा युक्ता । शक्य-सम्बन्धादेः सत्वात् । साधुत्वादिवाचकस्य रमणीयादिपदस्य तदभावात्कथं यज्ञादिलक्षकत्वमित्यत आह ॥ यज्ञादिकारिणामिति ॥ ‘अथ य इमे ग्रामा’ इत्युपक्रमवाक्ये प्रकृतत्वेनेत्यर्थः । रमणीयाः साधुत्वविशिष्टयज्ञादिकारिणो ऽसाधुत्वविशिष्टयज्ञादिकारिण इति तदुपलक्षणसम्भवादित्यर्थः । इदमुक्तं भवति । तद्य इह रमणीयचरणा इत्यस्य यज्ञादिकारिणां प्रकृतत्वेन तत् तत्र यज्ञादिकारिषु ये रमणीयास्साधवस्ते इह भूलोके रमणीयां योनिमापद्यन्त इति हि वाच्योऽर्थः । न चासावुपपद्यत इति । योनिप्राप्तेः कर्मफलत्वेन साधुत्वादिफलत्वाभावात् । अतोऽनुपपत्तेः साधुत्वाभिधानमुखेन तद्विशिष्टान् पुरुषान् बोधयन् शब्दः साधुत्वविशिष्टं यद्यज्ञादि तदुपलक्षणमुखेन तत्कारिणो बोधयति । सम्बन्धस्तु साधुत्वस्य यज्ञादेश्च एकपुरुषनिष्ठत्वम् । यज्ञादिकारिणामेव रमणीयादिपदेन साधुत्वादिवैशिष्ट्यस्याभिधानादिति ॥ श्रुत्यादिविरोधस्येति ॥ इष्टापूर्तं, ये यज्ञेन, त्रैविद्या मामित्यादिश्रुत्यादिविरोधस्य गतागतस्य चरणमात्रसाध्यत्वे उक्तेरित्यर्थः । सूत्रे तदिति व्यस्तं समस्तं च पदम् । तदपेक्षत्वादित्यावर्तते । तथा च चरणशब्दस्य नानर्थक्यम् । कुतः? तस्य यज्ञादेस्तयोः रमणीयत्वकपूयत्वयोस् तदपेक्षत्वात् । साध्वसाधुचरणापेक्षत्वात् । तदपेक्षत्वाद् रमणीयकपूयचरणाभ्यामेव यज्ञादिकारिणां रमणीयत्वादित्येतज्ज्ञापनलक्षणप्रयोजनमपेक्ष्य लाक्षणि-कस्य चरणपदस्य प्रयुक्तत्वादिति सूत्रार्थमभिप्रेत्य व्याचष्टे ॥ द्वितीये ब्रूम इत्यादिना ॥ साधवो यज्ञादिकृत इति ॥ साधुत्वविशिष्टयज्ञादिकृत इत्यर्थः ।
तत्त्वसुबोधिनी
ननु यज्ञाद्युपलक्षणार्थत्वान्न चरणशब्दानर्थक्यमित्यत आह ॥ रमणीयेति ॥ कथं ताभ्यां तदुपलक्षणमत आह ॥ यज्ञादीति ॥ ‘अथ य इमे ग्रामा इष्टापूर्ते दत्तमित्युपासत’ इत्युपक्रम-वाक्येनेत्यर्थः । अनेनैकप्रकरणप्रतिपाद्यत्वरूपः शक्यसम्बन्ध उक्तो भवति । अस्त्वानर्थक्यमित्यत आह ॥ न चेति ॥ श्रुत्यादिविरोधस्येति ॥ ‘नान्यः पन्थाः’ ‘त्रैविद्या माम्’ इत्यादिश्रुतिस्मृति-विरोधस्येत्यर्थः ॥ रमणीयेति ॥ अनेन लाक्षणिकपदप्रयोगस्य आचारस्यावश्यकर्मण्यङ्गत्वज्ञापनं प्रयोजनम्, अङ्गाङ्गिभावः शक्यसम्बन्ध इत्यपि सूचितम् । एवं च सति प्रयोजनमाह ॥ एवमिति ॥
वाक्यार्थविवरणं
यज्ञादिकारिणां पूर्वमप्रकृतत्वाद्ये यज्ञादिकारिण इत्यनुवादायोग इत्यत उक्तं ‘यज्ञादि-कारिणामथ ये’ इत्यादिवाक्येन प्रकृतत्वेनेति ॥ न चेति ॥ तथा चाचारवाच्येव चरणशब्दो न यज्ञाद्युपलक्षक इति भावः । प्रसङ्गादित्यनन्तरं तदन्यथानुपपत्त्येति शेषः ॥ उपलक्षणपक्षमिति ॥ रमणीयकपूयपदाभ्यामेव यज्ञाद्युपलक्षणपक्षमभ्युपेत्येत्यर्थः ॥ तथात्व इति ॥ चरणशब्देन यज्ञादिकमनुपलक्ष्याचारमात्रार्थत्वं गृहीत्वा गतागतस्य तत्फलत्वोक्ताविष्टापूर्तं त्रैविद्या मामित्यादि-श्रुतिस्मृतिविरोधस्येत्यर्थः ॥ तन्मात्रोक्तौ ॥ रमणीयाः कपूया इत्येतावन्मात्रोक्तावित्यर्थः ॥ रमणीयत्वम् ॥ साधुयज्ञादिमत्त्वम् ॥ कपूयत्वम् ॥ असाधुयज्ञादिमत्त्वम् ॥ आचारेति ॥ कर्माङ्गभूतेत्यर्थः ॥ रमणीयचरणत्वेनेति ॥ रमणीयाचारत्वेन ये साधवो रमणीययज्ञादिकृतः । कपूयाचारत्वेन येऽसाधवः कपूययज्ञादिमन्त इति वाक्यं योज्यम् ।
वाक्यार्थमञ्जरी
उपलक्षकत्वे चरणशब्दस्यानर्थक्यं वैयर्थ्यमिति चेन्न रमणीयत्वादेस्तदपेक्षत्वात् । चरण-सामर्थ्येन तदर्थन्तत्सार्थक्यादित्यर्थः । प्रकृतत्वेनेष्टापूर्ते दत्तमित्युपासत इत्यनेनेत्युपलक्षणस्येति सम्बन्धः । उपलक्षणत्वपक्षे रमणीयचरणा इत्यादेर्लब्धयोजनां दर्शयति ॥ एवं चेति ॥