ॐ यथेतमनेवं च ॐ
९. यथेताधिकरणम्
सूत्रभाष्यम्
‘यथेतमेव गच्छति यथेतमागच्छति स भुङ्क्ते स कर्म कुरुते स परिवर्तत’ इति गतिप्रकारेणाऽऽगतिः प्रतीयते । अतो ब्रूते—
॥ ॐ यथेतमनेवं च ॐ ॥ ९ ॥
‘धूमादभ्रमभ्रादाकाशमाकाशाच्चन्द्रलोकं यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति’ इति काषायणश्रुतेर्यथागत-मन्यथा च ।
तत्त्वप्रदीपिका
पूर्वमन्यैः स्वेन वा यथेतं तथैव गच्छति । यथा च गतं तथैवाऽकाशपर्यन्तमागच्छति । ततोऽर्वागन्यथा ॥
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनवैराग्याय स्वर्गादागतिप्रकारनिरूपणादस्ति शास्त्रादिसङ्गतिः । यद्यागमनस्य क्लेशिष्ठता न प्रतिपाद्येत तर्हि न स्वर्गेऽतिवैराग्यं स्यादिति सा निरूपणीया । प्रकृतमागमनं विषयः । तत्किं गतिप्रकारेणैवान्यथा वेति सन्देहः । लौकिकागमनेषूभयथा दर्शनं सन्देहबीजम् । पूर्वपक्षयति ॥ यथेति ॥ गमनप्रकारेणैवागमनम् । यथेतमागच्छतीति श्रुतेः । येन च पथा गतस्तस्य स्मृतिविषयत्वेन मनसि सहभावाच्च । न हि विज्ञातं पन्थानं विहायाविज्ञातेनागमने प्रयोजनमस्ति । अतः स्वर्गफलस्यातिक्लेशानुषङ्गाभावान्न तत्र वैराग्यमापादनीयमिति भावः । यथा स्वर्गादिमं लोकं प्रति स्वयमितं तथा गच्छति यथाऽस्माल्लोकात्स्वर्गमितं तथाऽऽगच्छतीत्यर्थः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ गमनप्रकारादन्यथागमनम् । न चैवं श्रुतिविरोधः । क्वचिद्गमनप्रकारेणागमनस्याङ्गीकृतत्वेन श्रुतेस्तद्विषयत्वात् । कुत एतत् । ‘धूमादभ्रम्’ इति विशेषश्रुतेरेव । न च युक्तिविरोधः । आगमने जीवस्यास्वातन्त्र्येण तत्स्मरण-स्यागमनानुपयोगित्वादिति भावः । तस्मादागमनादावतिक्लेशयुक्तत्वेन स्वर्गफलेऽपि विरक्तेन भवितव्यमिति सिद्धम् ।
गुर्वर्थदीपिका
स्वयमितमित्यत्र स्वयं स्वेनेतं प्राप्तं तथा गच्छति स्वर्गं प्रतिगच्छतीत्यर्थः । यथेतमाकाशमिति श्रुतेः । यथाऽऽकाशाच्चन्द्रलोकं प्रति स्वेनेतं स्वेन गतं तथैव पुनराकाशं प्रत्यायाति । तदनन्तरमेवमिति सूत्रोक्तप्रकारेण वाय्वादिक्रमेण यातीति योजनामभिप्रेत्योक्तं क्वचिद्गमन-प्रकारेणेति । क्वचिदंशे । अन्यथा कदाचिदित्यवक्ष्यत् ।
भावबोधः
प्रकृतमागमनमिति ॥ शेषवानायातीति भाष्योक्तरीत्या ‘अनुशयवान्’ इति पूर्वसूत्रप्रकृत-मित्यर्थः । तथा चात्र पूर्वाधिकरणोपक्षिप्त आगमनरूपविषये किं गमनप्रकारेणोतान्यथा वेति प्रकारविचारादनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ अत्र स्वर्गादागमनं किं गतिप्रकारेणैवो-तान्यथा वेति चिन्ता । तदर्थं ‘यथेतमागच्छति’ इति श्रुतिर्गमनप्रकारेणैवागमनमिति नियमप्रति-पादिकोत क्वाचित्कागमनविषयेति । तदर्थं मार्गस्मरणरूपोपपत्तिरुदाहृतश्रुत्युपोद्बलिका न वेति । मार्गस्य सहभावाद्यथागतमेवागमननियम इति न्यायविवरणोक्तयुक्तिं श्रुत्युपोद्बलकत्वेनाह– येन पथेति ॥ उभयत्र तथाशब्दाध्याहारेण ‘यथेतम्’ इति श्रुतिवाक्यद्वयं व्याख्याति– यथेति ॥ सूत्रे हेत्वनुक्तेर्न्यूनत्वमित्याशङ्कापरिहारायाऽनेवं चेत्यंशेनैव प्रतिज्ञाभागसिद्धौ आकाशाच्चन्द्रलोकं ‘यथेतमाकाशम्’ इति श्रुतिमनुकुर्वता ‘यथेतम्’ इति सूत्रांशेन विशेषुश्रुतिरेव हेतुत्वेनोपात्तेत्यभिप्रेत्य प्रवृत्तं धूमादभ्रमित्यादिभाष्यं व्याचष्टे– कुत एतदित्यादिना ॥ वचनबलाद्यथायोग्यमेवागमनो-पपत्तेरिति न्यायविवरणेन मार्गस्मरणरूपोपपत्तेर्यदप्रयोजकत्वं सूचितं तदाह– न च युक्तिविरोध इत्यादिना ॥
भावदीपः
आगतीति ॥ तस्याः क्लेशतरत्वद्योतनायेति भावः । एतेन पूर्वत्र शेषवानायातीत्युक्तौ कथमागतिरिति जिज्ञासोदयाद्वा एवमष्टभिर्नयैर् वैराग्यादिसाधनानामावश्यकत्वोक्त्यैतच्छास्त्रै-तदध्यायैतत्पादानामावश्यकत्वेऽत्रावसरप्राप्तस्य वैराग्यार्थे गत्यादीत्याद्युक्तदिशा वैराग्यप्रयोजकस्या-गतिप्रकारस्य निरूपणाद्वाऽनन्तरसङ्गतिः सूचिता । यद्वा पूर्वत्र श्रुतिस्मृत्योः पुनर्गच्छति पुनरागच्छतीत्याद्युक्तगमनागमनयोः परिचितैकमार्गसाध्यत्वेनापरिचितमार्गकृतक्लेशाभावाक्तिं वैराग्ये-णेति शङ्कनात्सङ्गतिः । टीकादावागमनमात्रचिन्ता तु आगमनचिन्तयैव गतिचिन्तार्थसिद्धेति वा आगताविव गतौ वक्तव्यप्रकारद्वैविध्याभावाद्वा अव्यवधानेन सूत्रे प्रकृतत्वाद्वा कृता । अत एवोपसंहारटीकायाम् आगमनादाविति वक्ष्यति ॥ शास्त्रादीति ॥ पूर्वत्रेव सर्वनयानां फलतः शास्त्रान्तर्भावेऽपि कृत्स्नसाधनावश्यकत्वसाधकत्वेन साक्षादध्यायान्तर्भावः । तदेकदेशवैराग्य-प्रयोजकत्वद्वारा तु स्मृतिनयवत्पादान्तर्भावः । अत्र तु वैराग्यरूपसाधनैकदेशद्वाराऽध्यायान्तर्भावः । साक्षादेव तु पादान्तर्भावसङ्गतिरिति भावः । निरूपणस्य फलमाह ॥ यदीति ॥ न स्वर्ग इति ॥ तथा चाद्यसूत्रे अथपदेनाधिकारिविशेषणतया न तत्सूचनमर्थवदिति भावः ॥ प्रकृतमिति ॥ शेषवानायातीति पूर्वत्र प्रकृतमित्यर्थः । गतेरपि प्रकृतत्वेऽप्यागताविव गतौ वक्तव्यप्रकारभेदा-भावात्तत्त्याग इति भावः । मार्गस्य सहभावाद्यथागतमेवागमनमिति नियम इत्यन्यत्रोक्त्यनुरोधेन गतिप्रकारेणेति भाष्यं सावधारणं व्याचष्टे ॥ गमनेति ॥ धूमादभ्रमित्यादिसिद्धान्तश्रुतितोऽस्याः श्रुतेः प्राबल्याय मार्गस्य सहभावादित्यन्यत्रोक्तयुक्तिं च स्फुटीकुर्वन्नाह ॥ येन चेति ॥ अप्रयोजकत्वं हेतोर्निराह ॥ न हीति ॥ अत इति ॥ गत्यागत्योः श्रुतियुक्तिबलेनैक-प्रकारत्वादित्यर्थः । यथान्यैरितं तथैव स्वयं गच्छतीत्यन्यगत्यादिप्रकारेण स्वगत्यादिरुच्यत इति भ्रमं निराह ॥ यथेति ॥ इमं लोकं भूलोकम् । यथेति श्रवणात्तथेति लाभ इति भावः । यथेतमागच्छतीत्यादिनैव पूर्तौ यथेतमेव गच्छतीत्यागतिप्रकारेण गत्युक्त्यंशोक्तिः । गतिप्रकारेणा-गतिरित्यस्य दाढर्््याय । अत एव गतिप्रकारेणैवागमनमिति सावधारणं व्याख्यातम् । अत एव च यथा स्वर्गादिकं प्रत्यन्यैरितं तथा स्वयं गच्छतीत्यर्थो नोक्तो ऽनुपयोगात् । पूर्वत्र श्रुतौ पुनर्गच्छतीति स्मृतौ पुनर्गच्छेदिति च । स्वर्गादागतस्य पुनर्गत्युक्त्या गतावपि क्लेशो नास्ति । आगमनेऽपि परिचितमार्गेणैव स्वर्गगमनादित्यपि शङ्कासूचनाय । अतो भाष्यादावागतिरित्युक्ति-रुपलक्षणम् । अत एवोपसंहारटीकायामागमनादावित्यादिशब्दः । सिद्धान्ते आगतेरन्यथात्वोक्तौ गतेस्तदन्यथात्वस्य स्वतःसिद्धत्वात्पृथगनुक्तिः । स भुङ्क्त इत्यादिशेषोक्तिः श्रुतेर्जीवपरत्वद्योत-नायेति भावः । यथागतमन्यथा चेति भाष्यं व्याहतिनिरासाय । क्वचिद्यथागतमागमनं क्वचिदन्यथा चागमनमिति शेषपूर्त्याऽर्थमाह ॥ गमनेति ॥ एतेन यथायोग्यमागमनोपपत्तेरित्यन्यत्रोक्त-यथाशब्दार्थो विवृतः ॥ श्रुतीति ॥ प्रागुक्तश्रुतीत्यर्थः । एतेन सूत्रे यथेतमायात्यनेवं चायातीति योजना । अनेवमित्यत्र यथेतमित्येतदेव प्रतियोगि यथेतमित्युक्तेरुपयोगश्च सूचितः । श्रुतौ यथेतं चन्द्रलोकपर्यन्तं स्वयमितं तथैवाकाशपर्यन्तमागच्छति ततोऽर्वागन्यथेत्यर्थः । वायुर्भूत्वेत्यादे-स्तत्स्वाभाव्यापत्तिरित्यत्राग्रेऽर्थो व्यक्तः ॥ युक्तीति ॥ स्मृतिविषयत्वयुक्तीत्यर्थः ॥ तस्मादिति ॥ गमनप्रकारादन्यथाप्यागमनादित्यर्थः । आदिपदेन पुनः स्वर्गं प्रति गमन इति गृह्यते ॥ फलेऽ-पीति ॥ यद्यपि सुखं फलरूपं तथापीति वा न केवलं साधने कर्मणीति वाऽपेरर्थः ।
अभिनवचन्द्रिका
यद्यागमनस्येति ॥ नन्वागमनस्य क्लिष्टत्वाभावेऽपि आगतस्य गर्भवासाद्यतिक्लेशसद्गावात् स्यादेवातिशयेन वैराग्यमिति व्यर्थमागमनस्य क्लिष्टता प्रतिपादनमिति चेत् । उच्यते । गर्भवासादेः स्वर्गापादककर्मफलत्वाभावेन स्वर्गानन्तर्भावात् तत्र क्लेशदर्शनं न स्वर्गे वैराग्यहेतुः, अपि तु गमनागमनयोः स्वर्गापादककर्मफलत्वेन स्वर्गान्तर्भावात् तत्र क्लेशव्युत्पादनं स्वर्गवैराग्यहेतुरिति तत्प्रतिपादनमावश्यकमिति । श्रुतिं व्याख्याति यथास्वर्गादिति ॥ यस्तु स्वर्गादागमनं वेत्ति न तु गमनं, तं प्रति आगमनदृष्टान्तेन गमनमुच्यते । यस्तु स्वर्गगमनं वेत्ति न त्वागमनप्रकारं वेत्ति, तं प्रति गमनदृष्टान्तेन आगमनमुच्यत इति भावः । एतेन आगमनज्ञाने तद्दृष्टान्तेन गमनज्ञानं, तज्ज्ञाने च तद्दृष्टान्तेनाऽऽगमनज्ञानमित्यन्योन्याश्रय इति परास्तम् । अधिकारिभेदेन श्रुतेः प्रवृत्त्यङ्गीकारात् । याज्ञवल्क्यवत्प्रतिज्ञामात्रेणैव सिद्धान्तसिद्धेः सूत्रे प्रमाणाऽनुपन्यासेऽपि शिष्यहितैषिणा भाष्यकृता श्रुत्युपन्यासः कृत इति बोध्यम् ॥ विशेषश्रुतेरिति ॥ आकाशपर्यन्तं गत्यनुसारेणाऽऽगमनमुक्त्वा, तदनन्तरमन्यथागमनप्रतिपादकविशेषश्रुतेरेवेत्यर्थः ।
पूर्वपक्षस्तु गमनप्रकारेणैवाऽऽगमनं, ‘यथेतमागच्छति’ इति श्रुतेः । येन पथा स्वर्गं प्रति जीवो गतः स मार्गस्तावज् जीवस्य स्मृतिविषयः । न च स्मृतमार्गपरित्यागेन मार्गांतरेणाऽऽगमने कारणमस्तीति तेनैवाऽऽयातीति वक्तव्यम् । ततश्चाऽतिक्लेशाऽभावान्न स्वर्गे वैराग्यमापाद नीयमिति ।
सिद्धान्तस्तु न जीवो यथा गतस्तथाऽऽयाति किंत्वन्यथा, ‘धूमादभ्रम्’ इति विशेषश्रुतेः । न च प्राचीनश्रुतिविरोधः । आकाशपर्यंतं गत्यनुसारेणाऽऽगमनस्याङ्गीकारेण श्रुतेस्तत्परत्वात् । नापि युक्तिविरोधः । आगमने जीवस्य स्वातन्त्र्याभावेन युक्तेरप्रयोजकत्वात् । तस्मादागमनादावति-क्लेशयुक्तत्वेन स्वर्गफलेऽपि विरक्तेन भवितव्यमिति सिद्धम् ।
वाक्यार्थमुक्तावली
प्रकृतमिति ॥ तथा च पूर्वाधिकरणोपक्षिप्तागमनविचारादनन्तरसङ्गतिरिति भावः । अत्र स्वर्गादागमनं किं गतिप्रकारेणोतान्यथापि वेति चिन्ता । तदर्थं यथेतमागच्छतीति श्रुतिर्गति-स्मरणस्यावश्यकत्वयुक्तियुक्ततया गमनप्रकारेणैवागमननियमप्रतिपादिकोत क्वाचित्कविषयेति । गतिप्रकारेणागतिरिति भाष्यांशं साध्यप्रदर्शनपरतया व्याचष्टे ॥ गमनप्रकारेणेति ॥ इति श्रुतौ गतिप्रकारेणागतिः प्रतीयत इति समग्रभाष्यं व्याचष्टे ॥ यथेतमागच्छतीति श्रुतेरिति ॥ गतिप्रकारेणैवागतिर्यतो गतिप्रकारेण येन पथा गतः स एव प्रतीयते स्मर्यत इति सहभाव इत्युक्त- न्यायप्रदर्शकतयापि व्याचष्टे ॥ येन च पथेति ॥ यथेतं यथागमनम् । अनेवं ततोऽन्यथा आगत-मागमनमिति साध्यप्रदर्शनपरतया सूत्रं व्याख्याय यथागतमन्यथा चेति भाष्यं व्याचष्टे ॥ गमन-प्रकारादिति ॥ श्रुतिविरोधपरिहारकतयापि व्याकुर्वत्तदेव भाष्यं व्याचष्टे ॥ न चैवमित्यादिना ॥ एतेन यथेतं येन पथा स्वर्गं प्रत्यस्माल्लोकादितं गतं तथाऽकाशपर्यन्तं रंहति आगच्छति । ततोऽर्वाक् मार्गप्रभागेनैवमन्यथा गच्छतीति सूत्रभाष्ययोरर्थ उक्तो भवति । योग्यतेत्युक्तन्यायोऽ-प्यागमनसमये यथायोग्यमेवागमनमिति विवृतो भवति । यथेतमाकाशमिति श्रुतिमनुकुर्वता सूत्रांशेनागमनप्रकारस्यान्यथात्वे विशेषश्रुतिर्हेतुत्वेनोक्तेति भावेन प्रवृत्तं धूमादभ्रमिति भाष्यं व्याचष्टे कुत एतदिति ॥ विशेषवचने धूमादिभावप्राप्तिश्च तद्गतौ गतिरेव चेत्यादिवक्ष्यमाणप्रकारेण गमने
जीवस्यास्वातन्त्र्योक्त्या स्मरणासहभावस्य पूर्वपक्षन्यायाप्रयोजकत्वं लब्धमिति भावेनाह ॥ न चेति ॥
तत्त्वसुबोधिनी
प्रकृतमागमनमिति ॥ शेषवानायातीति भाष्योक्तरीत्याऽनुशयवानिति पूर्वसूत्रप्रकृतमित्यर्थः । तथा चात्र पूर्वाधिकरणोपक्षिप्तागमनविषये किं गमनप्रकारेणोतान्यथा वेति प्रकारविचारादनन्तर-सङ्गतिरिति भावः । ननु विपरीतापि श्रुतिरस्तीति कथं गतिप्रकारेणागतिनिर्णय इति चेन्न । विमतो गतमार्गेणैवायाति तस्य पूर्वानुभूतत्वेन तद्विषयस्मृतिमत्त्वादिति युक्तियुक्तत्वेन प्रबलत्वादस्याः श्रुतेर् गतमार्गेणैवागमनमित्याह ॥ येन चेति ॥ ननु प्रयोजनान्तरवशादन्येन मार्गेणागमनं भविष्यतीत्यत आह ॥ न हीति ॥ उभयत्र तथाशब्दाध्याहारेण यथेतमिति वाक्यद्वयं व्याख्याति यथेति ॥ सूत्रे हेत्वनुक्तेर्न्यूनत्वमित्याशङ्कापरिहाराय अनेवं चेत्यंशेनैव प्रतिज्ञासिद्धौ आकाशाच्चन्द्रलोकं यथे-तमाकाशमिति श्रुतिमनुकुर्वता यथेतमिति सूत्रांशेन विशेषश्रुतिरेव हेतुत्वेनोपात्तेत्यभिप्रेत्य प्रवृत्त-धूमादभ्रमित्यादिभाष्यं व्याचष्टे ॥ कुत एतदित्यादिना ॥ न च युक्तिविरोध इति ॥ मार्गस्मरणरूपयुक्तिविरोधो नेत्यर्थः ।
वाक्यार्थविवरणं
सौत्रचशब्दार्थमाह ॥ क्वचिदिति ॥ पुण्यवत्पुरुषविशेषे । ननु तर्ह्यस्य पुरुषस्यागमने क्लेशाभावान्न स्वर्गेऽतिवैराग्यं स्यादिति चेन्न । आगमने क्लेशाभावेनैतत्प्रयुक्तवैराग्याभावेऽपि स्वर्ग-फलस्य नश्वरत्वाद्यनुसन्धानेन प्रकारान्तरेण तस्य तत्र वैराग्यसम्भवादिति ध्येयम् ॥ स्वर्गफले ॥ स्वर्गलक्षणफले ।
वाक्यार्थमञ्जरी
क्लेशिष्टता क्लेशसाधनता । सहभावाद् विषयतया विद्यमानत्वादुभयत्र तथा शब्दद्वयाध्याहारेण यथेतमिति श्रुतिवाक्यद्वयं व्याचष्टे ॥ यथेति ॥ ॐ यथेतमनेवं च ॐ ॥ यथा येन मार्गेण स्वर्गादिकं प्रति इतं गतं तेनायाति । अनेवं च ततोऽन्येन च मार्गेण यातीत्यर्थः ॥ युक्तीति ॥ मार्गस्मरणयुक्तीत्यर्थः ।
॥ इति यथेताधिकरणम् ॥ ९ ॥